ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry Volume 8 Editor:   M. P. Pandit
Sanskrit

आहिकस्तवः




मुखबन्धः

महानुभावस्य तत्रभवतः श्रीमत्कपालिशास्त्रिभगवतो जीवयात्रायां क्री. श. १९४७ संवत्सरो विशिष्टः संवृत्तः, यस्मिन् अहन्यहनि निरर्गलं विलसिता कविता अयत्नसिद्धा तस्य हृदयान्तः उदियाय। एवं वर्षान्ते निष्पन्ना पञ्चषष्टयुत्तरपद्यत्रिशत्यात्मिका ’आह्निकस्तवमाला’ । ’भारतीस्तवः’ ’साधनसाम्राज्यम्’ इति स्तवौ प्रकाशितौ विख्यातचरौ । परिशिष्टाः स्तवाः इदानीं शिष्टलोकसंमदाय इह प्रकाश्यन्ते ॥

तत्र “आह्निकस्तवः" इति प्रथमः संवत्सरादिमदिन-स्तववन्दनानि भगवते निवेद्य तं सन्तमेकं निलिङगभेदं पुरुषं स्त्रियमप्यवेत्य स्तौति ॥

द्वितीयं वृत्तत्रयनिबद्धं "श्रीमदरविन्दत्रिपदास्तवत्रयम्"। अत्रेदमु-ल्लेखनीयम्। एकदा श्रीभगवानरविन्दो महर्षिः दिव्यचक्षुः स्वशिष्याणा-मेकस्य सूनोरुपनयनकाले ब्रह्मोपदेशार्थ नूतनं मन्त्रमेकं आश्रितवत्सलत्वात् अन्वग्रहीत किल। सोऽयं भवति गायत्रीच्छन्दोबद्धः-

"तत्सवितुर्वरं रूपं ज्योतिः परस्य धीमहि ।
यन्नः सत्येन दीपयेत् ॥"

इति। तदभिनवमार्षदर्शनं उद्घोषयन्ति इमे स्तवाः। ’तत्’ इत्यादि-’येत्’ अन्ताः चतुर्विंशतिवर्णाः क्रमशः पद्यानामाद्यवर्णा भवन्ति येषां गुम्फ-नेन मन्त्रमाला त्रिपदा लभ्यते। स्तवेषु प्रतिपादितानि श्रीमदरविन्दभग-वतः पूर्णयोगस्य मूलतत्त्वानि गहनान्यपि योगनिष्ठस्य कवेरस्य अतिललित-कविताविलसिताभिः स्वानुभवभरितसत्यावेशवाग्भिः नितरां सुगमानि भव-न्तीति विशदं स्यात् पाठकमहाशयानाम् ॥

तृतीयः "सूक्तस्तवः”। ऋग्वेदसंहितायां प्रथमे मण्डले द्वादशेऽनुवाके पराशरऋषिदृष्टानि यानि आग्नेयसूक्तानि नव सन्ति, श्रीमदरविन्ददर्शनं उपाश्रित्य अध्यात्मपरतया तेषां भावमुपद्व्हयन् प्रवृत्तः पद्यगुच्छः । कोशस्य ऋग्वेदस्य वेदगुप्तार्थसिद्धाञ्जनात्यभाष्यं कृतवतो भगवतः पावन-कीर्तेराचार्यस्य शास्त्रिवर्यस्य वेदमर्मविभेदनाय हृद्ये पद्येऽपि प्रवृत्तिरासीत् इत्यस्मद्भाग्यम्॥

यो वेदेऽग्निः अद्भुतः कीर्त्यते स एव पुराणेषु प्रथितः कुमारः स्कन्दो-ऽभवत् इति वेदगुप्तार्थ-सिद्धाञ्जनभाष्यावसरे निपुणं निरूपितमनेन । तद्भावभावितः चतुर्थः “कुमारस्तवः" हृद्गुहाशयं गुहं शक्तिकुमारं हृद-यस्थदैवज्वालादग्नेरव्यतिरिक्तं पश्यन् प्रस्तौति ॥

"महामनुस्तवः" इति पञ्चमः । अत्र तन्त्रशास्त्रपारदृश्वा मन्त्रकल्प-विदां वरेण्यः श्रीविद्यायाः चिरन्तनोपासकः कविः श्रीमातृतत्त्ववेत्ता स्वा-भिमतां ललितां श्रीत्रिपुरसुन्दरीं स्तौति । बाल्ये वयसि पितृपादतो लब्ध-दीक्षोऽयं 1

अन्ते च इयं स्तवमाला षष्ठेन “परमाष्टकेन" समापिता भवति । व्योमशरीरं परमपुरुषं तस्य शक्ति भुवनजननी च प्रणमति कविः तयो-निक्षिप्तकार्यभारः॥

अस्य पावनप्रबन्धस्य रचनकालः क्री. श. १९४७ संवत्सरः इत्यवो-चाम। स एव अस्मत्कवेः षष्टितमवयःपूर्तिवर्षः सञ्जातः । अतो ग्रन्थ-समाप्तिसमये

"सर्वजिद् धनुषि मासि समाप्त षष्टिवर्षपरिपूर्तिकलाभिः।

" इति गीतं योगनिष्ठेन। ओजःप्रसादमाधुर्यगुणोज्ज्वलं अस्य कवितावाङमयं निर्मत्सराणां सहृदयानां हृदयानि समावर्जयेदित्यसंशयम् । यद्यपि ग्रन्थ-कृतः अमानुषवाग्विलासो निसर्गसिद्धोऽभूत्, तथाऽपि तस्य काव्यरचनायां अधिका प्रसक्तिरासक्तिर्वा नाऽऽसीत्। योगसाधनमेव मुख्य कार्य-मभवत् तस्य सर्वदा तपोमयजीवितत्वात् । सदा हृदयेशवशंवदस्य तस्य महात्मनः पद्यरचनाः अपि दैवप्रेरणयव प्रादुरासन् । “हृदा यत्तष्टान् मन्त्रा-नशंसन्” इति वेदोक्तरीत्या हार्दवाग्भिनिमितानि कवेरस्य क्रान्तशिनः पद्यान्येतानि नूनं मन्त्रायन्ते। ग्रन्थश्चायं पावनः पारायणोपयोगी भवति भक्तानां श्रद्धालूनाम् ।
श्रीअरविन्दाश्रमः पाण्डिचेरी 3.9.55 मा. पु. पण्डितः

॥आह्निकस्तवः ॥

(वसन्ततिलकाः)

संवत्सरादिमदिनस्तववन्दनानि भूमीजुषां परिगृहाण भुवः पते नः ।
सन्मङ्गलानि सदहानि जयोत्तराणि नाथ श्रियां तव यशः परितो भणन्तु ॥१॥

नामानि ते दशशतानि विदुः पुराणाः किं तेषु ते प्रियतमं भण नाम भव्यम् ।
किं शिष्टलोकनमनाय दधासि नाम किं नाम दुष्टदमनाय परं बिभर्षि ॥२॥

नामानि चेन्नमनसाधनमाश्रितानां धामानि ते भवनसाधनमद्भुतानाम् ।
केनाश्रिताश्रयविधि वितनोषि नाम्ना केनाद्भुतं जगदिदं प्रकरोषि धाम्ना ॥३॥

अध्यास्य धाम बहु भास्यतिधामभूमा निश्शब्द एव बहु नाम दधास्यनामा।
किं वा कथं क च कुतश्च वयं प्रपन्ना-स्तत्ते पदं परम भोः पृथगुच्चरामः॥४॥

यत्र स्वयं चल इवाचलतुङ्ग भासि व्योमाभनीलकलयाऽन्तरितो विलासी।
तां ते दशामदश सन्ततमुज्ज्वलन्ती पश्यन् पदं भजति कोऽपि जनः प्रियं ते ॥५॥

भात्येव शुन्यमिव खं वरसान्द्रसारं शान्तिः स्थिराऽपि चलतीव विचित्रगर्भा।
मूकं निरुच्छ्वसितकल्पमिदं च विश्वं सा काऽपि वाग् विनयति प्रथमं विसृष्टा ॥६॥

तामादिनादविभबहुधा विमिन्ना ब्रह्माण्डजन्मभरणाभ्युदयप्रसक्ताम्।
उच्चैः पदानि भजतामुरुकामदोग्ध्रीं वाचं परां भगवती समनुस्मरामः ॥७॥

विश्वप्रसूतिसुभगा यदि वाक् परस्य श्रद्धाकृतिर्भवति चिद् भुवनस्य धात्री।
भव्ये भवत्यखिलवस्तुनि भूतजाने सर्वान्तरे जयति सा हृदयङ्गमा नः ॥८॥

श्रद्धेति काश्चिदमिधामभिदां दधाना वेषं विना यवनिकान्तरजस्रगाना।
निर्धारणा भुवनरङ्गरताभिमाना मानोन्नता जयति चिन्नटनायकस्य ॥९॥

आधारभूमिरखिलदुहिणाण्डकोटि-रङ्गस्थलस्य निरुपाधिकनित्यनादा।
नक्षत्रचित्रपरिधानवितानमूर्ध्नि भास्वत्पदा व्यजनि च स्वयमेव सेयम् ॥१०॥

सा नः पितेव परिपात्यमुतः परस्ताद् धामान्यनश्वरदिनान्यमृतक्षयाणि ।
सेदम्प्रमरिह च सन्तमसेन घोरे-ऽप्याशां दधाति शरणं भरणं च सा नः॥११॥

ध्वान्ते महत्यपि महः सहजं दधाना मत्ये किमप्यमृतवैभवमादधाना ।
नित्यान्तरौ नरसुराबपि सन्दधाना वामाकृतिर्जयति नो जगतोऽस्य माता ॥१२॥

मायेव लोचनतिरस्करिणी पुरस्ता-च्छायेव सा पुनरनुव्रजतीह पश्चात् ।
सा भाति नः पुनरितोऽम्बरभाविलासा चित्तेषु सा जयति नो जगदेकमाता॥१३॥

नक्तन्दिवं भजति नाम जगजनन्या यस्तत्र संपतति नाम कृपाकटाक्षः।
इत्थं ब्रुवन्ति वयमत्र वदाम सत्यं सोऽयं भजेत् पतति यत्र कृपाकटाक्षः ॥१४॥

किं नाम नामभजने किमु वा नतिभ्यः सिक्तं न चित्तमथ चेदमृतेन नाम्ना।
ध्यानेन किं यदि च दृष्टिरियं न नित्या सर्वात्मभावपरमा परमेश्वरीति ॥१५॥

ज्ञानं विचारसहकारि कदापि साध्यं शक्यं विनाभिलषितान्यपि कर्म कर्तुम् ।
भक्तिश्च दास्यविधया सुलभा कदाचित् प्रीतिः परा तु न कदापि विना कटाक्षम् ॥१६॥

सञ्चारयन् गहनगाहनदक्षभासः पात्राणि दिनु परिवीक्ष्य गवेषयन्तीः ।
किञ्चित् कदाचिदुपलभ्य सुधामयस्ते भूयः समुल्लसति नाथ कृपाकटाक्षः ॥१७॥

लब्धं च पात्रमुपधाय पदे निधाय काले कलामृतभरं च विधाय सिद्धम् ।
नाट्येऽत्र नाटयति नीलरुचिप्रसारः कोऽप्येष ते भुवनरङ्गपते कटाक्षः ॥१८॥

नेदं ममेति निखिलं धुतवानमायं नाथ त्वदीयचरणं शरणं गतोऽस्मि ।
एवं चिराय नमतोऽस्य ममाप्युदीक्षा-कालो भवेद्यदि कथं कुशला स्थितिः स्यात् ॥१९॥

भूयान् श्रमो विनयतस्तव मन्दमन्दा-मन्धां गतिं मम विभो विषमामसक्ताम् ।
एतां दशामपनयाशु विधाय नित्य-ज्वालामनन्तरदशामदशाविलोलाम् ॥२०॥

मूर्ते जगजननि भोः परदैवतस्य नारीवपुर्नरकुलोद्धरणाय धत्से।
विवस्तरां तव विभूतिकलाविलासान् कस्तानिहापलपितुं प्रभवेत् कृतज्ञः ॥२१॥

मा नो जहातु जगतामधिराजि दैवी श्रद्धा धियः सहचरी सहजन्मबन्धुः।
मा भूम कृत्रिमविचित्रवचोविशेष-दुर्युक्तिवेपनटनैरतिवाहिताः स्म ॥२२॥

सन्तारणाय विपदां नरजन्मभाजां निस्सारणाय धरणेरपि दुष्कृतानाम् ।
सत्यैकलक्ष्यहृदयहृदयेषु बद्धा श्रद्धामुपायसरणिं विदधे विधात्री ॥२३॥

अम्बेति लोकजननीति चितिः परति शक्तिः परस्य वरभूतिविलासिनीति ।
नाथेति नाथ जगतामिति सन्तमेकं निर्लिङ्गभेदमनवं नतवानहं त्वाम् ॥२४॥

अत्राह्निकस्तवविधावपरं परं च त्वामेकमेव पुरुषं स्त्रियमप्यवेत्य ।
आभिर्वसन्ततिलकाभिरकार्षमाशा-पूरस्य पादयुगलस्य तवोपहारम् ॥२५॥

॥श्रीमदरविन्द-त्रिपदास्तवः-प्रथमः ॥

(द्रुतविलम्बितानि)

तदतुलं कुशलानि दधद् विदा-मपहरच तमांसि परं महः ।
द्यतु मदापदमापदमाशिरो लसतु सन्ततमन्ततमं शिवम् ॥१॥

स भगवानगभूपतिसन्निभः सुरधुनीव दया हृदयाद्यतः।
नरभुवं फलिनी गुरवे दधा-त्यमरतां जयते जयतेजसे ॥२॥

विहितवानरविन्दमहामुनिः कुशलपद्धतिमविजुषां विदाम् ।
गगनकेश इवोर्ध्वकलाधरो जयति भूतलभूतलसत्पदः ॥३॥

तुरगवेग इवांशुसहस्रिणः किरणसार उदारदृशो मुनेः।
दिवमनन्तभुवं परितः परि-कमरतोऽविरतो विरिवोदते ॥४॥

वरमिदं जननं मनुजन्मना-ममलभारतभूवलयेऽधुना।
इह महः परमं परमार्थिनां लसति संप्रति संप्रतिपत्तये ॥५॥

रमणसत्करसारविकासिते कमलिनीहृदये कलहंस रे।
पतिरुपैष्यति वाह तवाऽधुना भव हितोऽवहितो वहनाय रे ॥६॥

रुचमपारकृपारसवाहिनी-मुदयशैलशिरःपरिचुम्बिनीम् ।
मुहुरलोकविधा प्रदिशन्नुदे-त्यवनबन्धुरबन्धुरदरभाः ॥७॥

पदचतुष्टयपीठमधिष्ठित जयति यद् भुवनत्रयमूर्धनि।
तदिह पुञ्जमनन्तरुचां वयं पृथुलया कलया कलितं नुमः ॥८॥

जयविधौ भुवने विजयो मुनि-नयविधौ जगतो नयनं स्वयम् ।
प्रियविधौ रस एव न लिप्यते लयविधौ विलयाविलया धिया ॥९॥

तिलकितं महसैव शरीरिणा निखिलसृष्टिललाटमदो नभः।
अजनि यस्य लवस्य विलासतो भुवनमूलनचालनचारुता ॥१०॥

परवतां विषयैरपि धीमता-मनृतनृत्यरतैनिहतेव धीः ।
हृदय माऽस्तु मुधा परिचिन्तनै-ज्वलनमा शमिता शमितास्तु ते ॥११॥

रतमनारतमन्तरमुत्तरे मम जगज्जगदीश्वरपुष्करे।
वपुरिदा यदि भौममनादरात् तदिह नो सहते सह तेन किम् ॥१२॥

स्यतु मदन्तरभावरणायितां जडधियं निखिले निखिलात्मधीः ।
धतु मदापदमस्मृतिसंभवां विभवतो भवतोऽचलधीविभा ॥१३॥

घियमनश्वरधाम समेयुषी निहितवानसि जन्मनि मे विभो।
सपदि साधयितुं फलिनी च तां प्रभवते भवते भगवन् नमः ॥१४॥

महत आत्मवियोगपराभवा-ननुभवत्यपि जन्मिनि मानवे ।
कथमपि ध्रियते स विभो न किं समुदयाय दया यदि तेन किम् ॥१५॥

हितहरेष्वमितः समुपस्थिते-प्वपि नदेत् परनाम यदन्तरे ।
किमु भयं वरदीपधरं नरं स्पृशति सन्तमसात्तमसाध्वसम् ॥१६॥

यदवकीर्य निजांशविभालवान् क्षितितलेऽपितवान् महसां निधिः।
तदिह तान् विचिनोति चिनोत्यसौ बलकरैः स्वकरैः स्वयमेधितान् ॥१७॥

न न इति श्रुतमेव जगत् प्रति प्रतिभयं ममताहरमक्षरम् ।
स स इति श्रुतमेव भयापहं हृदि सखेद सखे दयितं कुरु ॥१८॥

सरसभूम समं भुवनं न चे-दवनिजः सकलो रसवान् न चेत् ।
मनुजनुर्निखिलो रसिको न चे-दमृतसिन्धुवनं भवनं भजेः॥१९॥

तरति येन तमोभुवनं बुध-स्तरणिरित्यभिधां स ततो दधे।
सृजति यो ज्वलयत्यपि सत्यत-स्त्रिजगतीमविता सविता स नः॥२०॥

नम सदा शिरसा नम रे हृदा न मम सर्वमिदं तु तवेति वा।
सकलवस्तुसमं नम पूरुषं शिवतमाकृतिमाकृतिसाधनम् ॥२१॥

दिवसनाथसहस्रगतां विभां निजकलाकलितां वितनोति यः।
स हि वरो वरणीयमहोवपु-जयति खे परमे परमेधया॥२२॥

पदपदार्थविदो विदुरीश्वरं भुवनसर्जनसत्यमनश्वरम् ।
विततमप्यततं जगदन्तरं सकलधामसुधामसुदर्शनम् ॥२३॥

य इदमद्भुतमत्र महः परं हृदि करोति नरो नृवपुर्धरम् ।
स जयति ज्वलितो ज्वलयत्ययन् परमसत्यमसत्यतमो हरन् ॥२४॥

तदरविन्दऋषेत्रिपदां भजे-स्त्रिगुणिताष्टकपद्यमुखाक्षरैः।
स्मर गुरुं युतवर्णमपि क्वचिद् द्रुतविलम्बितलम्बितलाघवे ॥२५॥2

॥श्रीमदरविन्द-त्रिपदास्तवः-द्वितीयः॥

(उपजातयः)

तमः परस्ताद् भुवनस्य पारे कथं नु चिन्ताभुवमेत्वदूरे।
स एव भाशेषविशेषभासा विश्वप्रभुनों हृदि सबिधताम् ॥१॥

स पारदृश्वा जगतामधीश-स्तदक्षरं धाम नितान्तशान्तम् ।
सा तस्य शक्तिः सकलप्रसूति-त्रिधाऽपि भान्तं तमनुस्मरामः ॥२॥

विश्वं विलासादचरं चरं च दिवं भुवं मध्यममन्तरिक्षम् ।
निर्माय नातृप्यदिवांशुमाली स्वयं निवासाय पुनर्मिमीते ॥३॥

आह्निकस्तवः तुरीयमास्थाय पदं त्रिलोकी-माधाय पादेन सहस्रपादः।
आघाय तां मूर्ध्नि पुनर्मिमानः पुमान् पदा भूभुवनं जगाहे ॥४॥

वरेण्यमात्मीयवपुर्विशेष महोमयं बिभ्रदसौ विदोषम् ।
निर्मथ्य पिण्डं धनसार्वभौम सिद्धं विधित्सनवनि विवेश ॥५॥

रमे नितान्तं नररूपशिल्पे निर्मातुराधानकलास्वनल्पे।
अनंशुभेद्यं वरणायमानं तमोजडं यत्र महो बिभर्ति ॥६॥

रूक्षं विनिश्शेषितसर्वसार-कल्पं तमस्संहननं जडान्धम् ।
स्निग्धस्य सारस्य महोमयस्य दुर्ग महाचं भवतीति चित्रम् ॥७॥

पवं समस्तं कुरुतामपास्तं निगूढसारोऽन्तरसम्प्रसादः।
यस्यैव विश्वं धियते महिना येनाणुरप्यातनुते महान्ति ॥८॥

ज्योतींषि सौराणि परस्सहस्रा-ण्युत्सृज्य निःश्वासवदप्रयासम् ।
त्रिलोकभासां निधिरन्धकूपे जागर्ति जाड्ये किमतो विचित्रम् ॥९॥

तिरोहितानामतिनाकभासा-मन्तर्हितानामखिलात्मभासाम् ।
आविष्कृतानामपि लोकभासा-मात्मानमेकं पुरुषं भजामः ॥१०॥

परात्परं विश्वभुवं तमाद्य-मनाद्यनन्तं बहुधा भवन्तम् ।
सत्येन युक्तानिह दीपयन्त-मन्तज्वलन्तं भगवन्तमीडे॥११॥

रवीन्दुवैश्वानरभानुकोटिं कलाविशेषेण विभासयन्तम् ।
अंशेन सर्वान्तरपूर्णमेक-मलोकभानुं तमनुस्मरामः ॥१२॥

स्यन्दोऽपि बिन्दुप्रचितो झरीणां प्रवाहतामेति महानदीनाम् ।
पदं दधानः परमाध्वयाने भूमानमल्पोऽप्युपयाति काले ॥१३॥

धीरस्वभूव धियमुत्तमार्थी विनैव यः सम्पदमीहते ताम् ।
पगुः स ना लञ्चिन्तुमद्रिशृङ्ग कुर्यान्मनस्येव मुधा प्रवृत्तिम् ॥१४॥

महानुपायो भवतीह पङ्गो-रप्यद्रिशृङ्गस्य विलङ्घनेषु ।
प्रसादडोलामधिरोद्धमात्या भव्या मतिश्चेत् किमतो गरीयान् ॥१५॥

हिरण्यवर्णामभितःप्रसारां संज्ञापयित्री विपुलस्य भूम्नः।
वीक्षाविशेषां गुरुनाथदीक्षा यो वेद तस्मादपि को नु धन्यः ॥१६॥

यल्लिप्सवः शैलदरीवनान्ता-नेकान्तवासेषु तपांसि तप्तुम् ।
ध्यानानि कर्तुं चरितुं च योगं व्रजन्ति तन्नः परमत्र सिद्धम् ॥१७॥

3

नः शाश्वतः कृच्छ्रतपोविशेपै-विनैव विध्वंसन एनसां यः।
स सम्पदां प्रापयिता धुभासा-मस्मद्भरन्यासवहः कटाक्षः॥१८॥

सरस्सहस्राण्यपि नाधिरोढुं शक्तानि रत्नाकरतुल्यकक्षाम् ।
परस्सहस्राण्यपि साधनानि कथं कटाक्षप्रतिकक्षमीयुः ॥१९॥

4

त्येनैव शान्तिः परमा च शक्तिः कटाक्षपातेन परा हि सिद्धिः।
तं भ्रातरायासहरं नराणा-मीहस्व याचस्व भजस्व जोषम् ॥२०॥

न शास्त्रधीभिः श्रुतिचोदनाभि-स्तपोव्रतैरागमसाधनैर्वा ।
क्रय्यः कटाक्षः परमस्य पुंसो दानात् स्वयं सद्गुरवे तु लभ्यः ॥२१॥

दीनैर्न गम्यः पशुमिनूवेष-निर्दोषशीलैरपि धार्मिकैर्वा ।
आत्मप्रदानेरितभूरिसत्त्वैः सम्पादनीयः करुणाकटाक्षः ॥२२॥

परस्परावेशमदातिरेका-दादानदानैरुभयोरुपायैः।
जीवस्य देवस्य लघोर्गुरोश्व सम्मेलने नैकविधं विचित्रम् ॥२३॥

येत्थंविधानं गुरुशिष्यभाव वाणी विदां व्यावृणुते पुराणी।
यो वेद तां वेद स पूतचेताः कटाक्षदीक्षादिरहस्यमर्थम् ॥२४॥

तदादिवर्णैत्रिगुणाष्टपद्य-लग्नैः क्रमेणोच्चरितैरवाप्यम् ।
सेवस्व गायत्रमथारविन्द-दृष्टोपलब्धां परमां च सिद्धिम् ॥२५॥

श्रीमदरविन्द-त्रिपदास्तवः-तृतीयः

(अनुष्टुभः)
तत्पदेन तमात्मानं जगतामाहुरीश्वरम् ।
कथं नित्यपरोक्षः स्यादस्माकं हृदयाश्रयः॥१॥

स नित्यः सर्जनैरेतैर्जगतां किं नु रिच्यते ।
तारापथस्तारकाभिः क्षुण्णः किं याति संक्षयम् ॥२॥

विभवो भवरिक्तस्य विश्वोद्भावनविश्रुतः ।
अमायिक विलसितं यस्येदं भुवनत्रयम् ॥३॥

तुरगाः सवितुर्युक्ता विरमन्ति न कार्यतः ।
ईशितुर्नित्ययुक्ताश्च विरतिं नैव जानते ॥४॥

वशिनो भुवने सन्तु वृण्वते यान् वराः श्रियः ।
स वशी दुर्लभो लोके लोकनाथो वृणोति यम् ॥५॥

रन्तुं सिद्धिषु कल्पन्तामणिमाद्यासु योगिनः ।
रन्तुं योगेश्वरेऽस्मासु सिद्धे किमधिकं ततः ॥६॥

रूपे रूपे विपश्यन्तः स्वरूपं परमात्मनः ।
स्वतामेव समुज्झन्तो रमन्ते सर्वतो बुधाः ॥७॥

पञ्चतां यान्ति पशवः पश्यन्तो भूतसञ्चयम् ।
पश्यन्तस्तु महद् भूतं भास्वदेकं तदेकताम् ॥८॥

ज्योतिषामादिमं प्राहुः सावित्रं विश्वतः परम् ।
अन्तिमं मानुषे तेषामन्तरे मृग्यते बुधैः ॥९॥

तिरोभूतस्य भूतेषु भूतेशस्य भवो यथा ।
पितुः पुत्रेषु शिष्येषु गुरोर्वा सङ्क्रमस्तथा ॥१०॥

परं पूजन्ति हृदये धीराः पल्लवकोमले ।
अपि वज्रोपमं तेषामन्तरं धर्तुमीश्वरम् ॥११॥

रसेन नित्यसिद्धेन वपुष्मान् जगतीपतिः ।
रमते तत्र नवतामादधानः क्षणे क्षणे ॥१२॥

स्यमन्तकं किलैकस्मै प्रसन्नः सविता ददौ ।
अरविन्दसुहृत् सोऽद्य स्यमन्तकति नः सदा ॥१३॥

धी(मदर्शनद्योता नेत्री नित्यहिता सताम् ।
आतता द्यौरिवाशानां शासित्री सर्वधर्मसूः ॥१४॥

मरौ शालभूमि चित्कला वा जडान्तरे ।
सर्वेशधीः समुद्भाति पशुप्रायासु वृत्तिषु ॥१५॥

हितानि साक्षात्कुर्वन्तु सुधियोऽन्ये रतानि वा ।
आत्मसात् कुरुतामस्मानात्मा लोकस्य लोकवान् ॥१६॥

यदण्वपि न विज्ञातं न किञ्चिन्मन्महे ततः ।
मननायाह्वयामस्तु मन्तारं परमेश्वरम् ॥१७॥

5

नः शं भवतु निश्शोकमिति न प्रार्थयामहे ।
शम्भो राजस्व भो राजनित्यस्माकं निवेदना ॥१८॥

सख्यं चेत् समता नौ स्याद् दास्यं चेद्वन्धकल्पना ।
सत्यं यदावयोः सिद्धं भगवस्तद् विभास्यताम् ॥१९॥

6

त्येन मां दिव्यभावेन स्वीकर्तुं मन्यसे यदि ।
जीवबुबुदभावस्य भङ्गस्सद्यो विधीयताम् ॥२०॥

न परत्रेह वा भोगे रतिर्नाद्भुतसिद्धिषु ।
मतिः सत्ये रताऽस्माकं नित्याऽस्तु परमेश्वरे॥२१॥

दीयतामिति सर्वज्ञं कथं याचेम किश्चन ।
वयं त इति भावे नः सिद्धे नेतरि सर्वदा ॥२२॥

पवित्रं तत् परं ज्योतिः सत्यं तदमृतं वपुः ।
इह सर्वाङ्गमस्माकमाक्रामज्ज्वलयेदपि ॥२३॥

येदमर्थ महामन्त्रमुद्घोषयति वागृषेः ।
तां नादसारसर्वस्वां गायत्री समुपास्महे ॥२४॥

तच्चतुर्विंशतिश्लोकप्रथमाक्षरगुम्फिता ।
सिद्धेयमरविन्दर्षेमन्त्रदृष्टिर्महाफला ॥२५॥

सूक्तस्तवः

[ऋग्वेदे प्रथमे मण्डले द्वादशोऽनुवाकः । नव सूक्तानि । शाक्त्यः पराशर ऋषिः । अग्निर्देवता॥]7

ऋतस्य देवा अनु व्रता गुर्भुवत्परिष्टिद्यौर्न भूम ।
वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम् ॥
पुष्टिर्न रण्वा क्षितिर्न पृथ्वी गिरिन भुज्म क्षोदो न शम्भु ।
अत्यो नाज्मन्त्सर्गप्रतक्तः सिन्धुर्न क्षोदः क ई वराते॥
जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान राजा बनान्यत्ति ।
यद्वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः॥
श्वसित्यप्सु हंसो न सीदन् क्रत्वा चेतिष्ठो विशामुषर्भुत् ।
सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ॥
(२)
रयिर्न चित्रा सूरो न सन्दृगायुर्न प्राणो नित्यो न सूनुः ।
तक्वा न भूणिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा ॥
दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम् ।
ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥
दुरोकशोचिः ऋतुर्न नित्यो जायेव योनावरं विश्वस्मै ।
चित्रो यदभ्राट् श्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु॥
सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका ।
यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् ॥
तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ।
सिन्धुर्न क्षोदः प्र नोचीरेनोन्नवन्त गावः स्वर्दशीके ॥
(३)
वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टि राजेवाजुर्यम् ।
क्षेमो न साधुः ऋतुर्न भद्रो भवत्स्वाधी.ता हव्यवाट् ।।
हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद् गुहा निषीदन् ।
विदन्तीमत्र नरो धियन्धा हृदा यत्तष्टान्मन्त्राँ अशंसन् ॥
अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः ।
प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः॥
य ई चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य ।
वि ये चूतन्त्य॒ता सपन्त आदिद्वसूनि प्र ववाचास्मै॥
वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः ।
चित्तिरपां दमे विश्वायुः स व धीराः संमाय चक्रुः॥
(४)
श्रीणन्नुप स्थाद्दिवं भुरण्युः स्थातुश्चरथमक्तून्व्यूर्णोत् ।
परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा ॥
आदित्ते विश्वे ऋतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः ।
भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः ॥
ऋतस्य प्रेषा ऋतस्य धीतिविश्वायुविश्वे अपांसि चक्रुः ।
यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चिकित्वायि दयस्व॥
होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम् ।
इच्छन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षरमूराः॥
पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः ।
वि राय और्णोद् दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः ।।
(५)
शुक्रः शुशुक्वा उषो न जारः पप्रा समीची दिवो न ज्योतिः ।
परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन् ॥
वेधा अदृप्तो अग्निर्विजानभूधर्न गोनां स्वामा पितूनाम् ।
जने न शेव आहूर्यः सन्मध्ये निषत्तो रण्वो दुरोणे॥
पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ।
विशो यदढे नूभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः॥
नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टि चकर्थ ।
तत्तु ते वंसो यदहन्त्समानैर्नृभिर्ययुक्तो विवे रपांसि ॥
उषो न जारो विभावोत्रः संज्ञातरूपश्चिकेतदस्मै ।
त्मना वहन्तो दुरो व्यृण्वन्नवन्त विश्वे स्वर्दशीके ॥
(६)
वनेम पूर्वीरों मनीषा अग्निः सुशोको विश्वान्यश्याः ।
आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म ॥
गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् ।
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः॥
स हि क्षपावाँ अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः ।
एता चिकित्वो भूमा नि पाहि देवानां जन्म मश्चि विद्वान् ॥
वर्धान्यं पूर्वीः क्षपो विरूपाः स्थातुश्च रथमृतप्रवीतम् ।
अराधि होता स्वनिषत्तः कृण्वन्विश्वान्यपांसि सत्या ॥
गोषु प्रशस्ति वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः ।
वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिवि वेदो भरन्त ॥
साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु॥
(७)
उप प्र जिन्वन्नुशतीरुशन्तं पति न नित्यं जनयः सनीळाः ।
स्वसारः श्यावीमरुषीमजुष्णञ्चित्रमुच्छन्तीमुषसं न गावः॥
वीळु चिद् दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङगिरसो रवेण ।
चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः ॥
दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः ।
अतृष्यन्तीरपसो यन्त्यच्छा देवाजन्म प्रयसा वर्धयन्तीः॥
मथीद्यदी विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत् ।
आदी राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय ॥
महे यत्पित्र. ई रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान् ।
सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विर्षि धात् ॥
स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् ।
व? अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि ॥
अग्नि विश्वा अभि पृक्षः सचन्ते समुद्रं न लवतः सप्त यह्वीः ।
न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रति चिकित्वान् ॥
आ यदिषे नृपति तेज आनट् शुचि रेतो निषिक्तं धौरभीके ।
अग्निः शर्धमनवधं युवानं स्वाध्यं जनयत्सूदयच्च ॥
मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे ।
राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा। ।
मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन् ।
नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥
(८)
नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि ।
अग्नि वद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥
अस्मे वत्सं परि षन्तं न विन्दनिच्छन्तो विश्वे अमृता अमूराः ।
धमयुवः पदव्यो धियन्धास्तस्थुः पदे परमे चार्वग्नेः॥
तिस्रो यदग्ने शरदस्त्वामिच्छचि घृतेन शुचयः सपर्यान् ।
नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः ॥
आ रोदसी बृहती वेविदानाः प्र रुद्रिया जझिरे यज्ञियासः ।
विदन्मर्तो नेमधिता चिकित्वानग्नि पदे परमे तस्थिवांसम् ॥
सञ्जानाना उप सीदन्नभिजु पत्नीवन्तो नमस्यं नमस्यन् ।
रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युनिमिषि रक्षमाणाः॥
त्रिः सप्त यद् गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः ।
तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातृञ्चरथं च पाहि ॥
विद्वां अग्ने वयुनानि क्षितीनां व्यानुषक् शुरुधो जीवसे धाः ।
अन्तविद्वां अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् ॥
स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्युतज्ञा अजानन् ।
विदद् गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट् ॥
आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् ।
मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्ररदितिर्धायसे वेः॥
अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन् ।
अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीरग्ने अरुषीरजानन् ।
(९)
रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः ।
स्योनशीरतिथिर्न प्रीणानो होतेव सम विधतो वि तारीत् ॥
देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा ।
पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥
देवो. न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा ।
पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी॥
तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु ।
अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम् ॥
वि पृक्षो अग्ने मघवानो अश्युवि सूरयो ददतो विश्वमायुः ।
सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः॥
ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त धुभक्ताः ।
परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सलुरद्रिम् ॥
त्वे अग्ने सुमति भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः ।
नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः॥
यात्राये मर्तान्त्सुषूदो अग्ने ते स्याम मघवानो वयं च ।
छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान् रोदसी अन्तरक्षिम् ॥
अर्वद्भिरग्ने अर्वतो नृभिनून्वीरैर्वीरान्वनुयामा त्वोताः ।
ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥
एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।
शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः॥

(तूणकानि)

गोपशु हरन् विविक्तचोरवद् गतो गुहा-मग्निरङ्ग मृग्यतां निगूढवर्तनोऽन्तरे ।
अस्मदानतिप्रतानयुक्त एष इष्यता-मस्मदर्पितप्रणामधूर्वहो गवेष्यताम् ॥१॥

प्रीतिपूरितान्तरङ्गधीरभृरिविक्रमा-स्तस्य पादलाञ्छनैरनुव्रजन्ति तं बुधाः ।
आधिपत्यमध्वरस्य विभ्रतोऽमृतान्धसो विश्व एव तद्रहस्यवासभुव्युपासते ॥२॥

निष्प्रमादनित्यसत्यधर्मवृत्तिमर्मभू-रनिमन्ववेक्षणे सुपर्वभिर्विचर्यते ।
धौरिव क्षितिं परीवृणोति सोऽपि, कर्मणा मातरः शिशुं यथाऽऽप एधयन्ति सत्यजम् ॥३॥

पोषवन्मनोहरो महीव भूरिवासभू-रापगेव शर्मदोऽपि भोगभूगिरिर्यथा ।
प्रेरणप्रधावितो रणे रणाश्ववज्जवी को नु वारयेदिमं प्रवाहसिन्धुसन्निभम् ॥४॥

भ्रातृवत् सनाभिवन्धुरेष सिन्धुसन्तते-(मिजानथात्मसात् करोत्यरीन् नृपो यथा। ।
मारुतेरितो वनानि भूमिलोमसन्निभा-न्यर्चिषा समन्ततो निकृन्तति स्वजिह्वया ॥५॥

हंसवनिपीदति श्वसनपा निकेतने चेतयत्युषर्बुधो विशो विबोधनेच्छया ।
सोमवद्विधातुरस्य सत्यजन्मता मता वत्सयुग यथा च गौर्विभुर्विभाति दूरभाः ॥६॥

(२)

चित्रसम्पदाम एष सर्वदर्शिमूरभाः प्राण एष आयुरेष नित्यमनुरेष नः ।
साधुविभ्रदश्व एष भूमिजेषु सक्तिमान् गोवदच्छसारदः शुचिर्विभाति भानुमान् ॥७॥

क्षेमभृद् गृहं यथा मनोहरो जयी जने भोगयोग्यपोष एष पाकवान् यवो यथा ।
विक्षु विश्रुतः स्तुति करोति मन्त्रदर्शिवद् वाजिवन्मुदं दधाति शास्ति नः प्रवर्धनम् ॥८॥

दुर्लभोद्भवाचिरेष नित्यधीषणावलं गेहिनी गृहे यथेष्टशर्मदेव भूषणम् ।
भ्राजते महाद्भुतो जनेषु भासते सितः काञ्चनो रथो यथा च युद्धभूषु दीप्तिमान् ॥९॥

सगरेषु सैन्यवद्धलं दधाति नः परं शूरधन्विदीप्तशातबाणकोटिभास्वरः ।
द्वन्द्वमेष जन्मना जनिष्यमाणमप्यथ द्वन्द्वमेष कन्यकारहोरतः प्रसूपतिः॥१०॥

स्थानतो गतेश्च तस्य तं समिद्धमन्विमो गोव्र प्रति प्रयान्ति गोकुलानि वा वयम् ।
सिन्धुवत् स निम्नवाहिनीः समीरयत्यपो दूरसौग्दर्शने तु गोवरा ब्रजन्ति तम् ॥११॥

(३)

मानुषेषु मित्रमुत्तमं वनेषु जित्वरो निर्जरं श्रुतं वृणोति मन्त्रिणं नृपो यथा ।
सिद्वपूर्णमङ्गलं स शोभनप्रधीबलं साधुचिन्तनश्च नः पुरोहितश्च हव्यवाट् ॥१२॥

हस्तगं समस्तशस्तनेतृसत्त्वमुद्वहन् सोऽमृतान् निजे बले दधाति सन् गुहातले ।
अत्र तं विदन्ति धीरधारणेश्वरा नरा हृद्वितष्टसत्यमन्त्रशंसनेन वाक्पराः॥१३॥

धारयनजो यथा महीं महान्तरामिमां स त्वमस्तभश्च सत्यमन्त्रसत्त्वतो दिवम् ।
पाहि नः प्रियाणि पादलक्षणानि गोपशो-विश्वमायुरस्यहो रहस्यगां गुहां विशेः॥१४॥

पुण्यवान् गुहासदं य एनमीक्षते विदन् साधुवाहिनीमृतस्य लब्धांश्च यः कृती ।
अग्निमिद्धमातनोति यः स्पृशन्नृतानि तत्-तादृशे स तत्परं गिरां ब्रवीति सम्पदम् ॥१५॥

यो महिम्न आत्मनो महीरुहेषु संयतो बिभ्रदुद्यतान् प्रजाः प्रसूषु वा तथाऽन्तरम् ।
चिन्मयं तमादिसत्त्वधीभृतामपां गृहे धीरवृत्तयो विमाय समवद् विनिर्ममुः ॥१६॥

(४)

व्याकरोति यामिनीश्चराचरं विभासयन् यज्ञभागमुद्वहन् दिवं प्रयाति विज्वलन् ।
एक एव देव एष विश्वदेवतामहा-वैभवानि वासयत्यनल्पभासिनाऽऽत्मना ॥१७॥

प्राज्ञमीषणाबलं भजन्ति विश्व एव ते नीरसाद् यदा त्वमत्र जीवनाय जायसे ।
नाम दैवतात्मकं च सर्व एव सेवते सत्यमप्यथामृतं तवायनैः स्पृशन्ति ते ॥१८॥

प्रेरणा ऋतस्य धीविचिन्तना ऋतस्य वा विश्वमायुरेष यद् विशः क्रियाश्च कुर्वते ।
देव ते ददाति यस्त्वदाददाति वा धियं तत्कृते विबोधवान् प्रयच्छसि श्रियं वराम् ॥१९॥

आदियज्ञियो निषण्ण ऋत्विगेष मानुषे नूनमेष पालकस्समस्तसम्पदां पतिः ।
वृण्वते परस्पराङ्गभूषु बीजमुत्तमा-स्ते विवेकदर्शनैवलद्धियो विजानते ॥२०॥

अस्य शासनं भजन्ति ये प्रयाणसत्वराः पुत्रवत् पितुर्निदेशमस्य ते वितन्वते ।
द्वारबन्धमुद्भिनत्ति स श्रियामुरुक्षयः सोऽन्तरश्च नाकमाचकार यस्सतारकम् ॥२१॥

(५)

शोचिषा समुज्ज्वलन्नुषोनुरागजागरो रोदसी प्रपूरयन् समे प्रदीपवद् दिवः ।
इच्छया न इज्यया समन्ततोऽपि जायसे पुत्रतां गतोऽमृतान्धसां पिताऽपि भाससे ॥२२॥

जज्ञिवान् विधायकश्च वीतदर्पसाहसः स्वादयत्ययं रसान् स्तनाग्रसनिभो गवाम् ।
मानवे प्रमोदवानिवार्थनीयसनिधि-गेंहमध्यमास्थितो दधच्च रामणीयकम् ॥२३॥

पुत्रवद् गृहेष्वनारत रतोऽजनिष्ट नः सङ्गरे तुरङ्गवन्मुदा विशो बिभर्त्ययम् ।
आह्वयामि दैवतैस्समानवासिनो यदा विश्वदैवतं तदाऽग्निदेवता समश्नुते ॥२४॥

कोऽपि न प्रबाधते तव क्रियाविधीन विभो दैवतार्थमन्तरश्रवो यदा त्वमादधाः ।
त्वत्समानदेवयुक् त्वमंहसां च संहति कान्दिशीकतां नयस्यनल्पकारि कर्म ते॥२५॥

भास्वरो विभातभाश्च वल्लभो यथोषसो ज्ञातमस्तु रूपमस्य बोधमेत्वयं विशे ।
विश्वदेवताः स्वयं विभृत्य तं विवृण्वतां द्वारवन्धनानि यान्तु दिव्यभानुदृष्टये ॥२६॥

(६)

(प्रमाणिकाः)

समश्नुयाम सम्पदः पुरातनाश्च भूयसीः ।
समश्नुतां च विश्वमग्निरुज्ज्वलो विभुधिया ॥२७॥

स वेत्ति दुर्विदाश्च गोप्यदिव्यकर्मपद्धतीः ।
स वेत्ति मानवस्य नव्यजन्ममर्मणां गतीः॥२८॥

अवन्तरे शिशुर्मही महीरुहान्तरे शिशुः ।
वसन् चरान्तरे शिशुः शिशुस्तथाऽचरान्तरे ॥२९॥

जडोपले जनाय सोऽस्ति भाति तद्गृहान्तरे ।
स विश्वभूविशां च साधुचिन्तनोऽमृतः पुमान् ॥३०॥

अलं ददाति सूक्तवाग्भिरग्नये हवींषि यः ।
ददाति तत्कृते विमुर्निशां समुज्ज्वलं धनम् ॥३१॥

इमानि पाहि भो जगन्ति सर्वशोऽवबुद्धवान् ।
त्वमत्र देववृन्दजन्म वेत्सि भानुषानपि ॥३२॥

अनेकका अवर्धयन् विभिन्नरूपरात्रयः ।
इमं चरं तथाऽचरं च सत्यजन्मवर्धनम् ।।३३।।

समस्तमादधच्च सत्यकर्मजालमुत्तमम् ।
असाधि होतृकर्मभाङ् निषण्ण उज्ज्वलो दिवि ॥३४॥

तथा प्रशस्तिमादधासि गोषु भूमिजेषु ते ।
बलिं द्युलोकमाहरन्ति विश्वदेवता यथा ॥३५॥

बहुत्र मानुषा भवन्तमर्चयन्त उत्तमाः ।
क्यःप्रवृद्धतः पितुर्यथा हरन्ति सद्धियम् ॥३६॥

(पञ्चचामराः)

स गृघ्नुराग्रहे यथा स कार्यसाधनक्षमो धनुर्धरोग्रशरवत् स लक्ष्यभेदविक्रमी ।
अभिप्रधावनेषणो विपक्षभीषणो रणे सवैभवं समुज्ज्वलं सदा विभाति संयुगे ॥३७॥

(७)

उशन्त्य एकवासगा उशन्तमेव मातरः समेत्य नित्यमादरादतूतुपन् पतिं यथा ।
अहर्षयंश्च सान्ध्यरागचित्रवर्णसम्पदं सहोदरीजनाः शिशुं यथोषसं च धेनवः ॥३८॥

स्थलानि नः पितामहा दृढानि वाग्भिरेव ता-न्यभञ्जयन् गिरि पुरा रवेण वाऽङ्गिरोमुखाः ।
बृहदिवश्च मार्गमादधुच मानुषे जने स्वरध्यगुर्विबोधकेतदिव्यगोत्रज दिनम् ॥३९॥

अधारयन्नृतं च ते धियं नरे समर्धय-अनन्तरं विभर्तुमग्निमीशते स्म धीश्वराः ।
अनन्यकामनाः क्रियापराश्च शक्तयोऽमृता- . नभिप्रयान्ति वर्धयन्ति दिव्यजन्मशर्मणा ॥४०॥

नियम्य वायुरेनमन्तरे भृतो गृहे गृहे व्यलोडयद् यदाऽजनिष्ट जित्वरोऽग्निरच्छभाः ।
भृगुप्रभस्समुज्ज्वलन् सखा च नस्तदा भवन् बिभर्ति दूतवर्तनं नृपाय वा बलीयसे ॥४१॥

अयं यदाऽकरोद्रसं बृहदिवः पितुष्कृते गलन्नधः स्पृशन्नुपागतस्तदा विजज्ञिवान् ।
धनुर्धरोऽमिलक्ष्य तं व्यमुश्चदुग्रविद्युतं न्यधत्त देव एष तां निजात्मजोषसि विषम् ॥४२॥

निजं तव प्रदीपदीप्तमातनोति यो गृह त्वदीषणास्पदं नमांसि योऽन्वहं करोति ते ।
परत्र चेह वृद्धिमान् त्वमस्य वृद्धिमावहेः यमीरयेस्सवाहनं प्रयाति सोऽपि सम्पदा ॥४३॥

समस्ततृप्तयो भजन्ति भव्यमग्निसङ्गमं बलिष्ठवाहिसिन्धवो यथा च सप्त सागरम् ।
न दिव्यबान्धवैस्तव न्यबोधि नोऽभिवर्धन त्वमुत्तमां निबुद्धवान् विधेहि तेषु ते घियम् ॥४४॥

यदेरणाय तेज आनशे विशामिमं पति शुचि स्वरेव बीजमाहितं च तत्समागमे ।
तदाऽग्निरच्छयौवनं च सिद्धबुद्धिशोभनं व्यजीजनन्महद्विदोषमैरयन्मरुद्धलम् ॥४५॥

क्षणान्महाध्वविक्रमी प्रयाति यो मनो यथा सदैक एव सूर्यदेव ईश्वरो निधेः श्रियाम् ।
इनौ च मित्रतयुजौ प्रशस्तपाणिलक्षितौ रक्षतोऽमृतं प्रियं च सौरगोषु सम्मदम् ॥४६॥

सखे सखित्ववैभवानि पैतृकाणि नश्चिरात् कविस्त्वमभ्युपेयिवानवैषि मा तिरस्कृथाः ।
जरा मिनाति नो वयो हिमावृतिर्यथाऽऽकृति तदाहतेः पुराऽधिगच्छ स त्वमग्निदेव भोः॥४७॥

(८ )

(मालभारिण्यः)

बहुदेवबलं करे दधानः कुरुते नः कविदर्शनानि धातुः ।
अखिलामृतवस्तुरूपसिद्धिं स वितन्वन् जयतु प्रभुनिधीनाम् ॥४८॥

अमृताः परितोऽपि सन्तमैच्छन् शिशुमस्मासु न लेमिरे तु धीराः ।
श्रमिणः पदलक्ष्मणा यदाऽगुः पदमापुः परमं तदाऽस्य शोभाम् ॥४९॥

शुचयोऽग्निमपूजयन् शुचिं त्वां घृणिभिर्धीविभवैस्वयं समानाम् ।
दधिरे ननु यज्ञियानि नामा-न्यथ सिद्धान्यभवन् वपूंषि तेषाम् ॥५०॥

बृहतीमधिगम्य यज्ञभाजो दिवमुर्वी द्वितयीं च बभ्रुरुग्राः ।
विदितोऽथ नरो धरन् पराध स्थितमग्निं परमे पदे न्यबोधीत् ॥५१॥

प्रणतेरुचितं कृतप्रणामा उपजग्मुर्विनिबुध्य तं सदाराः ।
दृशि सख्युरथावितास्सखायः स्वतनूस्तेऽघटयन् स्वयं रिचन्तः ॥५२॥

त्वयि देव यदा त्रिसप्तगुप्ता-न्यविदुर्यज्ञभुजो रहःपदानि ।
अमृतं सजुषस्तदा ररक्षु-भगवन् गा अचराश्चराश्च पाहि ॥५३॥

अयि नः प्रतिबोधविज्ञ धेहि क्रमशो जीवकृते विशां बलानि ।
अपि दृतपथश्च देवयाना-नविदोऽन्तर्हविरावहोऽस्यतन्द्रः॥५४॥

वरदूरधियो दिवः स्रवन्त्यो विविदुरमुरुश्रियामृतज्ञाः ।
अविदच्च पदं दृढं च गव्यं सरमाऽतो मनुजस्सुखं भुनक्ति ॥५५॥

अमृतस्य कृते सृति सृजन्तो दधते भव्यजनुष्वमी पदानि ।
पृथिवी वितता च तैर्महिम्ना सहपुत्रादितिरागता च धातुम् ॥५६॥

घटयत्सु दिवोऽक्षिणी अमर्ये-वधुरस्मिन् सुषमां तथा सुरूपम् ।
अथ सिन्धुवदीरिता वहन्स्यो ननु नीचैररुणास्तदा व्यजानन् ॥५७॥

(९)

(वंशस्थानि)

बलस्य धाता स तु राः पितुर्यथा यथा निदेशो नयनप्रभुर्विदः ।
सुखं शयानः प्रियभुग यथातिथिः पिपर्ति होता यजतो गृहं यथा ॥५८॥

स सत्यचिन्तस्सवितेव देवता दृढांश्च नः पाति गृहानिजेच्छया ।
सुरूपसत्यो बहुधा विजृम्भितः सुखो यथात्मा प्रणिधेयतास्पदम् ॥५९॥

स विश्वभृद् देव इव प्रभासते वसन् स राजेव भुवि प्रियो हितः ।
पुरःस्थितो वीरगणो गृहेष्विव प्रियाऽनवद्या रमणे सतीव सः॥६०॥

गृहेषु नित्यज्वलितं स्वधामसु ध्रुवेषु तं त्वां समुपासते नराः ।
त्वयि प्रभूतं निदधुश्च ते महः श्रियां धरो भाह्यसि विश्वमायुः॥६१॥

समस्तमायुर्ददतो विपश्चितः प्रियाणि भुञ्जन्तु तवेश्वराः श्रियाम् ।
विभृत्य भागं श्रवसेऽमृतेष्वमी वयं च जन्येषु जयेम सम्पदम् ॥६२॥

धुभक्तसाराः पृथुलस्तनामृता अपीपयन् सत्यदुहोऽस्मदीषणाः ।
समीहमानाः परतः शुभां मति विससुरदि समया च सिन्धवः ॥६३॥

समीहमानास्त्वयि सद्धियं प्रभो दिवि श्रवो यज्ञभुजो निचिक्षिपुः ।
विरूपमाधाय दिनं च यामिनीम् अधुश्च कृष्णारुणवर्णयोजनम् ॥६४॥

(उपजातिः)

धनाय यानीरयसे मनुष्यान् धनैर्युताः स्याम वयं च तेषाम् ।
आपूर्य पृथ्वी दिवमन्तरिक्षं छायेव सक्तोऽस्यघिविश्वसर्गम् ॥६५॥

(पादाकुलके)

भवदवना वयमश्वैरश्वान् वीरैर्वीरान् विजयेमहि भोः ।
भवदवना वयमग्ने भगवन् वीरनरैर्नृन विजयेमहि भोः ॥६६॥

अस्मत्पिवृजितवित्तस्य पुरा भूयः स्वामीभूय महान्तः ।
सुरिप्रवरास्ते तेऽस्माकं शतशतवर्षाण्युपभुञ्जन्तु ॥६७॥

(तूणकम्)

अग्नये विधातरत्र कीर्तितानि ते हृदे सूक्तवाग्विजृम्भितानि सन्तु चेतसे मुदे ।
यन्तुमीश्वरास्तव श्रियो वयं धुरन्धराः स्याम नाम विभ्रतः श्रुतं च देवसेवितम् ॥६८॥

कुमारस्तवः

(स्वागताः)

अन्तरङ्गरतिमन्तमसुप्तं निस्तरङ्गदहरान्तरगुप्तम् ।
आश्रये प्रणतिभिः सुकुमारं जन्मनाऽद्भुतमनन्तकुमारम् ॥१॥

आतिथेयपरमेष्वतिथि तं दुर्गमान्तरतटेषु विविक्तम् ।
वाञ्छनीयवसतिं भुवि धीराः कुर्वते गृहपति भगवन्तम् ॥२॥

इच्छयैव निजया हृदि बद्धा-मच्छवृत्तिकलनाय विबुद्धाम् ।
वाचमच्युतबलां विदधानः सोऽयमुल्लसति नित्यकुमारः॥३॥

ईश्वरात्मजनुषं जगदग्र्यं शक्तिजातमजमेव तमाघम् ।
मर्त्यजन्मनि जयन्तममयं जातवेदसमुरुप्रथमीडे ॥४॥

उद्यतोऽसि जडताजलराशे-रच्युतो भव तवोत्तमधाम्नः ।
खिद्यतां मुहुरिह स्मृतिलम्भे त्वं हि नः परमुषर्बुध भाग्यम् ॥५॥

ऊर्जितं तव महत् पितृवित्तं विश्वकार्यवहबोधनिधानम् ।
दुर्गमेन महसा परिगुप्त दुर्गपाल इव पालयसि त्वम् ॥६॥

ऋग्यजुर्निगदसामशरीरं पूर्वसरिभिरुपार्जितमर्थम् ।
त्वां परं निहितमत्र गुहाया-माह्वयामि भगवन् बहिरेहि ॥७॥

एष वेषविरहं विनतस्त्वां नाथ नम्रशिरसामधिदैवम् ।
काङ्क्षति व्रज सनातनसख्यं स्वीकुरुष्व जनमेनमनंशम् ॥८॥

ऐषमस्तमसि गूढ चिरात् त्वं निर्गतोऽसि बहिरङ्गविनिद्रः ।
जह्यराजकमिदं परितोऽन्तः कार्यधुर्य विजयस्व विराजे ॥९॥

ओदनो भवति विश्वमशेष विश्वपाकसुतसोमभुजस्ते ।
धत्स्व पाकमिह गात्रविशेष स्याच्च ते रसभरः सुखभोजिन् ॥१०॥

औरसैस्तनुभवैर्गुणवद्भिः पूजितो8 यदि पिता किमु चित्रम् ।
आत्मजेषु विहिता परिचर्या सा विधातुरतुला हि विचित्रम् ॥११॥

कञ्जबन्धुरिव यः कमलिन्या विश्वबन्धुरिह नो जनिभूमेः ।
सन्निधानरतिवेदनकालं वीक्षते स भगवानुपभोक्ता ॥१२॥

चित्रकर्मकुशलो वरहस्तो यन्महत्यणुनि वाऽऽहितचित्रः ।
तादृशस्य भण ते किमशक्यं चित्र्यतां हृदि च नस्तव रूपम् ॥१३॥

ज्योतिराहुरतुलं तव रूपं जन्मिनं नयसि येन सवर्णम् ।
अग्रिमक्रतुभुजां जनमेनं भाजनं तदिह किश्चिदवेहि ॥१४॥

क्षिप्यतां किमपि वीक्षितमत्र प्रार्थनाभरितपात्र विशेषे ।
विश्वकर्मनिपुणा तव वीक्षा किं न शक्यमखिलेश्वर तस्याः॥१५॥

गावमेतदवरं वरणीयां भोग्यतामुपनयीत कथं वा ।
लेशतोऽप्यसि मदन्तरवार्स लब्धवान् किमु ततः परमीहे ॥१६॥

चिन्मयं बहुलशक्तिनिधानं जन्मनाऽधिगतांस्तनुबन्धम् ।
चिचकञ्जमधुनित्यनिपायी सोऽमृतोऽन्तरमितः शरणं नः ॥१७॥

नित्यनिर्निमिषलोकनभासा कर्मणा सकलमर्मविभेदी ।
बाल एव भगवान् परमौजाः सार्वभौम इव शास्त्यखिलं नः॥१८॥

जागरूकमनसां तनुभाजा-मन्तरेषु विलसन्तमनन्तम् ।
भाग्यजातममृतं सुकृतानां पाकमेतमनिशं प्रणमामः ॥१९॥

ब्रह्मचर्यनियमी नियमीड्यः स्कन्द इत्यपि सनातनवालः ।
आगमैनिंगमगूढरहस्यै गीयते स शिवशक्तिकुमारः ॥२०॥

अग्निभूः शरवणाहितजन्मा स्वर्णदीविहितजीवनपोषः ।
गुप्तरोचिरुचितान्तरमोदो मानुषेषु तनुते निजसख्यम् ॥२१॥

उच्छ्वसनपि चराचरगेहे निःश्वसनपि जडाम्बुधिगर्ने ।
उन्नयञ्जयति मानवमुच्चै-नित्यमुज्ज्वलगतिभंगवान् नः ॥२२॥

विश्वजन्मनि जनुर्निजमाप्त्वा विश्वमेव कवचं परिधत्ते ।
विश्वनायकपदं च दधानो भूरिवेष इह भाति कुमारः ॥२३॥

सर्वतन्त्रकुशलाऽस्य निरीक्षा स्वांशुमिर्जडतमांस्यपहन्ति ।
कल्पयत्यमरभोग्यमनल्प-श्रीकमप्यमृतमत्र शरीरम् ॥२४॥

जाड्यसंहतिमिमां विनिहन्तुं तैजसेषु परधामसु रन्तुम् ।
गन्तुमप्यतिजगत् प्रभवेन्ना यस्य चित्तभुवि निर्णिमिषोऽमिः॥२५॥

सुस्थिरामपि भुवं चलयन्ती चञ्चलामपि धियं स्थिरयन्तीम् ।
मर्त्यमूर्ध्वममृतं च नयन्ती-माश्रये भगवतोऽस्य निरीक्षाम् ॥२६॥

निर्गतं निजगुहास्थलतोऽमुं मानवोपकृतये विलसन्तम् ।
विश्वरूपमपि विश्वगसारं को नु वारयितुमद्भुतमीष्टे ॥२७॥

न च्युतोऽपि परमानिजधाम्नः स्कन्द इत्यभिधया व्यवहारः ।
स्कममेव दनुजानपहन्तु देवकार्यकलितं स हि तेजः ॥२८॥

तारकाद्यसुरसूदनदक्षः शिक्षयन्नृजुपथे नरलोकम् ।
तस्य निर्वृतिकृते धृतजन्मा जन्मिनां हृदि विभाति शरण्यः ॥२९॥

ज्ञानशक्तिमयमन्तरवास कृत्तिकाभिरभितः परिगुप्तम् ।
मर्त्यजन्मनि विविक्तममर्त्य स्कन्दमग्निभुवमुज्ज्वलमीडे॥३०॥

मन्दमन्दममिवर्धितकीलो हार्दवाग्भिरिह नः कृतलीलः ।
कर्मणे नरवपुर्धतवेलः शर्मणे जयति शङ्करवालः ॥३१॥

शुरतारकनिबर्हणशरं बर्हिणप्रवरदुर्जयवाहम् ।
मानवे नवजनुःफलभूतं भूतजातसरसं मम दैवम् ॥३२॥

महामनुस्तवः

(आर्याः)

आर्या मातरमाद्यां त्रिभुवनसन्तानयोगसौभाग्याम् ।
आदिपुरेश्वरमहिषीं ललितां श्रीत्रिपुरसुन्दरीं वन्दे ॥१॥

या शैशवात् प्रभृति नः सस्टबहुलेषु संशयपदेषु ।
अविदितमथवा विदितं पातात् पाति स्म गन्तुमिह गम्यम् ॥२॥

मूर्तिमपश्यममूर्ते-रपि यद्देव्याः पुरा शिलाशिल्पे ।
चेतन्त्यथ चेतयन्ती कृपा हि सेति स्मरामि सुन्दर्याः ॥३॥

अच्छलजीवनविधये तुच्छमनोवासकच्छतो हृत्वा ।
विच्छन्दकनिजपदभू-सेविनमेनं व्यधत्त या सदया॥४॥

जीवग्राहमुदग्रा निजपदजाले निधाय मां यस्याः ।
जागर्ति स्वीकर्तु दृष्टिः कालेऽत्र तन्तुनाभनिभा ॥५॥

अविचिन्वन् देवपथं यदयं नीतो यदृच्छयेव यया ।
जनमिममज्ञमवन्ती विज्ञा सा त्रिपुरसुन्दरी विद्या ॥६॥

दुर्गममन्तर्ध्वान्त-प्राकारं विहसितेन भिन्दन्ती ।
मुखमण्डलमा यस्याः कुरुते स्वच्छान्तरानिभानस्मान् ॥७॥

अद्भुतगगनशरीरा-मेकाक्षरनादसंयतसमीराम् ।
सकलान्तरनिर्णिमिषां निस्तिमिरामन्तरे परां वन्दे ॥८॥

परितो मां विसरन्ती-मूर्ध्व मूर्भोऽवतीर्य विलसन्तीम् ।
निध्यायन्नध्यात्म भासं पदयोः स्मरामि सुन्दर्याः ॥९॥

गुरुचरणैस्सङ्क्रमिता वर्णमयीमम्बिकामनुध्यायन् ।
गुरुवरसम्पदमलमे यदहं सा त्रिपुरसुन्दरीकरुणा ॥१०॥

क इति त्रिजगज्जननी-मादिकलां भुवनशिल्पनिर्मातुः ।
कमलोद्भवस्य कान्ता-मादौ विद्यारताः प्रभाषन्ते ॥११॥

ए मातरखिलबोधन-दक्षे रक्षेति नः समाहूय ।
स्वात्मानमर्पयन्ति प्राज्ञायै तन्त्रवेदिनो विबुधाः ॥१२॥

ईश्वरि मायिकमखिल प्रावरणं चक्षुषोऽपहर मातः ।
येनामायिकमखिलं प्रेक्षेय तवेति याचते विद्वान् ॥१३॥

ललिते भगवति भवती-मुपगच्छामस्तदत्र कुरु दयितम् ।
अन्तस्सन्तमसं नो हरेति देवीमुपासते विज्ञाः॥१४॥

हीमिति मातुस्त्रिजग-त्सङ्कोचविकासतन्त्रदीक्षायाः ।
अक्षरमेकं ध्यायन् जगदज्ञानस्य जयति ना जेता ॥१५॥

हसिताकुरस्य गर्ने विश्वोद्भवमूलसंमदं दधती ।
सर्वज्ञहृदयरमणी कामाक्षी जयति परमवामाक्षी॥१६॥

सङ्करमक्षममाणा धर्माणां सर्वलोकहितकामा ।
सारांशमुद्धरन्ती सर्वस्माज्जयति सर्वभूतसमा ॥१७॥

कमलभुवो भवकार्ये कमलाक्षस्यापि रक्षणे जगताम् ।
विलयेऽप्युभयोर्धात्री कामकला जयति सर्वदेवकला ॥१८॥

हरहृदयपीठनिष्ठा शिवपदसाम्राज्यसिद्धिभूयिष्ठा ।
भुवनत्रयनाथगुप्त-श्रीविद्याप्रथनलासिनी जयति ।।१९।।

लज्जाबीजाद्विश्वं विततं निर्लज्जमम्बरे दधती ।
कामकला ब्रह्माण्डे पिण्डाण्डे जयति सैव नित्यकला ॥२०॥

हीमिति हृदयाभ्युदयां रेखां वृहदूर्ध्वमूलकामकलाम् ।
हल्लेखां भुवनेश्वर-सम्पदमेकाग्रसंमदां चिनुमः॥२१॥

समये समया परमं साक्षादुपजीव्यमध्वनीक्षयते ।
चरिते तु कुलाचारे प्रथयति चित्राणि परमशक्तिकला ॥२२॥

कन्दर्पदर्पजीवन-सौन्दर्यबलाऽन्तरङ्गशक्तिकला ।
पदजलजातप्रभवा प्रभवति मत्र्येऽमरत्वमाधातुम् ॥२३॥

लभ्या वाणी विष्णो-दयितापि चरा स्थिरा च यत्लेन ।
परमार्थबद्धदीक्षैः परस्य शक्तिस्तु तत्प्रसादेन ॥२४॥

हीङ्कारत्रितयशिर-स्त्रिकूटमुखमध्यपादवर्णमयीम् ।
ज्ञानत्रयशक्तिगर्मी निर्भरसौभाग्यसुन्दरीं वन्दे ॥२५॥

पञ्चदशाक्षरवपुष गावविभागेन पङ्क्तिशखितयीम् ।
वन्दे ललितां विद्या मुनिजनसाम्राज्यमौनगुरुदृष्टाम् ॥२६॥

हाद्यां केचन काद्या-मन्ये प्रणमन्ति मन्त्रवर्णमयीम् ।
पञ्चाक्षर्यामिव सा सप्ताश च जयति नादकला ॥२७॥

वाग्भवमस्तकमाया जगदज्ञानान्तसिद्धये गेया ।
मुखपङ्कजाग्रकलया वाणीसिद्धिं बुधस्य कलयति या ॥२८॥

जगदीश्वरविज्ञानो-ल्लासनचुञ्चुं सदागमप्रणवम् ।
कामेशखण्डचूडा-लङ्कारं नौति तन्त्रविद् धन्यः ॥२९॥

जीवेशसर्गसकल-ज्ञाननिधानं पराधिजलजातम् ।
सर्वज्ञपदमुपास्ते कूटत्रयमुकुटमायया मन्त्री ॥३०॥

(पादाकुलके)

गुरुजनगुणशतशोधितचित्तं गुरुवरकरुणावीक्षितसिक्तम् ।
गुरुचरणाम्बुजनित्यभुजिष्यं गुर्वी सिद्धिर्गच्छति शिष्यम् ॥३१॥

मन्त्रगुरौ मनुशक्तिर्गुप्ता रोहति फलति च जप्तयुप्ता ।
पुस्तकमन्त्रैर्मस्तकभारं निवहनन्धो वेद न सारम् ॥३२॥

परमाष्टकम्

(शार्दूलविक्रीडितानि)

ध्याता मन्त्रधरैर्वृता सृजति या बुद्धिं प्रकृत्या शिवा-मारम्भैः स्थिरचिन्तनैर्मतिमतां सिद्धिप्रवाहो यतः ।
दृश्ये भ्राम्यति देशकालविवृते विश्वस्थितिर्वा यया सा शक्तिर्निखिलाण्डकोटिसवितुर्व्याख्यातु नस्तत्पदम् ॥१॥

आधानाद्विदितप्रभावविसरो विश्वस्य यो मूर्तिमान कालं यस्य जगद्विसृष्टिकरणं कार्यार्थरूपं विदुः ।
माने हेतुरयं च भेदनिलयो देशो यदालम्बन-स्तस्मै ध्वस्ततमोघनाय महसां ताताय तुभ्यं नमः ॥२॥

सत्यासत्यविवेचकः स भगवान् धर्मो विधानध्रुवः कल्याणार्थकरो हरिर्जनिमतामन्तर्विमानोद्यमी ।
प्राणत्राणपरायणः स्थितिमतां रुद्रोऽपि कामार्तिहा धर्मार्थेषणकारणस्य जगतः शास्तस्तवैतेंऽशवः ॥३॥

रूपं ते वियदुत्तमं कृतिमती शक्तिः परा तापसी नातं सर्वमजाण्डकं तु युवयोरन्योन्यतादीपकम् ।
शान्तिस्सर्वसमाऽपि भूतकरुणा न त्वां विहातुं क्षमा सार्वात्म्यं भजतस्तवेश महिमा सीमानमुल्लङ्घन्ते ॥४॥

श्लिष्यन्ती गहनाम्बरं रहसि ते शक्तिश्शरीरं विभो प्रेमप्रश्वसितेन वां वितनुते सर्वत्र गूढां श्रियम् ।
सान्द्रानन्दकृता यथा वपुषि वां धर्माम्भसां मालिका वैरिश्चाण्डपरम्परा यत इयं ताराकृतिर्नृत्यति ॥५॥

(शिखरिण्यौ)

अखण्ड प्रज्ञानं जगदुदयभङ्गस्थितिगुणं गुणातीता शक्तिस्तव सहचरी विश्वजननी ।
अनन्तश्शेषात्मा भवसि च जगद्भारभरितो नदन्नन्तर्भूतेष्वणुरसि महान् सोऽसि भगवन् ॥६॥

अविश्लेष्यं त्वत्तस्सुचिरमभजं नाथ जगता-मजाननधं ते भुवनजननीं प्राणदयिताम् ।
तथाऽप्यस्येदं मे चरितमपराद्धं न गणय-स्यहो वामन्योन्यप्रथनपटुदाम्पत्यमहिमा ॥७॥

(मन्दाक्रान्ता)

तस्मादेनं तव पदजुषं त्वत्कटाक्षोपजीव्यं नाथ श्रीमन् कुशलकरणं साधु सन्धाय जीयाः ।
सा ते सक्ता मयि तव जने बिभ्रती कार्यभार दृष्टिर्जीयाद् भुवनजयिनी सर्वसाम्राज्यलक्ष्मीः ॥८॥

इति श्रीमहर्षिरमणभगवत्पादानुध्यातश्रीभगवद्वासिष्ठगणपति-मुनिप्रवरान्तेवासिनः, पूर्णयोगाचार्यश्रीमदरविन्द-भगवत्पादानुध्यातस्य, विश्वेश्वरसूनोः कपालिनः कृतिः आह्निकस्तवः भारद्वाजस्य समाप्तः।

आह्निकस्तवश्लोकसूची

श्लोकः पार्श्वम् श्लोकः पार्श्वम् ६६ ८५ आतिथ्य ६५ आदियज्ञियो ४३ ८४ अखण्डं अग्नये विधात अग्निभूः अच्छलजीवन अत्राह्निक अद्भुतगगन अधारयन् अध्यास्य अनेकका ७१ आधानात् ७६ आधारभूमि १५ आर्या मातरं ७५ ७७ ४८ ६७ अन्तरङ्ग अबन्तरे ७८ अमृतस्य कृते ५१ इच्छयैव १० इमानि पाहि ४८ ६६ ईश्वरात्म ४७ ईश्वरि ५९ ५५ उच्छ्वसन्नपि १५ उद्यतोऽसि ५८ उशन्त्य ५२ ४८ जितं ६७ अमृताः अम्बेति अयि नः अयं यदा अलं ददाति अविचिन्वन् अविश्लेष्यम् अस्मत्पित अस्य शासनं ६७ ६७ ८५ ऋग्यजु ६४ ४४ ए मात 87 आह्निकस्तवः श्लोकः पार्श्वम् श्लोकः पार्श्वम् एष वेष ६८ घटयत्सु ऐषम ६८ चित्रकर्म चित्रसंपदाभ ३७ ओदनो ६८ चिन्मयं औरसैः ८२ ४५ १८ ७० ७२ क इति कञ्जबन्धु कमलभुवो कन्दर्पदर्प कि नाम कोऽपि न क्षणान्महाध्व क्षिप्यतां क्षेमभृद् ६८ जगदीश्वर जज्ञिवान् ७७ जडोपले ६९ जयविधौ ७९ जागरूक ८० जाडचसंहति १२ जीवग्राह ४६ जीवेशसर्ग ५४ ज्योतिराहु ६९ ज्योतिषां ३७ ज्योतींषि ज्ञानशक्ति ज्ञानं विचार ८२ ६९ २५ ७३ गात्रमेत १३ ७० गुरुचरण गुरुजन ३ ७७ तच्चतुर्विशति ८२ तत्पदेन ६१ तथा प्रशस्ति ३० गृहेषु नित्य गोपशुं हरन् ३४ तदतुलं 88. आह्निकस्तवश्लोकसूची श्लोकः पार्श्वम् श्लोकः पार्श्वम् ४० तदरविंद तदादिवणे २६ ३१ तन्नः परस्तात् तरति येन तस्मादेनं तामादिनाद ८४ १२ २२ धारयन्नजो २९ धियमनश्वर २३ धीरस्वभूतां २१ धोभूमदर्शन ध्याता मन्त्र १० ध्वान्ते महत्यपि ७३ ३१ नक्तं दिवं २५ न च्युतोऽपि १८ न न इति १७ न परत्रेह नम सदा २४ न शास्त्रधीभिः ३२ १२ ७३ २० तारकाद्यसुर तिरोभूतस्य तिरोहितानां तिलकितं तुरगवेग तुरगाः सवितुः तुरीयमास्याय त्येन मां त्येनैव शान्तिः त्वयि देव ३२ २१ २८ नः शं भवतु २७ ९ २८ नः शाश्वत ५७ नामानि चेत् नामानि ते २१ निजं तव २८ नित्यनिनिमिष ९ ५२ नियम्य वायु ५१ दिवसनाथ बीनैर्न गम्यः वीयतामिति दुर्गममन्त दुर्लभोद्भव धुभक्तसाराः धनाय या ७६ ७२ ३८ निर्गतं निज निष्प्रमाद २ ३५ ६३ नेदं ममेति 89 आह्निकस्तवः श्लोकः पार्श्वम् श्लोकः पार्श्वम् ६४ पडकं समस्तं पञ्चतां यान्ति १० पञ्चदशाक्षर ४६ १४ पदचतुष्टय पदपदार्थ परवतां परं पूजन्ति परस्परावेश परात्परं परितो मां ८३ ७३ ३२ पवित्रं तत् २६ २५ भवदवना ३१ भात्येव ८१ भास्वरो १८ भूयान् श्रमो २१ भातृवत् १८ ३१ मन्त्रगुरौ २८ मन्दमन्द २५ मरौ शादल ७७ महत आत्म ३३ महानुपायो ४१ मानुषेषु ४५ मा नो जहातु ३५ मायेव लोचन ५७ मूर्तिमपश्यं ४२ मूर्ते जगज्जननि ३४ य इदमद्भुत यत्र स्वयं ६० यदण्वपि ४९ यदवकीर्य ५५ यदेरणाय ५६ यल्लिप्सवः ७१ या शैशवात् ३९ १४ पुण्यवान् पुत्रवद् पोषवन्मनो प्रणतेरुचितं प्राज्ञमीषणा प्रीतिपूरित प्रेरणा ऋतस्य १२ २२ १० ३२ बलस्य धाता २० बहुत्र मानुषा बहुदेव बृहती ब्रह्मचर्य ७५ 90 आह्निकस्तवश्लोकसूची श्लोकः पार्श्वम् श्लोकः पार्श्वम् ८२ येत्यंविधानं येवमयं यो महिम्न ३० ७१ २९ वाग्भव ३३ विभवो ४१ विश्वजन्मनि विश्वप्रसूति १९ विश्वं विलासा ३० विहितवान् १७ व्याकरोति ११ २३ ४२ रतमनारतं रन्तुं सिद्धिषु रमणसत्कर रमे नितान्तं रवीन्दु रसेन नित्य २४ ५६ ७४ ११ रुचमपार रूक्षं विनिश्शेषित रूपं ते रूपे रूपे ८५ ५४ २६ शुचयो ३१ शूरतारक १७ शोचिषा २४ श्रद्धति ८५ श्लिष्यन्ती ३१ सखे सखित्व ८० सख्यं चेत् स गृध्नु ८१ सडकरमक्षम ७८ सङगरेषु सञ्चारयन् ५८ सत्यासत्य १७ स नित्यः २४ सन्तारणाय लज्जाबीजात् लब्धं च पात्र ३२ ४९ लभ्या वाणी ललिते ३८ १३ ८४ वरदूर वरमिदं वरेण्य वशिनो ३० १४ स पारदृश्वा 91 आह्निकस्तवः श्लोकः पार्श्वम् श्लोकः पार्श्वम् १६ स्थानतो स भगवान् समये १९ ८० स्यतु मदन्तर ४७ स्यन्दोऽपि ५३ स्यमन्तकं ४८ ६२ हरहृदय ६३ हसिताङकुरस्य २० हस्तगं २७ हायां केचन ४० ८१ समश्नुयाम समस्ततृप्तयो समस्तमादधत् समस्तमायु समीहमाना सरसभूम सरःसहस्राणि सर्वतन्त्र स विश्वभृद् स वेत्ति स सत्यचिन्तः सा नः पितेव सुस्थिरामपि संवत्सराविम स्थलानि नः ७२ हितहरेषु २० ६१ ३२ हितानि साक्षात् हिरण्यवर्णा हंसवत् २७ ६० ७२ ह्रीडकारत्रितय ८१ ९ ह्रीमिति मातु ५० ह्रीमिति हृदया ८०

QUINTESSENCE OF SRI VIDYA

p-53.jpg

Read now >>


THE MAHAMANUSTAVA with INTRODUCTION, TRANSLATION AND NOTES by S. SHANKARANARAYANAN

(First Published in 1969)

भारतीस्तवः




NOTE

BHARATI-STAVA is an outstanding poem of Sri T.V. Kapali Sastry. Sung on the eve of the Independence of India -15th of August 1947—this Song of the Soul of India in a century of verses, rolls into seven distinct spheres on seven metrical modes. The poet greets the New Age that is dawning after India’s lot of severe stress and suffering, invokes the Name of Sri Aurobindo, the Prophet of India’s independence who first saw in his vision the advent of her freedom and the high mission she was destined to fulfil. The main theme is indeed the Soul of India, but with all her features whose moulds are to be seen in the pageant of her march at the head of nations in Arts, Crafts and Sciences, and not merely in things of the Spirit. Their stamp is indelible and could be seen in the richness of their diverse forms in the field of action and thought, in religions and philosophies in which even Nihilism of a sort found a place. It takes in a sweep a summary, yet comprehensive, view of the distinctive catholicity of her Dharma, the meaning of the appearance of Rama, Krishna and other world-moving Figures on her soil. Lastly, the voice of reasoning appeal, supplication and worship rises and goes forth to Mother India who is addressed as Bhārati following the ancient tradition:

उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्ष तद् भारतं नाम भारती यस्य सन्ततिः ।।
(Vishnu Purana 2.3.1)

India is not a mere geographical expreșsion. The poet sings the glory of Mother India as the living Angel of the land that has been fashioned as the focal point of the Earth’s Aspiration towards its Parent-Godhead. He sings the greatness of Bharati as the guardian Spirit of India which in this picturesque creation has sprung into life from the Eternal Spirit-matrix. She is the fulcrum of the Earth’s kinesis and progress towards the abiding glory of the future that her sons have to toil and equip as a sheer joy in the pride of the work. The Soul of India is no metaphor of the poet, no dream of the patriot. She is a Reality whose truth is palpable to the disclosed eye.

A word about the Hindi rendering. The translation was done in the first instance by Sri Vithal Narayanji Acharya of Sirsi. Later it received a thorough revision at the hands of Sri Chandradip Narayanji Tripathi of our Ashram. During the revision it was found necessary to keep the Hindi as close to the original as possible in order to pre-serve the thought-content and suggestion Dhvani. That is the explanation-if one is needed for the retention of Sanskrit words wherever they are permissible in the Hindi language.

Sri Aurobindo Ashram, Pondicherry. 26-8-1948
M. P. PANDIT

प्रकाशकका वक्तव्य

"भारतीस्तवः” श्री ति. वि. कपाली शास्त्रीका एक उच्च कोटिका काव्य है। कविने भारतके स्वतंत्रता-दिवस-१५ अगस्त, १९४७–के शुभ अवसरपर भारतके अंतरात्माका यह स्तवगान एक सौ श्लोकोंमें किया था और यह सात अलग-अलग छंदोंमें लिखे हुए सात भागोंमें विभक्त है। कविने सर्वप्रथम उस नवीन युगका स्वागत किया है जो भारत-के कठोर दुःख और यंत्रणाका काल समाप्त होनेपर उदय हुआ है और फिर उन श्रीअरविंदका नामस्मरण किया है जो भारतीय स्वतंत्रताके दीक्षा-गुरु हैं और जिन्होंने सबसे पहले अपनी दिव्य दृष्टिसे भारतकी स्वतंत्रता-के आगमनको देखा था तथा यह जाना था कि भारतको कौनसा महान् कार्य इस पृथ्वीपर पूरा करना है। निस्संदेह इस काव्यका मुख्य विषय भारतका अंतरात्मा ही है, पर वह अंतरात्मा अपने सभी लक्षणोंसे संपन्न है जिनकी आकृतियां न केवल आध्यात्मिक विषयोंमें, बल्कि मानव-वर्गो-के आगे-आगे भारतके दीर्घकालिक यात्रा-चमत्कारमें, विविध-विद्या प्रस्थानों-में, शास्त्र-प्रभेदोंमें, अनल्पशिल्पललितकलाकौशलमें लक्षित हो सकती हैं। उनकी छाप स्पष्ट है, निस्संदिग्ध है और वह कर्म तथा विचारके, धर्म तथा दर्शनके क्षेत्रमें-जिसमें एक प्रकारके शून्यवादतकको स्थान प्राप्त हुआ है-अपने विभिन्न रूपोंमें प्रचुरताके साथ दिखायी देती है। इस स्तवन-में सरसरी तौरपर पर विशद् रूपमें इस बातका दिग्दर्शन कराया गया है कि भारतका धर्म कितना उदार, महान् है, उसकी भूमिपर जो राम, कृष्ण तथा अन्यान्य जगत्-चालक महापुरुषोंका आगमन हुआ उसका रहस्य क्या है। अंतमें, बुद्धि-युक्तिके आह्वान, प्रार्थना और पूजाकी वाणी और भी ऊपर उठती है और उन भारत माताकी ओर जाती है जिन्हें इस आचीन परंपराके अनुसार ’भारती’ कहकर संबोधित किया गया है-

उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्ष तद् भारतं नाम भारती यस्य सन्ततिः ॥
(विष्णु पुराण २.३.१)

भारत केवल भूमिखंड नहीं है। कविने उस देशके अधिदेवताके रूप-में भारत माताका यशोगान किया है जिसे विश्वजनक भगवान्की ओर उठनेवाली पृथ्वीकी अभीप्साका केंद्र बननेका सौभाग्य प्रदान किया गया है। कविने उस भारतके संरक्षक आत्माके रूपमें भारतीकी महत्ताका बखान किया है जो नित्य चित्स्वरूपिणी मातासे उद्भूत होकर इस अप-रूप सृष्टिमें आया है। यही वह धुरी है जिसके अवलंबपर पृथ्वी अपनी समस्त गतियोंको परिचालित कर रही है और भविष्यके उस चिरस्थायी गौरवकी ओर अग्रसर हो रही है जिसे, मात्र कार्य करनेके आनंदके उद्देश्य-से ही, उसके संतान परिश्रम करके सिद्ध करेंगे। ’भारतका आत्मा’ कोई कवि-कल्पना नहीं है, देशभक्तका स्वप्न नहीं है, बल्कि वह एक वास्तविक सत्ता है जिसका स्वरूप खुली आंखोंके सामने स्पष्ट रूपमें प्रतिभात होता है।

दो शब्द हिंदी अनुवादके विषयमें। इस अनुवादको सबसे पहले पूरा किया था सिरसीके श्रीविठ्ठलनारायणजी आचार्यने और फिर उसका संपूर्ण संशोधन किया हमारे आश्रमके श्रीचन्द्रदीपनारायणजी त्रिपाठीने। संशोधन करते समय यह आवश्यक समझा गया कि जहांतक संभव हो हिंदीको मूलके समीप रखा जाय जिसमें मूल विचारधारा और शब्दोंकी ध्वनि अक्षुण्ण बनी रहे। यही कारण है-अगर कारण बताना आवश्यक हो-कि जो संस्कृत शब्द हिंदी-भाषाके अंदर चलने योग्य मालूम हुए उन्हें ज्यों-का-त्यों अनुवादमें भी रख दिया गया।

श्रीअरविन्द-आश्रम, पांडीचेरी. २६-८-१९४८ 162
मा. पुं. पंडित

भारतीस्तवः

(शार्दूलविक्रीडितम्)

(१) सृष्टिः सर्गपतेरपारमहिमव्यापार-पात्रायतां भूमिर्विश्वशरीरिणो भगवतः पादारविन्दायते । तत्र श्रीपतिजन्मभिधृतमहस्सराङ्गायिता माहाभाग्यभरा चिरं विजयतां विश्वम्भरा भारतो ॥१॥

(१) सृष्टिकर्त्ताने सृष्टि इसलिये की कि वह उनके अगाध-महिमामय व्यापारका पात्र बने। यह पृथ्वी उन विश्वशरीरी भगवान्का पाद-पद्म है। इस पृथ्वीका उत्तमांग (शीर्षस्थान) यह भारतभूमि है। क्योंकि यहीं भगवान् श्रीपतिके ज्योति धारण करनेवाले अनेक जन्म अपने अंदर बड़े-बड़े अंश धारण करनेवाली ऐसी भारत-विश्वंभरा चिरविजयी हो ॥१॥

(२) अद्य श्रीदिनमद्य भारतकुल-स्वातन्व्य-दीक्षागुरोः स्वाराज्यार्थदृशोऽरविन्दभगवत्सूरेर्जयन्तीदिनम् । अद्यास्तङ्गतमङ्गभङ्ग-बहुलक्लेशं च पूर्व युगं नूनं सङ्गतमद्य मङ्गलयुगं जेजीयतां भूतले ॥२॥

(२) आज मंगल-प्रभात है; विज्ञवर भगवान् श्रीअरविन्दकी जयंतीका दिन है। आपने ही स्वराज्यका सच्चा अर्थ जाना था और ध्रुव तारा बन भारतकी प्रजाको स्वतंत्रताकी दीक्षा दी थी। आज अंग-भंग और नाना दुःख-क्लेशका पुराना युग बीत गया है और एक नया मंगलमय युग आरंभ हो गया है। पृथ्वीपर इस युगका जयजयकार हो ॥२॥

(३) निद्राणा किमु भारतक्षितिरिय किं मूर्छिता मोहतः किं नैरात्म्यवशंवदेररिजनैराक्रान्तसत्त्वा पुनः । भिन्ना सङ्घसहनिभिः किमु जनैश्छिन्नाऽन्तरद्वेषिभिः क्षोणीमण्डल-सार-दिव्यमहिमज्वालैव शान्ता नु किम् ॥३।।

(३) "क्या भारतभूमि सो रही है। क्या मोहसे अभिभूत हो गयी है; क्या उसका सारा सत्त्व ही आत्मामें अविश्वास रखनेवाले शत्रुओंके द्वारा आक्रांत हो गया है; क्या स्वयं हजारों संघोंमें विभक्त, पारस्परिक द्वेषसे भरे लोगोंके द्वारा वह छिन्न-भिन्न कर दी गयी है। क्या पृथ्वीमंडलका सारतत्त्व यह दिव्य-महिमामयी ज्वाला शांत हो गयी है ? ।।३॥

(४) यातः कुत्र पराक्रमस्तव पुरा रक्षांसि येनाऽधुनोः किं यातं बलमम्ब येन भगवद्धर्माः पुरा दर्शिताः । इत्थं व्याकुलचेतनैः सुकृतिभिः पुत्रश्चिराय स्थिते मातर्भारति हन्त ते समुदयः सोऽयं समासाद्यते ॥४॥

(४) “भला तेरा वह पुराना पराक्रम कहां चला गया जिससे तूने पुराकालमें राक्षसोंको मार भगाया था; मां! क्या तेरा वह बल चला गया जिससे तूने प्राचीन कालमें भगवद्धर्मको प्रकाशित किया था?"-इस प्रकार जब कि दीर्घकालसे तेरे कुछ सुकृति संतानोंका चित्त व्यथित हो रहा था तब हंत ! हे मां भारती! तेरा यह अभ्युदय आ उपस्थित हुआ है ॥४॥

(५) शान्तैवाऽसि शमप्रधानजनता-माताऽसि तत् ते गुणः कम्रास्याम्बुरुहैव भासि बहुशः क्लेशैरभिप्लाविता । अन्नाभावजनातुरेऽपि समये काये च काश्य गते मातस्त्वां न जहाति काचन कला सा ते हि सत्याऽऽकृतिः॥५॥

(५) मां! तू शांतिमय है; शांतिप्रधान जनताकी जननी है; यही तेरा गुण है। जब तू बहुत क्लेशसे पीड़ित हो जाती है तब भी तेरा मुखकमल कमनीय ही बना रहता है। जब अन्नाभावसे मनुष्य आतुर हो जाते हैं और शरीर कृश हो जाता है तब भी, हे मां! एक विशिष्ट कला विद्यमान रहती है और वही तेरा सच्चा रूप है ॥५॥

(६) देवात्मा हिमवान् धुलोकतटिनी गङ्गा च यत्राऽश्रया-न्माहात्म्य विभृतो यशश्च विपुलं धयं परं पावनम् । तां त्वां दैवतबृन्दसेवित-महामूर्ति प्रभावोज्ज्वलां को विद्वान् गिरिगहरावनिधुनीस्रोतोमयीं मन्यताम् ॥६॥

(६) जहां आश्रय प्राप्त करनेके कारण देवात्मा हिमालय और धुलोकतटिनी गंगा विपुल, धर्ममय एवं परम पावन यश तथा माहा-त्म्यको प्राप्त हुई हैं, ऐसी देववृंदसेविता महामूत्ति एवं प्रभावोज्वला तुझको भला कौन विद्वान् केवल गिरि-गह्वर, भूमि तथा नदी-नालेके रूपमें देख सकता है ?॥६॥

(७) केषांचिन्मुनिबृन्दपावनजनुभूमिः परेषां पुनः देवानामवतारभूरथ महातीर्थाल्यक्षेत्रभूः । एकेषां चिरकालचित्रचरिता दीर्घायुरेषा मता माताऽस्माकमखण्डचिज्ज्वलनभूनित्यात्म-धर्मार्थभूः ॥७॥

(७) कुछ लोगोंके लिये यह मुनिवृंदकी पावन जन्मभूमि है; कुछ लोगोंके लिये यह देवताओंकी अवतारभूमि है; कुछ लोगोंके लिये महान् तीर्थों तथा क्षेत्रोंकी भूमि है; कुछ लोगोंके लिये चिरकाल अद्-भुत चरित्र दिखानेवाली यह दीर्घजीवी है। परंतु हमारे लिये यह माता अखंड चिज्योतिकी वेदी तथा नित्य आत्मधर्मकी भूमि है ॥७॥

(८) श्लाघन्तां तव दिव्यगुप्तचरितं ते गुप्तविद्याविदो भिक्षन्तां भृतिमुत्तमां तव कृपां ते कर्मभिः कर्मठाः । वन्दन्तां कृतिनो यशस्तव वयं माहात्म्यजीवातवो विद्मो भारतमङ्गलं ध्रुवमिदं मातर्जगन्मङ्गलम् ॥८॥

(८) हे मां ! गुप्तविद्याविशारद लोग तेरे दिव्य गुप्त चरित्र-का बखान करें। कर्मी पुरुष अपने कर्मके उत्तम वेतनके रूपमें तेरी कृपाकी याचना करें। विज्ञ पुरुष तेरा यशोगान करें। पर तेरे माहात्म्यसे जीवन प्राप्त करनेवाले हम लोग यह जानते हैं कि वास्तव-में भारतका ही मंगल जगत्का मंगल है ॥८॥

(हरिणी)

(१) भरतधरणिं धन्यां मन्यामहे यदियं हि नो भुवनजनताक्षेम काम दधाति परं व्रतम् । भरतधरणेरात्मन्नम्ब त्वमाश्रयभूः सतां प्रभुरसि च भोस्त्रातुं कालेऽखिलं क्षितिमण्डलम् ॥९॥

(१) हम भरतधरणी (भरतकी भूमि अर्थात् भारत) को धन्य मानते हैं, क्योंकि सारे भुवनकी जनताका क्षेम ही उसका परम व्रत है। हे भारतकी आत्मा ! हे अम्बे ! तू सत्पुरुषोंकी आश्रय-भूमि है। समय आनेपर तू समस्त भूमंडलकी रक्षा करनेका सामर्थ्य रखती है ॥९॥

(२) जननि जगतीमन्धप्रायां विभिन्नजनाकुलां तनुमिव घनामेकां कृत्वा विधातुमनाकुलाम् । कलकलभरोल्लोले काले प्रचण्डमहोबले निखिलकलुषध्वान्तध्वंसे दधास्युरुविक्रमम् ॥१०॥

(२) हे जननि ! अंधप्राय, विभिन्न जनतासे आकुल इस पृथ्वी-को एक शरीरकी तरह दृढ़ताके साथ एकीभूत और अनाकुल बनाने-के लिये, हे प्रचंड महोबले ! कोलाहलके समयमें समस्त कलुषित अंध-कारका विध्वंस करनेके लिये तू महत् पराक्रम धारण करती है ॥१०॥

(३) भुवनविजयाद्राज्यं प्राज्यं त्वया न बुभुक्षितं भुवननिहितं भोगैश्वर्य त्वया न च लक्षितम् । भुवनगुरवे गुर्वीमुवी प्रसाधयितुं त्वया व्यवसितकृतिः श्रद्धा बद्धा पुराणि जयोद्यते ॥११॥

(३) हे पुरातनि ! हे विजयोन्मुखी! तूने कभी समस्त भुवन-को जीतकर विशाल राज्यका उपभोग करनेकी इच्छा नहीं की और न भुवननिहित भोगोंकी ओर ध्यान ही दिया। इस सुविशाल भुवनको भुवनेश्वरके योग्य बनानेका दृढ़ संकल्प तेरी श्रद्धामें विद्यमान है ॥११॥

(४) निखिलधरणिक्षेमे दीक्षा दृढं विधृता त्वया न तव जननि स्वार्थेऽनथै कदाचन धीः स्थिता । किमपि भवितुं कर्तुं किञ्चित् चिराय धरातले ध्रुवपरिकरवातैर्गुप्तैः श्रिताऽसि रहोबले ॥१२॥

(४) हे जननी! निखिल धरणीका क्षेम सिद्ध करनेकी दीक्षा तूने ली है; तेरी बुद्धिमें अनर्थ स्वार्थने कभी स्थान नहीं पाया। हे रहस्यबले ! तू, जिसके आश्रयमें ध्रुव और सुरक्षित परिवार रहते हैं, कुछ ऐसा होना और करना चाहती है जो पृथ्वीपर चिरकाल स्थायी होकर रहे ॥१२॥

(५) अमृतवचसस्त्वत्तो मातः पराङ्मुखतां गतान् परिभवशतै—तान् वान्तभ्रमानयि दुर्गतान् । अपि च विषमे न ला नत्वा प्रभूनितरान् नतान् तव तनुभवान् यन्नात्याक्षीस्त्वमम्ब कृपा हि सा ॥१३॥

(५) हे माता! जब तेरे संतानोंने तेरे अमृतवचनसे मुंह मोड़ लिया था, सैकड़ों अपमान पाकर वे हीन हो गये थे, वे अंधकारमें चक्कर काट रहे थे, वे दुर्गतिको प्राप्त हो गये थे और विषम काल उपस्थित होनेपर वे तेरे सामने नहीं, बल्कि दूसरे प्रभुओंके सामने नत हुए थे, तब भी तूने उनका त्याग नहीं किया। हे मां! तेरी अनु-कम्पा ऐसी ही है ॥१३॥

(६) तव तनुभुवामप्येकेषां विदामपुराविदां श्रवणपथमप्यप्राप्ते ते पुरोन्नतवैभवे । विमलचरिते प्रत्ने धर्मे तथा तव धिक्कृते कथमपि चिरं मातः क्षान्तं त्वया पृथुलक्षमे ॥१४॥

(६) जब तेरी प्राचीन महिमाको न जाननेवाले तेरे विद्वान् पुत्रों-के भी कानोंतक तेरा धर्म न पहुंच सका और फलतः उपेक्षित हुआ तब भी, हे विमलचरिते ! हे जननी ! हे प्राचीन कालकी महत्-वैभव- रूपिणी ! तूने यह सब किसी तरह दीर्घकालतक सहन किया हे अमितधैर्यशालिनी!।१४।।

(७) विधुततमसः सुप्तोत्थानेऽधुना तव पुत्रकाः पुरत उदयं पश्यन्तोऽमी महस्समुपासते । तव च वदनं भास्वज्जातं शुभोदयशंसनं वयमयि नमोवाकं ब्रुमः पुरातनि देवि ते ॥१५॥

(७) हे मां! अंधकार दूर हुआ और तेरे संतान नींदसे उठकर सामने उषाका उदय देख रहे हैं तथा ज्योतिकी उपासना कर रहे हैं। तेरा मुखमंडल उद्भासित हो रहा है और कल्याणके आगमन-को सूचित कर रहा है। और हम, हे पुरातनी देवी ! तुझे अपना नमस्कार जना रहे हैं।१५।।

(८) कृतमथ पुरालेशैः पाशैः प्रसीद सवित्रि नो भगवति नय श्रेयो भूयो निसर्गमहोज्ज्वलम् । इदमपि चिरान्नः स्वातन्त्र्यप्रभापथमण्डलं भवतु भवतीमाहात्म्यश्रीनवोदयमण्डलम् ॥१६॥

(८) हे भगवती ! अतीतके क्लेश और बंधन पर्याप्त हैं, हे सवित्रि ! प्रसन्न हो; हमें महत् श्रेयकी ओर ले चल, उस श्रेयकी ओर जो उज्वल और स्वाभाविक है, और हमारी इस स्वतंत्रताका प्रभामंडल तेरी माहात्म्य-श्रीका भी प्रभामंडल हो॥१६॥

(९) सुचिरभरिताद् बन्धान्मोक्षोऽधुना भरतावनेः सकलजगतीकल्याणाय प्रभातनु कल्पताम् । भवतु च तथा लोके यात्रा तवात्मभुवां यथा जननि विलसेदच्छं रूपं वरं तव वास्तवम् ॥१७॥

(९) हे प्रभातनु ! दीर्घकालीन बंधनसे जो यह मुक्ति प्राप्त हुई है, यह समस्त जगतीके कल्याणके लिये हो। हे माता! इस जगत्-में तेरे बच्चोंका चरित्र ऐसा हो जो तेरे सच्चे और स्वच्छ स्वरूपको प्रकाशित करे॥१७॥

(१०) विविधजनतासङ्घातस्य त्वमम्ब सुहृत्तमा विषयबहुले भूगोलेऽस्मिन् शुभाध्वनिदर्शिनी । अधिभुवनमध्यात्मश्रेयोविधानपटीयसी त्वमसि सदृशास्तेऽमी पुत्रा जयेम वयं च ते ॥१८॥

(१०) हे मां! तू भिन्न-भिन्न जनताके संघोंकी परम सुहृद् है। विभिन्न राष्ट्रोंसे पूर्ण इस भूलोकके लिये तू शुभमार्गका निदर्शन करने-वाली है। तू लौकिक और आध्यात्मिक श्रेयका विधान करने में पटु है। हम, तेरे पुत्र भी तेरे योग्य हों, जयी हों॥१८॥

(पृथ्वी)

(१) इयं परमधर्मसूर्मुनिसहस्रसङ्घप्रसू-रसूरिजनदुर्विदप्रकृतिसिद्धसारा घरा। अनादिजनताप्रसूरसुरवंशकालप्रसू--रनर्धचरिताऽद्भुता जयति भारती भूतले ॥१९॥

(१) जो भारतभूमि परमधर्मप्रसविणी है, सहस्र मुनियोंकी जननी है, जिसका स्वाभाविक सत्त्व अज्ञ जनोंके लिये दुर्बोध है, जो. अनादि जनताकी जनयित्री है, असुरवंशके कालको उत्पन्न करनेवाली है, वह अमूल्यचरिता है, भूमंडलभरमें अद्भुत है। उसकी जय हो ॥१९॥

(२) तवाम्ब परिकल्पितं भुवनसर्जनज्योतिषा वपुर्विमलपाटलद्युतिधरं महश्चिन्मयम् । अदृश्यमपि तद् घनं जननि दृश्यमन्तदृशां तदेव सकलावनेहृदयपद्ममच्छ विदुः ॥२०॥

(२) हे मां! भुवनसर्जन ज्योतिने स्वच्छ गुलाबी रंगकी चिन्मय ज्योतिसे तेरा शरीर बनाया है। यद्यपि वह अदृश्य है, फिर भी, हे जननी ! अंतर्दृष्टिवाले लोगोंके लिये वह दृश्य है, घनीभूत है। ज्ञानी जन जानते हैं कि वही समस्त पृथ्वीका विशुद्ध हृदय-कमल है ॥२०॥

(३) तवाम्ब महसां कलाः कलितमूर्तिबन्धा इमे वयं तव तनूभवास्त्वदुपजीव्यजीवानलाः । तवान्नमयसम्पदा वपुषि वर्धिताः पार्थिवे श्वसेम न विना त्वया त्वमसि सर्वमूलं हि नः ॥२१॥

(३) मां, हम तेरे संतान तेरी आत्मज्योतिकी मूर्तिमान कलाएं हैं। तू ही हमारी जीवन-ज्वालाओंको जीवन प्रदान करती है; तेरी ही अन्नभय संपदासे हमारा पार्थिव शरीर बढ़ता है; तेरे बिना हम श्वास भी नहीं ले सकते। तू ही वास्तवमें हमारा समग्र मूल है ॥२१॥

(४) प्रभावगहना गर्तिर्गगनलीनरोचिनिभा तवाम्ब भरतावनेर्भुवनलक्ष्यमुद्विभ्रती । युगाद् युगमतन्द्रिता विनयसि स्वयं पुत्रकान् अपारमहिमाऽम्बिका त्वमसि चित्कला भारते ॥२२॥

(४) हे मां! हे भारतभूमि ! इस जगत्के लक्ष्यको वहन करने-वाली तेरी गतिका प्रभाव आकाशमें लीन प्रभाकी तरह गहन है। तू युग-युग तंद्राहीन होकर, अपने बच्चोंका नेतृत्व करती है। तू अपार महिमावाली अम्बिका है, चित्-कला-रूपिणी है ॥२२॥

(५) इतः प्रथममुत्थितो मनुजनुः पुरा पुण्यवान् अचर्मनयनो मुनिर्दिवमपश्यदुन्मेषवान् । इतो निहतमादिमं मनुजनिष्ठमन्धं तमो जगत्प्रभवगाहनचुमणिरोचिषा भूजुषा ॥२३॥

(५) यहींपर पुराकालमें सबसे पहले पुण्यवान् मनुसंतान मुनि उत्पन्न हुए जो अचर्मचक्षु थे, जिन्होंने खुली आंखोंसे धुलोकतकको देखा था। यहींपर मनुजनिष्ठ (मनुष्यके अंदर निवास करनेवाला) अंध तमस जगत्के मूल स्थानतक प्रवेश करनेवाली उस सूर्य-किरणके द्वारा नष्ट हुआ था जो पृथ्वीको स्पर्श करती है ॥२३॥

(६) इतः शरणमुत्तमं शिवतमाध्वनां भूयसां इतःशरणमच्युतं जगदधीश्वरप्रेयसाम् । इतो जडतमोद्विषामजडलोचनज्योतिषां चिदम्बरमुपेयुषामुदयशैलतुङ्गस्थलम् ॥२४॥

(६) यहींपर कल्याणतम बहुमार्गोका उत्तम शरण है। यहीं-पर जगदीश्वरके प्रियजनका अच्युत शरण है। यहींपर जडतमसकी शत्रु, चिदाकाशमें फैलनेवाली चिन्मय नेत्रकी ज्योतियोंके उदयाचलका स्थान है॥२४॥

(७) नमःसवितृतेजसे भरतभूजुषे तस्थुषे नमो भरतमेदिनीतनुभृते रहस्यार्चिषे । नमः परमपावनश्रुतविदां सवित्र्यै नमो नमो नम इदम्पसु प्रभु गिरां भवत्यै नमः ॥२५॥

(७) भारतभूमिकी सेवा करनेवाले स्थायी सवितृ-तेजको नम-स्कार है। भरतभूमिके शरीरका भरण करनेवाली रहस्य-ज्वालाको नमस्कार है। परम पावन विद्वान् लोगोंकी जननीको नमस्कार है, नमस्कार है। हे इस सबकी जननी ! तुझे नमस्कार है, नमस्कार है। हे वाणियोंकी स्वामिनी ! तुझे नमस्कार है ॥२५॥

(कुमारललिता)

(१) तदम्ब तव रूपं महो भरतभूमेः । वरं प्रभवतां नः शिवाय शिवभामे ॥२६॥

(१) हे अम्ब ! हे कल्याणमयी देवि ! तुझ भारतभूमिका श्रेष्ठ स्वरूप, तेरी ज्योति हमारा मंगल विधान करे ॥२६॥

(२) मृदं तव शरीरं वदन्ति जडकल्पाः। हृदन्तरनिमेषा विदन्ति तव सत्यम् ॥२७॥

(२) जड़प्राय लोग ही यह कहते हैं कि तेरा शरीर मिट्टीका है किंतु जो लोग अपने हृदयमें निनिमेष दृष्टिसे देखते हैं वे तेरे सत्य-को जानते हैं॥२७॥

(३) महस्तव शरीरं चिदम्बरनिवासम् । भुवो जननि सारं बिभर्त्यपि विलासम् ॥२८॥

(३) हे जननि ! चिदाकाशमें निवास करनेवाला तेरा ज्योति विग्रह इस पृथ्वीके सार और विलासको धारण करता है ॥२८॥

(४) भुवो हृदयकीलां मुनीन्द्रवरलीलाम् । भणन्ति भरतोवीं प्रबोधबलगुर्वीम् ॥२९॥

(४) इस जगत्के हृदयकी ज्वाला और महान् ऋषियोंकी लीला-भूमिको ही लोग भरतखंड कहते हैं जो ज्ञानबलसे गुरुत्वको प्राप्त हुई है ॥२९॥

(५) अदम्भचरितानां अपास्तदुरितानाम् । पुरातनयतीनां नराधिकमतीनाम् ॥३०॥

(६) सवित्रि भरतक्ष्मा-शरीरधरवेषा। असि त्वममृतानां सवैर्विहितपोषा ॥३१॥

(५-६) हे दम्भहीन चरित्रवाले, पापको दूर करनेवाले, मान-वातीत बुद्धिको रखनेवाले प्राचीन यतियोंकी सवित्रि ! तू भारतभूमि-के रूपमें शरीर धारण करनेवाली है; तू यज्ञोंके द्वारा देवताओंको पुष्टि देनेवाली है॥३०-३१।।

(७) मतिं सुकृतिलोके शुभामयि दधाना । रतिं भजकलोकेऽ धुनापि विदधाना ॥३२॥

(८) तवाद्भुतमहिमां अभिज्ञकुलजानाम् । दधासि परिपाकं त्वदीयतनुजानाम् ॥३३॥

(७-८) तू सुकृति लोगोंमें मतिको धारण करनेवाली और भक्त-जनोंमें रतिका विधान करनेवाली है। तेरी अद्भुत महिमाको जानने-वाले ज्ञानीकुलमें उत्पन्न हुए अपने संतानोंको तू परिपक्व बनाती है ॥३२-३३।।

(९) विचित्रमितिहास पवित्रचरितं ते । न विस्मयमियात्को पुरातनि विदन् ना ॥३४॥

(९) हे पुरातनी ! तेरे पवित्र चरित्रसे भरे हुए विचित्र इति-हासको जाननेवाला ऐसा कौन है जो आश्चर्यचकित न हो? ॥३४॥

(१०) नरः श्रवणशाली स्मरन्नपि कथायाः । कथं प्रचुरसारां भजेत न कलां ते ॥३५॥

(१०) जो श्रवणशाली मनुष्य तेरी कथाको स्मरण करता है वह भला तेरी प्रचुरसार (अत्यधिक सार-तत्त्वोंसे भरी हुई) कला-को प्राप्त किये बिना कैसे रह सकता है ? ॥ ३५॥

(हंसमाला)

(१) भरतक्ष्मान्तरात्मन् भवसि वं प्रसूनः । वरतेजोशजातं तनुबन्धं बिभर्षि ॥३६॥

(१) हे मां ! हे भारतभूमिकी अंतरात्मा ! तू हमारी जननी है। उत्तम तेजके अंशसे उत्पन्न शरीरको तू धारण करती है ॥३६।।

(२) तनुबन्धेष्वबन्धा तनुजन्मस्वनन्धा । विमुखानात्मजातान् स्वमुखानम्ब धत्से ॥३७॥

(२) हे मां! तू शरीरबंधनोंसे अबंध (बंधनरहित) रहती है; अपने पुत्रोंके प्रति तू अनंध (जो अंधा न हो) रहती है। तू अपने विमुख पुत्रोंको स्वमुख (सम्मुखीन) बनाती है॥३७॥

(३) अपि नीचैः प्रविद्धं युगपूगैर्विवृद्धम् । प्रथितं भूमिगोले चरितं ते समृद्धम् ॥३८॥

(३) नीच लोगोंके द्वारा आक्रांत होनेपर भी तेरा चरित्र युग-युगमें बढ़ता रहा, समृद्ध होता रहा और भूमंडलमें प्रकट होता रहा ॥३८॥

(४) तव वक्षोजदुग्धा- मृतसंवर्धितास्ते । अमराणां सखाय-स्तनुजाताः पुराऽऽसन् ॥३९।।

(४) तेरे वक्षस्थलके दूधसे संवृद्ध तेरे वे संतान पुराकालमें अमरगणके सखा हुए थे॥३९॥

(५) भरतोामिहाम्ब प्रथमो मानुषाणाम् । दिवमाक्रम्य बुद्ध्या भुवमप्युदभार ॥४०॥

(५) हे मां! इस भारतभूमिमें ही मनुष्योंके आदि पुरुषने अपनी बुद्धिके द्वारा धुलोकपर आक्रमण करके इस भूलोकका उद्धार किया था।॥४०॥

(६) इह लोकान्तराणां मनुजो मार्गदर्शी । वपुषा बन्धवान-प्यमरत्वं जिगाय ॥४१॥

(६) यहींपर लोक-लोकांतरका मार्ग दिखानेवाले मनुष्योंने शरीर-में बद्ध होनेपर भी अमरत्वको जीत लिया था ॥४१॥

(७) परमाकाशगानां ऋषिदृप्टश्रुतानाम् । इह मन्त्राक्षराणां वरनादोर्मिमाला ॥४२॥

(८) भुवि वृन्दं घुलोका दमृतप्राशनानाम्। रुचिभिः प्लावयित्वा सवनायाचकर्ष ॥४३॥

(७-८) यहींपर परमाकाश-स्थित एवं ऋषियोंद्वारा दृष्ट और श्रुत मंत्राक्षरोंकी उत्कृष्ट नादतरंगमालाने अमृतभोजी देववृंदको सुरुचिसे परिप्लावित करके धुलोकसे यहां यज्ञके लिये आकर्षित किया था॥४२-४३॥

(९) समुदायस्य भव्यां सरणिं मानवानाम् । इह धर्मव्यवस्था-मकरोद्रामभद्रः ॥४४॥

(९) यहींपर श्रीरामचन्द्रजीने मानवसंघका कल्याणपथ निश्चित किया था-धर्मव्यवस्था की थी॥४४॥

(१०) ध्वजिनीर्वानराणां वशयित्वा नरेन्द्रः । यमिनां सार्वभौमो मनसां वा विचेष्टाः ॥४५॥

(११) अनयद्राक्षसीय कुलमास्यं यमस्य । दुरहकारमूलं हृदयस्थः पुमान् वा ॥४६॥

(१०-११) यहींपर उन नरेंद्रने बानर-सेनाओंको इस तरह अपने वशमें किया जिस तरह एक संयमी-सम्राट् मनुष्योंके मनकी चेष्टाओं-को अपने वशमें करता है और उन्होंने वैसे ही राक्षसकुलको पृत्युके मुखमें पहुंचा दिया जैसे हृदयस्थ पुरुष दुरहंकारके मूलको पहुंचा देता है।४५-४६॥

(१२) इह जातो यदूनां कुलपुत्रो मुरारिः । महतां भारतानामपि पश्यन् विनष्टिम् ॥४७॥

(१३) अगमद् युदरगं परतत्त्वोपदेष्टा । नरनारायणात्मा कृत कर्मोपदेशम् ॥४८॥

(१२-१३) यहींपर यदुकुलपुत्र श्रीमुरारी उत्पन्न हुए थे। महान् भरतवंशका सर्वनाश देखकर भी वह परतत्त्व-उपदेशक संग्राम-भूमिमें गये और उन नर-नारायणने कर्मोपदेश किया ॥४७-४८।।

(१४) इह तद् ब्रह्मतेजो- बहुलं क्षत्रवीर्यम् । नरनाथेषु मूर्त जनकाद्येषु वार्तम् ॥४९॥

(१४) यहींपर वह ब्रह्मतेजबहुल शुभ क्षात्र वीर्य जनकादि नर-नाथोंमें मूर्तिमान हुआ था ॥४९॥

(१५) तव पुत्रैः पुराणै- विवृतोऽप्यम्ब योऽसौ । अमितस्यांश एवं प्रमितो वैभवस्य ॥५०॥

(१५) हे मां ! जो कुछ तेरे पुराण-पुत्रोंने विवृत किया है वह तेरे अमित वैभवका एक सीमित अंश ही है॥५०॥

(उपजातिः)

(१) अक्षय्यसम्पत्तिरजय्यतेजा-भूमे«दयाब्जभूता। काश्चित्कलां चित्कलिकाप्रसूर्ति तां त्वां विदो भारतगां विदन्ति ॥५१॥

(१) हे अम्ब! तेरी सम्पत्ति अक्षय्य है; तेरा तेज अजय्य है। तू भूमंडलका हुत्कमल है; तू चित्कलिकासे उत्पन्न एक कला है। ऐसी तुझको विद्वान् लोग भारतभूमि जानते हैं ॥५१॥

(२) तत्तादृशं ते तपनीयतुल्य वृत्त पुरावृत्तविदाममूल्यम् । सत्वं च तत् ते महतां विनुत्यं कालेन यन्न व्ययमेति मातः ॥५२॥

(२) तेरा चरित्र स्वर्ण-जैसा है और प्राचीन इतिहासवेत्तागोंके लिये अमूल्य है। तेरा सत्त्व (आंतर बल) महापुरुषोंके लिये भी स्तुत्य है और कालद्वारा भी उसका व्यय नहीं होता ।।५२॥

(३) विलक्षणा विश्वजनीनविद्या हुधाऽनवद्या विबुधेव्यपथा। भूमण्डलोज्जीवनचारुचर्या कथागतिश्चित्रतमा त्वदीया ॥५३॥

(३) तेरी विलक्षण विश्वजनीन विद्या रमणीय और निदोष है, विबुष लोगों (देव तथा विद्वान् लोगों) द्वारा स्तुत्य मार्गवाली है। भूमंडलको उज्जीवित करनेवाली चार चर्यासे पूर्ण तेरी कथाधारा अत्यंत अद्भुत है ॥५३॥

(४) न केवलं ब्रह्मविदामृषीणां लोकान्तराबद्धदृशां सता आदिस्थलं लोकविदां कलाना-ममिज्ञलोकस्य च भारति त्वम् ॥५४॥

(४) हे भारती! तू न केवल ब्रह्मज्ञानी ऋषियोंका, न केवल लोकांतरमें दृष्टि रखनेवाले सत्पुरुषोंका ही आदिस्थल है, बल्कि तू लोकज्ञानी नाना कलाभिज्ञ लोगोंका भी आदिस्थल है ॥५४॥

(५) न केवलं पूर्वयुगेषु पश्चा-दपि प्रभावोज्ज्वलशीलवृत्ताः । तदा तदा रूढबलास्तवाख्यां प्रख्यातिमारादनयंस्तनूजाः ॥५५॥

(५) न केवल प्राचीन युगोंमें, बल्कि बादके युगोंमें भी समय-समयपर प्रभावसे प्रोज्वल शीलवृत्तिवाले, प्रौढ़ बलवाले तेरे संतानोंने दूर-दूरतक तेरी ख्याति फैलायी ॥५५॥

(६) तथा पुराणैस्तव पुत्रवर्ग-स्त्रिवर्गपद्यास्वपि नित्यनिष्टः विद्याविभेदव्यवसायधीरे-राविष्कृतं भारति वैभवं ते ॥५६।।

(६) इसी तरह, हे भारती! त्रिवर्ग (धर्म, अर्थ, काम) में ध्रुव-निष्ठ और विविध-विद्या-व्यवसायमें धीर तेरे प्राचीन पुत्रोंके द्वारा तेरा वैभव आविष्कृत हुआ॥५६॥

(७) दुष्टं च यत् स्वीकरणाक्षम वा यद् दैवयोगाद् घटितं पूराऽभूत् । निराकृतं तत् तव देवि शक्त्या मांसार्बुद शस्त्रचिकित्सयेव ॥५७॥

(७) प्राचीन कालमें दैव-दुर्योगद्वारा जो कुछ दूषित घटित हुआ और जो स्वीकार करने योग्य नहीं था, उसे तूने, हे देवि ! उसी तरह त्याग दिया जैसे शस्त्रचिकित्साके द्वारा अतिरिक्त मांस काटकर फेंक दिया जाता है ॥५७॥

(८) वज्यं न यत् त्यागसहं च नासीत् यदात्मसात्कारसहं च वृत्तम् । अङ्गीकृतं तत्तु बलस्य भूम्ना पोषाय बल्यं सुरुचोव भुक्तम् ॥५८॥

(८) और जो कुछ वर्ण्य नहीं था, जिसे त्याग करना संभव नहीं था, जो आत्मसात् किया जा सकता था, उसे तूने अपने बलाधिक्यके द्वारा उसी तरह अंगीभूत कर लिया जिस तरह पोषणके लिये बल-दायक, रुचिपूर्ण आहारको ग्रहण किया जाता है ॥५८॥

(९) यल्लोकयात्रास्वनुपेक्षणीयं लक्ष्यं नराणां शुभजीवनस्य । कलाभिनिष्पाद्यफलस्य तस्य त्वं भारती संभवभूमिरासीः ॥५९॥

(९) जो लोकयात्राके लिये उपेक्षणीय नहीं है, जो मनुष्यके शुभ जीवनका लक्ष्य है-वह लक्ष्य जिसको कलाके द्वारा निष्पन्न किया जा सकता है, उसकी जन्मभूमि, हे भारती! तू ही है ॥५९॥

(१०) अनादिकालादवधि विधूय कष्टान्यरिष्टान्यनुभूय भूयः । उद्धारणासक्तमनास्सुतानां भूमङ्गलायाध समुद्यताऽसि ॥६०॥

(१०) अनादि कालसे सब प्रकारकी सीमाका वर्जन कर, बार-बार दुःख-कष्ट, दुर्भाग्यका भोग कर आज तू अपने पुत्रोंका उद्धार करनेकी इच्छाके साथ भूमंडलके मंगलके लिये उठ खड़ी हुई है ॥६०॥

(११) गङ्गा वराङ्गादिव देवि शम्भो-रम्भोजबन्धोरिव मानुमाला। प्रभा पवित्रा तव सत्यधारा निरन्तरा भारति भाति नित्या ॥६१॥

(११) हे देवि! शंभुके श्रेष्ठ अंग (मस्तक) से निकलनेवाली गंगाकी तरह और कमलबंधु (सूर्य) की किरणमालाकी तरह, हे भारती, तेरी सत्यधारा और पवित्र प्रभा नित्य-निरंतर प्रकाशित होती है ॥६१॥

(१२) अस्तूपरोधो भवतूपराग-स्तव श्रियां सन्ततभासनस्य । तथापि ते भारति नित्यसिद्धः प्रकाशतामेति पुनः प्रभावः ॥६२॥

(१२) तेरी श्रीके निरंतर प्रज्वलित होनेमें कोई बाधा उपस्थित हो अथवा उसपर ग्रहण लगे, तो भी हे भारती! तेरा नित्यसिद्ध प्रभाव बार-बार प्रकाशित होता है ॥६२॥

(१३) अनन्यसामान्यमदनसत्त्वं विचित्रमेतचिरजीवित ते। युगाद् युगं यात्यपि कालचके चक्रे जरा यन्न पदं तवार्थे ॥६॥

(१३) तेरा चिरजीवन असामान्य है, भूरि-सत्त्व है, विचित्र है क्योंकि कालचक्र यद्यपि एक युगसे दूसरे युगमें चला करता है, फिर भी तेरे ऊपर वह जरा भी अपना पदचिह्न नहीं छोड़ता ॥६३॥

(१४) आयुर्द्रदिष्ठं तव नव्यसारं स्वार्थभोगैकरतप्रविद्धम् । लोकस्य यत् त्वं निखिलस्य योग-क्षेमाय धामातुलमाबिमर्षि ॥६४॥

(१४) तेरी आयु दृढ़तम और नव्यसार (सतत नूतन शक्तिसे भरपूर) है और मात्र स्वार्थभोगसे आहत नहीं है; क्योंकि तू निखिल जगत्के योगक्षेमके लिये अतुल प्रभाव धारण करती है ॥६४।।

(१५) नानागुणानां जनताभिदानां अखण्डभूमण्डलभूषणानाम् । तत्तद्विशेषानुगुणेन सारान् सगृह्य संमानसि त्वमार्या ॥६५॥

(१५) हे आयें ! तू नाना गुणवाली और अखंड भूमंडलका भूषण- रूपी विभिन्न जनताके सार-स्वरूप मनुष्योंको उनके विशेष-विशेष गुणों-के अनुसार संग्रह कर उनका सम्मान करती है ॥६५॥

(१६) सञ्चित्य सञ्चित्य पुरोपभोगान् संस्कारभूयिष्ठबलाऽसि जाता। बहुप्रमेदस्य मनुष्यजात-स्यादर्श एकोऽसि निदर्शनाय ॥६६॥

(१६) अतीत कालके अनुभवोंका संचय करते-करते तू बहुत अधिक संस्कारबलसे सम्पन्न हो गयी है। नाना भेदोंसे युक्त मनुष्यजातिके निदर्शनके लिये तू एक आदर्श (दर्पण) बन गयी है ॥६६॥

(१७) आत्मार्थधर्मे बहुधा नराणां स्वभावचेष्टारुचिभिर्विभिन्ने। व्यस्तं समस्तं च तमात्मनि त्वं धत्से यथासारमसारवर्जम् ॥६॥

(१७) मनुष्योंकी स्वभावगत चेष्टा और रुचिके कारण बहुधा-विभक्त जो उनका आत्मार्थ जीवनका धर्म है, उसको तू अपने अंदर पृथक्-पृथक् और एक साथ यथासार-लेशमात्र भी सार-तत्त्वको छोड़े बिना-धारण करती है॥६७।। (१८) नास्तिक्यनिन्दास्पदशाक्यसिंह-धर्मेऽपि सत्यं हितमाददाना । आस्तिक्यचित्तस्य विचारपौत-स्यावासमूस्त्वं भुवने विभासि ॥६॥

(१८) नास्तिक्य-निंदास्पद (नास्तिकता कहकर जिसकी निंदा की जा सके) शाक्यसिंह (बुद्ध) के धर्म से भी सत्य और हित (शुभ) का आहरण कर तू विचार-शोधित आस्तिक्यचित्त (आस्तिक बुद्धि) की आवास-भूमिके रूपमें भुवनमें प्रकाशित है॥६८॥

(१९) कालेन मालिन्यमिते पवित्रे धर्म पुराधर्मविदामृषीणाम् । कर्मच्छलाद् भारतधर्मवृक्षं वृक्षादनी काचिदधिप्ररूढा ॥६९॥

(१९) प्राचीन धर्मवेत्ता ऋषियोंका पवित्र धर्म जब कालक्रमसे मलिन हुआ तब कर्मके नाममें भारत-धर्म-रूपी वृक्षपर एक प्रकारकी वृक्षभोजी लता (आकाश-वेलि) आरूढ़ हुई ॥६९।।

(२०) दण्डेन दंशानपसारयिष्यन् गामेव निम्नन्निव धर्मवीरः । कर्माभिभूतं परमार्षधर्म मर्मस्वहन् कमविशोधनार्थी ॥७०॥

(२०) जैसे कोई धर्मवीर गायका दंशन करनेवाले कीड़ेको हटाने-के लिये लाठीसे गायको ही मारे, वैसे ही कर्मसंशोधकोंने कर्माभिभूत परम आर्ष-धर्मके मर्मस्थानमें चोट पहुंचायी ॥७०॥

(२१) कारुण्यमूर्तिः कमनीयवृत्तै-र्जातस्सुतस्ते नरलोकरत्नम् । शून्योपदेशेऽपि दिशंश्च धर्म योऽसौ वितेने धवलं यशस्ते ॥७१॥

(२१) तेरा करुणामूर्ति पुत्र अपने रमणीय आचरणके कारण मनुष्यलोकका रत्न बन गया, जिसने शून्यका उपदेश देनेपर भी धर्म-का निर्देश करके तेरे धवल यशका विस्तार किया ॥७१॥

(२२) अन्धां विभिन्नां तिमिरेषु पश्य-नासेतुशीताचलमात्मभासा । यो भासयन् भारतभूमिमेकां चचार बालोऽपि स ते विलासः ॥७२॥

(२२) जिन बालक (शंकराचार्य) ने देशको आसेतुहिमाचल अंधकारसे अंध, विभक्त देखकर आत्मज्योतिके द्वारा अखंड भारतभूमिके रूपमें उद्भासित किया, वह तेरे ही विलास थे॥७२॥

(२३) प्रेमातिरेकादुदितस्य भूमा भावस्य निर्द्वन्द्वसहस्य गम्यम् । न्यदर्शयद् यः पुरुषं पुराण आत्मन्यसावम्ब तव प्रसादः ॥७३॥

(२३) जिन्होंने प्रेमातिरिक्तसे उदित और निद्वंद्वसह (जो द्वंद्व-भाव सहन न कर सके) भावाधिक्यसे प्राप्य पुराण-पुरुषको अपने अंदर प्रकाशित करके दिखा दिया, वह (चैतन्य महाप्रभु) हे मां! तेरे ही प्रसाद थे॥७३॥

(२४) अन्यैरमूदृग्भिरनर्घवृत्तै-रलोकसामान्यबलेन वितैः। सर्वषा संस्कृतिराहिता ते पुत्रेषु चेदम्ब किमत्र चित्रम् ॥७४॥

(२४) यदि ऐसे-ऐसे अमूल्य जीवनवाले, असाधारण बलके लिये प्रसिद्ध अन्यान्य पुरुषोंने तेरे संतानोंको सर्वतोमुखी संस्कार प्रदान किया तो इसमें भला क्या आश्चर्य है ? ॥ ७४॥

(२५) अध्यात्मसम्पत्तिमतां महद्भि-महाविभूतिप्रभवैः समृद्धाम्। खामम्ब कल्याणपरम्परार्थः सतामुपास्ते समयोऽद्य भव्यः ॥७५ ॥

(२५) अध्यात्मसंपत्तिवाले पुरुषोंमें महत् तथा महाविभूतिसंजात पुरुषोंसे समृद्ध तेरे लिये, हे मां! सत्पुरुषोंके कल्याणपरम्परार्थ आज भव्य समय प्रतीक्षा कर रहा है ॥७५।।

(मन्दाक्रान्ता)

(१) तस्मादस्मास्वमरजनतासत्त्वमाधत्स्व किञ्चित् सनद्धानां धुरि वयममी येन यामस्तवाथै । मातर्भूरि प्रथितमकरोत् पुत्रवर्गः पुरा चेद् भूयः श्लाध्यं भवति विपुल भावि कर्तव्यशेषम् ॥७६ ॥

(१) अतः हे मां! किंचित् अमरवृंदका सत्त्व हमारे अंदर डाल दे जिससे हम तेरे कार्यके लिये सद्ध पुरुषोंकी धुरी बन सकें। यदि तेरे संतानोंने पुराकालमें पर्याप्त प्रसिद्ध कार्य किया तो आज उससे भी कहीं अधिक प्रशंसनीय कर्म करना बाकी है ॥७६।।

(२) यद्यप्यम्ब त्वमसि तमसा हन्त्रि की तथापि त्वज्जातानामयि कृतधियां त्वं हि नः कारयित्री। मानुष्यं ते यदपि सकलं साध्वपत्यं समान किञ्चित् तत्राप्ययति गुरुतां भारतीयात्मजातम् ॥७॥

(२) हे मां! हे तमोहंत्री ! यद्यपि तू स्वयं कार्य करनेवाली है तथापि तू अपने बुद्धिसंस्कारसंपन्न हम पुत्रोंसे कार्य कराती भी है। यद्यपि सभी मनुष्य एक समान तेरे ही सत् संतान हैं तथापि तेरे भारतीय आत्मज सबसे कुछ विशिष्ट हैं ॥७७।।

(३) क्षोणीमेवं भरतनरपत्यहितामर्चनीया-मर्चामधेहतममृतमप्यत्र भात्येव गोप्यम् । कश्चिद् ब्रूयात् किमपि विबुधमन्य इत्थं सहासं को वा मृत्वां भजति पृथिवीं दैवबुद्ध्येति धीमान् ॥७८॥

(३) भरत राजाके नामसे अंकिता और पूजनीया इस भूमिको यदि हम इस प्रकार पूजा करते हैं तो इसमें कुछ रहस्यपूर्ण शाश्वत सत्य है। कोई-कोई तथाकथित बुद्धिमान हंसते हुए इस प्रकार कह सकते हैं कि भला कोई भी बुद्धिमान मनुष्य मृत्तिकामयी पृथ्वीको दैव-बुद्धिसे कैसे पूज सकता है।॥७८॥

(४) पृथ्वी बुद्धर्जडपरिचयात् सम्प्रतीता जडा चे-दन्तर्विद्वानपि जड इति प्रोच्यतां मर्त्यलोकः । चक्षुह्यं यदिह बिभृयात् कुचिद्वा जडत्वं वैचित्री सा जगदुपगता चिद्विकासक्रमस्य ॥७९॥

(४) बुद्धिका जड़से परिचय होनेके कारण यदि पृथ्वी जड़ प्रतीत होती है तो फिर अंतश्चेतन मनुष्यको भी जड़ ही कहें। आंखसे दिखायी देनेवाली कोई भी चीज यदि जड़त्व वहन करती है तो यह वास्तवमें जगत्में होनेवाले चैतन्यके क्रमविकासका ही एक वैचित्र्य है ॥७९॥

(५) एकं प्राज्ञ प्रथममपि तन्मध्यमन्तं निरन्तं नैकं सर्व भवति च पुनर्द्वन्द्वमद्वन्द्वभूतम् । लीनं कापि प्रकटमपि वा सर्वभावस्वतन्त्रं सर्वोन्माथे सकलजननेऽप्येतदात्मावलम्बम् ॥८०॥

(५) एक प्राज्ञ (प्रज्ञासम्पन्न वस्तु) है; वह आदि, मध्य और अंत है, पर फिर भी अंतहीन है। एक नहीं है, सब कुछ हुआ है; फिर वह द्वन्द-अद्वन्द भी है। वह कहीं गुप्त है अथवा प्रकट है, सब भावोंमें स्वतंत्र है। सबके नाशमें, सबकी उत्पत्तिमें भी वह स्वावलंबी है।८०॥

(६) ब्रूमः सत्यं गहनगहनं सर्वतोव्याप्तमुच्च शून्याभासं किमपि न घनं नाघनं वा न चान्धम् । नासीत् सोमो न च दिनकरोज्योतिषां वा न चक्र नेयं यत्र क्षितिरपि पुनः का कथा मानुषाणाम् ॥८॥

(६) हम सत्य कहते हैं-वह गहनातिगहन है, सर्वत्र व्याप्त है, उच्च है, शून्यसा प्रतीत होता है, कुछ ऐसी चीज है जो न धन है न अघन है, और न अंधा है। वहां न चंद्र है न सूर्य है और न नक्षत्र-मंडल है, यह पृथ्वी भी नहीं है, फिर मनुष्योंकी तो बात ही क्या ? ॥८१॥

(७) लेशस्पन्दः किमपि विवरं स्धयामास यत्र व्याक्षेपोत्थं भुवनक्तितेरन्तरं तच्च वृत्तम् । अम्भो नित्यं निखिलजगतामक्षयं तन्निधानं विज्ञाः पाहुविधुततिमिरैलोंचनैलोकयन्तः ॥८२॥

(७) वहां एक क्षीण स्पंदन हुआ और उससे एक रंध्र उत्पन्न हुआ। विक्षोभसे उत्पन्न वह रंध्र भुवनके विस्तारके लिये अवकाश बन गया। अंधकारविरहित नेत्रोंसे देखनेवाले विज्ञ पुरुष उसे निखिल जगत्का अक्षय निधान, नित्य अम्भस् (जल) कहते हैं ॥८२॥

(८) दुरादुबैरमृतविभवान्निश्चलादम्बुराशे-रम्मोचिन्दुर्विवरवलयस्याकमे सम्प्रवृत्तः। यस्मादस्मिन्नखिलभुवनस्येमभावकाशे ब्रह्माण्डानां द्रुतगतिभवं मण्डलं निर्जगाम ॥८३॥

(८) दूरसे, ऊर्ध्वसे, अमृतवैभववाली निश्चल अम्बुराशिसे आ-कर एक जलबिंदु उस विवरमंडलको आक्रांत करने लगा और उस बिंदु-से निखिल भुवनकी स्थिति और विनाशके अवकाशमें द्रुतगतिसे उत्पन्न होनेवाला ब्रह्मांडमंडल निकलने लगा ॥८३॥

(९) यत्रैकोऽसौ तरणिरणुवत् सग्रहो नित्यचारी यो दृश्याण्डे प्रतिनिधिरभूत् पुष्करस्य प्रभासः । यस्य क्रान्तेभ्रमपरिगता निर्धता भूतधात्रो धत्ते कुक्षौ मह इह निजे नित्यसुप्तेव गुप्तम् ॥८४॥

(९) यह ग्रहसहित नित्यचारी सूर्य वहां एक अणुके समान है और यह इस दृश्य ब्रह्मांडमें प्रविष्ट ज्योतिवाले महाकाशका प्रतिनिधि है। उसके भ्रमणके कारण यह नित्य-सुप्ता-जैसी भूतधात्री (पृथ्वी) प्रक्षिप्त और भ्रमाक्रांत हुई, जो अपने कुक्षमें गुप्त रूपसे ज्योति धारण करती है।।८४॥

(१०) क्षिप्तामारात् तमसि पतितां विश्वगर्भादनन्तात् पृथ्वीमेतां जडतनुमपि प्रश्वसन्तीं भ्रमन्तीम् । अन्तर्वनीममृतऋतचिन्मोदसद्भावसारै-साधारैरनुगतवतो कापि धात्रो विधात्री ॥८५ ॥

(१०) विश्वगर्भ अनन्तसे, दूरसे फेंकी हुई, अंधकारमें गिरी हुई, जड़तनु होनेपर भी श्वास-प्रश्वास लेनेवाली, भ्रमण करनेवाली, ऊर्ध्व आधारवाले सत्, चित्, ऋत, अमृत और आनंदके सारको गर्भमें धारण करनेवाली इस पृथ्वीका एक धात्री-विधात्रीने अनुगमन किया ॥८५॥

(११) सा चित् काचित् कथमपि बहिलोकचकादवका स्वाधिष्ठानात् परमनमसः प्रस्थिता निश्चितार्था । छायेवैनामनु वसुमती नित्यनिर्णिदरक्षा यात्वा शिक्षामधित समये स्वापबोधेऽविबाधम् ॥८६॥

(११) वह, कोई चैतन्यमयी सत्ता, किसी तरह बाह्य लोकचक्र-के बाहरसे, सीधे अपने धाम परम आकाशसे निश्चित उद्देश्यके साथ आयी। इस जड़शरीरवाली वसुमतीका छायाकी तरह अनुगमन करने-वाली, उसकी नित्य अनिद्र रक्षा करनेवाली उस सत्ताने यथासमय बिना किसी उद्वेगके उसे स्वापबोध (जागरण) की शिक्षा दी ॥८६॥

(१२) उवैर्धामो भुवनविततेर्मण्डलात् सा परस्ता-श्रीचैः प्राप्ता जडजगदिदं पार्थिव पातुकामा । आवृण्वन्ती धरणिमखिलां धारयन्तो समन्ता-दन्तः स्वस्थामकृत सरसां भूतसर्ग प्रविष्टा ॥८७॥

(१२) वह इस पार्थिव जड जगत्की रक्षा करनेकी कामना-से विश्वके विस्तारमंडलके परे उच्च धामसे नीचे आयी और उसने अखिल धरणीको आवृत करके, चारों ओरसे धारण करके और भूत-सृष्टिमें प्रवेश करके उसे भीतरमें स्वस्थ और सरस बनाया॥८७।।

(१३) तत्राप्यन्तहृदयमभवत् सैव गोलस्य भूमे-यंत्र प्रोतं प्रबलमसुचिन्मोदसत्त्वं समस्तम् । या सर्वस्य क्रमविधिवशात् तेजसा स्वेन गुप्तं पाकं धत्ते फलति च यतः प्राणबुद्ध्यादिरूपम् ।।८८॥

(१३) वह इस भूमंडलके अंदर हृदय बनी जिसमें प्रबल सत्, चित्, आनंद और प्राण सब-के-सब ओतप्रोत हैं। वह अपने निजी तेजसे क्रम और विधिके अनुसार सबका परिपाक करती है और उससे प्राण, बुद्धि आदि फल प्राप्त होते हैं ॥८८॥

(१४) तैलं लीन निरयति तिलात् साधु संमदनोत्थं वह्निः सुप्तो ज्वलति च शमीगर्भजो घर्षणेन । पक्का भूमिर्गुणबलवतोस्सम्पदश्चेतनानां माहाभाम्याद्विसजतितरामास्तराणां क्रमेण ॥८९॥

(१४) तिलमें छिपा हुआ तेल अच्छी तरह मर्दन करनेसे निकलता है; शमीगर्भमें सुप्त अग्नि घर्षणसे जलती है। परिपक्व भूमि भी बड़े-बड़े अंशोंसे चेतनाकी गुणबलवाली संपदाओंके एक-एक तह प्रकट करती है।।८९॥

(१५) कल्याणानां निविरधिभुवे सर्वदेवात्मभासा-नित्या निखिलधरणेद्लमाधारधात्री। तेजोबत्रैजनयति वचोजीवनस्वान्तगर्भ-मयं रूपं परिणतफलाऽमय॑सारं दधाना ॥९०॥

(१५) वह पृथ्वीपर कल्याणोंकी निधि और सब देवताओंकी ज्योतिकी माला है। वह नित्या, निखिल धरणीके मूल और आधार-को धारण करनेवाली है। अमर्त्यसारको धारण करनेवाली, परिणत-फला वह माता वाक्, प्राण और मनको गर्भमें धारण करनेवाले तेज, अप और अन्नसे मानव-रूपका सृजन करती है ॥९०॥

(१६) नग्ना मग्ना जगति जडिते वर्मणा स्वेन धान्ना निःश्वासेन लथयति जडं सारमुद्धर्तुकामा । व्याप्ताप्यन्तर्बहिरपि भुवं स्वीयमाधारचक्र बिमाणेयं भरतधरणावत्र कृत्यानि धत्ते ॥९१॥

(१६) वह अपने तेजोमय नग्न शरीरसे इस जड़ीभूत जगत्में डूब जाती है और सारतत्त्वका उद्धार करनेके लिये अपने निःश्वासके द्वारा जड़को ढीला बना देती है। वह इस भूमिके भीतर और बाहर व्याप्त होनेपर भी अपने आधारचक्रको कायम रखती हुई इस भरत-भूमिमें अपने कार्य करती है ॥९१॥

(१७) रूपं यस्यास्त्रिदशवपुषः संहतं ज्योतिरीड्यं साधु व्यक्तं धरणिभुवनस्यात्मभूतं प्रभूतम् । दृश्यं व्याप्तं जडमपि यया भूजगद् धार्यमाणं सा नो माता जयति भरतक्षोणिरक्षामधामा ॥९२॥

(१७) जिसकी दिव्य शरीर-रूपी, महत्, स्तुत्य और संहत ज्योति अच्छी तरह व्यक्त होकर भूमंडलका आत्मा बनी, जो दृश्य जड़ जगत्-में भी व्याप्त होकर उसे धारण करती है, उस हमारी अक्षय तेजवाली भारत माताकी जय हो॥९२॥

(१८) यस्याः शुभ्रज्वलनकलया भारतीयान्तरात्मा व्यक्तीभूय प्रचुरजनताधारमूलं बिभर्ति । यस्यास्सत्त्वं हृदयसुगमं प्राप्य धीरा ध्रियन्ते सा नो माता जयति भरतक्षोणिरक्षामधामा ॥९३॥

(१८) जिसकी शुभ्र ज्वालाके अंशसे भारतभूमिकी अंतरात्मा व्यक्त होकर प्रचुर जनताका आधार बनती है, जिसके हृदयद्वारा ग्राह्य सत्त्वको प्राप्त होकर धीर पुरुष जीवन धारण करते हैं, उस हमारी अक्षय तेजवाली भारत माताकी जय हो॥९३॥

(१९) यस्याश्चित्तश्वसितलवतो मानवो लब्धजीवः क्रीडापात्रं लसति समये नाकिनां भूविलासे । यस्याः संविद् भवति जनिभूर्भुजुषां चेतनानां सा नो माता जयति भरतक्षोणिरक्षामधामा ॥९४॥

(१९) जिसके चैतन्य-श्वासके लेशमात्रसे लब्धजीव मनुष्य देव-ताओंके भूमि-विलासके समय उनका क्रीडा-पात्र बनता है। जिसके संविद्से भूलोकमें चेतन प्राणी उत्पन्न होते हैं, उप्त हमारी अक्षय तेज-वाली भारत माताकी जय हो ॥१४॥

(२०) ज्योतिर्वीचिप्रथनपटुना प्राणवेगेन यस्याः प्रादुर्भावो जगति घटते जन्मिनां बुद्धिमाजाम् । अन्तर्यस्यामखिलजनिमद्वम॑णां वा समष्टिः सा नो माता जयति भरतक्षोणिरक्षामधामा ॥९५ ॥

(२०) ज्योतितरंग फैलानेमें पटु जिसके प्राणावेगसे जगत्में बुद्धि-मान मनुष्योंका प्रादुर्भाव होता है; जिसके अंदर सब शरीरधारियोंकी समष्टि विद्यमान है, उस हमारी अक्षय तेजवाली भारत माताकी जय हो ॥१५॥

(२१) यामाश्रित्य प्रकृतिमवनिर्भूतसर्गस्य धत्ते या भूतानामघनकरणैः कर्मणां चोदयित्री । अर्थे यस्याः श्वसिति च विदन् मर्त्यलोकोऽविदन् वा सा नो माता जयति भरतक्षोणिरक्षामधामा ॥१६॥

(२९) जिसका आश्रय करके पृथ्वी भूतसृष्टिकी प्रकृतिको धारण करती है, जो सूक्ष्म करणके द्वारा भूतमात्रके कर्मोकी प्रेरणा देती है, जिसके लिये मनुष्यलोक जानमे या अनजानमें जीवन धारण करता है, उस हमारी अक्षय तेजवाली भारत माताकी जय हो ॥१६॥

(२२) ज्योतिर्व्यक्तं वपुरिह बहिश्चतसां दुर्गमं तत् प्राणैरन्तःकरणसचिवैः प्राप्यमन्तर्मुखानाम् । यत्सायुज्यादमरविभवान् मानवो याति यस्याः सा नो माता जयति भरतक्षोणिरक्षामधामा ॥९७॥

(२२) जिसका व्यक्त ज्योति-शरीर बहिर्मुखी मनवाले मनुष्यके लिये दुर्बोध है और अंतर्मुखी मनुष्यके लिये अंतःकरणसहित प्राणके द्वारा प्राप्य है तथा जिसके साथ सायुज्य प्राप्त कर मनुष्य देवताओंके ऐश्वर्यको प्राप्त करता है, उस हमारी अक्षय तेजवाली भारत माता-की जय हो ॥९७॥

(२३) भूमावस्यां मनुजदनुजैरर्दितायामुदास्या दास्याद् दीनं नरकुलमसल्लोकतो मोचयित्री। धोरलाध्यं धवलयशसं बिभ्रती पुत्रवर्ग सेयं माता जयति भरतक्षोणिरक्षामधामा ॥९८॥

(२३) जो इस भूमिके मनुष्य-रूपी दानवोंसे पीड़ित होनेपर सिर ऊंचा रखती है, जो दीन मनुष्योंको असत् लोगोंकी दासतासे मुक्त करती है और धीरोद्वारा प्रशंसनीय धवल यशवाले पुत्रोंका भरण करती है, उस हमारी अक्षय तेजवाली भारत माताकी जय हो॥९८॥

(२४) स्थान भौम विबुधजनताभोग्यमाधिसमानाः शक्तोदिव्यास्सुरभुवनतः संमिलन्तीधरन्ती । दैवप्रेप्साज्वलितहृदयैर्मानुपैयक्तसारा सेयं माता जयति भरतक्षोणिरक्षामधामा ॥९९॥

(२४) इस पृथ्वीको देववृंदके लिये योग्य बनानेकी कामना रखने-वाली और सुरलोकसे आकर यहां मिलनेवाली दिव्य शक्तियोंको जो धारण करती है तथा दैवप्रेप्सा (भगवान्को प्राप्त करनेकी अभीप्सा) से प्रज्वलित हृदयवाले मनुष्योंके अंदर जिसका सारतत्त्व व्यक्त होता है, उस हमारी अक्षय तेजवाली भारत माताकी जय हो ॥९९॥

(२५) तेजोमूर्ति सकलजगतीक्षेमभार वहन्ती-मप्यम्ब त्वां भरतधरणेरन्तरात्मेति विद्मः । याचामस्त्वां तदिति जननीमुज्ज्वलस्ते प्रसादः सर्वाङ्गनः समुदयभरः सम्पदामाविरस्तु ॥१००॥

(२५) यद्यपि तू समस्त जगत्का क्षेमभार वहन करनेवाली तेजो-मूर्ति है, तथापि हम जानते हैं कि तू भारतभूमिकी अंतरात्मा है। अतएव हम तुझ जननीसे यह याचना करते हैं कि समस्त संपदाओंसे भरा हुआ तेरा उज्वल प्रसाद हमारे सारे अंगोंके द्वारा आविर्भूत हो॥१००॥

इति
श्रीमहर्षिरमणभगवत्पादानुध्यातश्रीभगवद्वासिष्ठगणपतिमुनिप्रवरान्तेवासिनः, पूर्णयोगाचार्यश्रीमदरविन्दभगवत्पादानुध्यातस्य, भारद्वाजस्य विश्वेश्वरसूनोः कपालिनः कृतिः
भारतीस्तवः समाप्तः।

PRAYERS

Read now >>


श्रीमातृमुक्तावली




मुखबन्धः

आ बहुवत्सरेभ्यः अद्यावधि प्रत्यब्दं अब्दारम्भ यावदब्द मुपयोगायास्माकं मार्गदर्शनार्थिका वाणी कापि श्री-मातृमुखान्निर्गता। सा च काचित् प्रार्थना, उपलब्धिलक्ष्यः कोऽपि भावः, कोऽपि सङ्कल्पो भवति । इमाश्च वार्षिक्यः श्रीमातृवाचः अत्र सङ्कलिता हृदयग्राहिण्यो विस्मयमावहन्ति, यदद्य गतेषु पञ्चदशस्वब्देषु यानि लोकवृत्तानि घटितानि तेषु मानुप्यकस्य अन्तःकरणविजृम्भणं प्रकाशयन्त्येताः, अतश्च तस्येतिहास-लेखायन्ते ।

स्तोकग्रन्थेऽस्मिन् , अन्ते भजनपद्यादिकं स्तोत्रकदम्बकं वर्जयित्वा सर्वाणि पद्यानि श्रीमातृवागनुवादात्मकानि भवन्ति । अतः ’श्रीमातृमुक्तावली’ इति नाम भजतेऽयं ग्रन्थः।

श्रीअरविन्दाश्रमः ति. वि. कपालिशास्त्री क्री. श. २५-९-४७.

बालानां प्रार्थना

अद्य न केवल मायतिशस्ते भव्यगते समयेऽपि समस्ते । मातर्मधुमति केवल मेते सर्वे पोताः स्याम वयं ते॥

प्रार्थना

अक्टोबर २३, १९३७

विजयस्व दधन्नाथ विघातानां पराजयम् ।
कार्यस्य ते विघाताय मा भूदस्मासु किञ्चन ।
मा भूद् विलम्बनं किञ्चित् प्रादुर्भावस्य वा तव ।।

अपि सर्वेषु कालेषु तथा सर्वेषु वस्तुषु ।
भूयात् कृतार्थों भगवान् सङ्कल्पो जित्वरस्तव ॥

आदेहसूक्ष्मकुहरं आ समुत्तुङ्गभागतः ।
अस्मदंशेषु सर्वेषु सर्वास्वस्मत्प्रवृत्तिषु ।
इच्छा ते पूरिता स्यादित्यास्महे सन्निधौ तव ।

वतॆमहि समासक्ताः कृत्लशो नित्यशस्त्वयि ।
अनन्यवशगाः स्याम त्वत्प्रभावैकवर्तिनः ॥
परमादरमत्यन्तं कृतविज्ञतया त्वयि ।
वर्तित विस्मृतिर्मा भू दस्माकं भोः कदाचन ॥

अद्भुताननुगृह्णासि यानर्थान् नः क्षणे क्षणे ।
कदापि मा वृथा कार्म तान् वयं भगवन् विभो ।
कार्य ते सर्वमस्मासु सहकारि त्वयाऽस्तु भोः ।
अस्तु सर्वं च सन्नद्धं साक्षात्कारकृते च ते ॥
वरेण्य सिद्धिकृन्नाथ विजयस्व जयोऽस्तु ते ।
अनन्यवृत्तिमक्षोभ्या मुज्ज्वलां व्यवसायिनीम् ।
प्रतिपादय तां श्रद्धा मस्मभ्यं विजये तव ।।

उपयोगाय युक्तानां दैवसेवाभिलाषिणाम् ।
निरर्गलं निर्गताना हार्दानां प्रार्थनात्मनाम् ।।
सत्यार्थमन्त्रवपुषां गिरां मातुर्महौजसाम् ।
वाण्या जयतु गैर्वाण्या मवतारोऽयमर्थवान् ।।

१९३३

अस्तु जन्म नवाब्दस्य नवं जन्मापि न श्चितेः। मुक्त्वा दूरं गतं याम भावि सत्वरमुज्ज्वलम् ॥

१९३४

वर्षों गच्छति नाथ त्वां कृतज्ञा धीनता च नः । पुन विभो भवत्यब्द स्त्वां प्रति प्रार्थना च नः । प्रभो भवतु सोऽस्माकं नव-जीवन-जन्मने ॥

१९३५

अनृतं कृत्रिम सर्व कपटं च विडम्बनम् । अस्मिन् सायन्तने तुभ्यं भगवन्नर्पयामहे ।। अस्तं गच्छतु तत् सर्व वर्षण सह गच्छता ॥
अवक्रमृजु यत् सत्यं अमिश्रं शुचि केवलम् । अस्मात् संवत्सरारम्भात् तत् सर्व ध्रियतां विभो ॥

१९३६

अयं संवत्सरो नाथ जयसंवत्सरोऽस्तु ते । यया तदर्हा भोः स्याम तां भक्ति प्रार्थयामहे ।।

१९३७

विजयस्व विभो बिभ्रद् विघातानां पराजयम् । त्वत्कार्यप्रतिबन्धाय मा भूदस्मासु किञ्चन ॥

१९३८

सर्वमस्मासु सन्नद्धं साक्षात्काराय तेऽस्तु भोः । वरेण्य सिद्धिकृत् तुभ्यं वर्षादौ प्रणता वयम् ।।

१९३९

अयं संवत्सरोऽस्माकं भविता परिशुद्धये । अनुत्तमात् पारिशुद्ध्या दधिकारादहंधियः । विमुक्तये प्रार्थयन्ते ते सबै त्वां जगत्प्रभो । देवकार्ये निजं भाग ये भजन्तेऽधुना मुवि ।।

१९४०

प्रतिसन्धानवर्षोऽयं वर्षों मौनभरः प्रमो। तव प्रसादे नः सर्व माधारं प्रामुयाम भोः ॥

१९४१

प्रत्यर्थिनीना शक्तीना मदैवीनां प्रयोगतः । अध्यात्मजीवनकृते युध्यते तर्जितं जगत् ।। प्रभावस्ते प्रकाशः स्यादिति नाथ महीतले । तिष्ठेमेत्यभिकाङ्क्षामो वयं ते वीरकिङ्कराः ॥

१९४२

विजयोऽस्तु जगन्नाथ विजेत रखिलद्विषाम् । भागं तव जये धातुं बलं भर्तु प्रदेहि नः ॥

१९४३

उभयोः पक्षयो रेक-तरस्यामूलनिर्णयम् । कार्यस्य वरणस्यायं समयः समुपागतः ॥
उदेतुं भवतः सत्ये समुज्झित्यानृतं प्रभो । बलं नो देहि भगवन् जयार्हाः स्याम निर्मलाः ॥

१९४४

तेष्वेव पूर्वमौढ्येषु सर्वदा पतनं निजम् । वार्यतामिति लोकोऽयं नाथ त्वा मनुनाथति ॥
ये दोषाः प्रतिपन्नास्ते यथा न स्यु नवीकृताः । तथा विधेहि भगवन्नन्ते चेदं विधेहि भोः ।।
उच्चैरुत्कीर्तितानां तदादर्शानां यथातथम् । ऋजु निष्कर्षण स्पष्टं भवत्वाचारसाधितम् ॥

१९४५

स्वीयेषु सर्वदेशीय-वर्तनेष्वपि सत्यता । संसिद्धा भूमिलोकेऽस्मिन्नरैर्यावन्न शिक्षिता ॥
तावन्न स्थायिनी शान्ति वो भोग्या समुल्लसेत् । संसिद्धा मभिकाङ्काम स्तामेतां सत्यतां विभो ॥

१९४६

शान्ति तव न तु व्यर्थ शान्त्याभासं वृणीमहे । स्वतन्त्रतां तवैवामी वयमभ्यर्थयामहे । क्यं स्वतन्त्रताभासं जातु नाभ्यर्थयामहे । ऐक्यं त्वदीयं काङ्क्षामो नैक्याभासं कदाचन ॥

अवृतान्धबलात्कार-दम्भानां शासतां भुवम् । पराजयाय प्रभवेत् प्रभो शान्तिस्तवैव हि । स्वतन्त्रता ते भगवन्नैक्यं ते प्रभवेत् तथा ।

वव यस्य जयस्यार्थे प्रयास सङ्गराङ्गणे । सविक्रममकुर्वन् ये क्लेशानन्वभवन्नपि । जयस्य तस्य निर्व्याज-यथार्थ-फलितानि भोः । किङ्करास्ते विलोकन्तां प्रसाद भुवनप्रभो॥

१९४७

[प्रोत्साहनमिदं नेदं प्रार्थनं विनिबुध्यताम् । इह प्रोत्साहनमपि व्याख्यानमवधीयताम् ॥]

यस्मिन् क्षणे सकलमप्यभितो दुरन्ता दत्यन्तदुर्गतमितं प्रतिभाति भूयः । श्रद्धां तदैव परमां विनिबध्य दैवे नास्मान् कदापि विजहाति कृपेति बोध्यम् ॥

या उष:-प्राग्भवा होरा घोरा स्सन्तमसेन ताः। दासता च विनिमोक्ष-प्राग्वेलास्वार्तिभूयसी ॥
यत्राशाज्वलनः शश्वज्ज्वलति श्रद्धयाऽश्चिते । प्रोत्साहस्य विभङ्गाय हृदये तत्र नान्तरम् ॥

आगस्ट, १९४५

सोऽयं जयस्तव जयः समुपागतस्ते तन्नाथ वन्दनशता न्युपकल्पयामः । अस्माक मन्तरुदयोज्ज्वल-तीव्रभावां अभ्यर्थनां तु भगवन्नुररीकुरुष्व ॥

मा विस्मरन्तु विजये जयिनो यदेते शक्त्या तवैव जयिनोऽद्य तवैव शक्तेः । वाचः पुरा निरयवेदनसङ्कटेषु दत्ताश्च ते विजयिनः परिपालयन्तु ॥

अगृहन् नाम ते नाथ युद्धारम्मे जयैषिणः । कृपा ते विस्मृता मा भूद् एतैः सन्धौ चिकीर्षिते ॥

श्रीमातु वैजयन्ती

स्वरूम्- क्षेत्रमाश्वतनीलामं भवेत् तुल्यचतुर्भुजम् । तस्य मध्ये विनिक्षेप्यं द्विरावृत्तदलात्मकम् । अन्तश्चतुर्दल वृत्तं बाह्यतो द्वादशच्छदम् । पद्मं प्रफुल्लं सौवर्ण प्रमाणमथ वक्ष्यते ।।

प्रमाणम्- षट् क्षेत्रभुजमानं चेद् इच्छया गृह्यते तदा । सरोरुहव्यासमानं कुर्यात् सार्धद्वयं स्फुटम् ॥

अर्थ:-इदमध्यात्मधर्मार्थ-निर्देशख्यापनात्मनः । भारतात्मनियोगस्य केतनं ध्रुवलाञ्छनम् ॥ निर्वर्तिते नियोगेऽस्मिन् विशिष्टे भरतावनेः । निर्वर्तितं मवेदैक्यं अशेषभरतावनेः ।।

जयवादः-इयं भारतभूमातुः श्रीमातुर्जयशंसिनी । वैजयन्ती यथा गीता माता विजयतेतराम् ॥ आगस्ट १५, १९४७

भजनपद्यम्

मिरा मिराम्बिकेति वाक् सुधायते हृदन्तरे ।
शिरस्तु पादपोठिकां बिभर्तु सन्ततं परे ।।
शरीरतो गिरा हृदा नतोऽह मम्बिकां मुदा ।
भजेतरां परात्परां त्रिलोकमातरं मिराम् ॥

श्रीमातृस्तोत्रम्

धीरुच्चा बलमुद्भटं सरसता सर्वान्तरस्यन्दिनी योगक्षेमनिधिश्च सिद्धिरिह यत्-पादाम्बुजे शेरते । तामम्बा मरविन्दलोचनसुधां आधारधात्री सतां धूतान्तस्तिमिरां मिरा मतिमिरां उर्वी दधानां नुमः ॥
आवासः परमं नभस्तव वपुः सावित्र मूर्जस्वलम् ब्रह्माण्डं सकलं प्रभावकलया जातः प्रतीकोऽम्ब ते। नाकस्तत्र शिरोऽन्तरिक्षभुवनं मध्यं च मध्यं मही-लोकः पादतलं तथापि विभवात् प्रत्येकमूर्तीयसे ।।
शक्तिः कर्तु मर्तु मन्यविधया कर्तुं स्वतन्त्रापि ते वृत्ति मजडान्तरन्धतमस-प्रध्वंसनोल्लासिनी। तत्त्वं ते गहनं मिराम्ब मनुज-क्षेमाय वामायसे माहात्म्यं तव मातुमत्र यततां को वा मनोषी जनः ।।

श्रीअरविन्दस्तोत्रम्

उल्लासयन् कुवलयं धवलस्मितेन निघ्नन् तमांसि महसा तपनेक्षितेन । आगामि चित्रबहुलं कुशलं दधानः श्रीमान् विभाति भगवानरविन्दनाथः ।।

युग्मम्--दुर्दर्शसारमपि दृष्टिपथं नयन्ती वाचां विदूरमपि वाग्भुवमानयन्तीम् । शुष्कं जनुश्च रसभूरि समुन्नयन्तीम् कल्पान्तमरुपमपि वस्तु विधारयन्तीम् ।।

काञ्चिद् विचित्रविभवा मुपलालयन्तः शक्ति निरीश्वरगुणामिव चालयन्तः। दिव्यारविन्दनयनप्रभवाः सुवर्णा स्तेऽमी जयन्ति जयिनो भगवत्कटाक्षाः ॥

जयतु स भगवान् नः पूर्णभागोऽरविन्दो जयतु धवलशोभा लोकधात्री मिराम्बा। जयतु लसतु भूमा वेतयोः पूर्णयोगो जयतु तदनुगामी भाग्यवान् प्रातृवर्गः ॥

SADHANA SAMRAJYAM

p-53.jpg

Read now >>


This work of twenty-five verses in Sanskrit celebrates the Sadhana, spiritual discipline, in its sovereign sway over the seeker who has dedicated himself to the Truth of a higher life. It deals particularly with the Sadhana that is the central feature of Sri Aurobindo’s Yoga. The English translation by M. P. Pandit is also included. (First Published in 1952)

SIDELIGHTS IN SANSKRIT LITERATURE




Editor’s Note

The contents of this brochure have been compiled from among the papers of Sri Kapali Sastriar. They are mostly in the nature of drafts and notes originally meant for the use of correspondents and students of Sanskrit Literature for whom he conducted classes occasionally. Though not revised, they are here brought together for the fresh light they shed on the topics touched upon as also for the unique manner in which such a wide variety of subjects came to be treated at his hands.
M. P. Pandit

लेख एक :

नवपल्ली, २४-८-४०

आय वत्स विट्ठल, चिरञ्जीविना माधवेन ह्यस्ते पत्रमेकं प्रेषितम्। तच्च प्रतिपत्रम् अस्य पञ्चदशेऽहनि त्वया प्रेषितस्य लेखस्य। पूर्वेद्यु सीन्मम पत्र-लेखनाय काललाभः । तस्मान्नोक्तानि द्वित्राणि वचांसि यानि वक्तव्यानीति अहममंसि ॥

अवधीयतां वत्स, तदिह वक्ष्ये। यद्यस्मन्निबन्धतस्त्वयि महत्याशा समु-त्तिष्ठेत्, ईषद्विहताशो वा स्या इति बिभेमि। किञ्च, विषयगौरवाद् भाव-गौरवं भवेदिति मन्ये। परंतु यथा स्यादेव लाघवं भाषायाः, तथा सन्दर्भ-शुद्धि विधाय सरलां रीतिमाश्रित्य यथामति यतिष्ये रचयितुम्। जाने तव साधुत्वं, यदितो विनिर्गतं लघ्वपि भूरि मन्यसे ॥

यन्मया रचयितव्यास्त्रयो निबन्धास्तवोपकारकाः स्युः परीक्षावसर इत्यवोचः, तन्मे तोषकरमभूत्, विषयाश्च दत्ताः। तन्नामानि च दत्तान्याङ्गल-भाषया, यदि तान्याङ्गलनामानि संस्कृतवाचा त्वयैवानूद्य दीयेरन्, तन्मे सुतरां सन्तोषाय प्रभवेत्, रचनोत्तेजकं च भवेदिति मन्ये ॥ अस्मत्त इष्यमाणानां त्रयाणामपि निबन्धानां संस्कृतनामदाने न स्यात्ते प्रयास इति विश्वसिमि ।।

अथ पश्यसि चेत्कष्टं, यत्तस्तन्नामकरणाय भवाम्यवाहम्। प्रतीक्षे तस्मा-तव प्रतिवचनं, यत्र स्यादेकैकस्यापि निबन्धस्य विषयनामधेयम् । त्वया दास्यमानं संस्कृतनाम न चेत्समीचीनं मे प्रतिभाति, तदाऽहं संस्कृत्यैव प्रयोक्ष्ये। विदितमेव ते मदुपयोज्यः कालो न सुलभव्ययक्षम इति । तथापि द्वावत्र हेतू रचनाय अपेक्षितं कालं लम्भयिष्यतः। तत्रैक: त्वयि अकारणः समुल्लसन् मम प्रेमविशेषः, अन्यस्तु मया बाल्यात्प्रभृत्युपास्यमानायां गैर्वाण्यां निरतिशयोऽभिमानः॥

SIDELIGHTS

नवमे मास्यागामिनि निबन्ध एक: प्रेषयिष्यते, यं त्रयाणां प्रथमतस्त्वं वरिष्यसे, अवशिष्टौ द्वौ तदनन्तरागामिनि मासि ॥सर्वथा सर्वथा त्वामुपगतं स्याद्रचयिष्यमाणं निबन्धत्रयं प्रागेव तव प्रयागं प्रति प्रस्थानादित्यसंशयम् ॥ एतावतैव विरमाम्यद्य॥
इति ते प्रेयान् हितैषी भारद्वाजः कपाली

उत्तरलिखितम् २५-८-४०
पूज्यपादस्ते पितृव्यः सदारपुत्ररत्नः कुशली, एतावन्तं कालमत्रैवास्ते। इतः प्रयास्यत्यागामिनो मासस्तृतीये दिवसे। त्रिचतुरेभ्यो दिवसेभ्यः परं शिरसी प्रति यास्यति आवुत्तस्थानीयः पितृष्वसुस्ते पतिः स ते सनामा। अनामा चिरञ्जीवी बाल: कुशली। अद्य तस्य वार्षिकश्चतुर्थो जन्मदिवसः । तदर्थं तत्पितरौ अद्य सायं श्रीमातरं द्रक्ष्यतः। देव्याश्चरणावुपसंगृह्य शिव-ङ्करं तस्याः प्रसाद प्राप्स्यतः ।।

मान्या ते मातामही अत्तिका तव प्रियतरा सुन्दरी माधवस्ते प्रियबन्धुः सखा अन्ये च प्रेयांसस्ते हितैषिणः सर्वेऽत्र कुशलिनः। अलमिदानीम् । वर्धस्व वत्स, वर्धस्व भूयः॥
इति ते कपाली, प्रेमवशंवदः

वेदादिसूक्तसारः

१. आदिमाष्टकसूक्तानामादिवेदाग्रभासिनाम् । वेदगूढार्थबोधाय भाष्यमेतदुदाहृतम् ॥

२. सूक्तसारजिघृक्षूणां स्मृतिसौलभ्यसिद्धये । सूक्तक्रमानुसारेण सारांशान् संप्रचक्ष्महे ।।

३. माधुच्छन्दसमाग्नेयं मण्डलेऽस्मिन् शतचिनाम् । गायत्रं प्रथमं सूक्तं तत्रादावग्निरीड्यते ॥

४. बलदीप्तिविशिष्टाऽस्य गति. स्वाभाविकी यतः । ततोऽग्निरङ्गतेर्धातोः शब्दो निष्पाद्यते बुधैः ।।

५. अग्निरध्यष्यते देवो देवाराधनकर्मणि । होता स यज्ञे रतिभृत् स ऋत्विक् स पुरोहितः ।।

६. अध्येषणात्मिका ह्यग्नेरुपास्तिः सा चिरन्तनी। स देवान् प्रभुरावोढुमध्येष्यो नूतनैरपि ।

  1. अग्नेर्या लभ्यते सम्पत् सा यशोवीर्यभृत्तमा। लौकिकीव क्षयं नैति वर्धमाना दिने दिने ।

८. ईळितो भगवान्यज्ञम् अग्नियं परितः स्थितः । स एव देवान् प्राप्नोति रक्षोभ्यः पथि रक्षितः ।।

९. यजमानात् समुद्भूय स्वर्लोकं स प्रतिष्ठते। दिवोऽध्वानं यतो राति ततोऽध्वर इति श्रुतः ।।

१०. सह देवैः समायाति देवोऽग्निस्तादृशेऽध्वरे। दृष्टीच्छाबलरूपोऽसौ तस्मादुक्तः कविक्रतुः ॥

११. चित्रश्रवणसम्पन्नः सत्योऽनृतनिवारणम् । भद्रं यद्यजते धत्ते सत्यं तस्यैव तत् स्मृतम् ॥

१२. स्वावासे परमे सत्ये ज्वलन्तं यज्वनः कृते। वर्धमानं सत्यपालमध्वराणामधीश्वरम् ।।

१३. प्रणामैः प्रत्यहं धीराः सर्वभारसमर्पणैः । तपोध्यानरताः शश्वदृषयस्तमुपासते॥

१४. पिता पुत्रे यथा सक्तस्तस्य स्यात्सुगमस्तथा। ऋषौ भक्ते भवत्यग्निरिति गीतो महर्षिणा ॥

उपनिषदुपदिष्टम्

अत-तत्र अथोपनिषत्सु प्राधान्येन प्रतिपादितमर्थमधिकृत्यायमल्पो निबन्धः प्रवर्तते । उपनिषदश्च वेदान्तशब्दवाच्यत्वेन प्रसिद्धाः । तासां वेदशिरोभागत्वे सिद्धे वेदस्य स्वरूपप्रयोजनस्मरणेन तदुत्तमाङ्गभूतोपनिषत्तात्पर्य सुखेनावगन्तुं शक्यम् । तस्मान्नेहातिप्रसक्तिः स्याद्यदि सारतः स्मर्येत स्वरूपं वेदस्य तथा प्रयोजनं च ॥ तत्र प्राञ्च आहुः-मन्त्रब्राह्मणात्मको वेदः इष्टप्राप्त्यनिष्टपरिहारयो-रलौकिकमुपायमुपदिशति ॥ वेदोऽखिलो धर्ममिति च ॥ स च धर्मश्चोदना-लक्षणः ऐहिकमामुष्मिकं च पुरुषार्थं साधयन् श्रौतकर्मानुष्ठानेन परिपाल्यते। तस्मात् क्रियार्थो वेदः । तत्र कर्तव्यकर्मविधायकानि ब्राह्मणान्येव मुख्यानि। मन्त्राणां प्रयोजनं तु ब्राह्मणविहितक्रियासु विनियोगः । अत एव मन्त्राः प्रयोग-समवायिन उच्यन्ते । उपनिषदः ब्राह्मणस्थ-आरण्यकभागविशेषाः । स्तासां कर्माङ्गस्तुतिरूपतया विधिशेषत्वं कीर्त्यते ॥ इति ।

उत्तरमीमांसकास्तु एवम्-कर्मज्ञानात्मककाण्डद्वयविशिष्टो वेदः । कर्मकाण्डो ब्राह्मणानि उपनिषदस्तु ज्ञानकाण्डः। आद्येन ऐहिकामुत्रिकफल-भोगसाधनं कर्म उपदिष्टम्, द्वितीयेन शाश्वतपरवस्तुप्राप्तिफलकं ज्ञानं चेति ।। तस्माद् धर्मब्रह्मप्रतिपादको वेदः, यस्य पूर्वभागेन ब्राह्मणेन धर्मः, उत्तरभागेन उपनिषदा ब्रह्म च प्रतिपाद्यते ॥ इति ॥ अथ युक्ततरः पक्षः समस्यते ।

ऋषीणां मन्त्रदृष्टयः संहितासु चतसृष्वपि ऋगादिषूपलभ्यन्ते। क्रियासु विनियोक्तुं स्वानुकूलतया तत्र तत्र तान् मन्त्रान् व्याख्यायोपयुञ्जते ब्राह्मणानि उपनिषदश्च यथासम्भवं तत्र तत्र मन्त्रदृष्टी ऋचो व्याख्याय अध्यात्मज्ञानो-पयोगितया काश्चनोदाहृत्य ज्ञेयं परमं सत्यं प्रतिपादयन्ति ।। अतः सर्ववेद-भाष्यकृत् सायणाचार्यः सर्वाः मन्त्रसंहिताः कर्मोपयोगितया व्याख्यातुं प्रवृत्तः क्वचित् स्फुटमध्यात्मपरेषु मन्त्रेषु व्याख्येयेषु पश्यति कष्टम् ॥

आह च “अस्य वामस्ये”ति दीर्घतमस्सूक्तव्याख्याने "एवमुत्तरत्रापि अध्यात्मपरतया व्याख्येयाः, तथापि स्वरसत्वाभावात् . न लिख्यते” इति। इह स्वरसत्वाभावः कर्मानुपयोगितया कर्मणो"ऽन्यन्नास्तीति वादिना"मिति स्पष्टं भवति, अध्यात्म-दूरत्वात् कर्मैकशरणानाम्।

अथ किंवा अस्माकं लक्ष्यत्वेन ग्राह्यं प्रतिपादितं वेदानाम् अन्तिमभागे-ष्विति विचारेऽस्मिन् प्रवर्तमाने इदमवधेयम् ॥

यद्यपि क्वचिदुपनिषत्सु याज्ञ-वल्क्यादय ऋषयः स्वतन्त्रतया बुद्धिबलेन ज्ञानविचाराय प्रवृत्ता इव प्रतीयन्ते, तथापि ते पूर्वेषामृषीणां मन्त्रदृष्टीराश्रित्य स्वेन तपोबलेन अन्तर्दृष्टया च तत्व-निर्णयाय प्रवृत्ताः, न तु तर्कबलेन कल्पनासामर्थ्येन वेत्यवगन्तव्यम् । मश्चैवमुपनिषत्सु—"तदृचाभ्युक्तम्, तदुक्तमृषिणा। तदप्येष श्लोकः, अत्रैते मन्त्रा भवन्ति, एतदपि विधाय ऋषिरवोचत्” एवंजातीयकान्यौपनिषदवाक्यानि स्व-प्रतिपादितानि तत्त्वानि मन्त्रैर्मन्त्रद्रष्टुभिश्चोदाहृतः प्रोद्बलयन्तीति नैतदत्युक्तं भवति ॥ "हंसः शुचिषत्” “अहं मनुरभवं सूर्यश्च" "द्वा सुपर्णा सयुजा सखाया" "ऋचो अक्षरे परमे व्योमन्” इत्यादय ऋचः वामदेव-दीर्घतमः-प्रभृतीनामुदाहृता इत्यवधेयम् ।।

अथेदानीमधिकाः शतादुपनिषद उपलभ्यन्ते । तासां प्राचीनास्तु द्वादश भवन्ति त्रयोदश वा ॥ अन्यास्तु तान्त्रिकपौराणिकदेवतानामाङ्कितत्वा-दर्वाचीनाः। “अल्लोपनिषद्” इत्यर्वाचीनतमापि दृश्यते ।। दशानामुपनिषदां कौषीतकीश्वेताश्वतरयोश्च प्रबलं भवति प्रामाण्यं तासां बादरायणसूत्रीयविषय-वाक्यवत्त्वात् शङ्करादिभिर्भाष्यकृद्भिाख्यातत्वाच्च तत्र बृहदारण्यक-छान्दोग्यतरेयकौषीतक्यो ब्राह्मणोपनिषदः, ईशोपनिषदेकैव संहितान्तर्गता। प्राचीनतमाभिराभिरन्यासां प्रश्नोपनिषदादीनां श्वेताश्वतरस्य च समानं प्रामाण्यमभ्युपगन्तव्यम् ॥

यद्यपि सर्वेषामुपनिषद्वाक्यानां ब्रह्मणि समन्वयः तथापि अर्वाचीनद्वैताद्वैत-साङख्ययोगादिसिद्धान्तानाम् आधारभूतानि वाक्यानि तत्र तत्रोपनिषद्भेदेषु श्रूयन्ते, तथा च “यत्र द्वैतमिव पश्यति" इत्यद्वैतपरं वाक्यं बृहदारण्यके, “द्वा-वजावीशानीशा"विति आत्मनो द्वैविध्यबोधकं श्वेताश्वतरे, “अजामेकां लोहित-शुक्लकृष्णा"मिति त्रिगुणात्मकप्रधानपरं श्वेताश्वतरे, “प्रकृतेः परतस्तु सः" इति काठके एवमन्यानि अत्यन्तविरुद्धानिवास्माभिर्गुह्यमाणानर्थान् बोधयन्ति वाक्यानि सन्ति वेदान्तेषु ॥ नार्हामस्तान् केवलं तर्कबलेनापकर्षयितुं, तेषा-मोपनिषदपुरुषदृष्टत्वात् अतीन्द्रियार्थत्वात् अद्यापि जिज्ञासोः साधनसम्पन्नस्य साक्षात्कारक्षमत्वाच्च ॥

अथ प्रकृतमनुसरामः ॥ वेदान्तेषु परं वस्तु ब्रह्म जिज्ञासाविषयत्वेन प्रति-पाद्यते। तच्च “सत्यं ज्ञानम् अनन्तं” स्वरूपेण भवति । यतश्चेदं सर्वम् उत्पत्ति-स्थितिलयवद् भवति, तत् सदेकमेवाद्वितीयं ब्रह्म सर्वेषां भूतानाम् आत्मा भवति । सर्वशक्तं सर्वज्ञं च ब्रह्म सगुणं निर्गुणं चेति उभयलिङ्गश्रुतेरवगम्यते। पुण्य-परिपाकवशात् कर्मसमुच्चितज्ञानेन वा विद्वान् उत्क्रान्तेः परं लोकान्तराणि सोपानक्रमेण प्राप्य अन्ततः क्रममुक्तिद्वारा सगुणब्रह्मपदवाच्येन सर्वेश्वरेण सायु-ज्यं गच्छति ॥ सद्योमुक्तिस्तु “इहैव तिष्ठन्नमृतत्वमेति" इति आत्मकैवल्य-ज्ञानान्निर्गुणं ब्रह्मस्वरूपं सत्यं ज्ञानममृतमेकमित्यनुभूत्यात्मकेन ज्ञानेनावस्थिति-रित्यवगम्यते ॥

अथ च ब्रह्मजिज्ञासोः प्रतीकोपासनानि विद्यासाधनानि उपदिश्यन्ते । विद्याश्च उद्गीथशाण्डिल्य-संवर्ग-अक्षिपुरुषाद्याः । सर्वासामपि विद्यानां प्राधान्येन दहरविद्या स्तूयते, यतो हृदयस्थपुरुषावबोधेन स्वात्मलाभाद् ब्रह्मा-वगतिः सिद्धा भवति ।

ब्रह्मज्ञानसाधनं न मेधया बहुना श्रुतेन वा लभ्यते। ईश्वरानुग्रहादेव साधनरहस्यप्राप्तिः, अत एव “यमेवैष आत्मा वृणुते तस्यैष लभ्य" इति श्रुतिः ।। स चानुग्रहः साक्षात्कृतात्मस्वरूपे पुरुषे विजृम्भते ॥ तादृशः पुरुष एवाचार्यः यः स्वानुभूतीः शिष्येभ्यः प्रापयितुं शक्तो भवति ॥ तस्माद् “आचार्यवान् पुरुषो वेदे" त्याह श्रुतिः। न वा उत्क्रान्तेः परमेव सद्गतिरभिमता श्रुतिषु, "इह चेदवेदीदथ . सत्यमस्ति । न चेदिहावेदीन्महती विनष्टि"रिति हि श्रूयते ॥ जिज्ञासितप्राप्तेः फलम् औपनिषदप्रार्थनाद् गम्यते, “असतो मा सद् गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मा अमृतं गमये"ति ॥

एवं लक्ष्यत्वेन ग्राह्यम् उपनिषदुपदिष्टं संक्षेपेणोपन्यस्य विस्तरभिया वि-रम्यते। अन्ते चेदमस्तु शान्तिवचनम्,

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभि द्यशेम देवहितं यदायुः ॥

ॐ शान्तिः शान्तिः शान्तिः ।।

गीताशास्त्रसिद्धान्तः

१३. १०.४०

ततः पर-अथ गीताशास्त्रस्य सिद्धान्तः समासेन प्रस्तूयते । तत्र प्रथमं तावदिह प्रस्तावे महाभारतस्य भगवद्गीतास्थानं प्रकरणापेक्षया पर्यवेक्षितुं युक्तम् । पूर्वमासीदेकदा कुरुपाण्डवकथासन्दर्भ भारतं चतुर्विंशतिसाहस्रम् । मुच्चावचाभिप्रायैराख्यानोपाख्यानरुपबंहिता शतसाहस्री निष्पन्ना महा-भारतसंहिता। यत्र प्रायेण सर्वेषु पर्वसु, विशेषतः शान्तिवनपर्वादिषु अध्यायाः सन्ति कथारूपेण वेदार्थविवरणपराः अनेके, सामयाचारिकान् धर्मान् सना-तनानप्याख्यातुं प्रवृत्ताः । अपरे, कर्णपरम्परया बहोः कालादागताः सामान्य-नीत्यादिधर्मोपदेशपरा इतिहासाश्च केचन, अन्ये च पुनः परमार्थतत्त्वप्रकाशन-पराः, राजर्षिवंशचरितानि पुरावृत्तान्याचक्षाणाश्च इतरे ॥ तस्मादिद-मवदातम्॥

भारतसङग्रामसम्बन्धमन्तरेणैव इमान्याख्यानोपाख्यानानि पृथग्भूतानि प्रत्येकघट्टानि च भवन्ति । भगवद्गीताप्रस्तावे त्विदमवगन्तव्यम्। नेह गीतोपदेशरहस्यमुपाख्यानादिवत् कुरुपाण्डवकथासन्दर्भमन्तरा अवगन्तुं शक्यते । नैतां गीतामपवर्ण्य युद्धचरितकथनं यत्सत्यम् असमग्रं भवति । वा गीतोपदिष्टानि परमार्थतत्त्वानि युद्धप्रसक्तिविरहं न विदितानि भवन्ति । किंतु, कर्मोपदेष्टा श्रीकृष्णः प्रवृत्ते धर्मयुद्धे निवृत्तिकामाय शोकमोहाविष्टाय भगवानर्जुनाय यं भागवतं परमं धर्ममुपदिदेश, तस्य न स्यादवगतिर्यदि युद्ध-रङ्गं धर्मक्षेत्र धर्मक्षेत्रं न स्मृतावुपस्थापयेम ॥ तस्मात् सङग्रामभुव्येव धर्मक्षेत्रे धर्मसंमोहध्वंसरूपस्य भगवदुपदिष्टधर्मस्य स्वरूपं द्रष्टव्यम् ॥

अथ कुतश्चायं धर्मसंमोह इति पश्यामः। येन विचारितेन सहेतुकेन धर्मसंमोहस्वरूपेण, तन्निवृत्तिभितस्य धर्मस्य भगवदुपदिष्टस्य तत्त्वं सुगमं भवेत् ॥

तत्र प्रथमं तावत् अर्जुनः किमाह का तस्य दर्शति सूक्ष्मतः परामृशामः ।। युद्धरङ्गे भीष्मद्रोणादिस्वजनदर्शनात् कृपाविष्टो विषण्णोऽभूदर्जुनः। गुरु-पुत्रभ्रातृबान्धवान् स्वजनान् न योत्स्य इत्याह। तेषां स्वजनत्वाद् युद्धा-निवृत्तिमिच्छन्नपि स तैः सह युद्धमधयं मन्यते। न च पश्यति “अहमेतेषां ममते” इति साहङ्कारया ममतापूर्विकया कृपया आविष्ट एव युद्धाद् विजु-गुप्सते, न तु धर्माधर्मविवेकजन्येन ज्ञानेनेति। ब्रूते च धर्मतत्त्वज्ञंमन्यः वर्ण-सङ्करादिमहाननर्थसङ्घात आपद्येत घोरे सङग्रामे म्रियमाणेषु वीरेष्विति ॥

भगवांस्तु धर्मविप्रतिषेधमभिसंधायाह । यदि गुरुजनादिस्वजनहत्या गुरुहत्या कुलध्वंसादिरूपाय अधर्माय भवेत्, क्षत्रियस्य युद्धात्पलायनमप्य-धर्मायैव। सति विप्रतिषेधे को वा बलीयान् धर्मः येनानुष्ठितेन परं निः-श्रेयसम् अवाप्नुयात् पुरुष: ? अनेन भगवदुक्तेन “नाहं जानामि धर्म, धर्मसं-मूढचेताः पृच्छामि त्वां, शाधि मा"मिति शिष्यमर्जनं वाचयितुं बीजमुप्तम् ।। ॥

तथाहि दृश्यन्ते च लोके विसंवादाः पुरुषस्यानुष्ठातव्यानां धर्माणाम् । एकस्यैव पुरुषस्य सम्बन्धविशेषात् अवस्थावशाच्च पितृत्वपुत्रत्वशिष्यत्ववर्ण-विशेषित्वादयः उपपद्यन्ते । तं तं सम्बन्धमपेक्ष्य कर्तव्यानां कर्मणाम् परस्पर-विरोधापत्तेः सम्भवः सर्वेषां विदितः । तथा विषमे समुपस्थिते, अवरत्वेन त्याज्यं बलीयस्त्वेन ग्राह्यं च धर्म प्रति विप्रतिपत्तिलॊकसिद्धा॥

एवं सति, कर्म कर्तव्यमित्यादिशतो भगवतो वासुदेवस्य मत्यन्तविरुद्धार्थतया बहुभिर्गृह्यमाणत्वात् सारतस्तत्र प्रथमं पक्षमुपन्यस्य, ततः स्वीकार्य उत्तरः पक्षो निर्देष्टुमिष्यते ॥

भगवान्वासुदेवः स्रष्टा चातुर्वर्ण्यस्य तद्रक्षार्थम् अर्जुनं क्षत्रियं ’युद्ध्यस्वे’ति चोदयति-अनार्यजुष्टम् अस्वय॑म् अकीर्तिकरं क्लैब्यं मा स्म गमः, क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ, स्वधर्मे निधनं श्रेयः, कुरु कर्मैव तस्मात् त्वं, कर्मण्येवा-धिकारस्ते इत्यादिना-तदकरणे च “ततः स्वधर्म कीर्ति च हित्वा पापमवा-प्स्यसी"ति पापावाप्ति च कथयति ॥ तस्माद् यथा श्रौतं यागादि कर्म पश्वादिहिंसालक्षणमत्यन्तक्रूरमपि नाधर्माय, तथा स्मृतिविहितं क्षात्रं कर्म युद्धं हिंसालक्षणमपि क्षत्रस्य कर्तव्यम् न दोषाय, अननुष्ठाने धर्मस्य दोष आपद्यते ॥ तस्माद् यावज्जीवं श्रुतिचोदितानां अग्निहोत्रादीनां स्मृति-विहितानां च कर्मणां ब्रह्मक्षत्रादिभिः अनुष्ठेयत्वमेव गीताशास्त्रे प्रतिपादित-वाक्याना-मिति ॥

यद्येवम्, अत्यन्तसङकुचितं भवेत् गीताशास्त्रस्य तात्पर्यम् । परमार्थतत्त्वो-पदेशस्य नैव स्यादवसरः, यदि शास्त्रविहितकर्मानुष्ठानमेव परं निःश्रेयस-साधनं भवेत् ॥ तावतैव "धर्मशास्त्रोक्तं कर्म कर्तव्य” मिति ज्ञानेन अर्जुनस्य धर्मसंमूढत्वं विनिहन्येत। भूमण्डलैकदेशे वर्णाश्रमिष्वेव हि श्रौतस्मात-कर्मानुष्ठानस्य सम्भवः । एवं सङकुचितं वर्णाश्रमिणामेव कर्तव्यं कर्म लोके-श्वरेणोपदिष्टमिति प्रसज्येत ॥ एवमर्थे परिगृह्यमाणे प्राज्ञाः प्रत्यवतिष्ठन्ते॥

अथ य उपपन्नतरः स पक्षः संक्षेपणेह समाह्रियते ॥ अर्जुनं निमित्ती-कृत्य लोकानुजिघृक्षया लोकेश्वरः सर्वैरपि कर्तव्यं लोकसङग्रहार्थं कर्मोपदि-शति ॥ यद्यपीह शास्त्रे वर्णाश्रमिणां कर्म कर्तव्यम् अकरणे च दोषः पठ्यते, तथापि तादृश्येव कर्मणि सर्वा कर्मकथा परिसमाप्यत इति मन्वानानां नादरो दृश्यते, निन्दा तु वाचकेन व्यञ्जकेन च वाक्येन परिपठ्यते "नान्यदस्तीति वादिनः” “न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिना” मित्यादिना ॥ अथ कि-स्वरूपं कर्तव्यं कर्म को वा परमः स्वधर्म इति विचार्यमाणे, प्रेक्षावतामिद-मवदातं भवति॥

अहमिदं ममेदं नाहं करोम्यहं करोमीत्याद्यविद्यामूलकाहङ्कारेणैव प्रायशः कर्माणि कुर्वन्ति लोके। अविनाश्यात्मा सान्तःकरणाच्छरीराद् व्यतिरिक्तः प्रकृतेर्गुणैः क्रियमाणानां कर्मणाम् अनुमन्ता साक्षी भवति ॥ अनिच्छन्नपि पुरुषः प्रकृतिजैर्गुणैरवशः कार्यते कर्म ॥ लोके यावत्यः पुरुषव्यक्तयः तावन्तः सन्ति स्वभावविशेषाः ॥ लाघवार्थं व्यवहारोपयोगि तेषां चातुर्विध्यं, येन विशेषिता भवति चातुर्वर्ण्यव्यवस्था॥ स्वभावेन नियतानि कर्माणि कर्त-व्यानि ॥ गुणकर्मात्मकतया स्वभावस्याविष्करणम् अवगन्तव्यम् ॥ गुणकर्म-विभागश एव सृष्टत्वात् चातुर्वर्ण्यस्य प्राग्युगश्रुतिस्मृतिविहितचातुर्वर्ण्यकर्मानु-ष्ठानानि तत्तत्स्वभावानुरोधेन ब्रह्मक्षत्रादे धर्मसाधनीभूतान्यासन् ॥

इह त्वर्जुनो न केवलं क्षत्रबन्धुः, स्वभावेनापि क्षत्रियः । स च स्वभावो विदितः श्रीकृष्णस्य, अत एव प्रकृतिस्त्वां नियोक्ष्यतीत्याह, ननु क्षत्रियवंश-सञ्जातत्वाद्धेतोः ॥ तस्माद्युद्धं हिंसालक्षणमपि अर्जुनस्य स्वभावनियतं सहज कर्म स्वधर्महितं कर्तव्यमित्युपदिष्टम् ।।

अथ अकर्मसत्कर्मविपरीतकर्मणां रहस्यं पूर्वेषामृषीणामपि दुर्गमं “कवयो-ऽप्यत्र मुह्यन्ति” इति ब्रुवता भगवता कर्मकरणप्रकारोपदेशप्रसङ्गेन स्वाभि-मतो योग उपदिश्यते, यस्मिश्च योगे सर्वेषां योगानां भक्तिज्ञानादीनां समन्वयः स्फुटमवगम्यते ॥ यथा चायमर्थः भगवदुक्तीनां तथेह सङगृह्य प्रदर्श्यते ॥

अपरा परेति प्रकृतिद्विविधा सर्वेश्वरस्य । तत्राद्या त्रिगुणात्मिका यया सर्वं कर्म क्रियते। परा तु दैवी त्रिगुणातीता जीवभूता च, ययेदं जग-सचराचरस्य जगतः प्रसवित्र्याः प्रकृतेरध्यक्षो भगवान् पुरुषोत्तमः, यो ह्येकांशेन कृत्स्नं जगद् व्याप्य धारयमाणः स्थितः, स च सर्वेषां जीवाना-मात्मनामात्मत्वेनावस्थितः परम आत्मा भवति। एवं तेन सर्वेश्वरेण विश्वा-त्मना, विश्वान्तर्यामिना विश्वरूपेण च स्थीयते । स एव एकत्वेन पृथक्त्वेन च स्थितः भूतेषु हृदयस्थः सन्नीश्वरः स्वीययोगमायाबलविलसितप्रकृतियन्त्रा-रूढानि भूतानि चालयन्नास्ते ।।

तथा सति, यदिदं सर्वं तदीयं नास्मदाद्यन्यदीयं, तद् युज्यत एवास्मदीय-त्वेन प्रतीयमानम् उपभुज्यमानं च सर्वं वस्तुतस्तदीयत्वात् तस्मै एव समर्पणी-यम् । तथा ईश्वरार्पणबुद्धया उपपन्नया युक्तस्य कर्म कुर्वतः पुरुषस्य अवि-द्याग्रन्थिबन्धानां शैथिल्यं निष्पद्यते, ततोऽहन्तायाः दौर्बल्यं तन्मूलकैषणानां च पलायनं फलिते स्याताम् । एवमेव निष्कामकर्मोपदेशस्योपपत्तिर्भवति । अनेनाचरितेन परिपाकवशात् कालेन सत्त्वशुद्धिर्जायते। शुद्धसत्त्वस्य निर-हङ्कारतया परा शान्तिः सिद्धयति । शान्तिसिद्धस्य पुरुषस्येश्वरेण नित्य-युक्तत्वं सुप्रापम्। कर्म च साधकस्य साधनं योगारोहस्य, योगारूढस्ये-श्वरेण नित्ययुक्तत्वात् ईश्वरवल्लोकसङग्रहार्थं कर्म कुर्वतः परमा शान्तिः प्रतिष्ठेति च ॥ “आरुरुक्षोर्मुनर्योग" मित्यादिनाऽवगम्यते ॥

तस्माद् गीतासु भगवत्साधर्म्यप्राप्तिरूपो योग उपदिष्ट: शक्यते वदि-तुम्, यत्र हि भक्तिज्ञानकर्मयोगानां समन्वयः सुग्रहः । तथा च अन्ति-माध्यायान्ते श्लोकत्रयं अत्यन्तमुख्यत्वेन पूर्वैः सदनुष्ठानशीलैविज्ञैराधुनिकैश्च विज्ञातम्। तत्रैकेन “ईश्वरः सर्वविद्यानां हृदये” इति दहरविद्याच्छायया ज्ञानयोगस्य द्वारं निर्दिष्टम्। “सर्वधर्मान् परित्यज्ये"ति चरमेण श्लोकेन भक्तियोगस्य परा काष्ठा प्रपत्तिरुपदिष्टा। अनयोर्मध्ये “मन्मना भवे"ति श्लोकरत्नेन सर्वोऽपि योगः समाहृत्यावेदितः। तथा हि “मन्मना भवे"ति ज्ञानयोगसाधनं “मद्याजी" इति कर्मयोगसाधनं, “मद्भक्तो मां नमस्कु"विति भक्तियोगसाधनं च आदिष्टम् ॥ एवं ज्ञानयोगभक्तियोगकर्मयोगान् समु-च्चित्य अविरोधेन सामरस्यं समर्थयता भगवद्वाक्येन, सर्वेषां साधनानाम् अर्जु-नाय भगवतोपदिष्टे परमे स्वधर्मे पुरुषोत्तमस्य योगे तात्पर्यमवदातमित्यलम् ॥

भरतखण्डे जातिः

अथायमर्थो लघु विचार्यते, यदत्र भरतखण्डप्रचारा जातिरं भवति स्थितिपालनस्य सहकारप्रवणतया सहकारित्वविलसनस्य चेति ॥ तत्र प्रथम तावदयमर्थो विविच्य ग्राह्यः यत् किंस्वरूपा जातिव्यवस्था विशेषतश्चाधुनातनी किंप्रमाणका किंप्रयोजना चेयं या स्थितिरक्षणस्य द्वारमुच्यते, का नाम स्थिति-र्यस्याः पालनं सहकृत्वतया विशिष्य समर्थ्यते, को नाम सहकारो यो जाति-द्वारेण प्रकाशो भवतीति ।

तत्रादौ जातेः पूर्ववृत्तम् अद्यतनमवस्थानं च समासतः परामृशामः, यत एते प्रश्नाः प्रत्युक्ताः भवेयुः विषयविचारश्च फलितः स्यात् ॥ चातुर्वर्ण्य शाखोपशाखाभि: जातिबहुत्वरूपतया विपरिणतमिति चरित्रपरीक्षणाद्वेदशास्त्र-स्मृतिपुराणेतिहासेभ्यश्चावगम्यते ॥ चातुर्वर्ण्यव्यवस्थोदयात्पूर्वः कश्चन काल आसीदिति शान्तिपर्वणि युधिष्ठिरं प्रति भीष्मोक्तिः सुप्रसिद्धा । अयं च भारतश्लोको भवति ।

"न वै राज्यं न राजासीन्न च दण्डो न दाण्डिकः ।
धर्मेणैव प्रजाः सर्वा रक्षन्ति स्म परस्परम्" ॥इति ॥

बाह्यनियामकहेतुना विनैव सर्वाः प्रजाः स्वस्वभावप्रेरितेषु कर्मसु वर्तमानाः परस्पररक्षणक्षमेण धर्मेण युक्ताः बभूवुरिति कथा ॥ तादृशी स्थितिरासीन्ना-सीद्वेत्यस्तु सन्देहः ॥ इदं तु स्पष्टम् ॥ तादृशो मानुष्यकादर्शः प्रत्यभात् पूर्वेषां महाभारतकारादीनामिति ॥

काले गते, प्रजासु रागमोहाद्यविद्यासन्ततिप्रवेशात् स च धर्मो नष्ट: येन परस्परं प्रजाः रक्ष्यमाणा आसन् ॥ धर्मनाशान्मानुष्यकक्षेमोपहतिरभूत् ।। तस्मान्मानुष्यकपरिरक्षणाय धर्मः पुनः प्रतिष्ठापयितव्योऽभूत् ॥ स च धर्म: मानुष्यकस्य चातुर्वर्ण्यविभागेन साधित इत्यवगम्यते ॥ गुणकर्मविभागशश्चातु-वयं सुष्टमिति गीतासु स्मर्यते । अस्य मूलसूत्रतया ग्राह्यो "ब्राह्मणोऽस्य मुखमासी"दिति पुरुषसूक्तीयो ऋङमन्त्रः ॥ पुरुषसूक्तव्याख्याने “सहस्रशीर्षा पुरुष" इत्यत्र सायणभाष्यवचनमिदं भवति “सर्वप्राणिसमष्टिरूपः पुरुषो विराडाख्यायते” इति ॥ तस्मात् सर्वेश्वरस्य सर्वत्रावस्थानेऽपि विशेषतो मानु-ष्यकेऽभिव्यज्य विराजमानस्य विराट्त्वमुक्तं भवति ॥ अस्य मुखबाहूरुपादाः ज्ञानबलसम्यक्क्रियाद्युपलक्षणार्थाः ब्राह्मणादिचातुर्वर्ण्यप्रभवत्वेन प्रतिपादिताः भवन्ति ॥ यद्यपि स्वभाव एव उचितगुणकर्माविष्कारको मूलकारणं भवति चातुर्वर्ण्यविभागस्य, तथापि तस्य सूक्ष्मत्वादान्तरत्वाच्च बहिः परिदृश्यमानेन स्वाध्यायराज्यवाणिज्यसेवादिना लक्षणेन चातुर्वर्ण्यविभागे विशिष्य व्यवस्था-ततः कालक्रमेण वृत्तिरेव वर्णस्य लक्षणमभूत् ॥ वृत्तीनां बहुत्वात् समानवृत्तौ युक्ताः सङघीभूय सजातीयतां प्रापुः ॥ एवं बह्वयो जातयो निष्पन्नाः ॥ चतुर्णामपि वर्णानामनेकजातिरूपतया विपरिणामे जाते याव-त्कालं वृत्तिविशेषेण जातिरलक्ष्यत, तावत्कालं कोऽपि वर्णगन्धोऽभूद् जातेः ।। इदानीं तु सर्वासामपि जातीनां जातित्वसिद्धिः वृद्धिनियमविरहं जन्मनैव भवति न तु कर्मणा। गुणकर्मणोर्नियामकेन स्वभावेन तु जातिनिर्णयो न कर्तुं शक्यते, तस्य अबाह्यत्वाद् दुरूहत्वादित्यवोचाम॥ जन्मनो जातिनिर्णायकत्वे जातेः स्थैर्य सम्पाद्यते ॥ तच्च स्थैर्यं गृह्याचारकुलाचारसमयाचारादिरूपे बाह्यलक्षणे धर्मत्वेन गृह्यमाणे कस्मिंश्चिदभिमानविशेषे शक्यते द्रष्टुम् ।। साध्वसाधु वा विमर्शनिरपेक्षं बहोः कालात्पूर्वेभ्य आगतम् सजातीयैरभिमान-बलेन परिपाल्यते ॥ तस्मादद्य सजातीयपुरुषव्यक्तीनां परस्परविरोधवरस्यादेः सम्भवेऽपि तासां सर्वासां बन्धको धर्मः अभिमानप्रोद्वलको जातीयतायां श्रद्धा-विशेष इति वक्तव्यम् ॥ सोऽयमभिमानबन्धः सजातीयानेकीकृत्य तेषां स्थिति-रक्षणे सहकारितासम्पादनाय कल्पते ॥ यद्यपि सर्वासां जातीनां स्वस्वकर्मवृत्ति-विघातेन सङघर्षजं वृत्तिवैषम्यं रागद्वेषादि च सम्भवन्त्येव, तथापि स्वीयपूर्वा-चारप्राप्तं स्नानाशनवसनालङकारदेवोपास्त्यादिविषयकं विधानम् । धर्मबुद्धया परिपालने तेषां सहकारिता अस्त्येव ।। अत एव जातिर्नवाभ्युदयदूराऽपि न नष्टा भवति ॥ सेयं जातिः स्थितिरक्षणाय सहकारशीलतया द्वारं भवतीति शम्॥

काव्यखण्डस्य प्रथमोऽशः

१. गुर्वर्थगाढबन्धस्य महाकाव्यस्य भारवेः । आद्यसर्गकथाभागः काव्यबोधो विरच्यते ॥

२. अरातिपरिभूतेन नष्टराज्येन धीमता। राज्ञा सभ्रातृभार्येण विपिने वसता सता॥

३. सुयोधनप्रजाराष्ट्रनयोदन्तमवेयुषा। प्रणिधिः पाण्डुपुत्रेण प्रहितः पुनरागतः ॥

४. वणिवेषधरं वन्यं विदित्वा धर्मनन्दनः । परप्रवृत्तिवक्तारमनुजज्ञे रहस्सुधीः ।।

५. नराधीशं नमस्कृत्य वक्ष्यतो निर्जितां महीम् । व्यथितं न मनस्तस्य सुहृदो हितवादिनः ।। ॥

६. मृषाप्रियं न भाषन्ते प्रभूणामृद्धिमीप्सवः । प्रियं हितं च वचनं क्वचिद् जात्वेव जायते ॥

७. लब्धक्षणोऽथ जिज्ञासोर्वैरिवृत्तं युधिष्ठिरात् । अामुदारां निर्णीतां वार्तिको वाचमाददे ॥

८. चारैश्चक्षुष्मतां राज्ञां मादृशैरनुजीविभिः । वचांस्युदीर्यमाणानि क्षन्तव्यान्यप्रियाण्यपि ॥

९. हितं ब्रुवाणे सन्मित्रे दत्तकणे च पार्थिवे । प्रीतयोः स्निग्धमुभयोः रमन्ते सम्पदः स्वयम् ॥

१०. दुर्बोधं चरितं राज्ञां वयं त्वत्र वनेचराः । यन्मयात्तं द्विषां वृत्तं प्रभावोऽयं तव प्रभो॥

११. वनभूनिलयात्त्वत्तो राज्यस्थोऽपि विशङ्कते। अतः पृथ्वीं नयेनेष्टे लोकविश्वासनप्रभुः ॥

१२. धर्मेणेवार्जितं राज्यं द्यूतकैतवनिर्जितम् । लोकान् प्रत्याययत्राजा भवन्तं विजिगीषति ॥

१३. उत्कर्षयन्नाधिपत्यं वितन्वन् धवलं यशः । विरोधोऽपि वरं सद्भि मन्यते क्षुद्रसङ्गमात् ॥

१४. अन्तःशत्रुजयेनापि प्रपित्सुः पदवीं पराम् । उद्युक्ते विभजन्नेव दिवारात्रमतन्द्रितः ॥

१५. भृत्येषु मैत्री मित्रेषु बन्धुतामात्मनः प्रियाम् । बन्धुषु प्राभवं स्वस्य नयाद् दर्शयते कृतम् ॥

१६. अन्योन्यसख्यं प्राप्येव त्रिवर्गोऽस्य यथायथम् । पक्षपाताश्रयाद् दूरं व्यवस्थां भजते स्वयम् ॥

१७. निरत्ययं साम तस्य दानवर्ज न वर्तते । दानं न सक्रियावर्ज सत्क्रिया नान्तरा गुणम् ॥

१८. दण्डं प्रयुङक्ते विधिना कारणान्नार्थकामयोः । आत्मजन्मनि शत्रौ च समो धर्म प्रवर्तयन् ।।

१९.रक्षितो रक्षिभिर्गुढं निश्शङ्क इव लक्ष्यते । सम्पद्भिर्भृत्यवर्गस्य ज्ञायतेऽस्य कृतज्ञता ॥

२०. सङ्घर्षण इवोपायाः विनियोगविभागिनः । महीपालैरुपानीताः सुवते च स्थिराः श्रियः॥

२१. सुखलब्धानि सस्यानि भुञ्जतेऽस्य कृषीवलाः । अदेवमातृकान् धत्ते कुरून् स कुरुनन्दनः ।

२२. वसूनि दुग्धे पृथिवी शान्तबाधाभिरक्षया। गुणै वसूपमानस्य तस्य राज्ञो यशस्विनः ।

२३. मिथो विरोधविरहाः स्वार्थेषु न च संहताः । विख्यातकुलजा मानधनाः सम्पद्भिरचिताः ॥

२४. प्राणैस्तत्प्रियमाधातुं सर्वस्वेन च धन्विनः । जागरूका भवन्त्येते सङ्गरे लब्धकीर्तयः ।। ॥

२५. वेत्ति चारैस्स विश्वस्तैः प्रारम्भानन्यभूभृताम् । कर्म स्रष्टुरिव स्वस्य फलैरेव प्रतीयते ॥

२६. न वक्त्रं कोपकुटिलं सज्यं तस्य न वा धनुः । माल्यवच्छासनं तस्य गुणाद्राजभिरुह्यते ॥

२७. अभिषिच्योद्धतं यौवराज्ये दुश्शासनं प्रभुः । मखेषु निरतो हव्यै हव्यवाहं धिनोति सः॥

२८. निस्सपलं प्रशास्त्येष धात्री सागरमेखलाम् । तथाऽपि चिन्तयत्येव त्वत्तस्सम्भाविनीभियः ।।

२९. निगूढाकारचेष्टोऽपि प्रकाशो भवति क्वचित् । सभासद्भिः प्रसङ्गेन तव नामन्युदीरिते ॥

३०. नामादिग्रहणे तायवासुक्योरिव पन्नगः । नम्रास्यो व्यथते मानी संस्मृतार्जुनविक्रमः ॥

३१. आवेदितं कुरुकुलान्तकधूमकेतो-वृत्तं मयेदमखिलं तव किङ्करेण । यद्रोचते तदिह, ते क्रियतां विचार्य वार्ताहरोऽस्मि मम किं परमस्ति कृत्यम् ॥

३२. एवं वचांसि गुणदोषभराणि शत्रो-रुक्त्वा वरे वनचरे किल सन्निवृत्ते। कृष्णानिकाय्यमथ पाण्डुसुताग्रजन्मा गत्वाऽखिलं सपदि भीमसमक्षमूचे॥

३३. आकर्ण्य कृत्रिमनयाभ्युदयां प्रवृत्ति आर्ता नवाभिरिव शाठ्यपरम्पराभिः । उत्तेजयद्रुषमजातरिपोरपूर्वी पाञ्चालराजतनुजा निजगाद वाक्यम् ॥

३४. विदुषि प्रथिते भवादृशे वचनं यद्यपि साधु मादृशाम् । न वरं किल योषितां तथाऽप्यभिभाष्यं त्विदमाधिनिस्सृतम् ।।

३५. कुरुभिस्तव पूर्वधूता धरणिर्देवनिभैरखण्डिता। । तव हस्तगता च्युतिं गता प्रमदस्येव गजस्य मालिका ॥

३६. अमतेः शरणं पराभवः कुटिले यः कुटिलो न वर्तते । कितवः प्रविशन्नवर्मणो ननु मर्मस्वभिहन्ति सायकैः ।।

३७ कुलजां सुखसाधनः श्रियं गुणरक्तामपहारितां निजाम् । क इह क्षमते वधूमिव त्वदृते मानधनो मनोरमाम्॥

३८. विहिते मनस्विभिर्विवर्तसेऽध्वनि प्रभो कथं नु मन्युरुज्ज्वलंस्तमांसि ते न बाधते। अवन्ध्यरोषपूरुषस्य जन्तवो वशंवदा अमानिना तु साधुना जनस्य न द्विषादरः॥

३९. परन्तपो वृकोदरः परिभ्रमन् वनस्थली सुगन्धभूषितः पुरा रजोभिरद्य रूष्यते। अयच्छदुत्तरान् कुरून् विजित्य यो महद् धनं धनञ्जयः स जिष्णुरेष वल्कली विलोक्यताम् ॥

४०. असंस्तुतासुखौ यमावरण्यवारणोपमौ शिलातलाधिशायनोत्थधूलिधूसराविमौ । त्रिलोकमान्यविक्रमानिमांस्तवानुजन्मन-स्तिरोहितानवेक्ष्य किं न लज्जसे न दूयसे ।।

४१. अभीरधीरतां श्रिता नु गढसत्त्व तावकी विचित्रचित्तवृत्तिभिः प्रधूमिता नु शेमुषी। विपत्तिसन्ततिप्रसूनिवृत्तिरीदृशी तु नः सहस्रधा भनक्ति मां सपत्नशाठ्यतोऽधिकम् ॥

४२. श्लक्ष्णैर्मागधवन्दिगीतिवचनैर्माङ्गल्यपूर्णस्वरैः पर्यात् कमनीयरत्नखचितात् सुप्तोत्थितोऽभूः पुरा। अद्य त्वत्र शरैरिवार्तिजनकैः शैवेयरावैः खरैः आविद्धो विजहासि पर्णशयितो निद्रामभद्रादितः ॥

४३. प्रागासीद् दर्शनीयं वपुरिदमतुलं विप्रभुक्तावशेषैः वन्यैरन्नैस्तदेतत्तव सह यशसाऽकालिकेऽस्मिन् जृणाति । राज्ञामाज्ञाभृतां ते मणिमकुटलसत्कीतिभासां शिरोभि-नम्नैर्दीप्तं पुरा ते पदयुगमधुना सेव्यतेऽरण्यदर्भः ॥

४४. प्राप्ता दुःखपरम्परेह विहिता देवेन चेत्, तत्र नः क्षन्तव्या, रिपुणा त्वियं च हृदयं निर्मूलयत्येव मे। तत् क्षत्रप्रवरस्य ते रिपुजनोन्माथस्सखा स्वर्गते: न त्यागश्चिरसंभृतस्य यशसो राज्यस्य वा न श्रियः॥

४५. यद्युत्साहविभुत्वमन्त्रभरितं कालं समुद्रीक्षसे सन्धां नाथ जहीहि कैतवकृतां नाचैव किं नाथसे । क्षात्रं वः परमं धनं किमु बलं ब्राह्म किमालम्बसे धूर्ते वैरिणि धर्मनन्दन किमु शान्ति समातिष्ठसे ।।

४६. तस्मादस्मानपथपतितान् सम्यगामृश्य राज-नापत्कूपान्नृपकुलधनं मानमुद्धृत्य जीयाः । लक्ष्मीरुत्का जयतु च पुनः प्राप्य बाह्वोर्युगं ते। शक्तिस्त्रेधा सुहृदनुजवृतं त्वां समभ्येतु भूयः ।।

१. निर्मितोऽयं मितग्रन्थः काव्यखण्डः कपालिना। काव्यकण्ठमुनेरन्तेवासिना वाग्विलासिना॥

२. अहोबलकुलोत्तंसो नरसिंहः सतां मतः । महत्त्वकाङक्षी साहित्यसरणिं महतीं गतः ।।

  1. सादरं मम जिज्ञासुः कविताभाग्यधोरणीम् । सुधीरस्मदधीयानो भारवेः काव्यमुत्तमम् ॥

४. रमते जातु कविता शास्त्रोपस्कृतबुद्धिषु । इतीव मामुपागच्छद् गुणवान् साधकः सखा ।

५. भ्राता कनीयानिव मे युवैष प्रीयतामिति । अन्तश्चिराय शयितामाह्वयं कवितां मम ।।

६ . रुचिरः पदसन्दर्भः शुचिरर्थों दृढोज्ज्वलः । विदितं विदुषामेतन्महाकाव्यस्य भारवेः॥

७. तस्याचं बस्तुनो भागं समाहृत्य यथातथम्। प्रयुक्तं वृत्तमुचितं तत्र तत्र विवेकतः ॥

८. प्रायोऽलङ्कारबिरहं शब्दार्थगुणसुन्दरम् । औचित्यजीवनं काव्यमिदमल्पमुदाहरम् ॥

९. क्रीस्तुनाथशके नन्दमूर्तिनन्दधरामिते । एकादशे मासि दिने दशमे शुक्रवासरे।

१०. प्रमाथिन्यश्वयुग्दर्शे जातोऽयं हृदयङ्गमः । रसिकानामिवार्धेन्दुः प्रबन्ध: कल्पतां मुदे ॥

इति श्रीपूर्णयोगाचार्य-श्रीभगवदरविन्दानुध्यातस्य, श्रीमहर्षिरमण-भगवत्पादानुध्यातश्रीभगवद्वासिष्ठगणपतिमुनिप्रवरान्तेवासिनः, भारद्वाजस्य विश्वेश्वरसूनोः कपालिनः कृती काव्यखण्डस्य प्रथमोऽशः समाप्तः॥

अलकारबोधः

१. सचमत्कारसादृश्यवर्णनामुपमा विदुः । मुखं चन्द्र इवेत्युक्तिलक्ष्यार्थं लक्ष्यते बुधैः ॥

२. उक्तिभङ्गिषु विच्छित्त्या चित्रवेषेव नर्तकी। अलङ्कारेषु सैवैका भजते बहुनामताम् ॥

३. मुखं चन्द्र इवाभाति चन्द्रो मुखमिवेति चेत् । उपमेयोपमां प्राहुरलङ्कारेषु तद्विदः ।।

४. मुखं मुखमिवेत्युक्तावलङ्कारस्त्वनन्वयः । चन्द्रो मुखमिवेत्युक्ते प्रतीपं परिचक्षते ।।

५. चन्द्रं दृष्ट्वा स्मराम्येव मुखं स्मरणमुच्यते । मुखमेव शरच्चन्द्र इति चेद्रूपकं मतम् ।।

६. परिणामः स यत् तापो मुखचन्द्रेण शाम्यति । मुखं किमेतदथवा चन्द्रः सन्देह उच्यते ॥

७. चन्द्र इत्यनुधावन्ति चकोरा वीक्ष्य ते मुखम् । इत्यादौ भ्रान्तिमानुक्तः काव्यालङ्कारवेदिभिः ।।

८ . चञ्चरीकाः पद्ममिति चकोराश्चन्द्र इत्यपि । मुखे तवानुरज्यन्तीत्युल्लेखं परिचक्षते ॥

९. अयं चन्द्रो न तु मुखमित्यपह्नव उच्यते । नूनं चन्द्र इति प्राहुरुत्प्रेक्षायामुदाहृतिम् ॥

१०. उक्तिः सातिशया प्रोक्ता चन्द्रोऽयमिति चेद्रुधैः । मुखेन चन्द्रकमले निजिते तुल्ययोगिता ।।

११. निशि चन्द्रस्त्वन्मुखं च हृष्यतीत्यत्र दीपकम् । चकोरो रज्यते चन्द्रे मुखे रज्याम्यहं तव ॥

१२. प्रतिवस्तूपमामेतामाहुः काव्यविचक्षणाः । दृष्टान्तो दिवि शुभ्रांशुस्त्वन्मुखं भुवि कीर्त्यते ।।

१३. मुखं चन्द्रश्रियं तन्वि बिभर्तीति निदर्शना। व्यतिरेको निष्कलङ्कं मुखं चन्द्रातिशायि ते॥

१४. त्वन्मुखेन समं चन्द्रो यामिनीषु प्रहृष्यति । सहोक्तिरेषा कथिता काव्यालङ्करणप्रियैः ।।

१५. मुखस्य पुरतश्चन्द्रो निष्प्रभः पूर्वसूरिभिः । अप्रस्तुतप्रशंसायामुदाहरणमुच्यते ॥

१६. गोतुल्यो गवयश्चेति वाक्ये का भाति हृद्यता ? चमत्कृतिरलङ्कार उपमा तां विना कुतः ?

१७. गौर्वाह्लीक इति प्रोक्ते कथं वा रूपकं भवेत् ? स्थाणुर्वा पुरुषो वेति सन्देहालङकृतिः कथम् ?

१८. इदं रजतमित्युक्ति र्धान्तिमान् न कथञ्चन । नायं सर्प इति प्रोक्ते नापह्नुतिरुदीर्यते ॥

१९. न सहोक्तिरियं तातस्तनयेन सहागतः ।।

काव्यप्रकाशशिक्षोपयोगिन्यः टिप्पण्यः




प्रथमोल्लासः

श्रीमम्मटभट्टः कर्ता काव्यप्रकाशस्य। अयं च काव्यस्वरूपगुणदोषा-लङ्कारादीनां विचारपुरस्सरं निष्कर्षाय प्रवृत्तोऽन्यातिशायी निबन्धः । अमूल्य-कल्पकल्पोऽयं काव्याथिलोकस्य ।

अत्र विमृश्यमानो विषयसन्दोहः दशधा विभज्य उल्लासाभिधैः दशभिः परिच्छेदैः प्रबद्धः । अत्र प्रथमोल्लासे काव्यप्रयोजनकारणस्वरूपविशेषनिर्णयः कृतः॥

लघुटिप्पण्यामस्याम् अध्यापने यान्यनुक्तावशिष्टानि अस्पष्टमुक्तानि वा प्रतिपादितान्यपि कानिचिदावृत्तिसहानि वा समासेन सूचयिष्यन्ते ॥

’आदौ स्वाभीष्टां वाग्देवीं स्तुवता ग्रन्थकृता शिष्टसम्मतं मङ्गलमनु-ष्ठितम्। विघ्नविवाताय मङ्गलाचरणमिति साम्प्रदायिकाः, कार्यारम्भे स्वा-भिमतदेवतास्तोत्रं प्रधानम्, ग्रामं गच्छन् तृणं स्पृशतीतिवत् शिष्टाचारोऽप्यनु-सृत इति बोध्यम् ॥

यद्यपि स्तुतिकर्मणोऽन्यत् भवति नतिकर्म, तथाऽपि स्तोत्रे कृते प्रणति-राक्षिप्यते, न तु नमस्कृतौ स्तोत्रस्याक्षेपः।

अथेदमवधेयम्। कविकर्मभूतं काव्यनिर्माणं यया निरुह्यते सा वागभि-मानिनी देवता सरस्वती स्तुतेति कारिकोक्तविशेषणाल्लभ्यते। एतेन कार्य काव्यनिर्माणम्, निमित्तभूतः कर्ता कविः, काव्यकर्मणो निर्वाहयित्री तु कारण-भूतं सर्ववाचोऽधिदैवतं सा भारत्येवेति सुगमम् ॥

कथं तर्हि काव्यनिर्मितिहेतुप्रस्तावे प्रतिभाव्युत्पत्तिप्रवृत्तिपौनःपुन्यात्मकः काव्योद्भवहेतुः प्रतिपाद्यत इति चेत्, नेदमसङ्गतम्। कारणभूता भारत्येव निमित्तभूते कर्तरि कवौ प्रतिभादिसाधनाधानप्रेरणया कार्य निर्वहतीति सङ्ग-सारस्वतप्रसाद एव प्रतिभात्मना परिणमय्य कर्तारं कविं काव्यकर्म-प्रवर्तने प्रेरयतीति फलितम् ॥

अत एव जगद्वन्द्यायाः कारणभूतभारत्याः कार्यभूतकविभारत्याश्च अभेदा-ध्यवसायन काव्यनिर्मात्र्याः कविभारत्याः स्तवनं कृतम् ।।

अन्यच्च, चतुर्मुखनिर्माणादपि भारतीनिर्माणस्य वैशिष्टयं वृत्तौ सहेतुकं व्याख्यातम्। अनेन चतुर्मुखात् भारत्याः वैशिष्टयं च व्यज्यते ॥

अर्थ प्रयोजनप्रतिपत्ती इदमवगन्तव्यम् ।।

शब्दप्रधानो वेदः। स प्रभुरिवादिशति। अर्थप्रधानः पुराणादिः सुहृदिव सूचयति। शब्दार्थशरीरा कविता तु कान्तेव रमणीयभङ्गया हृदयङ्गमेन गुणी-भूसशव्यार्थयुगलेन ध्वमिना रहोऽन्तरङ्ग प्रविष्टा सहृदयस्य हृक्यमार्दीकरो-त्युपदेशेन ॥

विविच्य प्रकारान्तरेण ब्रूमः फलितम् ।

वेदे शब्द: प्रधानः पुराणादी अर्थः प्रधानः काव्ये शब्दोऽर्थश्च अप्रधानो, उभयोर्गुणभावः, तदुभयातिशायी व्यङ्गयः प्रधानः ॥

प्रभुरिव मादिशति वेदः सुहृदिव ब्रूते पुराणादिः रमणीव रमणस्य सहब-यस्य हवयं चमत्कारबोषजनकतया प्रविश्य रमणीयमुपदिशति कविता ।।

अथ लक्षणम्॥ शब्दार्थों उभयं काव्यस्य स्वरूपमुक्तम् । तो अविशिष्टौ काव्यमुच्यते ॥

दोषरहिती गुणसहितौ क्वचित् स्फुटालङ्कारशून्यो वा काव्यम् ।। अदुष्टा गुणवती निरलङ्काराऽपि कामिनी रमणीया भवति, तथा कविता-ऽप्यदृष्टा गुणोज्ज्वला अलङ्कारशून्यापि रामणीयकं पुष्णाति। कामिन्याः कटकताटङ्कादिवत् उपमादयोऽलङ्काराः कवितायाः। ओजःप्रसादमाधुर्या-दयो गुणाः। श्रुतिकट्वादयो दोषाः। इमे वक्ष्यन्ते उत्तरत्र ।

महाकविप्रबन्धेष्वपि अत्यन्तमदुष्टं काव्यं प्रविरलं बोध्यम् । तस्माद्दोषा-भावत्वे काव्यलक्षणे निविष्टे सति बहूनां लक्ष्यग्रन्थानां काव्यत्वहानिः प्रसज्येत। "न्यक्कारो ह्ययमेव" इत्यादिपद्येषु विधेयाविमर्शादिदोषे सत्यपि काव्यत्वं न हीयते॥

तस्मा ददोषा"वित्यत्र नञ् ईषदर्थकम्। नमः अनेकार्थत्वं वाक्यपदीये हरिराह।

"तत्सादृश्यं तदन्यत्वं तदभावस्तदल्पता।

अप्राशस्त्यं विरोधश्च नर्थाः षट् समीरिताः ॥" इति ॥

तस्मा ददोषौ" ईषद्दोषी इत्यर्थः ।।

यथा अनर्धे वज्रमणौ क्वचित् कीटानुविद्धेऽपि न मणित्वहानिः, अर्घस्यैव ह्रासः। दशलक्षमूल्यो मणिः कीटानुविद्धत्वादीषदुष्टः पञ्चलक्षमूल्यो भवति। तथा किञ्चिद्दुष्टं पद्यमपि काव्यत्वं न जहातीति बोध्यम् ॥ तस्माल्लक्षणे ’अदोषा’विति निवेशनं ईषदुष्टत्वेन न काव्यत्वहानिरिति ज्ञापनाय, न तु ईषदुष्टि: स्यादेव काव्ये काव्यवस्थापनायेति। (अभिधा लक्षणा व्यञ्जना इति त्रिविधः पदपदार्थयोः सम्बन्धः। तं वृत्तिशब्देन व्यवहरन्ति) तस्मात् यथासम्भवं वृत्तित्रयसम्बद्धयोः शब्दार्थयोः ईषदुष्टयोरपि गुणसम्पन्नयोरलङ्कार-निरपेक्षं काव्यत्वं प्रतिपादितम् ।।

यद्यपि बहूनि लक्षणानि ग्रन्थकारः प्रतिपादितानि, तानि सर्वाणि सुन्दोप-सुम्दन्यायेन खण्डितानि भवन्ति ॥ वस्तुतस्तु निर्दुष्टं निष्कृष्टलक्षणं काव्यस्य नास्ति। यथा मन्त्रविदां व्यवहारादेव अयं मन्त्र इति ज्ञायते, तथा काव्य-विदां व्यवहारादेव काव्यमिदमिति बोध्यम् ॥ यद्यप्येवं, तथापि उक्तेषु लक्षणेषु यदधिकलक्ष्यसङग्राहकं तदेव लक्षणं ग्राह्यम्। लक्ष्यानुसारेण हि लक्षणव्यवस्था क्रियते ।। चमत्कारसारं हि काव्यम् ॥ तादृशं शब्दार्थ-निबन्धनं ’प्रकाशोक्तलक्षणमधिकलक्ष्यसङग्राहकत्वात् ज्यायः स्वीकार्यम् ॥

अन्यच्च लक्षणं नव्यानां रमणीयं भवति ।।
"रमणीयार्थप्रतिपादकः शब्दः काव्यम्" इति ॥
अत्र कटाक्षादौ अतिव्याप्तिवारणाय शब्देति ॥
व्यङ्गचादिसङग्रहाय प्रतिपादक: न वाचक इति ॥
रमणीयशब्दप्रतिपादके व्याकरणे अतिव्याप्तिवारणाय अर्थेति ॥
गामानयेत्यादिवाक्यवारणाय रमणीयेति ।।

द्वितीयोल्लासः

शब्दार्थों काब्यमित्युक्तं प्रथमोल्लासे। अनन्तरम् अस्मिन् उल्लासे शब्दार्थ-स्वरूपनिर्णयः क्रियते। तत्र प्रथमं त्रिविधः सब्द: त्रिविधोऽर्थश्चेत्याह ।

वाचकलाक्षणिकव्यञ्जकानां शब्दानां क्रमेण वाच्यलक्ष्यव्यङ्गयाः अर्थाः इति बोध्यम्। केचित् तात्पर्यार्थः इति चतुर्थमर्थं पदार्थव्यतिरिक्तमङ्गी-कुर्वन्ति। कोऽयं पदार्थव्यतिरिक्तः तात्पर्यार्थः ? कथं पदार्थेभ्यो व्यतिरि-क्तता तात्पर्यार्थस्य ? किं तस्य स्वरूपम् ? पश्यामस्तावत् ।

सः अर्थः परं प्रधानः यस्य सः तत्परः पदोच्चयः तत्परस्य भावः तात्प-र्यम्-तात्पर्याख्यः अर्थः तात्पर्यार्थः। वक्ष्यमाणलक्षणादीनाम् आकाङक्षादीनां प्रयोगात् यः पदार्थसमन्वयः प्रतीयते सः संकेतग्रहणमात्रप्रतीयमानात् पदार्थात् व्यतिरिक्तो भवति-कुतः पदार्थात् भिन्नस्वरूपः-अत एव आकाक्षादिकारण-त्रयेण प्रतीयमानो विशेषवपुः इत्युक्तम् । स एव वाक्यार्थोऽवभासते। सत्स्वपि पदार्थेषु आकाङक्षादिविरहे वाक्यार्थो न स्फुरति । आकाक्षादीनां प्रयोगतया तात्पर्यस्यांवभासेन योऽर्थः प्रतीयते स एव तात्पर्यार्थ:--पदार्थव्यति-रिक्तो वाक्यार्थः उच्यते।

मीमांसकानामेके भाट्टाः इमां तात्पर्यवृत्तिमाश्रित्य वाक्यार्थनिर्णये प्रव-र्तन्ते। अत एव तेऽभिहितान्वयवादिनः अभिहितानां पदानाम् अन्वयं वदन्तीति अर्थः । ’गामानय शुक्लं दण्डेन’ इत्यादौ पदानि स्वार्थमभिधाय अनन्तरम् अन्वि-तानि भवन्तीति ये वदन्ति तेऽभिहितान्वयवादिनः। अन्ये तु प्राभाकराः अन्विताभिधानवादिनः । अन्वितानां पदानामभिधानं वदन्तीति ते तथोक्ताः । पदानि प्रथममन्वितानि भूत्वा पश्चात् विशिष्टमर्थं वदन्तीति अन्विताभिधान-वादिनः। तस्मात् वाच्य एव वाक्यार्थः इति तेषाम् मतम्। वाच्ये अन्व-यांशस्य वर्तनात् तात्पर्यवृत्त्यङ्गीकारो नावश्यकस्तेषाम् ।

तात्पर्यवृत्त्या योऽर्थः प्रतीयते स तात्पर्यार्थः एव वाक्यार्थः। अथ वाक्या-र्थज्ञानक्रममुदाहरणपूर्वकं वक्ष्यामः । तत्र प्रथमं पदपदार्थान्वय आकाङक्षा- नाम दीनां स्वरूपज्ञाने सत्येव वाक्यार्थज्ञानक्रमः सुबोधो भवेदिति पदादीनां स्व-रूपम् उच्यते।

तत्र प्रथमं किं नाम पदम् ? वृत्तिमत्वं पदत्वम् अर्थवद्वर्णो वर्णसमूहो वा–यथा ‘गौः’। वृत्तिः शाब्दबोधहेतुपदार्थोपस्थित्यनुकूल: पदपदार्थयोः सम्बन्धः। शाब्दबोधो एकपदार्थेपरपदार्थसंसर्गविषयकं ज्ञानम् । पदार्थश्च-पदजन्यज्ञानविषयवाक्यं-आकाङक्षायोग्यतासन्निधिमत्पदोच्चयो वाक्यम्। वाक्यार्थश्च वाक्यतात्पर्यविषयः ।

अथ शाब्दबोधसहकार्याकाङक्षादित्रयस्वरूपं बोध्यम् । परस्परमर्थागमो-ऽन्वय उच्यते। येन पदेन विना यस्य पदस्य अन्वयबोधो न जायते तेन तस्य समभिव्याहारः ‘आकाङक्षा’। ’आनय’ इति पदेन विना ’गाम्’ इति पदस्य नान्वयबोध:-तस्मात् आनयेति पदेन गामिति पदस्य समभिव्याहारः । ’योग्यता’--बाधकप्रमाणविरहः–’वह्निना सिञ्चति’-दहनसेचनयोः पर-स्परविरोधात् एकत्र असम्भवः प्रत्यक्षसिद्धः । तथा वह्वेर्दाहकत्वं च प्रत्यक्ष -तस्मात् वह्निना सेचनं प्रत्यक्षेण प्रमाणेन बाध्यते। ईदृशं बाधकं प्रमाणं यत्र नास्ति सा योग्यता। सन्निधिः (आसत्तिः) येन पदार्थेन सह यस्य पदार्थस्य अन्वयः इष्यते तयोः पदयो: ’अव्यवधानम्’ । “गिरि(क्तं वह्निमान् देवदत्तेन" अत्र गिरिर्वह्निमानित्युभयोः नास्ति सन्निधिः। भुक्तमिति पदेन तौ व्यवहितौ। एवं ’भुक्तं देवदत्तेन’ इत्यत्र वह्निमानिति शब्दो व्यवधान-हेतुः।

अथ शाब्दबोधस्वरूपं निरूपयामः। एकपदार्थेऽपरपदार्थसंसर्गविषयकज्ञानं हि शाब्दबोधः इत्युक्तम् । ’गामानय त्वम्’ इत्यत्र गोपदार्थे आनयपदार्थस्य कीदृशः संसर्गः इति निर्णयः कार्यः । तथा तत्र त्वंपदार्थसंसर्गस्य स्वरूपञ्च बोध्यम् । गां-गोपदस्य गोत्वविशिष्टे पशुविशेषे शक्तिः द्वितीयाविभक्तेः कर्मत्वे शक्तिः–आङ-उपसर्गपूर्वक-नयपदस्य आनयने शक्तिः यकारोत्तर-अकारस्य कृतौ च शक्ति:-त्वंपदस्य सम्बोधनयोग्यचेतने शक्तिः, एवं पदा-र्थानां परस्परसम्बन्धज्ञानं शाब्दबोधो भवति ।

अथ वाक्यार्थज्ञानक्रम शास्त्रीयेण प्रकारेण दर्शयिष्यामः । गोपदार्थस्य द्वितीयार्थकर्मत्वे आधेयता सम्बन्धः-आधेयता च वृत्तित्वमुच्यते । पूर्वकनयतेर्धातोः आनयनार्थे कर्मत्वनिरूपकतासम्बन्धः । यकारोत्तर-अकारः कृतिप्रेरणार्थक:-कृतौ आनयनानुकूलतासम्बन्धः कृतेः त्वंपदार्थे आश्रयता- सम्बन्धः। प्रेरणायाः त्वंपदार्थे विषयतासम्बन्धः । तस्मादयं वाक्यार्थ-निष्कर्षः-गोवृत्तिकर्मतानिरूपकानयनानुकूलकृत्याश्रयः प्रेरणा-विषयः त्वंपदार्थः इति वाक्यार्थनिष्कर्षः।

अत्र तात्पर्यार्थः वाक्यार्थः शाब्दबोधश्च स्वरूपतः प्रतिपादिताः। इवं तु अवधेयम्। तत्प्रतीतिजननानुकूलवृत्तिमत्वं तात्पर्यम्। तात्पर्यार्थ एव वाक्यार्थः . संसर्गविषयकनिष्कृष्टज्ञानं शाब्दबोधः । आकाक्षादित्रयं तात्पर्यहेतुशाब्दबोधसहकारि ।

अर्थानां व्यञ्जकता

त्रयाणामपि वाच्यादीनां व्यञ्जकत्वं पद्योदाहरणेन ’ प्रतिपादितम् । तत्र वाच्यस्य व्यञ्जकत्वं “मातर्गृहोपकरणम्” इति पद्येन, लक्ष्यस्य “साधयन्ती" इत्यनेन, “पश्य निश्चल" इति पद्येन व्यङ्गयस्य च ।

वाचकादीनां स्वरूपप्रतिपादने प्रथमं वाचकमाह । अनेन शब्देनायमर्थो बोद्धव्य इति वृद्धपरम्परागतप्रत्ययरूपसंकेतः शब्दव्यापारः अर्थबोधजनको भवति । स वाचकः शब्द उच्यते-येन सङ्केतितोऽर्थो व्यवधानेन विना प्रतिपाद्यते।

अथ शब्दस्य कोऽर्थः ? न जातिः, गामानय, गां बधानेत्यादौ गोत्वजातिः आनेतुं बद्धं वा न शक्यते। तस्मात् जातेन प्रवृत्तिनिवृत्तियोग्यार्थो भवितु-मर्हति।

व्यक्तिरपि नार्थः शब्दस्य–अनन्ताः व्यक्तयः । सर्वाः अपि न ग्रहीतुं शक्यन्ते; उपस्थिते कस्मॅिश्चिद् गोपिण्डे सङ्केतः स्यादिति चेत् अन्यासु गो-जातिसम्बद्धासु व्यक्तिषु न भवेत् सङ्केतः, इदं चासङ्गतम् । यदि असङ्केतस्य अपि गोजातिसम्बद्धासु व्यक्तिषु अर्थग्रहः उच्यते, असङ्केतितेऽश्वेऽपि अर्थग्रहो भवेत्। अपि च व्यक्तौ एव सङ्केतश्चेत् शुक्लो गौः-चलो गौः इत्यादी शुक्लत्वादिर्न गृह्यते।

तस्मात्प्रायशः सर्वेषां जातिविशिष्ट-व्यक्ती सङ्केतस्य अङ्गीकारो बोध्यः ।

गौः शुक्लश्चलो डित्थ इति चतुष्टयी शब्दानां प्रकृतिरिति महाभाष्य-कारमतमनुसृत्य उपाधौ एव सङ्केत इत्युक्तम् । जात्यादिरेव उपाधिः विशेषणं, जातिः पदार्थस्य प्राणप्रदः सिद्धो वस्तुधर्मः यथा गोत्वादिजातिः। गुणस्तु विशेषाधानहेतुः सिद्धो वस्तुधर्मः शुक्लादि:-शुक्लो गौः। साध्यो वस्तु-धर्म:-क्रिया चलो गौः। डित्थादिः द्रव्यं-गोपिण्डं डित्थादि संज्ञा। इदमेव वक्तृयदृच्छासंनिवेशात्मकं पूर्वपूर्ववर्णानुभवजनित-संस्कारसहकृतया बुद्धया निःशे-षतो ग्राह्यं स्फोटाख्यं घटादिवत् वर्णक्रमशून्यं डित्यादिषु शब्देषु वक्त्रा यदृच्छया सन्निवेश्यते।

वैयाकरणानां स्फोटवादबोद्धव्याः केचनांशाः इह लक्ष्यन्ते। शब्दो द्वि-विधः-(१) वर्णात्मको ध्वनिः व्यञ्जकः, (२) स्फोटात्मकः शब्दो व्यङ्गयः । व्यञ्जकोऽनित्यः वर्णक्रमवान्, व्यङ्गयः स्फोट: नित्यं संहृतक्रमः। पूर्वपूर्व-वर्णश्रवणानुभवजनित-संस्कारसहितान्त्यवर्णेन क्षणिकेन ध्वनिना व्यञ्जकेन स्फोटाख्यः शब्दोऽखण्डो व्यज्यते। अनेन स्फोटेनार्थो ज्ञायते न तु ध्वन्या-त्मकवर्णेनानुलक्षणं नश्वरेण। ह्रस्वदीर्घमन्दोच्चादितारतम्यभेदो व्यञ्जकस्य वर्णस्य न तु अखण्डस्य व्यङ्गयस्य स्फोटस्य । स्फुटयतेऽर्थः अनेनेति स्फोट:-स्फुटत्यस्मादर्थः इति वा। स्फोट एव शब्द: न तु वर्णः । स तु केवलं व्यञ्जकध्वनिः ।

वाचकस्य शब्दस्य वाच्योऽर्थः जातिविशिष्टव्यक्तिरेवेति प्रायिकं बहुशास्त्र-सम्मतमुक्तम् । एवमस्मात्पदात् अयमर्थो बोद्धव्यः इति अनादिसङ्केत एव शक्तिवृत्तिः उच्यते। सेयं शब्दशक्तिः अभिधावृत्तिर्भवति-पदपदार्थयोः वाच्यवाचकसम्बन्धः इति वा।

शक्तं पदं अर्थप्रत्यायनरूप-कार्योत्पादनयोग्यम् ।

शक्योऽर्थः-पदनिष्ठशक्तिविषयः ।

शक्याख्यस्य अर्थस्य शब्दगतः सम्बन्धः शब्दस्यार्थगतः सम्बन्धो वा अभिधा -सा च शक्तिः त्रिविधा। केबलसमुदायशक्तिः केवलावयवशक्तिः समु-दायावयवशक्तिसङ्करः।

डित्थ इत्यादौ संज्ञाशब्दे अवयवशक्तिर्नास्ति, तस्मात्केवलसमुदायशक्ति-सद्भावाद् रूढः शब्दो डित्यादिः ।

पाचकः पाठकः इत्यावो केवलावयवशक्तिः । अत्र पचतेर्धातोः ण्वुल्-(अक्) प्रत्यये परे पाचक इति निष्पद्यते। अत्र धातुना प्रत्ययेन च यावर्थों बोध्येते तयोरवयेनैकोऽर्थः उल्लसति-स च पाककर्तृकरूपः-तस्मादृतेऽन्योऽर्थो मावभासते। अत्र समुदायशक्ति स्ति-केवलावयवशक्तिरेव। एवम् अव-यवश क्तियोगेनेच निष्पन्नः पाचकादिः यौगिकः शब्दः ।

पङ्कजादौ समुदायावयवशक्तिसङ्करः। अत्रावयवशक्तिवेद्यानां पङ्कजनन-कर्तृणाम् आकाङक्षादिवशादन्वयेन कश्चनार्थः प्रकाशते, स यौगिकार्थः पद्मा-दन्यत्र शैवलादावपि उपपद्यते, परंतु पद्मत्वविशिष्टे एव रूढो भवति। तदर्थं समुदायशक्तिकल्पनादुभयोः समुदायावयवशक्त्योः सङ्करः। ईदृशाः शब्दाः यौगिकमर्थमजहतः रूढाश्च भवन्ति इति योगरूढ इति व्यवहारः ।

यया वृत्त्या शब्दः सङ्केतितमर्थम् अव्यवधानेन प्रतिपादयति सा अभिधा कथिता ।

अथ लक्षणा

वाच्यार्थ एव मुख्यार्थः-तस्यासङ्गतिरूपे बाधे, तत्सम्बन्धे सति रूढे: प्रयोजनाद्वा लक्षणावृत्तिः शब्दव्यापारो भवति । लक्षणाप्रकारनिरूपणं बहुधा कृतं ग्रन्थकारैः। सविस्तरस्य तस्य काव्यशास्त्रेऽनुपयोगात् सोदाहरणं लक्षणानि षड्विधानि कारिकोक्तानि स्मारयिष्यामः । तत्र प्रथम, शुद्धा गौणीति द्विधा विभाज्या-शुद्धा चतुर्भेदा-गौणी द्विविधैव ।

शुद्धा-(१) उपादानलक्षणा-कुन्ताः प्रविशन्ति प्रविशन्ति (अजहत्-स्वार्था अजह-ल्लक्षणा वा शास्त्रान्तरेषु)

(२) लक्षणलक्षणा-गङ्गायां घोषः (जहत्स्वार्था जहल्लक्षणा वा शास्त्रान्तरेषु)

(३) सारोपा-आयुर्घतम्।

(४) साध्यवसाना-आयुरेवेदम् ।

गौणी-सारोपा-गौर्वाह्लीकः । साध्यवसाना-गौरयम् ।

अत्र गौणशुद्धभेदयोः ज्ञापकं लक्षणमवधेयम्। जाड्यमान्द्यादि-सादृश्या-तिशयमहिम्नोपचारमिश्रा गौणी गौर्वाह्लीक: इत्यादौ ।

शुद्धा तु बलप्रदत्वरूपकार्यकारित्वात् सम्बन्धात् आयुर्पुतमित्यादौ ॥ ताद-र्थ्यादयः सम्बन्धा बहवः इन्द्रार्था स्थूणा इन्द्रः इति उदाहरणेषु द्रष्टव्याः ।

अन्ते चेदं बोध्यम्। कर्मणि कुशल: इत्यादौ एव लक्षणा रूढिमूला चेत्सा व्यङ्गयरहिता भवति-प्रयोजनवती चेत् व्यङ्गयसहिता।

गूढागूढाख्यं द्विविधं लक्षणामूलं व्यङ्गयं क्रमेण "मुखं विकसितस्मितं", "श्रीपरिचयाच्च" इति पद्याभ्यां बोध्यम् ।

लक्षणायाः प्रयोजनं लक्षणावृत्त्या न गम्यते, नाप्यभिधया, व्यञ्जना-व्यापारेणैव गम्यते।

सर्वेषामर्थानां वाचकादीनां व्यञ्जकत्वमुक्तम्। तत्पुरस्तात् तृतीयोल्लासे विस्तरतः प्रपञ्चयिष्यते । अत्र अभिधामूलव्यञ्जनां प्रस्तुमः ।

यत्र “संयोगाद्यैः” इति कारिकोक्तहेतुभिः “सशंखचक्रो हरिः" इत्यादौ अनेकार्थस्य हर्यादिशब्दस्य विष्ण्वादिवाचकत्वं नियन्त्र्यते (नियम्यते)-तत्र व्यापारो व्यञ्जनैव । यत्र क्वचित्संयोगादिभिः अर्थान्तरे निवारि-तेऽपि अर्थान्तरप्रतिपादनं भवति तत्र व्यञ्जनैव वृत्तिः । यथा “भद्रा-त्मनः", "रागवानधर एष" इत्यादौ ॥

शब्दार्थों काव्यमित्युक्तं प्रथमोल्लासे । अनन्तरम् अस्मिन् उल्लासे शब्दार्थनिर्णयः क्रियते । तत्र प्रथमं त्रिविधः शब्दः त्रिविधोऽर्थश्चेत्याह । वाचकलाक्षणिकव्यञ्जकानां शब्दानां क्रमेण वाच्यलक्ष्यव्यङ्गया अर्थाः इति बोध्यम्।

मुखं विकसितस्मितमिति श्लोकस्य तात्पर्यम्

रसिकः कोऽपि युवा सुन्दरी काञ्चिधुपति निर्वर्ण्य, तस्यां यौवनोदयः समुत्कर्ष भजत इति पद्यमिदं गायति-

यथा माल्यसम्बन्धात् मालासूत्रस्यापि उत्कर्षों जायते, तथा उत्कृष्टयुवति-सम्बन्धाद्यौवनोदयस्यापि उत्कर्ष इति मुखाद्यनेकेषु स्थानेषु अनेकविधकार्य-जननरूपाणि उत्कर्ष-ज्ञापकानि चिह्नामि ‘मुखं विकसितस्मितम्’ इत्यादिना ब्रूते-

"बत"-खेदे विस्मये हर्षे वा। कुतः खेदः ? उच्यते। युवतिरियं इन्दुवदना स्वभावेनैव सुन्दरी, अस्यां पुनरेतादृशं यौवनं विजृम्भते। युवत्यां साधारणं चेत् सौन्दर्य, तत्र यौवनसङक्रान्तिश्च साधारणी स्यात् । तादृशे रूपे विदग्धयुवजनदृष्टिर्म पतेत्। असाधारणसौन्दर्यभाजनेऽस्मिन् युवतिजने तु बह्वयो विदग्धयुवदृष्टयः पतेयुः । तत्र कमपि पुण्यवन्तं समुचितं युवानं विहाय इतरेषां विदग्धयुवजनानां प्रार्थनासिद्धेविघातः स्यादेवेति महदिदं कष्ट-मापतितं तेषाम्। तस्मात् “बते"ति खेदे॥ अथ विस्मये वा॥ अति-शयोऽयं रमणीयताया इत्याश्चर्ये “बत" ॥ अथवा एतादृशदर्शनीयसन्दर्शनसौ-भाग्यं विदग्धयुवजननयनानाम् इति हर्षे "बत" ॥

अथ कथमयमुत्कर्षों ज्ञायते ? आह “मुखं विकसितस्मितम्”–विकसितं विस्तृतं स्मितं स्पन्दिताधररूपं मन्दहसितं यस्मिन् तत् । अत्र मुखे अस-म्भवता पुष्पधर्मेण विकासेन असङ्कुचितत्वसम्बन्धात् सातिशयत्वं (उच्छूनत्वं) लक्ष्यते। सौरभादि व्यज्यते ॥

"प्रेक्षितं वशितवक्रिम"-वशितः स्वायत्तीकृतः वक्रिमा वक्रता तिर्य-ग्गामित्वं येन तत्। प्रेक्षिते अचेतने असम्भवता वशीकरणेन चेतनधर्मेण स्वाभिमतविषयप्रवृत्तिसम्बन्धेन स्वाधीनता लक्ष्यते। उचितपुरुषानुरा-गित्वं व्यङ्गयम् ॥ “गतिः समुच्छलितविभ्रमा"-समुच्छलिताः सम्यगुद्गताः निरन्तरं सातिशयं प्रादुर्भूताः विभ्रमाः विलासाः यस्यां स।। समुच्छलित-त्वेन उद्गमरूपेण मूर्तधर्मेण कार्येण कारणं बाहुल्यं लक्ष्यते। समस्त विदग्ध-युवजनमनोहरत्वं व्यङ्गयम् ॥

"मतिः अपास्तसंस्था"-अपास्ता निर्धूता त्यक्ता संस्था मर्यादा यया सा। मर्यादात्यागेन चेतनधर्मेण कार्येण कारणम् अस्थैर्य लक्ष्यते । अनुरा-गाधिक्यं व्यङ्ग्यम्। यद्वा, संस्था एकविषयता, तत्परित्यागेन बहुविषयप्रवृत्ति-चतुरा परिच्छेदातीता बुद्धिरित्यर्थः। एवम् अत्यन्तनैपुण्यं लक्ष्यम्। तेन गुरुजनसन्निधाने अनुरागगोपनं व्यङ्गयम् ॥

"उरो मुकुलितस्तनम्”—मुकुलोऽस्य सञ्जात इति मुकुलितः मुकुल-तुल्यः स्तन: वक्षोजः यस्मिन् तत्। मुकुलितत्वेन पुष्पधर्मेण सान्द्रावयव-त्वसम्बन्धात् काठिन्यं लक्ष्यते काठिन्यं लक्ष्यते वृद्धिप्रवणता वा। तेन आश्लेषयोग्यता रूपातिशयो वा व्यज्यते ॥

"जघनम् अंसबन्धोधुरं"-असः भुजशिरः अन्येषामप्यङ्गानामुपलक्षणम् । अंसबन्धेन प्रत्यङ्गविभागलाभेन उद्धरं उत्तुङ्गम् जघनम् ऊरुमूलम्। उद्-धुरत्वं उत्क्रान्तधुरत्वं वृषभादिधर्मः। तेन पीनत्वसाम्यात् पुष्टत्वं लक्ष्यते । प्रत्यङ्गविभागात् मध्यकार्यसिद्धेः जघनस्य उत्तुङ्गत्वं लक्ष्यते । उपभोग-योग्यत्वं व्यङ्गयम्॥

"इन्दुवदनातनौ"-चन्द्रमुखीशरीरे। अत्र इन्दुर्वदनं यस्याः सा इति वदने इन्दुत्वम् आरोग्य उपचरितं चेत् सुवृत्तत्वशोभावहत्व-आह्लादकत्वानि लक्ष्यन्ते। विरहतापोपशमो व्यङ्गयः॥

"तरुणिमोद्गमः"-तरुणिम्नः तारुण्यस्य उद्गमः उदयः। स चाङकुर-धर्मः तरुणिमनि नोपपद्यते। नवोद्भेदसाम्यात् तारुण्यस्य नवत्वं लक्ष्यम् । सर्वजनाह्लादकत्वं व्यङ्गयम् ॥

"मोदते"- हृष्यति। हर्षश्चेतनधर्मः यौवनोदये नोपपद्यते। जन्य-जनकभावसम्बन्धेन उत्कर्षों लक्ष्यते। स्पृहणीयत्वं व्यङ्गयम् ॥

एवमत्यन्ततिरस्कृतवाच्यध्वनिरयं श्लोकोऽवगन्तव्यः॥

चतुर्थोल्लासः

’विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः" रसनिष्पत्तिः” इति भरतसूत्रम् । अस्य सूत्रस्य तात्पर्यपरिग्रहे मतभेदो वर्तते ॥ तत्र चत्वारि मतानि व्या-चख्युः मम्मटभट्टाः। तदुक्तिक्रमानुसारण प्रथमं भट्टलोल्लटप्रभृतीनां सिद्धान्तमाख्यास्यामः ।।

( विभाव-अनुभाव-व्यभिचारि-स्थायिनां स्वरूपं सुविज्ञाततया नेह विचार्यते। अन्यत्र विभावादीनां शब्दव्युत्पत्तिरवलोकनीया ॥)

१. ललनादयः आलम्बनविभावाः । उद्यानादयः उद्दीपनविभावाः । रत्यादेः स्थायिभावस्य ललनोद्यानादिविभावेन उत्पाद्य-उत्पादकभावः सम्बन्धः। कटाक्षभुजाक्षेपादिना अनुभावेन गम्य-गमकभावः सम्बन्धः । उत्कण्ठादिना व्यभिचारिणा पोष्यपोषकभावः सम्बन्धः॥ एवं त्रिविधात् सम्बन्धात् रसस्य निष्पत्ति: उत्पत्तिः अभिव्यक्तिः पुष्टिश्च भवति ।

प्रकारान्तरेण ब्रूमः-आलम्बनविभावैः रत्यादिक: स्थायी जनितः, उद्दीपनविभावैः उद्दीपितः अनुभावै: प्रतीतियोग्यः कृतः, व्यभिचारिभिः परि-पोषितश्च भवति । सोऽयं रसः रामादौ अनुकार्ये नाटयेन अभिनयक्षमे वर्तमानः नटे सामाजिकै: आरोप्यमाणः तेषां चमत्कारहेतुः भवति । रामादि: अनुकार्यः- (अनुकृते विषयभूतः), नट: अनुकर्ता, अनुकृतिश्च राम-सदृशवेषधारण-अभिनयादि-नटननैपुण्यसाध्या । यद्यपि रत्यादिः प्रथम रामादावेव तथाऽपि नटे तथाऽपि नटे रामादितुल्यरूपतानुसन्धानवशाद् रत्याद्यारोपः क्रियते सहृदयैः सामाजिकैः ॥ एवम् आरोपितो रत्यादिरेव रसपदवीमधि-रोहति। यथा सर्पाभावेऽपि सर्पबुद्ध्या अवलोकिता रज्जुः द्रष्टरि भयमु. त्पादयति, तथा रामाद्यभावेऽपि रामादिबुद्धया अवलोकितः नर्तकः ’रामो-ऽयं सीताविषयकरतिमान्’ इति सहृदये सामाजिके चमत्कृति करोति। इति अस्य मतस्य सारांशः ॥

अत्रेदं वक्तव्यम् । नैतद् युक्तम्। कुतः ? यदि सामाजिकेषु रस-निष्पत्तिर्न स्यात्, तदा चमत्कारानुभावो न संभवति । संभवति। केवलं तज्ज्ञान-मेव चमत्कारहेतुरिति न वाच्यम्। कुतः ? लोके (न तु नाटये काव्ये वा) शृङ्गारादिदर्शनेन चमत्कृतिः प्रसज्येत। कटाक्षभुजाक्षेपबलाद् आरोपः चमत्कारहेतुः न केवलं साक्षात्कार इति चेत्, न। सुखं न कदा-प्यारोपजन्यं, वस्तुतो विद्यमानमेव । यथा चन्दनलेपं विना चन्दनारोपेण सुखं न भवति, तद्वत् सामाजिके आरोपाच्चमत्कृतिर्न निष्पद्यते रसनिष्पत्ति सूत्रस्य अन्यथा व्याख्याने उपपत्तिर्दृश्यते ।।

२. द्वितीयं मतं शङकुकस्य

स्थायिनो रत्यादेः विभावादिभिः अनुमाप्य-अनुमापकभावः सम्बन्धः, तेन रसनिष्पत्तिः अनुमितिः इति । (अनुमाप्यः स्थायी इत्यादिः अनुमापक: विभा-वादिः) अयं अनुमानाकारः

रामोऽयं सीताविषयकरतिमान् (पक्षः), सीताद्यालम्बनविभावादिसम्बन्धत्वात् (हेतुः), यो यदात्मकविभावादिसम्बन्धवान् स तद्रतिमान् ।

अयं च तथा, तस्मात् तथेति (उदाहरणम्)। पूर्वोक्तमते नटे रामत्वम् आरोपितम्। अत्र नास्ति आरोपः, किंतु प्रत्यक्षं राममेव पश्यन्ति सामा-जिकाः । कथम् इति चेत् चित्रतुरगन्यायेनेत्याह। नटे रामत्वप्रतीतिः प्रतीति-चतुष्टयविलक्षणा॥

तत्र इमाश्चतस्रः बुद्धयो भवन्ति-

63

अयं क्रमः-उक्तप्रतीतिभ्यः विलक्षणया बुद्धया चित्रे "तुरगोऽयम्" इतिवत् ’रामोऽयम्’ इति प्रथमं नट: गोचरीक्रियते । ततः तत्र अविद्यमान-मपि विभावादित्रयं लिङ्गं कृत्रिमं नटस्य शिक्षाभ्यासबलात् प्रकाश्यते । सहृदयैः सामाजिकस्तेन लिङ्गेन कृत्रिमेण रत्यादिरनुमीयते। सा च अनुमितिः चमत्कारसनाथा प्रतीति: चर्वणा भवति । तया चर्वणया गोचरी-क्रियमाणः स्थायी रस: उच्यते । स च सामाजिकेष्विति व्यवहारः ।। नेदं - हृदयग्राहि। कुतः? प्रत्यक्षमेव ज्ञानं चमत्कारकम्, न अनुमित्यादिरिति लोकप्रसिद्धिमवधूय अन्यथा कल्पने मानाभावात् (प्रमाणं नास्ति)॥

सूत्रस्य अन्यथा योजना संभवति॥

३. भट्टनायक आह-

विभावादिभिः संयोगाद् भोज्यभोजकभावसम्बन्धात् रसस्य निष्पत्तिः भुक्तिरिति ॥ प्रथमे मते रसस्य निष्पत्तिः उत्पत्तिरभिव्यक्तिर्वा द्वितीये सा अनुमितिः तृतीये तु भुक्तिः। सोऽयं भोगपक्षः संक्षिप्यते ॥

ताटस्थ्येन (स्वसम्बन्धराहित्येन) रसप्रतीतिः नास्वाद्यते। नटगतत्वेन नानुमीयते। नाट्यकरणकाले रामाद्यभावेन तद्रत्यादेरप्यभावः असतः सत्त्वे-नानुमानं न संभवति। वस्तुतो रामादिगता रतिः नटगतत्वेन अनुमिताऽपि कथं सामाजिके असती चमत्कारं जनयेत् ? कथं तर्हि भोगपक्षे सामाजिके-ऽपि रंसस्य असिद्धत्वात् भोगः संभवति इति चेद् उच्यते ॥ अयं भोगः अलौकिकः । कथम् ? शब्दात्मनः काव्यस्य त्रयो व्यापाराः। अभिधा, भावना, भोगीकृतिरिति । तत्र अभिधा द्विविधा। निरन्तरार्थनिष्ठा ( व्यवधानरहिता) मुख्यार्थविषया, सान्तरार्थनिष्ठा लक्ष्यार्थविषया। भावना, भावकत्वं साधारणीकरणम् । एतदेव सीतादिविशेषाणां कामिनीत्वादि-सामान्येन उपस्थापनम्, अनेनैव भावकत्वव्यापारेण विभावादयः स्थायी च साधारणीक्रियन्ते। एवं काव्ये नाटये च भावकत्वव्यापारेण साधारणी-कृतविभावादिभिः तृतीयव्यापारभूत-भोजकत्वसाहित्येन रत्यादिः स्थायी भुज्यते ॥ को नामायं भोगः ? उच्यते तत्स्वरूपम्। सत्त्वरजस्तमोगुणानाम् उद्रेकेण क्रमेण सुखदुःखमोहाः प्रकाश्यन्ते । यदा रजोगुणं तमोगुणं च अभिभूय सत्त्वगुणोऽवतिष्ठते, तदा सत्त्वोद्रेकः । पूर्वोक्तरीत्या भावकत्व-व्यापारेण विभावादिरूपसीतादयः सीतादित्वसम्बन्धांशम् अपहाय सामान्येन कामिनीत्वेनैव उपस्थाप्यन्ते, तथा रामादिसम्बन्धिनी रतिश्च रामादित्व-सम्बन्धांशम् अपहाय सामान्यतः रतित्वेनैव उपस्थाप्यते ॥ एवं साधारणी-कृतविभावादिसहकृतेन भोजकत्वव्यापारेण रसनिष्पत्तिः रसास्वादः॥ भावकत्वव्यापारकल्पना न लक्षणाप्रयोजनव्यञ्जकतया अभि-धया सान्तरार्थनिष्ठया एव भावनाव्यापारस्य गतार्थता बोध्या भावना, भुक्तिरिति व्यापारद्वयकल्पनायाः मानाभावात् इति ॥ अस्मिन् मते भुज्य-मानो रत्यादिः रत्यादिभोगः उभयमेव वा रसः, स च ब्रह्मास्वादसमीप-वर्ती चर्वणानैपुण्यसम्पादक-वासनासम्पन्न-सहृदयः सामाजिकात्मगतः ।। तदा द्रष्टुः स्वरूपेऽवस्थानम् इति योगसरणिम् अवलम्ब्य सत्त्वोद्रेकाद् रसभुक्ति-रेव रसव्यक्तिरित्याहुः ॥

४. चतुर्थम् अभिनवगुप्तपादानाम्-

पूर्वस्मिन् मते यो भावनाख्यव्यापारः स्वीकृतः स नेष्यतेऽस्मिन् । तत्रो-क्ता भुक्तिरेव व्यक्तिः । अन्या सैव सरणिः॥

अयं संक्षेपो भवति-विभावाद्यैः व्यक्तः (व्यक्तिविषयीकृतः) स्थायी भावो (रत्यादिरेव) रसः । का नाम व्यक्तिः ? भग्नावरणा चित् (आत्मचैतन्यम्) एव व्यक्तिः। यथा शरावादिपिधानेन पिहितः दीपः पदार्थान् न प्रकाशयति, स्वयं च प्रकाश-मानः न दृश्यते, पिधाने अपावृते स्वयंप्रकाशो दृश्यते पदार्थान् अपि प्रका-शयति तथा व्यञ्जकानां विभावादीनां चर्वणा (सामाजिककृता) आवरणं भञ्जयति। एवं चर्वणामहिम्ना सहृदयस्य निजसहृदयताया उन्मेषेण रत्यादिः स्थायी रसपदवाच्य-आनन्दस्वरूपो भवति । स च आनन्दः न लोकसाधारणः । समाधौ योगिनश्चित्तवृत्तिः यथा स्वस्वरूपे तन्मयीभावेन अवतिष्ठते तथेति ।।

अयं सारांशः। यथा शमीतर्वादौ अग्निः वर्तमानोऽपि न प्रकाशो भवति, संघर्षमथनादिना तु निष्पाद्यते, तथा रत्यादिः स्थायी भावः सहृदया-त्मनि नित्यो वर्तमानः अनभिव्यक्तः सन् विभावादेः (पानकस्येव) चर्वणया व्यञ्जितः रसतां प्राप्नोति ॥

इदं च अवधेयम् ॥ आत्मा साक्षी भासकः (प्रकाशकः) । अन्त:-करणधर्माः तेन साक्षिणा भास्याः चितः आवरणभङ्गे, आत्मचैतन्यं विभा-वादिसंवलितान् रत्यादीन् प्रकाशयति, स्वयं च प्रकाशते ।

अनुमानम्

येन अनुमीयते तद् अनुमानम्। लिङ्गपरामर्शः अनुमानम् । किं लिङ्गम् ? कस्तस्य परामर्शः ? धूमः अग्नेलिङ्गम्, तस्य तृतीयं ज्ञानं परामर्शः॥ महा-नसे धूमज्ञानं प्रत्यक्षं तत् प्रथमम्। पर्वतादौ धूमज्ञानं द्वितीयम्। तत्रैव पर्वते पुनधूमं परामृशति ’अस्त्यत्र पर्वतेऽग्निना व्याप्तो धूम इति’। तदिदं तृतीयं ज्ञानम् ॥ अयमेव लिङ्गपरामर्शः अनुमिति प्रति कारणं भवति, तस्माद् अनुमानम् ॥

व्याप्ति-यत्र धूमस्तत्र अग्निरिति साहचर्यनियमः व्याप्तिः । व्याप्ति-बलेन मर्थं यद् गमयति, तत् लिङ्गम्, यथा धूमोऽग्नेलिङ्गम् ॥

अनुमानं स्वार्थ परार्थं चेति द्विविधम्। आद्यं स्वप्रतिपत्तिहेतुः । यमेव महानसादौ धूमाग्निसाहचर्यनियमरूपां व्याप्ति गृहीत्वा, पर्वतं गतः तत्र धूमं पश्यन् तेन उद्बुद्धसंस्कारः व्याप्ति स्मरति ’यत्र धूमः तत्र अग्नि’रिति ततः अत्रापि धूमो वर्तते, तस्मादग्निरप्यस्तीति स्वयमेव प्रतिपद्यते। इदं स्वार्थानुमानम् ॥ यत् स्वयं धूमादग्निमनुमाय परं बोधयितुं प्रवर्तमानः कश्चित् पञ्चावयववाक्यं प्रयुक्ते तत् परार्थानुमानम् ॥ प्रतिज्ञादीनां पञ्चानाम् अव-यवानां विवरणं न्यायसूत्रानुसारेण इत्थं भवति-

साध्यनिर्देशः प्रतिज्ञा65

व्याप्तिः अन्वयेन व्यतिरेकेण च द्विधा भवति । यत्र धूमस्तत्राग्निरिति अन्वयव्याप्तिः। यत्र अग्निर्नास्ति तत्र धूमोऽपि नास्तीति व्यतिरेकव्याप्तिः ।। सर्वेऽपि प्रतिज्ञादि-पञ्च-अवयवान् नाङ्गीकुर्वन्ति । त्रय एव अवयवाः अलम् इति वेदान्तिनः मीमांसकाश्च मन्यन्ते ॥ (प्रतिज्ञाहेतूदाहरणरूपाः उदाहरण-उपनय-निगमनरूपा वा त्रयः, न तु पञ्च-अवयवत्रयेणैव व्याप्तिपक्षधर्मयोः उप-दर्शनसंभवेन अवयवद्वयस्य वैयर्थ्यम् ॥)









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates