CWSA Set of 37 volumes
Writings in Bengali and Sanskrit Vol. 9 of CWSA 715 pages 2017 Edition
Bengali
 PDF   

Editions

ABOUT

All writings in Bengali and Sanskrit including brief works written for the newspaper 'Dharma' and 'Karakahini' - reminiscences of detention in Alipore Jail.

Writings in Bengali and Sanskrit

Sri Aurobindo symbol
Sri Aurobindo

All writings in Bengali and Sanskrit. Most of the pieces in Bengali were written by Sri Aurobindo in 1909 and 1910 for 'Dharma', a Calcutta weekly he edited at that time; the material consists chiefly of brief political, social and cultural works. His reminiscences of detention in Alipore Jail for one year ('Tales of Prison Life') are also included. There is also some correspondence with Bengali disciples living in his ashram. The Sanskrit works deal largely with philosophical and cultural themes. (This volume will be available both in the original languages and in a separate volume of English translations.)

The Complete Works of Sri Aurobindo (CWSA) Writings in Bengali and Sanskrit Vol. 9 715 pages 2017 Edition
Bengali
 PDF   

संस्कृतरचनाः




ऋग्वेदः

[१]

Hymns of Vasishtha to Agni

VII.1.

  1. Men have brought the Flame toe birth by their thinkings fromthe tinders by the movement of the two hands, expressed by the word, the far-seer, the master of the house, the traveller.

अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयंत प्रशस्तं ৷
    दूरेदृशं गृहपतिमथर्युँ ॥

अरण्योः
Heaven and Earth = mind and physical being, are the two tinders

हस्तच्युती
The two hands are the two hands of the Sun,सवितेव बाहू

दीधितिभिः
दीधिति = thought, light, finger. All mean the same thing, forthe fingers are those of the two hands of the Sun, दश धियः

प्रशस्तं
Well-expressed (शस्) by the word: external sense = praised.

अथर्युँ
अथ् to move, cf अत् or अथर्? — Greek αἰθήρ— the plane of flaming light

नरः पुरुषा मनुष्या देवा वाग्निं जनयंताजनयन् जनितवंतः। कुतः। अरण्योर्दीधितिभिर्बुद्धिभिरंगुलिभिर्वा हस्तच्युती हस्तद्वयचालनेन। कीदृशमग्निं प्रशस्तं प्रशंसितमचा प्रत्यक्षीकृतं वा मंत्रेण शंसितमिति।दूरेदृशं दूरादेव पश्यति यः दूरादृश्यते वा तादृशं । गृहपतिं गृहस्य पतिमथर्यु पथगामिनं च॥ तपसो देवतामग्निं नित्यमपि संतं मर्त्या मनुष्याः मत्र्ये मनुष्ये अमरा देवा वा शरीरे हृदि सर्वदा जनयंति यथा नूनमपि जनितवंतः। अरण्योरेव जनयंति मनसः शरीराच्च देहाद्धि हृदि मनोघर्षणेन तपोऽग्निर्जायते। दीधितिभिर्हस्तच्युत्या जायते। हस्तौ तु विज्ञानदेवस्य सूर्यस्य दशांगुलयश्च सूर्यप्रचोदिता दश धियः। दश धियो अग्निमप्युत्पादयंति सोममपि सुन्वति तपश्च यावदानंद च।ता च दश यथान्नमयी दैहिकी मस्तिष्कं गता बुद्धिरेका द्वितीया प्राणमयी तृतीया चेंद्रियमयी संज्ञानमयी च चतुर्थी पंचमी तु प्रज्ञानमयी या चाज्ञानमयी सा षष्ठी सप्तमी विज्ञानमयी सा चाष्टमी यानन्दघनमयी नवमी च चिन्मयी दशमी च सन्मयीति । एता च सर्वा चिरने विज्ञाने पूर्णचेतनाप्राप्ता पूर्णीभूता विज्ञानसूर्यस्य दश रश्मयो दशांगुलयो मनुष्यचैतन्ये तु मानसीभूता मनोमयो हि मनुष्यः । सूर्यस्य च द्वौ हस्तौ ययोर्दक्षिणो ज्ञानमयो वामश्च शक्तिमयः। तौ च पुरुषप्रकृतिप्रधानौ हृदि तपो जनयंति मनुष्यस्य परमार्थचिंताभिः दशविधाभिश्च ताभिः संयुक्ताभिरेकीभूतविज्ञानमयीभिश्च पूर्णं तपो जायते। तं च तपोऽग्निं प्रशस्तमिति वर्णयति यावद्वाङ्मयेन विज्ञानवता मंत्रेण स तपोमयः पुरुषः प्रकटीकृतगुणरूपः प्रकाशमय्या स्तुत्या च स्थिरीकृतश्चेतसि विकाशते। यतश्च विज्ञानमयः स तपोऽग्निः ततः स दूरेऽपि पश्यति सर्ववस्तूनि सर्वसत्यानि यानि परमाणि यानि चावमानि विश्वे । स तपोमयः पुरुषश्च मनोबुद्धिप्राणयुक्तस्य त्रिवृतो मनुष्यशरीररूपस्य गृहस्य पतिः गृहस्वामी ह्येष पुरुषः सृजति रक्षति भुङ्क्ते च शरीरगृहेषु योऽयमग्निः । तत्र स चासीनोऽपि पथेषु व्रजति तस्मादथर्युः स हि दूतो नेता च पथि युद्धे यज्ञे यतो सर्वाः शक्तीः सर्वाश्च चेष्टा नयति पुरोगामी तपोदेवताग्निः॥


[२]

म० १०॥१२४॥

इमं नो अग्न उप यज्ञमेहि पंचयामं त्रिवृतं सप्ततन्तुं।
असो हव्यवाळुत नः पुरोगाः ज्योगेव दीर्घं तम आशयिष्ठाः॥१॥

हे अग्निनामक तपोरूप ईश्वरविभूते अस्माकमिदं कर्म प्रत्यागच्छ। कीदृशं । पंचयामं यस्मिन पंच यामा गतयो देहिनो यात्राया गंतव्यस्थानरूपाणि पृथिव्यंतरिक्षं द्यौः स्वर्मय इति पंच धामानि। त्रिवृतं यस्मिंस्त्रयो वृत्तयः शरीरप्राणमनोरूपाः। पुनश्च सप्ततन्तुं यस्मिन्देहप्राणमनोविज्ञानानन्दतपोसदूपाः सप्त यज्ञतन्तवः॥ देहिनो देवोद्देशी कर्ममयः प्रयास एव यज्ञः। भगवान्स देवो यस्याग्निवरुणप्रभृतयो नामरूपाणि संति। कर्म तु देहमयः प्राणमयो मनोमय इति त्रिवृत्। तस्य च सप्त तत्त्वानि सप्त तन्तवः। स प्रयासः पर्वतारोहणरूपा महती यात्रेव। तस्या यात्रायाः पंचधामानि पृथिवीत्यन्नमयमेतन्मयं जगदंतरिक्षमिति प्राणमयमन्नमयस्योत्स एव। तस्य च प्राणमयस्य द्यौरिति मनोमयं। तस्य च मनोमयस्य स्वरिति मूर्धा। स्वलॊकस्तु विज्ञानमयस्य सूर्यप्रतिष्ठितस्य महर्लोकस्य मनोमयी प्रतिकृतिः। तद्विज्ञानमयं स्वर्वा बृहद्द्यौर्वा सत्यमृतं बृहदिति देवानां स्वो दम इति ख्यातः।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates