ABOUT

Volume 4 contains the Bhūmika, Introduction to Rig Bhashya, followed by the text and the commentary of Suktas 1 - 19 in Sanskrit & English

THEME

CWTVKS Volume 4


ऋग्भाष्यभूमिका




अथ चतुर्थः खण्डः

अथ देवता-मीमांसायां वक्तव्यमिदमवशिष्यते –

तथाविधाः सन्ति मन्त्रा बहुत्र दाशतय्यां संहितायां, येषां गूढार्थ-विवरण-मन्तरेण तात्पर्यं न सङ्गच्छते बाह्यपक्षावलम्बनेऽसामञ्जस्यमेवापद्यते। अन्यच्चेदं अवधेयम् । यद्यपि नव्याः पाश्चात्यविचार-मार्गानुसारिणः सायणीय-बाह्यार्थ-पद्धतिमेवाश्रयन्ते, तथाऽपि देवता अधिकृन्य ते भारतीयप्राचीन-सम्प्रदायानुसारिणं सायणं न सर्वथाऽनुयान्ति। देवता-विषये स एव विशेषः। अस्मदीयाः पूर्वे देवानां तत्तल्लोकाध्यक्षत्वं तत्तत्तत्त्वाभिमानित्वं वाऽभिप्रयन्ति स्म। सूर्ये स्तूयमाने तन्मण्डलाध्यक्षस्तन्मण्डलान्तर्वर्ती वा पुरुषः स्तुतो भवति। एवं अग्न्यादीनां स्तुतावपि अग्न्याद्यभिमानि-देवतास्तुतिः कृता भवति। नव्यास्त्वत्र प्रत्यवतिष्ठन्ते । अग्निवाय्विन्द्र-सूर्यादीनां दृश्यब्रह्माण्डगत-पदार्थ-रूपत्वमानं अङ्गीकृत्य तत्र अधिष्ठा-नाभिमानाध्यक्षतादीन् उद्धृत्य निराकार्षुः । अत्रेदं कारणं भवति । प्राकृतावस्थानां वेद-कवीनां केवल-कल्पना सा, यया जड-वस्तुषु देवतात्वारोपणं साधितमिति तेषां मतम् । गूढार्थ-सिद्धान्तिनो वयं तु बाह्यपदार्थानां सङ्केत-रूपत्वं पश्यन्तोऽपि पृथिव्यादीनां अग्न्याद्यधिष्ठानत्वं अभ्युपगच्छामः अन्तर्बहिश्च देवानामधिकारं पश्यतो गूढार्थ-सिद्धान्तस्य अर्थाविष्कार-नये सर्वत्र अन्तरर्थस्य प्राधान्यं बोध्यम् ।।

अथ मन्त्र-वर्णानामुदाहरणेनेदं प्रतिपादयामः--यच्चेतना एव देवा अन्त-दृष्टि-गोचरा इति। बाह्यार्थ-पक्षावलम्बनेन तथोपपत्तिर्दुर्घटा। प्रधानदेवतानां इन्द्रादीनां अप्रधानत्वेन परिगणितानामपि मरुदादीनां च प्रस्तावेषु स्थूलार्थ-पक्षे पर्यवसन्नोऽर्थी न सङ्गत इति प्रदर्शयिष्यामः--’तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम् ॥ (१-२२-२०)। अस्मिन्मन्त्रे प्रतिपादितो देवो विष्णुः सूर्य इति व्याचक्षते। बाढम् । सूर्य एवायं विष्णुः, किं तु नासौ लौकिको भवितुमर्हति। कुतः? यत् प्रत्यहं सञ्चारे नभोमध्यं तेनाधिगतं भवति तदेव परमं पदं भवतीति वक्तव्यम्। तच्च सूरयः सर्वदा पश्यन्तीति आह। कथं खमध्यं सर्वदा सूर्य-मण्डलाधिष्ठितं भवेत्, यच्च सूरीणामेव गोचरं स्यात् ? लौकिकं चेत् सूर्याक्रान्तं पदं तद् असूरि-जनस्यापि गोचरं स्यात्, कुतः सूरिजन-गोचरमिति वक्तव्यम् ? अलौकिकोऽतीन्द्रियार्थः सूरि-जनसाक्षाद्दर्शनविषय इति असंशयम्। न चेत् काल्पनिकमिदं असम्बद्धप्रलपितं भवेत् यत् सूरयः सदा खमध्यं सूर्याक्रान्तं पश्यन्तीति। अलौकिकत्वादेव तद् धाम श्रेष्ठं दिवि समन्तात् ततं चक्षुरिव सदा पश्यन्ति सूरय इत्युक्तम् ।।

एवं जातीयकमन्यं मन्त्रं निरीक्षामहे--उद् वयं तमसस् परि ज्योतिष्पश्यन्त उत्तरम् । देवं देवत्रा सूर्यं अगन्म ज्योतिरुत्तमम् ।। (१-५-१०)। अस्यायमर्थ:-’वयं तमसः अन्धकारात् पाप्मनः परि उपरि उत् उद्गम्य उत्तरं उद्गततरं उत्कृष्टतरं वा ज्योतिः पश्यन्तः सन्तः देवत्र देवेषु देवानां मध्ये देवं द्योतमानं सूर्य उत्तमं ज्योतिः अगन्म प्राप्नुयाम ।’ अयं सामान्यार्थो मन्त्रस्य। तमः-शब्देन पाप्मा कथित इति ब्राह्मण-वाक्योदाहरणेन सायणो व्याचष्टे । तहि नायं लौकिक: सूर्यः । सायुज्यमेव उक्तमृषिणा प्रस्कण्वेनेति तुरीयपाद-व्याख्याने सायण एवाह। अस्यामृचि स्पष्टमुक्तं अतीन्द्रियार्थ-सूर्यपदवाच्यं उत्तमं ज्योतिः। यथा कथञ्चिद् व्याख्यातेनाप्यनेन मन्त्रेण बाह्यो लौकिक: सूर्यो न निर्दिष्ट इति स्पष्टम् ।।

बाह्याः सूर्यादयो भावा एव देवता इति वादो नोपपद्यत इति प्रदर्शयितुं सूर्यात्मक-विष्णुदेवताकमेकं ज्योतिःस्वरूप-सूर्यदेवताकमन्यं च मन्त्रं उदाहार्म । अथेन्द्रदेवताका ऋचः कतिचन परीक्षामहे। इन्द्र: किल त्रिलोकाधिकारिकाणां देवानां राजा मेघ-मण्डलादूर्ध्वं तिष्ठन् वृत्रपदवाच्यं मेघं वज्रेण हत्वा विसृजत्यप इति वदन्ति । यद्यपि एवंविधान् अभिप्रायान् समर्थयितुं तत्र तत्र प्रकरणात् पृथक्कृता मन्त्रा अवकाशं दद्युः, तथाऽपि बहुत्र नोपपद्यन्ते। अन्तरर्थानुसारेण तु सर्वत्र सामञ्जस्यं परिस्फुटं भवति-’दूरे तन्नाम गुह्यं पराचैर्यत् त्वा भीते अह्वयेतां वयोः’--(१०-५५-१) । अत्र ऋषिरिन्द्रं सम्बोध्य प्राह--’तद्रहस्यं ते नाम दूरे वर्तते, येनैव साधनेन द्यौश्च पृथिवी च त्वां आह्वयत’ इति । ‘महत तन्नाम गुह्यं पुरुस्पृग् येन भूतं जनयो येन भव्यम् ।’ (१०-५५-२)। ’तद् रहस्यं नाम महद् भवति, यस्मै स्पृहयन्ति लोकाः, येनैव साधनेन सर्वं जातं त्वं अजनयः, जनितव्यं च जनयति त्वं इन्द्रः’ इति स्पष्टार्थो मन्त्रः। आत्रेय-मण्डलस्थं एक मन्त्रं पश्याम:--’अवाचचक्षं पदमस्य सस्वः उग्रं निधातुरन्वाय-मिच्छन्। अपृच्छमन्यान् उत ते म आहुः इन्द्रं नरो बुबुधाना अशम ॥’ (५-३०-२) ऋषेः बभ्रोरियं मन्त्र-दृष्टिः । अयं भाव:--’तस्येन्द्रस्य दृढं रहस्यं धाम अहं अद्राक्षम् । नितरां धातारं प्रतिष्ठापकं तं कामयमानोऽहं तत्पदं अधिगतवानस्मि । कथम् ? प्रथमं अहं अन्यान् बुधान् अपृच्छम् । तैरेवं उक्तोऽस्मि, नेतारो वयं प्रबोधवन्तः सन्तः तं इन्द्रं प्राप्नुयाम’ इति। पुनश्च तदेव रहस्य, पूर्वोदाहृत-मन्त्रयोः रहस्यं नाम, अत्र तु धाम। किं तत् पदं नाम वा अभ्र-मण्डलात् किञ्चिदधिकं वोज़ वा वर्तते? मन्त्रवर्णः स्पष्टमाह प्रबोधे सति इन्द्रकामस्य इन्द्राधिगमो भवतीति । इन्द्रमत्र ‘निधातारं’ नितरां धारकमाह। किमयं काल्प-निको देवः क्वाप्याकाशे वर्तते ? किमत्र ‘बुबुधानाः’ इति प्रयोगन ऋषीणां साधारण-स्वापोत्थानमेव निर्दिष्टम् ?

अथ मरुतोऽधिकृत्य, ते चण्ड-वाता एव भवन्तु । यद्यपि मरुत्वत इन्द्रस्य भ्रातर इमे नेन्द्र इव प्रधान-देवता भवन्ति, यद्यपि विशेषतो बाह्यव्यापारा एव लक्ष्यन्ते, अत एव बाह्यार्थपक्ष-प्रोद्वलकाः-तन्मन्त्रा इत्यसंशयं स्थूल-दृष्ट्या, तथाऽपि तेषां अन्तर्व्यापारवत्त्वं पाप्मनो रक्षणं, अन्यथा गूढ-स्वरूपत्वं इत्यादीनि मन्त्रेथ्यो ऽवगम्यन्ते। अघेभ्यो रक्षार्थं अगस्त्यो मरुतः प्रार्थयते ’अघाद्रक्षत’ इति। यदि मरुतो बहिर्व्यापारा ऋषेः स्तवेन प्रसाद्यन्ते, ऋषेरावासस्थानानि अन्यानि द्रव्याणि च प्रचण्ड-मारुताघातेभ्यो रक्षितानि भवन्तु । कथं तेषां चेतन-व्यापारा पाप-नाशिनी शक्तिरन्तर्व त्तिः सम्भवेत्, यदि ते जडा: केवलं बाह्य-भावाः स्युः ? वसिष्ठस्यह मन्त्र-दृष्टिमवधत्त--’ इहेह वः स्वतवसः कवयः सूर्यत्वचः। यज्ञं मरुत आवृणे ।।’ (७-५६-११)। ऋषिराह--" भोः मरुतो देवा यूयं ’स्वतवसः’ स्व-बलेन वृद्धाः ‘कवयः’ क्रान्त-दर्शिनः ‘सूर्यत्वचः ’ सूर्य-प्रभव युष्माकं आवरकं रक्षक चर्म, तादृशेभ्यो युष्मभ्यं अहमिहैवाधुना यजनं कल्पयामि” इति। कथं इमे क्रान्त-दशिनः अत एव चेतनावन्तः केवलं बाह्य-भावाश्चण्ड-मारुता जडा भवितुं अर्हन्ति ? ’एतानि धीरो निण्या चिकेत’ (७-५६-४) इति द्वितीय-खण्डे प्रागुदाहृतेन मन्त्रेणाऽपि सूक्ष्म-दशिनो धीरस्य ऋषेरेव मरुतां रहस्यानि विदितानि भवन्तीति सिद्धम् ।।

अथ सोमः । अयं च लता-विशेषः बाह्यो भाव इत्यसंशयम्। अत्रापि याज्ञिक: सङ्केत-रूप एवायं अन्तरर्थ-गम्यस्य चिदानन्द-क्षरणस्वभावस्य देवस्येति क्वचिद्विशदं भवति मन्त्रेषु। बाह्य-पक्षे तु बहुत्र मन्त्रा असंगतार्था एव भवन्ति । आयुर्वेदे कल्पौषधित्वेन ख्यातः सोमः। सोमपान-मदोन्मत्ताः कवयो यथेच्छं सोम-वैभवं गायन्तीति निरंकुशं कल्पयन्ति नव्याः कल्पना-चतुरा :। सोमस्य चतुर्विंशति-भेदा: कथिताः सुश्रुत-संहितायां चिकित्सा-स्थाने (अ. २६)। तत्र न क्वापि तस्य मद-प्रभावो वर्णितः। विचित्रमिदं यदृषयः पानमद-लिप्सया बहुशतसंख्याकै-मन्त्रैः सोमं तुष्टुवुरिति, वस्तुतस्तु लतायाः केवलसङ्केत-रूपतामात्रम् । अन्तरर्थेनैव सर्वत्र सोम-मन्त्राणां सामञ्जस्यं लक्ष्यते--’विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस्ते सतः परि यन्ति केतवः। व्यानशिः पवसे सोमधर्मभिः पतिविश्वस्य भुवनस्य राजसि’ (६-८६-५) । कथमयं मन्त्रो सोमलता-परत्वेन व्याख्यातुं शक्यः ? स्वयं विचार्यतां मतिमद्भिः, अयमस्यार्थ:--विश्वचक्षः सर्वार्थ-दर्शिन् ! सोम, प्रभोः परिवृढस्य सतः ते तव ऋभ्वसः महान्तो द्रष्टारः केतवः प्रज्ञापकाः रश्मयः विश्वा सर्वाणि धामानि तेजः-स्थानानि देव-शरीराणि परियन्ति परितो गच्छन्ति प्रकाशयन्तीत्यर्थः। हे सोम, व्यानशिः व्यापनशीलस्त्वं धर्मभिर्धारकैः रसपदवाच्य-आनन्दनिष्यन्दैः पवसे क्षरसि। विश्वस्य भुवनस्य पतिः स्वामी त्वं राजसि ईश्वरो भवसि इत्ययमर्थः सायण-भाष्यानुसारेणैव प्राप्तो भवति । एतावतोक्तेनापि यदि सोमविषये सन्देहो न व्यपेतो भवेत्, अन्यो मन्त्रः संशय-च्छेदको दशम-मण्डलस्थो जागर्ति- सोमं मन्यते पपिवान् यत् सम्पिषन्त्योषधिम् । सोमं यं ब्रह्माणो विदुः न तस्याश्नाति कश्चन ।।’ (१०-८५-३)। अस्मिन् मन्त्रे वस्तुतः सोम-स्वरूपस्य निर्णयः कृतः। सामान्यतः सर्वोऽपि सोमलता-पेषणेन रसमादाय पानं कुरुते, यं वस्तु-तत्त्वज्ञाः तात्त्विकं सोमं विदुः तस्य भोक्ता दुर्लभ इति ह्यस्य ऋचोऽभिप्रायः ।।

अथोषसमधिकृत्य। उषः प्रभात-कालो बाह्य-पक्षे साध्वेव कथ्यते। किं तु तस्याः तत्त्वं अन्तरर्थ-गम्यं, नात्र सन्देहः। उत्तमं ज्योतिरिति वेद-प्रतिपादितस्य सत्यस्य सूर्यस्य साक्षात्कारात्मकाद् उदयात् प्राक् तस्य पुरस्सरा देवी सौरी प्रभा आविर्भवति। अत एव तां ’ऋतावरी’ ’सूनृता’ इति वर्णयन्ति मन्त्राः ऋतस्य रश्मि अनुयच्छमाना भद्रं भद्रं ऋतुमस्मांसु धेहि’ (१-१२३-१३) इत्यत्र सत्यस्याध्वानमनुगच्छन्ती उषसं ऋषि: कल्याणतमं दृढप्रज्ञा-बलं याचते। कथं प्रभात-कालस्येदृशं सामर्थ्य सम्भवति ? एवं अन्येऽपि देवाः मित्रो वरुणोऽश्वि-नावित्यादयः स्थूल-पक्षानुसारेण अनिर्णीत-बाह्यभावा अपि अन्तरर्थानुसारेण विस्पष्टदेवभावा इति तत्तन्मन्त्र-तात्पर्यावगाहने सुगमं भवति ।।

अथेदं निरीक्षणीयम् । एकस्यैव परस्य देवस्य सर्वे देवा बहूनि नामानि अङ्गानि व्यक्तयश्चेति प्रागुक्तम् । किमयमाशयः मन्त्र-वर्णेभ्य एव सिध्यति, उत, औपनिषद-तत्त्वविदां अक्किालिकानां व्याख्यान-बलादिति संशयः। अत्र नव्या ऋग्वेदे प्रायशो नानांदेवतावाद एव सर्वत्र, उपनिषत्स्वेव सत्यं एकमेवाद्वितीयं ब्रह्म प्रतिपादितम् । यद्यपि क्वचित् एकदेवस्वरूपज्ञानं ऋषीणां लक्ष्यते, तथाऽपि तदर्वाचीन-मन्त्रेषु विशेषतः दशमे मण्डले’ इत्याहुः । अत्र ब्रूमः। नेदं तथ्यम् । बहुभ्यो मण्डलेभ्यो मन्त्रान् उदाहरामः यत्र अग्निरिन्द्रोऽन्यो वा देवः साक्षात्तदेक-स्वरूपभावेन स्तूयते ऋग्वेदे। तदेकं, एकं सत्, उत्तमं ज्योतिरिति च सूर्य-पदवाच्यं परमं सत्यं श्रूयते, यस्यैव व्यापार-भेदात् व्यक्ति-नामभिभिन्ना देवा इति च ज्ञायते। अत्र प्रथमं तावद् बहुधोदाहृतः प्रसिद्धो दैर्घतमसो मन्त्रवर्णो भवति । ’इन्द्रं मित्रं’ इत्यारभ्य ‘एकं सद्विप्रा बहुधा वदन्ति’ (१-१६४-४६) इति तृतीये पादे सारं प्रदर्शयति मन्त्रदृष्टिः ।।

वैश्वामित्र मण्डले द्वाविंशत्यूच एकस्मिन् सूक्ते--’ महद् देवानां असुरत्वं एकम्’ (३-५५) इति सर्वास्वापि ऋक्षु आवृत्त्या पठितम् । असुरत्वं प्रबलं महदैश्वर्यं एक इत्युक्तम्। अन्यत्र (३-५४-८) ’विश्वेदेते’ इति मन्त्रे ‘विश्वं एक चरन् पतत्रि विषुणं वि जातम्’ इति तुरीयः पादः । अस्या ऋचोऽयमर्थ:--द्यावापृथिव्यौ सर्वाणि जातानि विविक्तानि कृत्वा धारयते, सर्वान् देवान् बिभ्राणे अपि भार-श्रमाद्वयथां न प्राप्नुतः। यत् चराचरात्मकं विश्वमीष्ट तदेव चरं भवति पतत्रि भवति नाना-रूपतया जातं च भवति इति । अथः वामदेव्य मण्डले ’वपुषामिदेकम्’ (४-७-६) इति प्रयुक्तम् । पुनश्च ‘वपुषामपश्यम्’ इति पञ्चमे मण्डलेऽपि मन्त्रो दृश्यते (५-६२-१) । स च प्रागुदाहृतो व्याख्यातश्च तृतीय-खण्डे । ’ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः। विश्वे देवाः समनसः सकेताः एकं क्रतुं अभिवियन्ति साधु’ (६-६-५)। अयं आग्नेयो मंत्रः, अत्रापि ध्रुवं अमृतं ज्योतिः अन्तनिहितं दर्शनाय, तमेकं क्रतुं प्रति सर्वे देवाः स्वैः पथिभिः साधु यान्तीति कथितम्। वासिष्ठे मण्डले (७-३३-१०) ’विद्युतो ज्योतिः’ इति मन्त्रे ’तत्ते जन्मोतैकं अगस्त्यो यत्त्वा आजभार’ इति गीतम् । दशमे मण्डले (१०-८२-२) ’यत्र सप्त ऋषीन् पर एकमाहुः’ इति स्पष्ट-मुक्तम् । तत्रैव सूक्ते (ऋक् ६) ’अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः’ इति मंत्र-वर्णः। जन्मरहितस्य तस्यैकस्य नाभौ सर्वे लोकाः प्रतिष्ठिता इत्युक्तं, ‘सुपर्णं विप्राः कवयो वचोभिः एकं सन्तं बहुधा कल्पयन्ति (१०-११४-५) एवं तदेकं परं सत्यमेव देवो देवानां ऋक्संहितायां गूढमगूढं वा स्तूयत इति प्रदर्शयितुं बहुभ्यो मण्डलेभ्यः मन्त्रा उदाहृताः, न केवलं दशम-मण्डलात्। इदं च तत्त्वं मनसि निधाय यदि न केवलं आग्नेयसूक्तानि इन्द्र-सोमादि-सूक्तानि च पश्यमार्थ-विचांराय, तदा असन्दिग्धं भवेदिदं यत्तदेकं सदेव सर्वेऽपि देवाः येषामेकैकोऽपि स्वसदृशं साहाय्यं विनियुज्य यजमानं नरं तदेकं परं ज्योतिरमृतं सत्यं प्रापयतीति ।।

अत्र काश्चन ऋच उदाहरिष्यामः, याभिस्तदेकमेव परं ज्योति: बहु-देवताकारभृद् वर्ण्यते---’येषामों न सप्रथो नाम त्वेषां शश्वतामेकमिद्भुजे । वयो न पित्र्यं सहः ।।’(८-२०-१३)। ऋषिः सोभरिः काण्वः मरुतो देवान् अधिकृत्याह। अयं भावः। तेषां मरुतां एक नाम भ्राजमानं समुद्रवत् पृथुलं बहूनां भोगाय पित्यं बलमिव भवतीति। अनेन मरुतामेकाधारत्वं बहूनां देवानां यजमानानां वस्तु-जातस्य वा उपकारकत्वं च द्योतिते। वालखिल्यसूक्ते (८-५८-२) ’एक वा इदं वि बभूव सर्वम् ।। इति स्पष्टम् । ‘अयमस्मि जरितः पश्य ऋतस्य एकमासीनं हर्यतस्य पृष्ठे’ (८-१००-३,४,५) । ऋषि नेम इन्द्रास्तित्वे जातशङ्ख इन्द्र आह--’ अहमस्मि स्तोतः, पश्य मम महिम्ना विश्वानि जातानि अतिक्रम्य स्थितोऽस्मि, ऋतस्योपगन्तारो मां वर्धयन्ति, ऋतं कामयमानाः समारुह्य मामुपयन्ति, अहं तु एक आसीनोऽस्मि नाकपृष्ठे’ इति। ‘ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसृणाम् । ते धामान्यमृता मानां अदब्धा अभिचक्षते ॥’ (८-१०१-६)। अत्र देवानां व्यापार-महिम्ना यजमाने जातं महद्धनं एकमेव ज्योतिः तिसृणां मातृणां पुत्रत्वेन कीर्तितम् । ‘स सप्तधीति-भिहितः नद्यो अजिन्वदद्रुहः। या एकमक्षि वावृधुः ।।’ (६-६-४)। भूरादि-सप्तलोकधाम-गताभिः धी-शक्तिभिर्धारितः स ( सोमः) तेजोवाहिनीरप्रीणयत् । ताश्च नद्यः ‘एक अक्षि’ विश्वकचक्षुःशब्द-वाच्यं सर्वार्थ-दर्शि ज्योतिः अवर्धयन् इति भावः । ‘महन्महत्या असुरत्वमेकम्’ (१०-५५-४) इदं च ‘महद्देवानां असुरत्वमेकम्’ इति प्रागुदाहृत-वाक्यप्रायम् ।।

एवं देवानां एक-मूलत्वं एकात्मत्वं एक-लक्ष्यत्वं च मन्त्रवर्णै रेव ग्राह्याणि भवन्ति। तेषां पृथक्त्वं तु नामतो व्यापारतो व्यक्तितश्चेत्यवधेयम् । अत एव तेषां लिङ्गानि मन्त्रेभ्य एवावगम्य पूर्वैरुक्तानि ॥ आयुध-वाहन-वर्णादयोऽपि लक्षयन्ति देवता-विशेषान् । ’बभ्रुरेक’ इति प्रागाथमण्डलीय-सूक्तात् (८-२६) तत्त्वमिदमवगम्यते। वाहनान्यधिकृत्य निरुक्त-निघण्टौ (१-१५) ’हरी इन्द्रस्य इत्यारभ्य ’नियुतो वायोः’ इत्यन्तं पठ्यते एवमपि देवता-लिङ्गानि मन्त्र-वर्णेष्वेव लक्ष्यन्ते ।।

अथेदं वक्तव्यम् । यद्यपि सर्वेषां देवानां कर्माणि ऊर्ध्व-मूलानि परस्मा-द्धाम्नः प्रारभन्त इत्यसंशयं, तथाऽपि तेषां प्राधान्यं साक्षात्साहाय्यं आरा-दुपकारकत्वं वा यजमानस्य अध्वरपद-वाच्येन अन्तर्यागमार्गेण दिवमारोहतः यात्रा-दशायत्तमिति वक्तव्यम् । विश्वमेव ह्यन्तर्बहिर्वा देवतानां अधिकार-क्षेत्रम् । तस्मात्तासां कर्तव्यानि ऊर्ध्व-मूलाद् आपृथिव्याः प्रवृत्तानि प्रसरन्ति, तत्र तत्र सोपानपद-विशेषेषु यावदपेक्षं विभिद्यन्ते। यद्यपि एककस्मिन् धामनि मध्यमार्ग तदधिष्ठानदेवतायाः प्राधान्य नाधिकारः, तथाऽपि सा एकमेव मुखं परमस्य देव-देवस्य। अन्याश्च देवतास्तस्याः पश्चात् परस्ताद्वा व्यापृतास्तत्साहाय्येऽवतिष्ठन्ते। इदमेव तत्त्वमाधारो भवति मन्त्र-दृशामृषीणां देवतास्तवेषु, यत्र बह्वीषु देवतासु स्तूयमानास्वपि एककामपि सर्व-देवतात्मभावेन प्रकरण-बलात् पृथक्त्वेन च उपतिष्ठते स्तोता यजमानः। ऋषेमन्त्र-द्रष्टुरिमे देवाः सत्याः, न तु काल्पनिका इति किमु वक्तव्यम् ?

अथेदमवधातव्यम्। अन्तर्यजने चलति, यजमानस्य तत्तत्पदमधिष्ठातु-रग्न्यादेर्देवस्य च सम्बन्धोऽभिनिष्पद्यते। स च पिता-पुत्रसखित्वादिरूपो बहुविधो लक्ष्यते वेदे। अन्यच्च इदं चित्रं, यद् यो देवः पालक: पिता पूज्यो भवति, स एव यजमाने जायमानः पुत्रो भवतीति। अत एव सर्वेऽपि देवाः ब्रह्माण्डेऽधि-काराय प्राप्तप्रथमजन्मानः यजमाने द्वितीयं जन्म लभन्ते। तस्माद् द्विजन्मानो देवा इति संगच्छते। कथं कुतो वा यजमाने देवानां द्वितीयं जन्म? उच्यते। दिवः परस्तात् परस्माद् धाम्नः प्रस्थितस्य विश्वस्य मूर्धा द्यौः शिखर-भूता भवति, तदारभ्य पृथिव्यां पादभूतायां विरमतीव विश्व-सृष्ठिः। एवं द्यावा-पृथिव्योरन्तराले पर्वतशिखर-पादयोरन्तर इव बहूनि पदानि गिरि-प्रस्थवदव-तिष्ठन्ते। तदधिष्ठान-देवैः परिपक्वे यजमाने स्वीय-वैभवाधानपूर्वकं तदुद्धाराय स्वीयं जन्म लभ्यते। एषां मुख्यः प्रथमजोऽग्निर्भवति । तस्मात्तस्यैव स्वरूपाधिकार-विचारः क्रियते। तथा कृते अन्येषां देवानां तत्त्वमपि सुगमं स्यात् । तत्र यथापूर्वं मन्त्र-वर्णाधारेणैव निर्वाहः भवति ।।

कोऽयमग्नि-देवः यः प्रबोध्य ऋषिभिरीड्यते? नायं नूनं भौतिको भवितुमर्हति, पञ्चसु भूतेषु तृतीयस्य तस्य जडत्वात्, तेजस्तत्त्वाभिमानित्वेऽपि बाह्य-सङ्केतमात्रत्वाच्च। नापि स बहिर्यज्ञकर्मणि अरणि-निर्मथितो वा भवितु-मर्हति, यं देवं विना अमृतानां देवानां सम्मदो न विद्यते। ’न ऋते त्वां अमृता मादयन्ते’ इति हि मन्त्र-दृष्टिः। देवोऽयमग्निः- कविक्रतुः’, क्रान्तदर्शिनः प्रज्ञा अस्येति बहुशो गीयते वेदेषु । अस्मिन् सर्वयज्ञ-रहस्यज्ञानं निहितं, अस्मिन् सर्वेऽपि रमन्ते अमर्त्यां इत्येवमर्थको मन्त्र-राशिर्जेजीयते दाशतय्यां संहितायाम् । स मुखं भवति देवानां, आस्यं च भवति। स हि सर्वं यजमानेनार्पितं हविः देवान् प्रापयति। स एव देवानामग्रे तिष्ठन् प्रभुखो यजमानमुपगच्छति हवि-रादानाय । हविरर्पणानि प्रणतीश्च स्वीकृत्य देवानास्वादयति, प्रीणयति । तस्मात्स दूतो देवानाम् । तद्द्वारेणैव मोऽमत्र्यैः सह व्यवहर्तुं प्रभवति। स नेता ’नर’ उच्यते। होता च यज्ञस्य ऋत्विक् । स निर्वहन् यज्ञ-विधिं देवानांह्वयति यज-मानकृत-द्रव्यत्यागपरिग्रहाय। स एव तस्मात्सर्वेषामाद्यो देवानां मत्यै जनितुम् । इदं च प्रागुक्तं द्वितीयं तस्य जन्म। स ’ऋतुः’ दैवी दृढप्रज्ञा-शक्तिः मानुषे ‘एवमेतत्, नान्यथा’ इति अध्यवसायात्मिका बुद्धिर्भवति। तादृशः ‘क्रतुः’ यदा अरण्योर्निर्मथनांद्याज्ञिकाग्निरिव द्यावा-पृथिव्योविश्वस्य पित्रोरनुग्रह-योगात् मर्त्यस्य हृदय-वेद्यां प्रादुर्भूतो भवति, तदा सुप्तोत्थित इव यजमान-स्वात्मार्प-णान्यादाय पदे पदे दिवमारोहति। सोऽयमग्निः हृदयस्थ-दैवज्वालो भवति, यस्य स्वं वास-स्थानं बृहती द्यौः, यश्च मर्येष्वमो जायते। जातश्च स सप्तभिः स्वसृभिः पोषितो भवति। सप्तमातृ-स्तनन्धयं तं आपः सप्त-सिन्धवः समादृत्य पुष्णन्तीति वर्ण्यते। इदं च सप्तकं भूरादि-सत्यलोकान्ताः सप्तभूमिका-गताः सप्त-तत्त्वान्मिकाः शक्तय इति ग्राह्यम्। सप्ततत्त्वात्मक-सप्तभूमिका-ज्ञानशक्ति-वैभवानि अस्मिन्नग्नाववस्थितानीति बोध्यम् । अत एवानेन हविराद्यर्पणेषु उपात्तेषु सप्तापि धामानि तद्भाग-हराणि भवन्तीति द्योतयितुं सप्ताचिस्सप्त-जिह्वादिः अग्नि-पर्यायशब्दः प्रयुज्यते। तथा यजमान-दानेषु सप्तभूमिकाः प्रापितेषु, तत्र यजमानस्य धामानि सिद्धानि भवन्ति, तदीय-देवानाममानां जन्मापि मर्ये यजमाने सम्भवति।

बहुव्यपदेश-भागग्निर्वेदे गीतो गुहापद-वाच्ये रहसि हृदये निहितः किल । अग्निधर्म-बोधकानि कानिचिन्नामानि ख्यापयतो मन्त्र-वर्णान् साभिप्रायानुदाहृत्य कथं अग्निरेव स्कन्दः कुमार इति पुराणेषु प्रथितोऽभवदिति निरूपयिष्यामः । अनादेः कालादृषीणां अयं दृढः प्रत्ययः, यदग्निर्नाम सत्यो देवः, न काल्पनिकः नापि केवलं भौतिको याज्ञिको वा, किं तु देवोऽयममयों मत्र्येष्विति। भृगृपद-वाच्याः सत्य-सौर-प्रभाशक्तय ऋषित्वं प्राप्ताः दिबोऽग्निमाहृत्य मानुषे निधि-भूतं मित्रमिव न्यधुरित्याहुः। किमर्थम् ? मानुषस्य दिव्यजन्म-लाभायति गायन्ति । तथा च राहूगणः ‘दधुष्ट्वा भृगवो मानुषेषु. मित्रं न शेवं दिव्याय जन्मने’ (१-५८-४)। ईदृश्य ऋचो बह्वयो दृश्यन्ते, यासां तात्पर्यं न संगच्छेत यदि वयं ऋषीणां कमपि रहस्यं अन्तर्विश्वं विदितमिति नाभ्युपगच्छेम। ‘इम नो यज्ञममृतेषु धेहि इमा हव्या जातवेदो जुषस्व’ (३-२१-१) । ’भोः अग्ने सर्वेषां जातानां वेदितः! त्वमिमं अस्मदीयं यज्ञं अमृतेषु देवेषु धेहि, इमानि हव्यानि तत्रार्पयितुमर्हसि’, इति प्रार्थयते यजमान ऋषिः। ’अयं कविरकविषु प्रचेता मर्येष्वग्निरमृतो निधायि’ (७-४-४) । अयमग्निः क्रान्त-दर्शी ‘अकविषु अतथा-भूतेषु दृष्टिहीनेषु मर्येषु अयममृतो न्यधायि इति स्फुटार्थो वसिष्ठस्य मन्त्रः। ’महानसि अध्वरस्य प्रकेतः, .न ऋते त्वदमृता मादयन्ते’ (७-११-१)। स्वर्गाध्व-प्रयाणात्मकं यज्ञं अधिकृत्य प्रकृष्ट-ज्ञानोपेतः अग्निः । तस्मादृते देवानां सम्मदो न विद्यत इति वसिष्ठः पुनरत्र ब्रूते। ‘अग्नि सूनुं सहसो जातवेदसं. .द्विता योऽभूदमृतो मर्येषु ’(८-७१-११)। स्वयं दिव्योऽपि अत्र मर्येषु अमर्त्य इति द्विधा-भूत इत्युक्तम् । अपश्यमस्य महतो महित्वं अमर्त्यस्य मासु विक्षु’ (१०-७६-१)। अग्नेः अमर्त्यस्य महतो महिमानं मर्येषु अहमद्राक्षमिति सौचीकस्य मन्त्र-दृटेस्तात्पर्यम्। अत्रिमण्डले स्पष्टार्थ एष मन्त्रो भवति–’अग्निर्देवेषु राजति अग्निर्मर्तेष्वाविशन् । अग्नि! हव्यवाहनः अग्नि धीभिः सपर्यत ॥’ (५-२५-४) इति । तत्रैव मण्डले (सू. ११ ऋ. २) ’यज्ञस्य केतुं’ इति मन्त्रे, यज्ञविषयक-प्रज्ञाविशेषः अग्निः, होता इन्द्रेणान्यैश्च देवैः सह एक रथं अध्यासीनो बहिरेतीति कथितम् । ’यो मर्येष्वमृत ऋतावा’ (१-७७-१) इति राहूगणस्य, ‘विश्वायुर्यो अमृतो मर्येषु’ (६-४-२) स मर्येष्वमृत प्रचेताः’ (६-५-५) ’उप वो गीभिरमृतं विवासत’ (६-१५-६) इति भारद्वाजस्य च मन्त्र-वर्णाः मत्र्येष्वमृतमग्निमुद्घोषयन्ति ।।

एवममोऽग्निरस्ति चेदस्मासु, स वर्तेतैव कुत्राप्यस्मासु गूढे स्थाने। तच्च हृत्पदवाच्यं रहस्यमन्तरमाहुर्मन्त्र-द्रष्टारः। तदेव गुहा-पदेन व्यवह्रियते। अग्नेरावासः सा गुहा बहुषु मन्त्रेष्वाम्नायते। तदत्र पराशर-विश्वामित्र-वामदेवानां सूक्तेभ्यः सङक्षेपतो मन्त्रभागान् उल्लिखामः –

पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम्’ (१-६५-१) हस्ते दधानो नृम्णा विश्वान्यमे देवान् धाद् गुहा निषीदन् । विदन्तीमत्र नरो धियं धा हृदा यत्तष्टान् मन्त्रानशंसन्’ (१-६७-२), ’विश्वायुरग्ने गुहा गुहं गाः’ (१-६७-३), ‘य ई चिकेत गुहा भवन्तम्’ (१-६७-४), चित्रं सन्तं गुहा हितम्’ (४-७-६), ’गुहा चरन्तं सखिभिः शिवेभिः’ (३-१-६), एव-मादयो मन्त्र-वर्णा अग्नेर्गुहावासं रहस्यं अन्तर्निहितं हृदयमुदीरयन्ति ।।

अथ सप्त-तत्त्वात्मकं विश्वं अस्मिन्नमर्येऽग्नौ निहितं इति सर्वथा सप्तक-सम्बन्धित्वेन अयं वर्ण्यते। सत्वं बलं ज्योतिः आनन्द इति सर्वाणि सप्तधा भवन्तीति गीयते, अत एवाग्नेः सप्तक-सम्बन्धित्वं बहुधोक्तम्---‘आ यस्मिन् सप्तरश्मयस्तता यज्ञस्य नेतरि’ (२-५-२), ’दमे दमे सप्त रत्ना दधानोऽग्निर्होता निषसाद यजीयान्’ (५-१-५) ’इदं मे अग्ने कियते पावकामिनते गुरुं भारं न मन्म। वृहद् दधाथ धृषता गम्भीरं या पृष्ठं प्रयसा सप्तधातु ॥’ (४-५-६) । सप्तभूमिका-भारं दुर्भरं वोढुं न शक्तोस्मि, अतः पावक, भोः। इमं च चिन्ता-भारं मह्यं मा दाः इति सारांशः । सप्त स्वसृररुषोर्वावशानो विद्वान् मध्व उज्जभारा दृशे कम्।’ (१०-५-५) इति त्रितः। अन्यत्र--सप्त धामानि परियन्नमर्त्य’ इति (१०-१२२-३)। ‘सप्त ऋषयः प्रतिहिताः शरीरे’ इति शुक्ल-यजुर्वेदीयं मन्त्रं यास्केनोदाहृतं च स्मारयामः। तस्मात् सप्त गिरयः सप्त सिन्धवः, सप्त ऋषयः, सप्त स्वसारः, सप्त धामानि इति सर्वत्र सप्तकं श्रूयते । इदं च प्रागुक्त-प्रकारेण सप्त-तत्त्वान्मिकां विश्व-सत्तामधिकृत्य तद्गत-ज्ञानशक्ति-तेजोविशेषयुक्तं भूमिका-परम्पराणां तदाधिकारिक-देवतानां वा वा यथा-सम्भवं द्योतकमिति बोध्यम् ॥

अथ अग्निस्वरूप-विचारे मुख्य-प्रसक्त्या अपां स्वरूपं विचारयितव्यम् । का इमा आपः सिन्धवो वा, याः सप्त-विधा उद्घोष्यन्ते वेद-मन्त्रेषु? ता ऋतस्य धाराः परस्याश्चित: प्रवाहाः, परचित्तेजोवाहिन्यः । इमाश्च तदावरकस्य वृत्रासुरस्य वज्रण हत्या देवराजेन इन्द्रेण विसृज्य निर्मुच्यन्त इति बाह्याः । पार्थिव-चैतन्ये ऋतधारा-प्रवेशं यः प्रतिरुणद्धि तस्यासुरस्य बाह्यः सङ्केतो वृत्रशब्दवाच्यो मेघ इत्यवधेयम्। वसिष्ठ-वामदेव-सूक्तेभ्यः तत्रापि विशेषतः ’समुद्रज्येष्ठाः’ (७-४६) ’समुद्रादूर्म (४-५८) इत्याभ्यां स्फुटमिदमवगम्यते, यदखण्डसत्य-स्वरूपस्य रूपकं बिम्बमेव समुद्रः, आप एव ऋचतिद्धाराः, सिन्धवः सप्त-विश्वभूमिका-सप्तकगत-सर्जनधारणतेजोवाहिन्यः शक्तयश्चेति । इदं च सङ्केत रहस्यं वैश्वामित्रस्य आद्यस्य आग्नेय-सूक्तस्य तात्पर्य-विचारादसन्दिग्धमवधार्यते तदत्र समासतः प्रधान-विषयान् आवेदयामः ।।

अग्निमदर्शन्नप्सु देवाः। तस्मिन् सप्त बलिष्ठाः (यह्वीः) पुष्टि प्राप्ताः । स च मोदवान् अभवत् । जन्मना श्वेतः संवर्धनेन रक्तः (अरुषः) अरुणो वा। ताः अश्वाः तं नव-प्रसूतं शिशुं अभिजग्मुः (अभ्यारु:)। ज्योतिर्वसानः अप्सु परितो वसन् अन्यूनानि विपुलानि वैभवानि स स्वयं अकल्पयत् .. यौवना देव्यस्तमेकं गर्भं दधिरे। ताश्च सप्तवाण्यः। प्रकाशमानधी-सारमूले मधुनः प्रवाहेषु विश्व-रूपेषु तस्य वपुर्विततमभवत् । अत्र धान्यो नद्यः (धेनवः) स्वयं पोषिका अवर्तन्त । साधोस्तस्य देवस्य द्वे च मातरौ विशाले भूत्वा सुसङ्गते संवृत्त। जन्मना स पितुः सत्त्वसमृद्धिं अवेदीत्। स स्वीया धारा व्यसृजत्, स्वीया विपुलाः सरितश्च। स्वयमेक: बह्वीनां वर्धमानानां मातृणां स्तनन्धयो भूत्वा समवर्धत। ऋते बृहति अवियोज्याभिः स्वसृभिः (जामिभिः) तस्मै परिकल्पितं वासं स स्वीचकार । अपारे स्वीये रहसि स्थाने वसन्तं तं अमृतं दुदुहुस्ताः । अयं वैश्वामित्र-सूक्तैकदेशस्य सारांशः ।।

अथ मन्त्रस्थ-पदानि तत्र तत्रोपयुज्य सङ्केतार्थ-विवरणं करिष्यामः । इमाश्च सप्त (नद्यः) आपः सत्या दिव्याश्च भवन्ति। उच्चैर्धाम्नस्ता अग्निमानेषु-रत्र प्रतिष्ठापयितुम् । स चाग्निदिव्यं रहस्यं वस्तु, पृथिव्यां ओषधीषु निहितः, अरणि-भूतयोः द्यावा-पृथिव्योः घर्षणादाविर्भावयितव्यः। अतो द्यावा-पृथिव्योः शिशुरुच्यते, शुद्धसत्त्व-मनःप्रधाना धु-स्थाना चिदेव द्यौरुच्यते। पार्थिव-मनः प्रज्ञाप्रधाना जागरित-स्थाना चित् तु पृथिवीति सङ्केतिता। उभयोापार-बलात् प्रयासतो मर्त्यः तद्रहस्यं बस्तु अग्न्याख्यं निष्पादयेत् । दिव्यास्वप्सु तु स सुदर्शः, बलेन ज्ञानेन भोगेन च युक्तः सुगमः सुखेन जातो भवति । शुभ्रः क्रियया वर्धमानोऽरुणो जायते। जातमात्राय तस्मै देवाः प्रादुस्तेजो बल वपुश्च। सप्त महत्यो (धेनाः) नद्यस्तं वर्धयन्ति। धेनुशब्द-वाच्याः सिन्धवोऽत्र अश्वा इति अभिवणिताः । अत्रेदं कारणं भवति । धेनु-पर्यायो गौः ज्ञानात्मिकायाः शक्तेः सङ्केतो वेदे। अश्वस्तु क्रियात्मिकायाः शक्तेः। अश्वोऽत्र प्राणगता कार्यकारक-शक्तिः। अग्नेराधाने जनने च अप्स्वरूपा धेनवः प्राणात्मकतां भजन्ते। स च प्राणः प्राणिति, करोति, कामयते, भुनक्ति च। अग्निरेव प्रथमं पार्थिवो धर्मात्मको भूत्वा, ततः परं प्राणो भवति, अन्ते च स्वर्योऽग्निश्च । एवं सप्तविधा आप ऊर्ध्वमेत्य शुद्धसत्व-मनःप्रधाना (यह्वीः) दिव्या भवन्ति । उत्तम प्रज्ञानं सत्यमेव तासां उद्भव-स्थानम् । तस्मादेव ता: प्रवहन्ति। सप्त वाचस्तु (सप्त वाणीः) सर्वेश्वरस्य देवस्य विसृष्टि-रूपा आविष्कार-शक्तय इति ग्राह्यम् । सर्वेषां वस्तूनां पिता प्रभुः पुमान्, स तेषां रहस्योद्भव-धामनि गूढः स्थितः । तच्च उत्तमं चित्पदम् । अग्निः सखिभिर्देवैः सप्तभिरद्भिश्च सह तत्पद-मारोहति। स चाग्नेः स्वर्गारोहः अस्मासु मर्येषु यजमानेषु पृथिवीशब्द-लक्षितां जागरित-स्थानां प्रज्ञां अजहदेव निर्वय॑ते। अग्निस्तेन स्वर्गारोहेण सर्व-वस्तूनां पितुः समृद्धस्य मधुनो मूलमधिगम्य तानि मधून्यावर्जयन् वर्षत्यस्मत्प्राणेषु। स स्वयं गर्भं दधानः पुत्रो जायते। अत एव स नित्यः कुमारः, शुक्र ज्योतिः, शुभ्रः पुमान्, एक आत्मा वैश्वानरात्मना मानवे मयेऽमर्त्यः सिद्धो भवति। कवि-क्रतुः, दिव्यः शिशुः, (देव-कुमारः) तस्येह जन्म तस्य पोषः, अद्भिः संवर्धनं, नद्य एव आपः, धेनवः ता एव पुनरश्वाः इत्यादयः सङ्केत-रहस्यार्थान् अन्तरेण तात्पर्य-सङ्गत्या नोपपत्ति क्षमन्ते। यदि सङ्केत-गोप्यमन्तरा कमप्यर्थमेषां निर्णतुं प्रयतेमहि, असम्भावित-कल्पनैव सिध्येत्, न चेदुन्मत्त-प्रलापित्वं मन्त्रद्रष्टृष्वारो-पितवन्तः स्याम। ईदृशाः सङ्केताः स्वयमेव विवृत-गूढार्थाः स्पष्टं लक्ष्यन्तेऽन्यत्रापि सूक्तेषु । ‘समुद्रार्मि’ रित्यारभ्य ‘तमश्याम मधुमन्तं तमूर्मिम्’ इत्यन्तं वामदेव-सूक्तं प्रस्फुटं वेद-रहस्यं लक्षयतीति क: सन्देहः ? अथ च ’घृतस्य नाम गुह्यं यदस्ति’, ’जिह्वा देवानां अमृतस्य नाभिः’, ’एतां अर्षन्ति हृद्यात् समुद्रात्, घृतस्य धारा. . . . . . सरितो न धेना अन्तर्हृदा मनसा पूयमानाः’, ’अग्नि योषाः कल्याण्यः स्मयमानासो अग्निम्’, ’धामन् ते विश्वं भुवनमधिश्रितम्’, अन्तःसमुद्रे हृद्यन्तरायुषि इत्यादि वाक्यवाक्यैकदेशेभ्यः इदं स्फुटमवगम्यते, यद् घृतं मधु धेनुः आपः योषाः हृत् अन्तः समुद्रः-इत्यादयः शब्दाः स्वीयान् महतो रहस्यार्थान् स्वयमेव विवृण्वत इति। ईदृशानां साङ्केतिकानां रूपाणां कानिचित्पुराणेषु स्पष्टमवशिष्टानि लक्ष्यन्ते । क्षीरसागरवासी अनन्त-शयनो विष्णुरित्युक्ते, नायमनन्तः नायमनन्तः कोऽपि प्राकृतः सर्पः, न वा क्षीरं च मधुरं पार्थिवं गव्यं, नापि समुद्रो दुग्ध-वारां राशिः। सर्व-व्यापी विष्णुः परिच्छेदशून्ये अनन्ते सद्भावे आनन्दमये नित्य वस्तुनि अवतिष्ठत इति सङ्केतार्थः। ननु पुराणानां कर्तारः पुरोहिता जड-बुद्धयः सूर्यचन्द्रोपराग-तत्त्वस्यापि अनभिज्ञाः कथं गहनानि तत्त्वानि जानीयुः ? साधारणपार्थिव-सर्प-क्षीरसागरानेव ते ब्रुवते, वयमेव सङ्केतार्थं कल्पयाम इति चेत्, नाऽवश्यकी कल्पनाऽस्माभिः कार्या । त एव लाक्षणिकैः शब्दैः सङ्केत-कल्पनां मुद्रयित्वा गहनानि तत्त्वानि सार्वलौकिक-दर्शनाय ख्यापयामासुः। ते च शब्दाः, व्यापको ’विष्णुः’ शेष-सर्पः ’अनन्तः आनन्दमयं मधुरं क्षीरं’ नित्याखण्द-सत्स्वरूपः ‘समुद्रः’ इति बोध्याः ।।

अथ यो वेदेऽग्निः कुमारः कीर्त्यते, स पुराणेषु अग्निजः स्कन्द इति कथ्यते। पुराणेषु कुमारकथा-प्रस्तावे ये विषयाः स्मर्यन्ते, ते सङ्केतभाषावेषान्तरै-दे श्रूयन्ते। यद्यपि कथा-विस्तरेषु तत्र तत्र पुराणानि विप्रतिपद्यन्ते, तथाऽपि सर्वाणि पुराणानि कुमार-तत्त्वमधिकृत्य प्राधान्येन एककण्ठानि भवन्ति। महा-भारतावलोकने निस्संशयं इदं भवति, यद्वन-पर्वणि आङगिरसोपाख्याने स्कन्दोत्पत्ति-विवरणे लक्ष्यमाणा विषया वेदेभ्य एवोद्धृत्य प्रोक्ता इति। भाषा-भेदेऽपि क्वचिद्वैदिकान् शब्दान् प्रायशो वेदप्रतिपादितानेवार्थानाविष्करोति महाभारत-संहिता। परस्मात्स्व-धाम्नः पितुरागतः पुत्रोऽग्निः कुमारो वर्ण्यते वेदे, महा-देवात्स्कन्नं तेजः स्कन्दः सुब्रह्मण्यः कुमारो भारते पुराणे च। ओषधीषु जातो वेदे, शरवणे पुराणे, अप्सु संवधितो वेदे, गङ्गायां पुराणे । धेनुभिः संवर्धनं वेदे, कृत्तिकाभिः क्षीरदानं पुराणे। आपो गावोऽश्वा वा मातरः स्वसारो वा सप्त वेदे, पुराण तु षडेव मातरः एकां परमपद-भूमिकां मातरं वर्जयित्वा ।।

अथ च महाभारते इन्द्रो मानस-शैले तिष्ठन्नग्नरागमनं प्रतिपालयति स्मेति पठ्यते। ‘स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् (वनपर्व अ. २२२), धेनवो नद्यो मातरः अग्नेर्धात्य इति च पठ्यते--"एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः" (अ. २२१ श्लो.-२६)। एवं स्कन्दोत्पत्ति-कथायां विचार्यमाणायां वैदिकी सङ्केत-भाषा पुराणकथाया मूलं भवतीत्यसंशयम् । स्कन्द एवाग्निरिति संशय-च्छेदकं वाक्यं वेदाधारकं ब्रूते महाभारत-संहिता। अद्भुत-नामकोऽग्निर्यो वेदे वर्णितः स एव स्कन्द इति स्पष्टमाह-’अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम्’ इति (वनपर्व-२२१-३०)। तथा अग्नयो बहवः प्रोक्ता आङ्गिरसोपाख्याने। तत्र अद्भुतोऽग्निर्वेदे वर्णितः किल। यदि वेदे अग्निरद्भुतपदेन व्यवहृतो दृश्येत, तदा महाभारतकारो वेदसूक्तार्थ-ज्ञानबलात् पुराणप्रकारक-कथायां अद्भुताख्यस्याग्नेः स्कन्दस्य इतिवृत्तं निवेशितवानिति शक्यं वदितुम् । परं तु, यथा अग्निः पुरोहितो यज्ञस्य, होता, मुखं दूतो वा देवानां सेनानीः सप्तजिह्व इति कीर्त्यते, न तथा अद्भुत-पदं अग्निलिङ्गत्वेन प्रख्यातं भवति । तस्मादत्र विचारो भवति। ऋग्वेदे पञ्चविंशत्यधिकेषु स्थलषु अद्भुत-पदं प्रयुक्तं दृश्यते, अन्यत्र चतुर्षु समासान्तर्गतं भवति, यथा ‘अद्भुतैनसः’ इति । अत्र प्रथमं अद्भुतपदार्थ-निर्णयः कार्यः। अदभुतं लौकिकसंस्कृतभाषायामिव वेदेऽपि आश्चर्य-पर्यायो भवतीति निर्विवादम्। ’महत्’ इत्यर्थेऽपि बहुत्र प्रयुज्यते तथा सायणीया व्याख्या च भवति। विश्वातीतं परं सत्यं महत्पद-वाच्यं वेदे, ’महद्देवानामसुरत्वमेकम्’ इत्यादौ। तदेव ‘महत्’ ’अद्भुतं’ आश्चर्यं भवति । इदमेव प्रतिबिम्बितं आश्चर्यवत्पश्यति इत्युपनिषद्वाक्य । उपनिषत्सु ब्रह्म पदमपि बृहते(तोरर्थानुगमात् महत्पर्यायो भवति। ’महतो महीयान्’ इत्यौपनिषदः पुरुषश्च श्रूयते। परं ज्योतिः पितैव कुमारो जात इति वेदे, अद्भुत-संज्ञोऽग्नि-गीयते-’न भूतं अद्भुतं’ इति नैरुक्तं निरङकुशं निर्वचनं क्वचिदवलम्ब्य व्याचक्षाणोऽपि सायणः प्रायशः ‘आश्चर्यं’ ’महत्’ इत्येव व्याचष्टे । अत्र प्रथम समासान्तर्गतं अद्भुत-पदं विमृश्य, ततः परं तत्पदं अग्नि-परत्वेन प्रयुज्यमानं परीक्षिष्यामहे॥

’अद्भुतैनसः’ इति मरुतां विशेषणत्वेन सकृत्, आदित्यानां च सकृत्, एवं द्विः प्रयोगो दृश्यत ऋक्संहितायाम् । अद्भुतं न भूतं एनः पापं येषु ते मरुत इति सायणो मन्यते । नैतदृजु भवति । अद्भुतानि एनांसि येषु त इति उपपन्न-तरम् । कुतः ? मरुतश्चण्ड-कर्माणः प्रथिता वेदे। चण्ड-कर्माणः पापा इति लोके साधारणोऽभिप्रायः। मरुतां कर्माणि चण्डान्यपि न साधारणानि तस्मादद्भुतानी-त्याशयेन अद्भुत-पापा इत्युक्तम् । अस्मासु मानुषेष्विव तेषु पापं न विद्यत इति फलितोऽर्थः। अत्र अद्भुतं आश्चर्यमिति ग्रहणेन सायणीय-तात्पर्य सिध्यति, स्वच्छन्द-निर्वचनस्य अनपेक्षता भाव-पुष्टरक्षतिश्चेति अवधेयम् । प्रायः सर्वत्र अद्भुत इत्यग्नेर्व्यपदेश इति निरूपणाय सर्वाणि ऋग्वेदीय-प्रयोगस्थलानि परीक्षि-तव्यानि यत्र कुत्रापि अन्य-दैवत्ये सौम्य ऐन्द्रे वा मन्त्रे तत् पदं प्रयुक्तं दृश्यत, तत्रापि अग्निगुण-बोधकानि विशेषणानि प्रयुज्यन्ते । तच्च पुरस्तात् प्रदर्शयिष्यामः । केवलं आश्चर्यार्थ प्रयुक्तानि स्थलानि वर्जयित्वा देवतापरत्वेन निर्विष्टानि एव निरीक्षामहे ॥

’न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम्’ (१-१७०-१) । अत्र परं वस्तु निर्दिष्टम्--’ स हि ऋतु: स मर्यः स साधुमित्रो न भूदद्भुतस्य रथी:’ (१-७७-३)। अत्र अद्भुतस्य महतो भूतस्य सारथिरग्निरित्युक्तम् । ‘सदसस्पति-मद्भुतं प्रियमिन्द्रस्य’ (१-१८-६) इन्द्रस्य प्रियः किल अग्निरद्भुतः ‘शुचिः पावको अद्भुतः मध्वा यज्ञं मिमिक्षति’ (१-१४२-३)। अग्निमद्भुतं गायति दीर्घतमाः। ’देवो देवानामसि मित्रो अद्भुतः’ (१-६४-१३) अत्राप्यग्निरद्भुतः । ’विशां राजानमद्भुतं अध्यक्षं धर्मणामिमम् । अग्निमीळे स उ श्रवत् (८-४३-२४)। अग्निरद्भुतः स्पष्टः । त्वं नो अग्ने अद्भुत ऋत्वा दक्षस्य मंहना’ (५-१०-२)। ’त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः’ (५-२३-२) । अग्निरेवाद्भुतः सम्बोध्यते-’द्रुन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः। सहसस्पुत्रो अद्भुतः’ (२-७-६) अग्निरेवान देवता। व्यस्तभ्नाद्रोदसी मित्रो अद्भुतः (६-७-३) अग्निरेव निर्दिष्टः। ’स त्वं सुप्रीतो वीतहव्ये अद्भुत’ (६-१५-२) अनेरेव सम्बोधनम् । स्तोता यत्ते अनुव्रत उक्थानि ऋतुथा दधे। शुचिः पावक उच्यत सा अद्भुतः ॥’ (८-१३-१६) अय एन्द्रा मन्त्रः । अत्राप अग्नि-धर्मवत्त्वेन स्तुता देवता। शुचिः पावकः, अद्भुत इत्यग्नि-विशेषणानि प्रयुक्तानि भवन्ति। ’त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ। पुनानो वह्ने अद्भुत ॥’ (६-२०-५) अत्र सोमो देवता, सम्बोधने ‘वढे’ ‘अद्भुत’ इति प्रयुक्तम् । शास इत्था महानसि अमित्रखादो अद्भुतः’ (१०-१५२-१) अत्र सकृदेव अग्निलिङगवर्ज इन्द्रः अद्भुत इति स्तुतः। ’यो अस्मै हव्यैर्घ तवद्भिरविधत् . उरुचक्रिरद्भुतः’ (२-२३-४) । ब्रह्मणस्परिरत्र देवः, सकृदेव अदृभुत-विशेषणमस्य लक्ष्यते। सकृत् मित्रावरुणौ अद्भुतौ (५-६६-४) इत्युक्तम् । सकृत् समासन्तर्गतं अद्भुतपदं मित्रावरुण-परं भवति-’अद्भुतक्रतू’ (५-७०-४) इति । तथा सकृत् अद्भुतक्रतुम्’ (८-२३-८) इति अग्नि-परम् । ‘अद्भुतैनसां’ (५-८७-७) इति मरुतां विशेषणं प्राग् विचारितं स्मार्यम् । ’अस्ति देवा. . . .आदित्या अद्भुतैनस ’ (८-६७-७) इति अन्यत्र भवति ।।

ऋग्वेदे अद्भुतपद-प्रयोगस्थलानि सर्वाणि परीक्षितानि। साधारण्येन केवलं आश्चर्यार्थे प्रयुक्तानि नेह दर्शितानि, प्रयोजनाभावात्। सर्वत्र अग्नेर्वैशिष्ट्यं अद्भुतपद-द्योतितं भवति। कदाचिदत्र दर्शितप्रकारेण अन्यदेवता-विशेषणत्वेन दृष्टमिति तथ्यम् । न तावता ह्रासापत्तिरद्भुतपद-विशेषितस्य अग्नेर्वैशिष्टयस्य। परस्य ज्योतिषः अग्नि-रूपेण अवस्थितस्यैव अद्भुत-शब्देन व्यवहारो वेद इति निरूपितम् । एकस्यैव परस्य देवस्य बहुदेवताकारत्वात् क्वचिदन्योऽपि देव इन्द्रः सोमो वा अद्भुतविशेषणेन प्रतिपद्यते। अग्निरेव सर्वा देवता इत्यपि गीयते। यथा वैश्वानरीय-सूक्तेषु क्वचित् सूर्य एव प्रतिपाद्यमानेऽपि वैश्वानर-पदं अग्निमेव लक्षयति, तथा अद्भुतपदं अन्यदेवता-विशेषणतया कदाचित्प्रयुक्तमपि अग्निमेव विशिष्टतया ख्यापयतीत्यवधार्यम् ।।

’अद्भुतस्याग्नेर्माहात्म्यं वेदेषु परिकीर्तितम्’ आख्यातुं प्रतिज्ञाय महा-भारतकारः स्कन्दोत्पत्ति-वृत्तान्तं कथा-रूपेणोपपादयामास। इदं च वेदमूलत्वं कुमार-तत्त्वस्य वैश्वामित्राग्नि-सूक्तार्थ-विचारादुदाहृताभ्य ऋग्भ्यश्च विस्पष्टं भवति। यद्यपि स्कन्दकथा-सारांशः पुराणेषु महाभारत-संहितायां च उभयत्रक एव भवति, तथाऽपि वैयासिकी संहिता भाषया भावेन च वेद-भाषायाः सङ्केत-रूपत्वनिरूपणे बहुतरामुपयुक्तेति तामेवोदाहार्म। एवं वृत्रवधादि-पुराणकथानां च वेद-मूलत्वं बोध्यम् । अत्र तु अग्निस्वरूपविचार एव प्रसक्तः, तदनुप्रसक्त्या पौराणिकस्कन्दकथा-मूलपरीक्षणेन वेदभाषायाः सङ्केत-रूपत्वं दृढीकृतम् ।।

स एष ऋचां राशिः, ब्रह्म-कोशो व्याख्यास्यते। गूढार्थप्राधान्येऽपि कर्मो-पयोगितया व्यवस्थितानां ऋचा पदार्थ-विचारे गवाश्वादीनि साङ्केतिक-पदानि अपरिहार्यैव अन्तरर्थानुसारि-तात्पर्यपरिग्रहे व्यवसाय: कार्यः। अग्न्यादीनि देवता-नामानि तत्तद्गुण-बोधकर्वाचकैर्व्याख्यातुं शक्यान्यपि संज्ञापदानीव पद-परिवृत्ति न सहन्त इति बोध्यम् । अग्न्यादि-देवानां क्वचिद्वाह्य-प्रपञ्चे भौतिकाग्न्यादि-रूपेणावस्थानं केवलं साङ्केतिकमिति मन्तव्यम्। देवतानां स्वरूपाणि तु दिव्य-नाभ्यन्तरेण वोन्मीलितेन चक्षुषा ग्राह्याणि। एकैकोऽपि देवः अद्वितीयस्य परस्य देवस्य अङ्गं गुणः शक्तिविशेषो वा इत्युक्तौ अग्न्यादिः देवः न केवलं शक्तिर्गुण एव वा अङ्गं वा भवति, किं तु स्वयं गुणी शक्तः, व्यक्तिर्वेति बोध्यम् । समस्तेऽपि ऋग्वेदे एक-रूपा सङ्केत -व्यवस्था। यद्यपि ऋषीणां मन्त्र-दृष्टिषु क्वचिद्भाव-पुष्टिरधिका क्वचिद् गाढा सरला वा वाक्य-गतिः, शब्दार्थ-माधुर्य-गाम्भीर्यादौ साम्यं वा न लक्ष्येत, क्वचित्सङ्केत-गूढार्थबाहुल्यं वा दृश्येत, तथाऽपि सर्वेषां मन्त्र-द्रष्टृणां एकमेव परमं लक्ष्यं एकमेव रहस्यं, एक एव सङ्केत-सम्प्रदायः। अत एव रहस्यार्थपरिज्ञानमक्लिष्टं भवति। एक-रीत्यैव ह्यत्र साङ्के-तिक-शब्दार्थपरिग्रहो भवति। सङ्केतव्यवस्थापरिज्ञानं वेद-रहस्यावगाहनस्य द्वारं भवतीति माधुच्छन्दसेभ्यः सूक्तेभ्य ऋक्संहितयामादिमेभ्य एवावगम्यते। ‘अग्नि-मीळे’ सूक्तमेव वेद-रहस्याधिगमाय प्रथम-सोपानतया संहितायां प्रारम्भे संहिता-कारैनिवेशितमिव लक्ष्यते। इदं च मन्त्रार्थ-विचारावसरे सुगम स्यादिति असंशयम्। ’अग्निमीळे’ सूक्तजपस्य सर्ववेद-पारायणफलं प्राहुः प्राञ्चः। सर्ववेद-रहस्यज्ञानबोधं अत्र द्रष्टव्यमित्याशयेन तथा फल-श्रुतिरिति बोध्यम् ।।

अथ ऋग्वेद-संहितायाः द्विप्रकारको विभागो भवति। अष्टकानि, अध्यायाः, वर्गाः, मन्त्राश्चेति एको विभागः अयं चाध्ययनोपयोगी। मण्डलानि, अनुवाकाः, सूक्तानि ऋचश्चेत्यपरो विभागः अनुष्ठानोपयोगी। अनुष्ठानमपि द्विविधम् । कर्मानुष्ठानं, जपाद्यनुष्ठानं चेति । मन्त्राणां कर्मभिः सम्बन्धं विनियोगमाहुर्याज्ञिकाः। तथा विशेष-विनियोगो मन्त्राणां तत्तत्क्रतौ सूत्रकारेण प्रदर्शितः कर्मपराणामुप-युक्तो भवति। कृत्स्नस्यापि वेदस्य स्वाध्याये जपे ध्याने च सामान्य-विनियोगो बोध्यः। अयमेव वेद-रहस्यार्थपराणामस्माकमपेक्षणीयः । तां तां देवतां साक्षात्कर्तुं मन्त्रार्थानुसन्धान-बलभूयसि जपध्यान-पारायणात्मके अनुष्ठाने सूक्त-मन्त्राणां सामान्य-विनियोगो द्रष्टव्यः । मन्त्राक्षराणामनितरसामान्य-प्रभावत्वेऽपि अर्थानु-सन्धानमन्तरा भस्मन्यनग्नावाज्य-होमवत् पर्यवस्यत् स्वाध्यायः। अत एव अर्थ-विचारवर्ज स्वाध्यायी ‘स्थाणुरयं भारहर’ इति निन्दास्पदमभूत् पूर्वेषाम् । कर्मपारम्य-पक्षप्रमुखा आश्वलायनप्रभृतयः सूत्रकारा अपि वेदाध्यायिना अन्तर्मुखेन एकाग्र-मनसा भाव्यमित्यभिप्रायेणैवमाहुः--’ यत् स्वाध्यायमधीते स ब्रह्मयज्ञः द्यावा-पृथिव्योः सन्धिमीक्षमाणः सम्मील्य वा यथा वा युक्तमात्मानं मन्येत तथा युक्तोऽधीयीत स्वाध्यायम्’ इति। तस्मात् ’स्वाध्यायोऽध्यतव्य’ इति ब्रह्म-यज्ञादौ शब्द-प्राधान्येऽपि अनुष्ठानं अर्थानुसन्धानपूर्वकमेव फलवदिति सिद्धम् । सोऽयं मन्त्रार्थ-विचारो देवतास्वरूपादि-रहस्यविज्ञानसम्पत्तये जिज्ञासूनां कर्मबद्ध-श्रद्धानामप्युपकारकः स्यादित्याशंसामहे ।।

इति श्रीमहर्षि-रमणभगवत्पादानुध्यात-
श्रीभगवद्वासिष्ठगणपतिमुनि-प्रवरान्तेवासिनः
पूर्णयोगाचार्य-श्रीमदरविन्दभगवत्पादानुध्यातस्य भारद्वाजस्य
विश्वेश्वरसूनोः कपालिनः कृतिषु वेदगुप्तार्थसिद्धाञ्जनस्य
ऋक्संहिताभाष्यस्य भूमिका समाप्ता









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates