Volume 4 contains the Bhūmika, Introduction to Rig Bhashya, followed by the text and the commentary of Suktas 1 - 19 in Sanskrit & English
On Veda
Volume 4 includes Rig Veda Bhashya - Siddhanjana, Rig-Bhashya Bhumika, Rig Veda Samihita - First Ashtaka (Text of Suktas 1-19 with Padapatha), Detailed word for word commentary in Sanskrit and its English translation.
THEME/S
आधुनिकनव्यविद्याविचार-संस्कारायत्तपूर्वपक्षाक्षेपसमाध्युपन्यासमुखेन वेद-रहस्यार्थ-सिद्धान्तपक्षः समासेन प्रत्यपादि प्रथमे खण्डे। स्वपक्षस्य परीक्षा चिरन्तनभारतीय-पाण्डित्यदृष्ट्या प्रवर्तते। अत्र ऋग्वेदादि-ब्राह्मणोपनिषदन्ताः श्रुति-ग्रन्थाः निरुक्त-बृहद्देवतादीन्यन्यानि प्रमाणग्रन्थवचनानि धर्ममीमांसकानां उक्तयश्च कियदूरं वेदरहस्यसिद्धान्तं पोषयन्तीति निरीक्ष्यते। तत्र प्रथमं तावत् केचन प्रश्ना उद्गच्छन्ति। तेषां सविमर्श-प्रतिवचनद्वारेण ऋग्वेदसङ्केत-पदार्थसमालम्बं गूढार्थमन्त्र-सिद्धान्तं निरूपयिष्यामः ।।
कथमयं चतुर्णां वेदानां सतां ऋग्वेद एव विचारायादीयते? किं पाश्चात्यः उक्त-विधया युष्माकमपि अयमेक एव प्रमाण-भूतो वेदः ? न चेत् कथम् ? किं धर्ममीमांसा-पक्षस्याधार एवासाधुः? तथा कथमसौ मीमांसक-सिद्धान्तों बहोः कालाल्लब्धप्रतिष्ठः? किमत्यन्तपुरातनत्वादेव मन्त्राणां माननीयत्वं पावनता-प्रतीतिर्वा ? को वा मुख्यो विषय ऋगर्थ-मीमांसया साध्यते ? बहुविधा हि मन्त्राः प्राचीनः निरुक्तकारादिभिः अङ्गीक्रियन्ते, कथं तहि सर्वाऽपि मन्त्रसंहिता अध्यात्माधिदैवतादि-रहस्य-विद्या-निधानभूतेत्युच्यते ? अथ चेत् सङ्केतपदार्थ-ग्रहणेन आपाततः उच्चावचाभिप्रायाणां मन्त्राणां वस्तुतो रहस्य-प्रकाशनेन विरोध-परिहारो भवतीत्युच्येत, के ते सङ्केताः, कथं न ते स्वकपोल-कल्पिताः अस्ति, किं तथाविधसङ्केतगूढार्थव्याख्यानमार्गस्याधारो वेदे ? सन्तु तावदृचः। वैदिकं समय-धर्म वैदिकं यजनं वैदिकं मन्त्रं च अधिकृत्य वैदिक-ग्रन्थेषु रहस्यार्थ-प्रतिपादकानि सन्ति वा प्रमाण-वचनानि ? किं वा यथार्थ-स्वरूपं देवानाम् ? अस्मत्परिचिताधुनातन-तत्त्वसिद्धान्तापेक्षया को वा भवति तत्त्व-निर्णयो वेदर्षीणाम्? अपि नव्यं पाश्चात्यं पन्थानमवलम्ब्य वेदार्थविमर्श-प्रवृत्तानां प्रशंसनीयविद्वच्चरितानां भारतीयानां परिश्रमः सर्वोऽपि विफलो वक्तव्यः ? अपि नासीद्वेदर्षीणामस्माकं चान्तरे दीर्घ-युगे कोऽप्युद्यमो वेद-मन्त्राणां गोप्यं प्रवेष्टुम् ? त इमे प्रश्नाः सावधानं विचार्य प्रत्युक्ताः सङ्केत-रहस्यार्थ-सिद्धान्तं द्रढयेयुरिति अनयोद्वितीय-तृतीय-खण्डयोः विचारयिष्यामः ।।
तथ्यमिदं यच्चतस्रः संहिता वेदानामिति। कथं तर्हि वेदानां त्रयीत्वं उपपद्यते? मन्त्राणां त्रित्वं. मन्त्रसमदायरूप-संहितानां के चतप्तवम। वा मन्त्राः ? अयं मन्त्रः अयं नेति निर्णायकं लक्षणं कैश्चिदुक्तप्रायमपि प्रायिकमेव स्यात्। स एव मन्त्र: ‘यमृषयस्त्रयीविदो विदुः ऋच: सामानि यजूंषि’ इति । ये अभियुक्तैर्मन्त्रा नोच्यन्ते न ते मन्त्रा इति शबरस्वामी। अभियुक्तानां वागेव प्रमाणं मन्त्रत्व-परिज्ञाने इति सारांशः। मन्त्राणां ऋग्यजुस्साम्नां स्वरूपाणि सूत्रितानि जैमिनिना ’तेषां ऋग् यत्रार्थवशेन पादव्यवस्था। गीतिषु सामाख्या, शेषे यजुःशब्दः’ (२. १-३५-३६-३७), इदं पर्यवसन्नम्। ऋचो मन्त्राः छन्दो-बद्धाः, ऋचो गेयाः सामानि, शिष्टाः गद्यरूपाः मन्त्रा: यजूंषीति त्रिधा वेद-व्यवस्थितेर्वेदत्रयं त्रयीशब्द-वाच्यतां भजते। ऋचां समुदायः ऋग्वेदसंहिता, यजुषां यजुस्संहिता साम्नां च सामवेद-संहितेति व्यवहारः। चतुर्थी अथर्व-वेदसंहिता अन्या च वर्तते। तत्र ऋचो यजूंषि च वर्तन्ते। ऋक्संहिता-पठिता ऋचो बह्वयो दृश्यन्ते। तथा यजूंष्यपि क्वचित् साहितिकानि, ये च मन्त्राः त्रय्यामाम्नातास्तेषां यज्ञोपयोगित्वं सिद्धम् । केवलाथर्वणिकानां मन्त्राणां पुरुषार्थ-साधकानि प्रयोजनान्तराणि कीर्त्यन्ते । तावता न वेदमन्त्रत्वहानिः। यतः चदुर्थी संहिताऽपि वेद-संहितैव भवति। अस्यां भूयिष्ठा ऋचः ऋग्वेदस्था इत्युक्तम् । तथा यजुर्वेदेऽपि क्वचित्। तस्माद् ऋक्संहितायां व्याख्यातायां अथर्वसंहितास्था-नामृचामपि ताप] उक्तं भवति । अवशिष्टानां आथर्वणिक-मन्त्राणां व्याख्यानाय नावसरः, यज्ञानुपयोगित्वात्, यज्ञस्य अस्मस्सिद्धान्तानुसारेण सङ्केत-रूपत्वाच्च । याज्ञिक्यां त्रय्यामेवाभिनिवेशोऽत्रास्माकम् । यद्यपि ऋग्वेदीय-संवैतरहस्यं अथर्व-मन्त्राणामप्यर्पकं भवेत्, तथाऽपि नेह स विचारोऽपेक्ष्यते। सामवेदसंहितास्था-ऋचः प्रायः सर्वा अपि ऋक्संहितास्था इति सामवेदः पृथङ न विचार्यते । अवशिष्टं यजुः । यदि यजुर्वेदोऽत्र न विचार्यते, तस्यास्ति कारणम् । अस्मदुद्द शस्य यजुर्वेद-विचारात् सम्भाव्यं फलं सन्दिग्धम् । उद्दिष्टो विषयस्तु ऋषीणां सङ्केत-पदार्थव्यवस्था-प्रकाशनम्, तद्द्वारेण मन्त्ररहस्यार्थ-विवरणम्, देवतानां तत्त्वं, मानुषस्य प्राप्तव्यतया अस्मत्पूर्वैर्महर्षिभिनिर्दिष्टं लक्ष्यम्। सर्वमेतदृङमन्त्रभाषा-स्वरूप-परिशीलनात्सुलभं भवति। यजुर्वेदीयभाषासङ्कतादयो न सर्वत्र समानाः सुगाहा वा भवन्ति । अन्यदस्ति कष्टं यजुर्विचारे। तैत्तिरीयाणां कृष्ण-यजुर्वेदः मन्त्र-ब्राह्मणात्मकः, अस्माकं तु केवल-मन्त्रार्थस्य विचारः प्रवर्तते । न तु उपनिषदा रहितस्य सहितस्य वा ब्राह्मणस्य। यजुर्वेदे तु कर्मोपयोगिभिर्ब्राह्मणैः युक्ताः पठ्यन्ते मन्त्राः। अन्या ऋगादिसंहिता इव नेयं तैत्तिरीयाणां मन्त्राणामेव संहिता। मन्त्रब्राह्मणानां समुदायोऽपि संहिताव्यपदेशं भजते ।
ब्राह्मणानि कर्म-परतया मन्त्राणां विवरणाय प्रवर्तन्त इति न विवादः । यद्यपि तेषां विवरण-प्रकारोऽपि सङ्केतार्थमेव स्पष्टं विद्योतयति, तथाऽपि याज्ञिक-कर्मसु विनियोगायैव सन्ति मन्त्रा इति तेषां मतमिति विशदं भवेच्चिन्तकानाम् । अत एव सायणः ब्राह्मणान्याश्रित्य मन्त्रार्थ-विवरणं चकार। तथा सति मन्त्र-ब्राह्मणात्मके कृष्ण-यजुर्वेदे अस्मदीयविचारस्य मन्त्रार्थ-परस्य नास्त्यवकाशः । ब्राह्मणानि हि मन्त्राणां कर्मोपयोगितां एव निरूपयन्ति, न मन्त्रगुप्तार्थान्। अन्यदस्ति चित्रम्, यदि स्मरेम याज्ञवल्क्यचरितम् । तदिदं समासेनोच्यते। स हि गुरोर्वैशम्पायना-दधीतं यजुर्वेदं गुरवे प्रत्यर्पितवान् । प्रत्यर्प्यमाणो वेदस्तित्तिरि-रूपतया निर्गतः । ततस्स तपस्तेपे। वाजि-रूपतया भगवानादित्यः प्रसन्नस्तस्मै शुद्धमन्त्रात्मकं ब्राह्मणै-रसम्मिश्रं शुक्लं यजुर्वेदं ददौ। ततस्स वाजसनेय-संहिता विश्रुता। विस्तर-भयादियं कथा नेहोच्यते, विष्णुपुराणे सविस्तरा द्रष्टव्या (३-५)। याज्ञिक-पक्षप्रोद्वलक-ब्राह्मणानां वेदसंहितासु स्थानं न स्यात् इत्याशयो याज्ञवल्क्यस्येति मन्यामहे। याज्ञिकेषु कर्मसु मन्त्राणां विनियोगाय ब्राह्मणानि सन्तु नाम, किं तु पृथक् सन्तु यथान्यशाखीय-ब्राह्मणानि तत्तन्मन्त्रसंहिताभ्यः पृथगेव वर्तन्ते। यदि कर्मपरं ब्राह्मणं कृष्ण-यजुस्संहितायां स्थानं अलभत, ब्रह्मपरोपनिषदपि कुतो न संहितायां स्थानमियादिति स्पर्धमानेव ईशावास्याख्या एकैव संहितोपनिषत् शुक्ल-यजुस्संहितायां पदं भेजे। एवं एकेषां पूर्वेषां मन्त्र-संहितायां ब्राह्मणस्यान्तर्भावो न युक्त इत्यासीन्मतिरित्युपपन्न ऊहः । तैत्तिरीय-संहितायां ब्राह्मणान्तर्भावस्य फलितं दूरप्रसरमभूत् । येनोत्तरकालिकभारतीयसमयधर्म-व्यवस्थायां मन्त्र-ब्राह्मणात्मको वेद इति सौत्रसिद्धान्तः प्रतिष्ठां प्रापत्। अत्रैव बीजं द्रष्टव्यं अनन्तर-कालेषु फलितस्य कर्मपारम्य-सिद्धान्तस्य, यदनुसारेण कर्मज्ञानकाण्डात्मको वेदः, कर्म-काण्ड: सब्राह्मणो वेदमन्त्र-संहिताग्रन्थः, ज्ञानकाण्ड उपनिषदिति सर्वेषां सूत्र-काराणां तदनन्तराणामाचार्याणां चाङ्गीकार इति निर्विवादम् ।।
एवं हि पाश्चात्यास्तदनुसारिण इव वयमपि यजुर्वेदस्य प्रामाण्यं न गणयाम इति मा भूच्छङ्का। यजूंष्यपि मन्त्राः, नैव न्यक्कुर्मो वेदं बढचं याजुषं आथर्वणिकं वा। तर्हि कुतो न यजुषो मन्त्र-भागो वा विचार्यत इति चेदुच्यते। अस्मदुद्दे शस्योपायभूतो न स विचार । न तावता यजुर्मन्त्राणां वेदत्वमस्माभिर्न लक्ष्यते। यथा अस्मत्पूर्वैः वैदिकैः शैवाद्यागमिकैरपि रुद्राध्यायादि-मन्त्रभागा जप-पारायणादिषु उपयुक्ता दृष्टचराः भवन्ति, तथा अस्माकमपि मन्त्र-भागेषु पावनत्वपूज्यत्वादि-दृष्टिधूवेत्यसंशयम् । अत्र विश्रुताः पञ्चाक्षराष्टाक्षरादयो मन्त्रा याजुषा एवेति स्मार्यम् ।।
अथ बढचानां संहितव विषयो विचारस्य। न तावता वेदशाखान्तराणा-मवरं प्रामाण्यम् । किं तु अस्माकं अपेक्षिता सर्वा सामग्री ऋग्वेदादेव लभ्यते, यत्र शब्द-स्वरूपं अन्यन्त-प्राचीनम्, न च दुर्गमा आर्षसङ्केतपदार्थ-व्यवस्था, ऋषीणामध्यात्मज्ञानबलसम्पत्तिश्च न दुर्ग्रहा, देवानां तत्त्वं च विवेक-ग्राह्यम् । अन्यदति मुख्य कारणम् । यजुर्वेदो यज्ञार्थः प्रसिद्धः, अत एव तं अध्वर्युशाखा-माहुः। यज्ञार्थं ऋचां प्राधान्यं याजुषा एवामनन्ति-“ यद्वै यज्ञस्य साम्ना, यजुषा क्रियते शिथिलं तद् यदृचा तद् दृढम्” इति (२-५-१०)। इदं चेह द्रष्टव्यम् । ऋग्भिस्सह यजूंषि सामानि च यज्ञार्थं वर्तन्ते। ऋग्वेदात्परं यजुर्वेद इत्याधुनिक ऐतिहासिकं मतं असत् । ऋक्संहितायामेव यजुषां साम्नां चोल्लेखोऽवधेयः। त्रयों विना नास्ति यज्ञः। त्रय्यां एकं वा विहाय न कोऽपि यागोऽनुष्ठातुं शक्यः, अवियोज्या सा यज्ञे । बहिर्यागे त्रय्या उपयोगो वर्तते, तथा तत्प्रयोक्तृणां स्थानानि च भवन्ति । अन्तर्यागेऽपि त्रय्याः स्थानं अस्ति। इदं च सम्प्रत्याचक्ष्महे। सर्वथा स्मृतावुपस्थाप्यं त्विदम् यन्न केवलं तैत्तिरीय-संहिता सर्वाण्याध्वर्यवाणि ब्राह्मणानि यज्ञाधिकार-विचारे यज्ञकर्मदेवता-फलादिरहस्येषु ऋचां प्राधान्यमभिज्ञाय ’तदृ-चाऽभ्युक्तम्’ इति शतशो घोषयन्ति। किमु वक्तव्यं ज्ञान कलक्ष्या उपनिषद ऋचां प्राधान्यं ज्ञानाधिकारे प्रशंसन्तीति। “तदुक्तमृषिणा, तदेष श्लोकः, अत्रैते मन्त्रा भवन्ति, एतदधिविधाय ऋषिरवोचत्, तदेषाऽभ्युक्ता" एवमादीनि वचनानि प्रत्यक्षं मन्त्रदृष्टीनां ऋचां पारम्यं प्रशंसन्तीति दिक् ।।
अथ त्रयीपद-वाच्यस्य ऋग्यजुस्सामाख्य-वेदत्रयस्य सङ्केतार्थोऽन्तर्यंजने व्याख्यायते। ’अस्य महतो भूतस्य ब्रह्मणो निःश्वसितं’ वेदा इति श्रूयते। ऐतरेयशतपथादि-ब्राह्मणेभ्यः इदमवगम्यते यद् भूर्भुवःस्वराख्यव्याहृतित्रयलक्षित-त्रैलोक्यस्याध्यक्षरग्नि-वाय्वादित्यैः क्रमशः ऋग्यजुःसाम्नां प्रादुर्भावः सम्पादित इति। किं विवक्षितम् ? प्रथमे खण्डे यज्ञस्य सङ्केतार्थ-विवरणप्रसङ्गे होत्रादय ऋत्विजो देवा इत्युक्तम्, अत्र त्रय्या देवानां वृत्तयः प्रतिपाद्यन्ते। अग्निर्होता देवानामाह्वाता, स वाचोऽधिदेवता सर्वासामृचां तस्यां वाच्युपसंहारः यया देवानां प्रभावः कीर्त्यते, तत्त्वानि प्रकाश्यन्ते, उज्ज्वलन्त्या यया देवानामालयः स्वर्लोको-ऽधिगम्यते। आदित्यः साम्नामाधिपत्यं वहति, स उच्चैर्गायति, सत्य-सम्मद-लय-विधायकैर्गानैर्नादस्पन्दैर्यजमानमुन्नीय देवेषु मध्ये विराजयति। उभयोः द्यावा-पृथिव्योस्तदध्यक्षयोरग्नि-सूर्ययोरन्तरे अन्तरिक्षपतिर्वायुः क्रियाध्यक्षो यजुभिर्यजन-कार्यं साघ्नोति । स एवाध्वर्युः देवानाम् । अत्र एव यजुषां प्राधान्यं याज्ञे कर्मणि ऋग्भिः प्राज्ञाभिर्वाग्भिः अर्चनं विधीयते, सामभिर्यजमानः परं स्वरं उद्गीथाख्यं भजनीय-सम्मदपदं उन्नीयते, यजुभिः कर्मणा यजनं निर्वर्त्यते--तत्तदृत्विग्रूपैर्देवैरिति सङग्रहः। एवं तिस्रो देवताः अग्निर्वायुरादित्य इति, याश्च होता अध्वर्युरुद्गाता इति क्रमशः ऋग्यजुस्साम्नां प्रयोक्त्र्योऽन्तर्यजने। अयमेव परमार्थो यज्ञः सङ्केतात्म-तया बाह्ययज्ञे रहोविद्यानधिकारिणां उपयोगाय पूर्वमहर्षिभिर्व्यवस्थापित इति बोध्यम् ॥
मन्त्र-ब्राह्मणयोर्वेद-नामधेयं, न केवलं मन्त्राः वेद-व्यपदेशं भजेरन् इति ब्रुवाणाः पूर्व-मीमांसकाः वेदरहस्यार्थ-मतं नाभिमन्येरन् । तेषामस्माकं च दक्षि-णोत्तरवदन्तरं द्रष्टव्यम्। यानि तत्त्वान्युपाश्रित्य गूढार्थसङ्केत-पक्षोऽस्माकं ध्रियते तेषां परिपन्थी तदीयः सिद्धान्तः। वयं मन्त्राणां प्राधान्यं आश्रयामहे, ब्राह्मणानां तु कर्मोपयोगित्वं अभ्युपगच्छामः। मन्त्र-संहितैव वेदशब्दमुख्यार्थ इति वयम्। मन्त्रार्थविचारद्वारेण वेदरहस्य-निरूपणमस्मल्लक्ष्यम् । मीमांसकास्तु ब्राह्मणवाक्यार्थ-विचारिणः, यद्यपीह नास्माकं प्रवृत्तिस्तत्सिद्धान्तविस्तर-परीक्षायां, तथाऽपि तेषां मूलभूत-धर्मजिज्ञासामधिकृत्य त्वस्ति किञ्चिद्विमृष्टव्यम् । वेदोऽखिलो धर्म-मूलमिति न्यायतो धर्म-जिज्ञासायां प्रवृत्तास्ते वेदविचारं कुर्वन्ति । वेदानां धर्म-मूलत्वोक्तौ नास्ति विवादः। धर्मशब्दार्थस्तु कुत्र पर्यवस्यतीत्येव चिन्त्यम् । सामयाचारिक धर्ममेव मनसि निधाय वेदस्य कर्मपरता-पक्षमेव परमं सिद्धान्तं मन्यन्ते। अयं च तेषां वाद:-वेदादेव धर्मस्य ज्ञानं, स च परमो धर्मः यज्ञ-स्वरूपो वेदे प्रतिपादितः । यजमानेन देवार्थं द्रव्यत्यागः क्रियते, सर्वस्वमपि दीयते विश्वजितीव। कर्मणा स्वर्ग-फलं प्राप्नोति यजमानः। अपूर्वं फल-दातृ, तच्च किमप्यदृष्टं कर्मजन्य-फलदायकमित्याद्याहुः। अलमेतावता अस्माकं धर्मविषयकचर्चायाः। मीमांसकानां कैश्चिद् अतिचित्र-वादैः सह न विद्यते कोऽपि नः सम्बन्धः। स्वर्गमुद्दिश्य तेषां अभिप्रायः, तथा देवानधिकृत्या पि, मन्त्र-स्वरूपम्, वेद-वर्णानां नित्यत्वम्, शरीरस्थः कोऽपि जीवो देह-व्यतिरिक्तो गत्यन्तर-विरहाद् अभ्युपगन्तव्यः जगतो जीवानां वा ईश्वर-निरपेक्षता, जगत आत्यन्तिक-स्वतन्त्रसत्तायायार्थ्यादि निदर्शनं भवति निरङकुशवादवैचित्र्याः॥
अथ पश्यामस्तावत्, को नामायं धर्मः यस्य ज्ञानं वेदादेव लभ्यते ? याज्ञिकं कर्मैव परमो धर्मो वेदैरुपदिष्ट इति चेत् स न सर्वेषामविशेषेण पुरुषाणां सर्वेषु युगेषु उपयुक्तो भवत्यभूद्वा। एकत्र कोणे भूमण्डलस्य कतिपयमानुष-वर्गीयाणामेव उपयोज्य इति स्पष्टम् । एवं तथाविध-यज्ञकर्मात्मको धर्मः सामया-चारिक एव, न सार्वलौकिकः, न सनातनो वेति प्रत्यक्षम् । एतादृशं धर्म-स्वरूपमेव सूत्रकारैनिर्णीतम्। तैहि ब्राह्मणानि उपादाय सामुदायिकवैदिक-यजनोत्सवादीनां व्यवस्थापन-काम्यया वेद-विधीन् निश्चित्य वेदो विधिश्चोदनेति सिद्धान्तितम् । अतः परमस्मात् श्रौत-रूपाद् धर्मात् स्मार्त-गृह्यादयः सामयाचारिका राज-धर्मादयश्च चातुर्वर्ष्यादि-सामुदायिकवृत्ति-व्यवस्थायै अकल्पन्तेति वेद-मूलता धर्मस्य न्याय्या भवतु नाम। तथा हि पूर्वेषां सङघे समष्टर्व्यष्टश्च धर्मास्तित्व-प्रत्ययो विश्वतोमुखो निष्पन्न इति प्रशंसाभाजनमेवैतत् । परं तु मन्त्रब्राह्मणयोर्वेद-नामधेयमिति कृत्वा आद्या व्यवस्था उत्तर-कालेषु बहुसंकटदशा-प्रसवित्री समजा-यतेति नात्र संशयः। स चादिमः सूत्रकार-कृतो व्यतिक्रमो नाभिज्ञातः, न शोधितः। स हि व्यतिक्रम एव, येन कर्मसु विनियोगार्था एव मन्त्राः, मन्त्राणां कर्म-परतया व्याख्यानं एव साधु नान्यथेति प्रत्ययो वेदार्थ-विचारिणां हृदयेषु पदं लेभे। इदानीमिदं विशदं भवेत् यत् सतीषु ऋग्वेदादि-संहितातु तैत्तिरीय-संहितायामेकस्यामेव ब्राह्मणानामन्तर्भावः अभवदनर्थकर इति। परमस्य वैदिक-धर्मस्य यज्ञस्य रहस्यार्थः एवमुपरक्तः । क्रमशः श्रौतधर्मस्य बाह्ययज्ञात् नान्यत्रो-पपत्तिरिति स्थिति: सम्पादिता। अत एव कालक्रमेण प्रादुर्भूताः आचार्य-पुरुषाः सर्वेऽपि श्रुति काण्डद्वयात्मिकामभ्युपगम्य मन्त्र-संहितानां कर्म-काण्डान्तर्गतत्व-मभिमान्य उपनिषदामेव ज्ञान-काण्डत्वं चाख्यापयन् ।।
अथ याज्ञिकं कर्म स्थूलसङ्केत-रूपतया पृथक् स्थापयित्वा अन्तरर्थो यज्ञस्य चेत् निरीक्ष्यते, तदा तस्य सार्वलौकित्वं स्पष्टतां गच्छेत् । परः स्रष्टा सर्वस्य जगतः पुरुषः स्वमात्मानं अर्पयित्वा यज्ञधर्मेण सृष्टि व्यधत्तेत्यस्य तत्त्वमपि सुबोधं भवेत्। अतोऽन्या का वा विवक्षा पुरुषसूक्त-मन्त्राणाम् ? यद्यपि पुरुष-सूक्त-भाषा अन्यसूक्त-तारतम्यापेक्षया प्रायेण सुगमा अत एव स्पष्टार्था च भवति, तथाऽपि नेदं एकाकि सूक्तं सहस्राधिक-सूक्तायां दाशतय्यां, यत्र यज्ञेन परम-धर्मेण सृष्टिविधीयत इत्याशयो लक्ष्यते। इदं च शतशो बढचानामाम्नायेषु पश्याम:--ऋषिर्यदा देवेभ्यः स्वात्मीयं किमपि ददाति, स वेद तावता त्यागेन तावन्तं मत्यशिमुज्झित्वा अमर्त्यांशमादत्त इति । देवा हि तस्य यजमानस्य अर्पणाङ्गीकारेण स्वयं यावदवकाशं तं स्वीकृत्य तत्र प्रादुर्भवन्ति। यज्ञेन मर्त्यः अमर्त्यतां व्रजति चेत् जगद्व्यापाराय सृष्टौ प्रथमं जन्म प्राप्तानां अमर्त्यानामपि म] द्वितीयं जन्म भवति। इदमन्योन्य-परिवर्तनमेव यज्ञस्य यथार्थं स्वरूपम् । अनेनैव सृष्टि: सर्वत्र निर्वाह्यते। अस्मिन् विनिमय-धर्मे यज्ञ-रहस्यं प्रतिष्टितम् । येन दानादानरूपेण इतरेतर-व्यवहारेण व्यष्टि-समष्टयोः ब्रह्माण्डपिण्डाण्डयो: जीवदेवयोः ऐहिकामुष्मिकयोः वा सम्बन्धो घ्रियते, वृत्तयश्चाल्यन्ते, स्थितिरेव सिध्यति। सखायस्त्वा ववृमहे” इति ऋषिषु सख्येन देवतां सम्बोधयत्सु, उभयेषामन्योन्य-सम्प्रवेशरूपः साक्षात्सम्बन्धः कश्चन प्रवृत्त इति ज्ञायेत। चिरन्तनमिदमार्षं यज्ञ-तत्त्वं कालेन गलता धूलि-धूसरैः कर्मपारम्य-वादैराच्छादितं शोचनीय-दशं परामृश्य तत् शुभ्रमुज्जीवितं विवृतं विधातुमुद्यता हरि-गीता। सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वं एष वोऽस्त्विष्ट-कामधुक् ॥ देवान् भावयतानेन ते देवा भावयन्तु वः । परम्परं भावयन्तः श्रेयः परमवाप्स्यथ ।” (३-१०-११) इति हि गीयते ।।
एवं स्थिते, केचन विवदेरन्नेवम्-उत्तर-कालेषु अध्यात्मतत्त्वसिद्धान्ताभ्यु-दयानुसारेण यज्ञस्यैवंविधं सूक्ष्म व्याख्यानमाविष्कृतम्, भगवद्गीतासु प्रतिपादितो यज्ञ-तत्त्वार्थो न वस्तुतो वदिके यज्ञ उपपद्यत इति। नैवं मन्तव्यम्। तथ्यमिदं यद्विविधानां दार्शनिक-सिद्धान्तानां वेदान्तेषु समन्वयं समर्थयति वेदान्तसार-भूता भगवद्गीता। एवंविधनानासिद्धान्तसामरस्य-सम्पादनाय अपेक्षिता गाढा प्रज्ञा, प्रसन्नो विवेकः, दृढः सत्य-ग्रहः, आर्जवं च तत्त्वप्रतिपादन गीतासु भासन्त इत्यद्धा। यद्यत्र प्रतिपादितं यज्ञस्वरूपं न वस्तुतो वेदोक्त-यज्ञतत्त्वमित्युच्येत, तदा गीतासु मृषावादं तत्त्वाग्रहणं वा आरोपितवन्तः तथाविधमन्याय्यं साहसं आस्थातुं को वा सन्नद्धः स्यादृजुधीः ? यद्यपि सर्वत्र सामरस्यपरायणो गीतोपदेशः, तथाऽपि दूषणीयेऽर्थे न माध्यस्थ्यमवलम्बते। दूष्यान् दूषयति पोषयति च पोष्यान्। कर्मणो नान्यदस्तीति वादिनः पुष्पितां वाचं अविपश्चितो वदन्तीति निन्दति (२-४२), कर्मबद्धश्रद्धानां वेदरहस्य-प्रवेशानधिकारिणां अज्ञानां न बुद्धि-भेदं जनये दित्युपदिशति (३-२६), मन्त्र-दृष्टीनियति, सर्वेषां वेदानां सर्वेश्वरपदप्राप्तिरेव मुख्योपदेश इति साधयति (१५-१५) । अपि च, न केवलं मोक्ष-परं गीता-शास्त्रमेवं यज्ञतत्त्वं विवृणोतीति मन्तव्यम् । समयाचार-कर्मविधान-परेषु धर्म-शास्त्रेष्वपि वैदिक-कर्मणां ज्ञानरहस्यगभितत्वं प्रतिपाद्यमानं पश्यामः । मनुस्मृतौ “वेदाभ्यास” इत्यारभ्य “वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः । अन्तर्भवन्ति क्रमशः तस्मिन् तस्मिन् क्रियाविधौ”।। (१२. ८३-८७) इत्युक्तम् । कर्मणां योगसाधन-संकेतभूतत्वमेव विवक्षितमिति क: सन्देहः? गीताप्रयुक्तः कर्मयोग-शब्द एव स्मृतौ प्रयुक्तः। स्मृति-गीतयोः पौर्वापर्यविचारो नावश्यकोऽत्र । बाह्यानि कर्माणि आभ्यन्तरस्य साधनस्य कञ्चुकानीव स्थितानीत्युभयोराशय इत्येतावदसन्दिग्धम् ।।
एवं वैदिकस्य कर्मात्मकस्य यागस्यान्तरर्थः सर्वत्र पुरातनग्रन्थेषु ब्राह्मणेषु पुराणेषु महाभारते च प्रथित इति का नाम विचिकित्सा ? यदा तु कर्म-पराः ब्राह्मणानां वेदे परमं स्थानं तेषां मुख्य-वेदत्वं विश्वस्य तादृशं मतमतिष्ठिपन् तदा आरब्धः कर्मात्मको यज्ञ एव परो धर्म उपदिष्टो वेद इति वादः । येनात्यन्त-तिरोधानं वेदयज्ञरहस्यस्यापादितम् । मन्त्राणां कर्मैक-प्रयोजनत्वं अर्थशून्य-पौरोहित्या-धीनत्वं च फलितम्। पूर्व-मीमांसकैर्भगीरथ-प्रयासेन मन्त्रब्राह्मणात्मकस्य कर्म-परतायां प्रतिष्ठापितायां, समयाचार्य-पुरुषैरर्वाचीनैरपि उपनिषत्स्वेव ज्ञानाधिकार इत्यभ्युपगतः। अयं च परीक्ष्य प्रागुक्तः। यद्यपि शास्त्रीयेषु व्यवहारेषु यज्ञकर्म-पारम्यमेव वेदे प्रतिपादितमिति ब्रवीति, दिष्ट्या न कोऽपि मीमांसकः कर्मणा परमः पुरुषार्थः साधयितुं शक्य इति तृप्यति। अत एव कर्मपारम्यवादिनः शास्त्रत एव पूर्व-मीमांसकाः श्रद्धया तु वेदान्तिन आस्तिकाश्च भवन्ति। एवं द्वैधीभाव-जन्यं विरोधं गीतोपदिष्ट-निष्कामकर्मसिद्धान्ताश्रयणेन परिहरन्ति । बाढम्, परं तु शुद्धः पूर्वतन्त्रसिद्धान्तस्तु, धर्मात्परतरं नास्ति, स च धर्मो यज्ञः, तस्य ज्ञानं वेदाल्लभ्यते, तस्याचरणात् स्वर्गप्राप्ति-रूपं फलमवाप्यते, क: कुत्र किमर्थो वा ईश्वरः परमात्मा वा, कर्मस्तुति-परा एवोषनिषदः विधिशेषा इत्येव ब्रूयात् ।।
अथेदं वक्तव्यम् । पूर्वतन्त्र-विदां सूक्ष्मविचार-विवादवैदग्ध्यं सर्वपण्डित-मण्डलीसम्मानितमिति नात्युक्तिः। अयुक्तेषु क्लिष्टेषु वा स्थलेषु तेषां स्वपक्ष-समर्थन-धोरणी चतुरतरेति निर्विवादम् । वेदवाक्यपदवर्ण-नित्यतासिद्धान्तः तेषां सुप्रसिद्धः। तत्र वेदनित्यत्वस्थापनप्रसक्तौ, अकाराद्याः सर्वेऽपि वर्णा नित्या इति प्रतिपादयन्ति। तथा सति, वेदे पुरावृत्त-विषयाणां सृष्टवस्तुव्यक्तिविशेषनिर्देशक-संज्ञावाचकानां नास्त्यवकाशः। अपि तु प्रत्यक्षं बहुशो वर्तन्ते संज्ञापदानि, तथा वृत्तान्तान्वाख्यानानि। कथं तादृशेषु स्थलेषु नित्यत्वं वेदानामुपपद्यत इति चेदुपपद्यत एव गौण्या वृत्त्या तात्पर्यग्रहणादित्याहुः । बबरः प्रावाहणि-रकामयत” इत्यादौ प्राग्बबरजन्मनो नायं ग्रन्थो भूत-पूर्वस्तस्मादनित्यता वेदस्येति चेत् न बबरपदं संज्ञा-पदमित्युच्यते शबरस्वामिना। आह चैवम्-“ यः प्रवाहयति। स प्रावाहणिः बबर इति शब्दानुकृतिः, तेन यो नित्यः अर्थस्तमेवैतौ शब्दौ वदिष्यतः’ , (जै.सू.भा. १-१-३१) । शब्दानुकृतेः संज्ञा-शब्दः भ्रम इति व्याख्यातम् । वृत्तान्तान्वाख्यान-प्रसङ्ग भाष्यकार-विवरण-चातुरी निरीक्षामहै। ’प्रजापतिरात्मानो वपामुदक्खिदत्’ इत्यामनन्ति तैत्तिरीयाः (२-१-१)। अत्र भाष्यपङक्तिः-"प्रजापतिरात्मनो वपामुदक्खिददिति . . . नित्यः कश्चिदर्थः प्रजापतिः स्यात् वायुराकाश आदित्यो वा। स आत्मनो वपामुदक्खिददिति वृष्टि वायुं रश्मि वा। तामग्नौ प्रागृह्णात् वैद्युते आचिषे लौकिके वा। ततोऽज इत्यन्नं बीजं वीरुद्वा। तमालभ्य तमुपयुज्य प्रजाः पशून प्राप्नोतीति गौणाः शब्दाः (२-१-१०)। इदं च निदर्शनं भवति मीमांसकानां सूक्ष्मविचार-कौशलस्य। यतो वेदनित्यता-समर्थनक्लेशे समुपस्थिते, गौणी वृत्तिमाश्रित्य पुरा-वृत्तं काल्पनिकी गाथां वा चातुर्येण नित्यार्थ-परतया व्याख्याय कृत-कृत्यतां भजन्ते। इदं त्वत्र चित्रम् । रूपक-दृष्टान्तावलम्बनेन अन्वाख्यानानां सङ्केतरूपतामेव गौण्या वृत्त्या प्रतिपाद-यन्ति। वेदगुप्तार्थ-सिद्धान्तेऽपि वेद-पदानां यौगिकत्व-प्राधान्येन सङ्केतार्थनिरूपणे गौणी वृत्तिराश्रीयते। एष तुभयोविशेषः । पूर्वस्तु बाह्यः स्थूलः कर्मप्रतिपादन-परः सङ्केतार्थः अपरस्तु आन्तरः सूक्ष्मः गुप्तविद्यासाधन-परः सङ्केतार्थः। ब्रह्माण्ड-निर्माण-प्रायेण प्रयासेन “पर्वतो रन्ध्रितः मूषको लब्धः इति लोकोक्तेः दृष्टान्त-भूतमरसं फलं सम्पादितं पूर्वतन्त्रविद्वद्भिरिति सङग्रहः ।।
पूर्वमीमांसक-सिद्धान्तमधिकृत्य इदमवश्य-वक्तव्यमासीत् । यन्नव्यविद्या संस्कारसम्पन्नः प्राज्ञैरपि मीमांसकानां मन्त्रार्थ-विचारप्रामाणिकता विश्वस्यते, ते हि पूर्वतन्त्र-सिद्धान्तमूलमज्ञात्वैव वेदे नास्ति रहस्यं सङ्केतार्थो वेति स्वयं प्रति-यन्ति, अन्यानपि प्रत्याय्य अपथं प्रापयन्ति। तस्मादिदं बोध्यम्। यदि वेदो नाम प्राधान्येन ब्राह्मणं, मन्त्र-सहितं ब्राह्मणं भवति, तदा तदायत्त-श्रौतसूत्र-धर्मशास्त्रा-दीन्युपजीव्य प्रवृत्ता पूर्वमीमांसैव वेद-विचारे प्रमाणं स्यात् । यदि पुनर्वेदो नाम प्राधान्येन मन्त्र-दृष्टय ऋचो यजूंषि वा यत्प्रभावा एव ज्ञानकर्मपर-विवरणग्रन्थेषु सारण्यक-ब्राह्मणेषु दृश्यन्ते, तदा मन्त्रात्मक-वेदार्थविचारे पूर्व-मीमांसा नैव प्रमाणं भवितुमर्हति। अध्यात्म-विचारदूरा सैषा ब्राह्मणार्थ-मीमांसा ईश्वरसाक्षात्कार-साधनादिरहस्यविद्यास्तित्व-संस्कारशून्या सार्वलौकिकपरम-पुरुषार्थ-चिन्तादविष्ठा वेदरहस्यार्थ-परीक्षायां कथं प्रामाणिकी वाणीमास्थातुं अधिकुरुताम् ?
ऋचो मन्त्राश्छन्दोबद्धा ऋषीणां दृष्टयो भवन्ति। यमर्थमाध्याय यदर्थं शरीर-यात्रामचालयन् ऋषयः, यं च निजानुयायिनां उत्तरकालिकानां च निःश्रेय-साय लक्ष्यत्वेन प्रत्यपादयन्, सोऽर्थः तत् प्रयोजनं तल्लक्ष्यं च ऋक्सूक्तसंहिता-ग्रन्थात् शक्यानि अवगन्तुम् । इमाश्च कवितापद-वाच्याः सन्तु नाम, अपि तु नेमाः कविताः अस्मत्-परिचितसाहित्य-सन्दर्भविशेषा इति मन्तव्यम् । न वा ते कवयः सर्वजनीनाः सर्वेषु देशेषु कालेषु अद्यापि दृश्यमाना इव काव्य-निर्मातारः इति युक्तं मन्तुम् । नेदमैतिह्यमात्रम्। चर्म-चक्षुरगोचरान् लोकान् लोकाध्यक्षान् देवान् तत्सम्बन्धिनः सूक्ष्मान् धर्मान् कुशाग्रधी-गम्यानि सत्यानि च सूक्तेषु गर्भितानि मन्त्र-वर्णा एव बोधयन्ति। मर्यादाविशेष-निबद्धान् सूक्ष्मानिमान् लोकान् तद्देवांश्च साक्षादधिगन्तुं मानवः शरीरस्थ एव पारयेद् यदि गुप्तमध्वानं प्रवेष्टु-मधिकारः सम्पाद्यतानने त्यार्षोऽयं- रहस्य-सम्प्रदायः। ऋच इमाश्च मन्त्र-दृष्टयः कीर्त्यन्ते। ऋषि मन्त्र-द्रष्टारमाहुः। ऋषिर्न केवलं पश्यति, शृणोत्यपि। दृष्टमर्थं सत्यमाविष्कर्तुमपेक्षितं शब्दमप्यधिगच्छति। तस्मादृषिरतीन्द्रियार्थ-दर्शी कविपद वाच्यो भवति वेदे। सः क्रान्त-दर्शी कविः श्रोताऽपि सत्यस्य। तस्मात् कवयः सत्यश्रुतः” इति प्रसिद्धिवेदे। नेदमृषेर्दर्शनं श्रवणं वा लोक-सामान्यं भवति । ऋषरेषा दृष्टिरसाधारणी तथा श्रुतिरपि, याभ्यां प्रकाशिता कविताप्यसाधारणी। रमणीयार्थप्रतिपादकशब्दगुम्फितरसभावभरित-वीर्यवत्तमायाः सर्वोत्कृष्टाया अपि कवितायाः विलक्षणा मन्त्र-कविता। अत एव न युक्तं वेदसूक्त-काव्यानां रसोत्तर-साहित्य-कविता-कोटावारोपणम् । अन्यादृशोत्कर्षा वेदसूक्तकवितेत्यस्यास्ति कारणम्। स च उत्कर्षः सूक्तानां मन्त्रात्मकत्वे प्रतिष्ठितः। विशिष्टा मन्त्रस्य शक्तिः । भवतु मन्त्रार्थो नातिगरीयान् अस्मदृष्टः, भवतु मन्त्र-शब्दोऽपि नात्यन्त-काव्य-शोभावहः ,भवतु व्यञ्जितो भावो नातिगाढः। माऽस्तु परिस्फुटा छन्दोवाचक-भङ्गी। तथाऽपि शक्तेर्न हानिः मन्त्रस्य। सेयं श्रद्धा वेदर्षिकालादारभ्य अद्यावधि भारतीय-आस्तिकजन-हृदयेषु लब्ध-प्रतिष्ठेति नेह सन्देह-गन्धोऽपि विद्यते। मन्त्र-मधिकृत्येदमैतिचं उत्तर-कालेषु आचार्यपुरुषैः तदनुयायिभिश्च रक्षितम् । तावती श्रद्धा मन्त्र-महिमनि रूढमूला यावत्या मन्त्रस्यार्थ-विचारो नावश्यकः, यतो मन्त्र-शक्तिविजृम्भणं मन्त्रतात्पर्य-ग्रहणाधीनं न भवतीत्यपि मन्यन्ते चैके। सर्व-पुरुषार्थसिद्धेरलौकिक उपायो मन्त्र इति बहोः कालादागतमिदं आर्षं मतम् । तथा चाहुः--" इष्टप्राप्त्यनिष्टपरिहारयोरलौकिक उपायो वेदः” इति। अत्र वेद-शब्देन मन्त्र एव मुख्यो बोध्यः। कुत एवं मन्त्रमहिमा वर्ण्यते? वेदर्षिभि-रध्यात्मविद्यैक-निरतैरपि गुप्त-विद्यासु रहस्यतन्त्रेषु विचक्षणश्चास्थितम्। अन्त-रङ्गीयैरुपायैः बाह्यार्थाः साधयितुं शक्या इति तेषां मतम्। सह धी-वृत्त्या शब्दस्तथा प्रयोगयोग्यः यथा सकलविधाः पुरुषार्थाः साधिताः स्युरिति सिद्धान्त-स्तेषाम् । अत एव प्रायः सर्वेऽपि मन्त्रा याज्ञिके विनियोगे प्रथमाना अपि बहवः यज्ञादन्यत्र फलावाप्तये प्रयुज्यन्ते। एवं मन्त्राणां माहात्म्यं न केवलं चिरन्तनत्वे प्रतिष्ठितम् । किं तु ऋषि-दृष्टत्वे शक्तिमत्त्वे चेत्यवगन्तव्यम् । अपरं च, मन्त्राणां पावनत्व-वीर्यवत्त्वादि-धर्मास्तेषां नादसत्त्वात्मक-देवताशरीरभूतत्वादित्याहु-रेके। एवमपि स्यान्नाम। वस्तुतस्तु महिमा मन्त्रस्य तत्प्रादुर्भावप्रकारायत्त इति मन्त्र-वर्णेभ्य एवावगम्यते। ऋचां स्थानं अक्षराख्यं परमं व्योम यत्र विश्वेषां देवानां आवासः, यस्तन्न जानाति तस्य ऋचा कार्यं न भवतीत्येवमर्थका दीर्घ-तमसो मन्त्र-दृष्टिर्भवति--" ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः। यस्तन्न वेद किमुचा करिष्यति य इत् तद् विदुस्त इमे समासते’ (१-१६४-३६)। तस्मिन्नेव सूक्तेऽन्यत्रेयमृग्भवति--" चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति” (१-१६४-४५)। गहनार्थोऽयं मन्त्रः। मन्त्र-द्रष्टा कविः हृदयाख्यमन्तस्समुद्रमवगाह्य तुरीयाख्यं धाम देवानां साक्षात्कृत्य दृष्टान् सत्यार्थान् आद्यां वाचमुपादाय श्रुतैः शब्दैः आविष्करोति। तस्मादुत्तमपदादक्षरात् प्रस्थाय आगच्छन्त्यास्तस्या वाचः चत्वारि स्थानानि भवन्ति। तत्र त्रीणि धामानि रहस्यानि गुहानिहातानि मानुष-श्रवणस्यागोचराणि तस्याश्चतुर्थी अवतरण-भूरेव मानुषी वाक्। चत्वार्यपि वाग्धामानि ऋषरन्तरङ्ग-दीक्षितस्य मनीषिणः विदितानि, नान्यस्य। एवं मन्त्रस्य द्रष्टारः कवयः सत्य-श्रुतः मन्त्रान् न कल्पयामासुः, किं तु अद्राक्षुः इति प्रसिद्धिः। ऋचां वाचां मूलस्थान-भूतस्य देवतानामायतनस्य परमस्य व्योम्नः अकृतकत्वात् ततः प्रादुर्भूत-वेदमन्त्रवर्णेषु नित्यत्वं उपचर्यते। मन्त्रदर्शिन ऋषेर्जन्मनः प्राक् मृतेः परं च सिद्धमेव परमं व्योम। तस्मान्न तन्मन्त्रद्रष्टर्यधीनं भवति, मन्त्रदर्शनं तु तस्मिन्नधीनं बोध्यम्। यद्यपि मन्त्र-शब्दार्थाववियोज्यौ परमाकाशे सिद्धौ भवतः, तत्प्रादुर्भावस्तु ऋष्यधिकार-सम्पत्ति-सापेक्षो बोध्यः। अत एव ऋक्संहितायां शश्वदृषेमन्त्र-कृत्त्वमुल्लिखितं दृश्यते-"ऋषेमन्त्रकृतां स्तोमैः” (६-११४-२) “हृदा यत्तष्टान् मन्त्रानशंसन्” (१-६७-२) इत्येवंजातीयकैः मन्त्र-वर्णैः स्पष्टं कृतकत्वे मन्त्राणां अवगम्यमाने, कथं नित्यो वेद इति मा भूच्छङ्का। प्रागुक्त-विधया ऋचां मूल-भूतामाद्यां वाचं परमव्योम-संस्थामधिकृत्य सा नित्येत्याह मन्त्र-वर्णः । सर्वस्यापि वेदस्य नित्यत्वं परमव्योम-प्रभवत्वात् कीर्तितम् । “ तस्मै नूनमभिद्यवे वाचा विरूप नित्यया। वृष्णे चोदस्व सुष्टुतिम् ।।” (८-७५-६), इति ऋचो व्याख्याने सायण-भाष्यमपि एवमुपपद्यते । " नित्यया उत्पत्तिरहितया वाचा मन्त्ररूपया” इति सायणः। अस्मदुक्तरीत्या नानुपपत्तिर्वेदनित्यत्व-ऋषिकर्त कत्वयोः। अत एव महाभाष्यकारः, ‘तेन प्रोक्तम्’ (४-३-१०१) इति पाणिनीयसूत्र-व्याख्याप्रसङ्गे “प्रोक्तग्रहणमनर्थकम्” इत्यारभ्य अन्ते ब्रूते--“छन्दोर्थं तीदं वक्तव्यम् । न हि छन्दांसि क्रियन्ते नित्यानि छन्दांसि। छन्दोर्थमिति चेत् तुल्यम् । ननु चोक्तम् नहि छन्दांसि क्रियन्ते नित्यानि छन्दांसीति । यद्यप्यों नित्यः या त्वसौ वर्णानुपूर्वी सा अनित्या। तद्भेदाच्चैतद् भवति"। अत्र कैयटस्य टीका ‘तभेदादानुपूर्वीभेदात्’ ’प्रपूर्वो वचि: प्रकाशने अध्यापनरूपे वा’ अत्र वर्णानामानुपूर्वी न नित्या इति वेदशब्दार्थ-नित्यत्वमभ्युपगच्छन् भगवान् पतञ्जलिः पदवर्णवाक्यबन्धव्यवस्था-नित्यतां नाङ्गीचकार। सा च व्यवस्था प्रकाशनरूपा ऋषिकर्त का। एवं वेदानां कृतकत्वाकृतकत्वयोरुपपत्तिर्द्रष्टव्या। सर्वथा ऋचामसाधारण-कवित्वरूपं मन्त्रत्वं उदाहृतैर्विरूपदीर्घतमसोर्मन्त्रवर्णैः सुगमं भवति। परं शतशः उदाहरणानि वाचो महिमानुवर्णनपराणि ऋक्संहितायां द्रष्टव्यानि, विस्तरभयाद् इह नोल्लिख्यन्ते ।।
सम्प्रति ऋचां बाह्यार्थः सायण-भाष्यादवगम्यते। रहस्यार्थस्तु सङ्केत-पदार्थायत्त इति प्रागुक्तः । दुरवगमो मन्त्रार्थ इति निरुक्तकारोऽप्याह । तपःस्थितानां ऋषीणां ब्रह्मपद-वाच्यो मन्त्रः प्रत्यक्षोऽभवत् नान्यथेति यास्कस्याभिप्रायः । तथा चाह–’तदेनान् तपस्यमानान् ब्रह्म स्वयंभु अभ्यनार्षत् तदृषयोऽभवन् तदृषीणां ऋषित्वम्’ (२-११)। मन्त्रार्थो दुरूह इत्यन्यत्राह--" तस्यास्तपसा पारमीप्सि-तव्यम्” (१३-१३) इति। वेदर्थाधिगमाय तपस ऋते नास्ति शरणम् तपो-निष्ठस्यमन्त्रः प्रत्यक्षो भवतीति च यास्क-मतं इति विशदं भवति । अस्मदुक्त-मन्त्र-प्रादुर्भावतन्नित्यत्व-कृतकत्वानि न केवलं मन्त्र-वर्गनिर्णीतानि, किं तु निरुक्त-कारेणापि समर्थितानि भवन्ति। यास्कोक्तीरेव समर्थयति बृहद्देवता। प्रत्यक्षमनृषेरस्ति मन्त्रम्’ (नपुंसकमार्षम् ) इत्याह (८-१२६), ऋषेर्दर्शनसामर्थ्य, त्रय्याः प्रयोजनम्, सम्यगनुष्ठितानां कर्मणां फलमित्येवमादयो बृहद्देवतायां प्रतिपादिताः वेदरहस्यार्थ-पक्षं पोषयन्तीति न संशयः । अत्रेमे श्लोका उदाहार्या:-’न ऋग्भाष्यभूमिका—
७. १३० “योगेन दाक्ष्येण दमेन बुद्धया बाहुश्रुत्येन तपसा नियोगः । उपास्यास्ताः कृत्स्नशो देवताया ऋचो ह यो वेद स वेद देवान् ।। १३१ मन्त्राणां देवताविद् यः प्रयुङक्ते कर्म कर्हिचित् । जुषन्ते देवतास्तस्य हवि देवताविदः ।। १३२ अविज्ञानप्रदिष्टं हि हविर्ने हेत दैवतम् । तस्मान्मनसि संयम्य देवतां जुहुयाद्धविः ।। १३३ स्वाध्यायमपि योऽधीते मन्त्रदैवतविच्छुचिः । स सत्रसदिव स्वर्गे सत्रसद्भिरपीड्यते ।।
अथेदमवधारणीयम् । यद्यपि वेद-मन्त्रस्य पवित्रत्व-शक्तिमत्त्वादिकं मन्त्रदृष्टः गूढार्थभूत-आध्यात्मिकादि-तत्त्वमूलकमेव भवति, तथाऽपि बाह्यार्थपक्षेऽपि यज्ञा-दन्यत्रोपयोगाय कल्पते। इदमेव मूलं भवति तस्य ऐतिह्यस्य, येन अलौकिके-नोपायेन लौकिका अर्था अपि साध्यन्त इति रूढा प्रतीतिः । इदमेव मूलं शौनकीय-ऋग्विधानादिग्रन्थस्य, यत्र विविधपुरुषार्थ-साधनोपयोगित्वेन कल्पाः प्रोक्ताः । इदमपि तथ्यं यद्यास्केनोच्यते-“ उच्चावचैरभिप्रायः ऋषीणां मन्त्रदृष्टयो भवन्ति" इति। तदेव बृहद्देवताप्याह । ‘अर्थेप्सवः खल्वृषयः छन्दोभिर्देवताः पुरा। अभ्यधा-वन्निति च्छन्दोमध्ये त्वाहुमहर्षयः’ (८-१३७) इति । यद्येवं लौकिकार्थानुद्दिश्यापि मन्त्राः प्रवृत्ताः, कथं तर्हि परम-पावनो वेदः अध्यात्मनिष्ठाविशेष-रहस्यानां निक्षेप इत्युच्यत इति चेन्नेहासङ्गतिः। प्रागेवोक्तं गूढार्थ एव परमार्थो वेदानां स्थूलार्थस्तु कर्मसु प्रयोजनवान् पुरुषार्थ-साधनेषु वेति। यद्यप्यापातत ऋषीणां अभिप्रायेषु उच्चावाचत्वं स्पष्टमेव भवति, तथाऽप्यन्तरर्थ-विमर्श शपथाभिशाप-निन्दा-प्रशंसादीनां आध्यात्मिक-निष्ठाचरित्र-सम्बन्धित्वमवदातं भवेत्। स्थूल-विचारिणां पाश्चात्यानुयायिनां वा पक्षे ऋषीणां वैमत्यमेवोपस्थितमिति नात्र चित्रम् । यद्यपि न वयं सर्वेऽपि मन्त्र-द्रष्टारः सम-कालिकाः समान-निष्ठादशाः मन्त्रान् अदर्शन्निति ब्रूमहे, तथाऽपीदं तथ्यं प्रतिपादयामः। ऋषयः सर्वेऽपि समानमेव सङ्केतपदार्थ-समुदायं समानमेव बाह्याभ्यन्तर-यागं समानमेव भूरादिलोक-संस्थानं समानमेव देवता-तत्त्वं समानमेव परमं पुरुषार्थं च विज्ञाय स्वनिष्ठादशा-विशेषापेक्षितार्थ-साधनाय देवान् अयजन्निति सङ्केतरूप-गूढार्थ-तत्त्वान्वेषणपराणां प्राज्ञानां अयं समीचीनः पन्थाः परिस्फुटो भवेदिति दिक् ।।
अथ तां रहस्य-भाषामधिकृत्य विचार्यते, यत्र गोपितो भवति मन्त्रार्थः । तच्च रहस्यं सङ्केत-रूपेण केन वाऽप्याकारेण तथाऽऽच्छादितं यथा स्थूल-धियां सङ्केतार्थोपस्थिति-शङ्काऽपि न जायते, यत् सङ्केतशब्दाः बाह्यार्थाभिधायकाः सुतरां उपपन्ना एव प्रायो लक्ष्यन्ते। सङ्केताश्च याग-सम्बन्धिनः लौकिकाः पदार्थाः ब्रह्माण्डप्रकृति-विलासितानि वा भवन्ति । अथवा कश्चन मूढधीः मन्त्र-प्रतिपादिता अग्न्यादयो देवाः केऽप्यमानुषाः पुरुषा भूताग्नि-वाय्वादित्य-मरुत्-पर्जन्यादिवेषेण प्रत्यक्ष-दृश्येनावस्थिता इति वा प्रतीयात् । तदिह प्रथमं किं तद्रहस्यं भाषितं वेदे द्रष्टव्यम् ? यदि वेद एव रहस्यवागुल्लिखितेति निश्चयो लभ्यते, ततः परं कथं तद्गोपनं साधितमिति सङ्केत-पदार्थ-व्यवस्थां परीक्षामहै ।।
तपोनिष्ठानामृषीणां देवताभिः सह व्यवहारे तदर्थ-प्रकाशन च रहस्यभाषा व्यवस्थापितेति निर्णेतुं प्रमाणमस्ति चेत् तत् प्रथमं मन्त्रदृष्टिष्वेव स्यात्, ऋषि-वाक्येषु एव द्रष्टव्यम् । ऋग्वेद-संहितायां रहस्यपदार्थ-प्रसङ्गेषु किमुद्दिश्य रहस्यार्थ-परं पदं प्रयुज्यत इति विचार्यमाणे, कोऽप्यसुरो देवो वा किमपि स्थानं कोऽपि लोको वा तिरोहितो न दृश्यत इति वक्तव्य अन्तर्हित-गूढरहस्य-अदृश्याद्यपर-पर्याय-निण्यपदं प्रयुज्यते। क्वचिद्देवतासान्निध्यसम्पादिकां वाचं निर्दिश्य प्रयुज्यमानं "नाम" अपि हृदि गुहायां गूढमन्तर्हितं रहस्यं इति वा कीर्त्यते। वेदितव्यानि ज्ञानानि स्तोत्र-पराणि वचांसि च निण्यपदार्थभूत-रहस्यानीत्युच्यते। निरुक्त-पठितानां षण्णां अन्तहितनाम्नामेकं निण्य-पदम्। इदं च प्रसङ्ग-वशात् गोपितं अन्तहितं तिरोहितं अदृश्यं रहस्यं इति प्रायः समानार्थेषु वेदे प्रयुक्तमीक्षितव्यम् । इदं च पदं सम्प्रति परीक्ष्य वेदर्षयः स्वप्रयुक्त-भाषायां किमपि रहस्यं निक्षिप्य बहिर्मुख-मतिभ्योऽपक्वेभ्यश्च गोपायाञ्चक्रुरिति निरूपयिष्यामः। इदं चात्र नः सुदैवम्, यत् सन्दर्भ-वशात् सविमर्शमविमर्श वा इच्छानुसारेण वेदपदानां अर्थान् व्याचक्षाणः सायणः निण्य-पदस्य एक-रीत्या अन्तर्हितं अदर्शनं गतं वेत्यर्थं व्याचष्टे। निण्य-पदार्थं साधु व्याकुर्वन्नपि प्रसक्त-वाक्य-तात्पर्य स्वोद्देशस्या-नपेक्षितमपि यथेच्छं प्रतिपादयतीति प्रथमं दर्शयिष्यामः। निण्यपद-प्रयोगस्थलषु एकत्र अन्यथा व्याख्यासीत् । तथा व्याख्याने प्रमाणं न दत्तम्, नापि प्रयोजनम् । प्रमाणं दत्तं चेत् तत्प्रमाण-वचनं अन्यथा गृहीतम् । “निण्यम्” निर्णामधेयमित्याह । हिरण्यस्तूपस्य ऐन्द्रेषु सूक्तेषु इयं ऋग्भवति-"अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् । वृत्रस्य निण्यं विचरन्त्यापः दीर्घ तम आशय-दिन्द्रशत्रुः” (१-३२-१०)। अत्र स्थूलोऽर्थः सायणीय-पदप्रयोगानुपयुज्य दीयते । अतिष्ठन्तीनां स्थिति-रहितानां अनिवेशनानां उपवेशन-रहितानां (प्रवहणस्वभाव-त्वात्) काष्ठानां अपां मध्ये निहितं निक्षिप्तं वृत्रस्य निण्यं निर्णामधेयं शरीरं आपः विचरन्ति विशेषेण पर्याक्रम्य प्रवहन्ति । इन्द्रशत्रुः वृत्रः (जलमध्ये प्रक्षिप्ते सति) दीर्घ तमः दीर्घनिद्रात्मकं मरणं यथा भवति तथा आशयत् सर्वतः पतितवान् । अत्र अप्सु मग्नत्वेन गूढत्वात् तदीयं नाम न केनापि ज्ञायते । तस्मान् निण्यं निर्णामधेयमिति सायणीयं विवरणम् । का नाम विवक्षा? पश्याम-स्तावत्। इन्द्रो वृत्रं जघान, तस्य देह-पाते तमः शरीरं तस्य दीर्घनिद्रामवाप। तददृश्यमभवत् । गाढमध: पतने उपरि निरन्तरं अपां प्रवाहे, तच्छरीरमन्तर्हितम् अत्र अदृश्यमभवदित्युक्तौ ऐतिहासिक-पक्षस्य आधिभौतिकपक्षस्य वा का हानिः ? मेघेषु इन्द्रायुधेनाहतेषु तत्र बन्धिता आपो निर्मुक्ता भवन्ति। तासामावरक वृत्र-शरीरमधः पतति, उपर्याप: प्रवहन्ति, तस्मादन्तर्हितमदृश्यं एव तच्छरीरम् । कुतस्तर्हि नाम-शून्यमित्यभिप्रैति स्म सायणः ? सरलेनैव पथा अर्थ-सामञ्जस्ये सिद्धे “गूढत्वात् तस्य नाम न केनापि ज्ञायते” इति कुतोऽयं द्राविड-प्राणायामः ? न वा निण्यपदस्य निर्णामधेय-पर्यायत्वं निघण्टु-पठितम् । यास्क एनामृचं उदा-हार्षीत्, तत्र “निण्यं निर्णामम्” इत्याह। निर्णाम-पदार्थः दुर्गाचार्य-व्याख्यानाद् अवगम्यते "येनासौ नीचैर्नमति” तं प्रदेशं विचरन्तीति दुर्गः। नीचैर्नमनेन गन्तव्यं निम्नं स्थलं निण्यमिति विवरणं अनुस्वारान्तस्य “निर्णाम” इति पदस्य युक्तं भवति। नामधेयार्थे तु “निर्णाम” इति नकारान्त-नपुंसकलिङ्गं स्यात्, न तु निर्णामं इति अनुस्वारान्तम्। तस्मादत्र यास्कमेवं भ्रमादुदाजहार सायणः । एवं व्याख्याय कथं निर्णामधेयोऽभूद् वृत्र इति चेत् सोऽत्यन्तं तथा मृतः यथा तस्य नामापि स्मृतिपथादपगतं किल ! एवं स्वपक्षस्यानपेक्षितमपि क्लिष्टं व्याख्यानं शतशो दृश्यते सायण-भाष्य इत्यलं विस्तरेण ।।
निण्यं अन्तहितमित्यसन्दिग्धम्। सर्वत्र सायणः निघण्टुपठितार्थमेव स्वीकृत्य यास्कं च प्रायश उदाहरति। अन्तहित-पदार्थः गूढ-रहस्याद्यपर-पर्यायो बोध्यः । कौत्सस्य अग्नि-सूक्तस्य व्याख्याने ’निण्यं’ रहस्यं ‘अन्तहितं’ इत्येवाह--"क इमं वो निण्यं आ चिकेत वत्सो मातृजनयत स्वधाभिः” (१-६५-४)। ऋषिः पृच्छति, युष्मासु को वा रहस्यमग्नि जानाति यो वत्सः स्वधापदवाच्य-स्वधारण-सामर्थ्यधर्मैः मातरजनयदिति। एवं न केवलं असुरे वृत्रे अन्तहिते निण्य-पदं प्रयुक्तम्, अपि तु अप्सु वनेषु वा गूढमग्निमावेदयितुमपि प्रयुज्यते। क्वचित् किमपि स्थानं कमपि लोकं वा गूढं अभिधातुं निण्यपदं प्रयुक्तम्। काश्यपः सोमं सम्बोधयति-“तव त्ये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशास: " (६-६२-४) । अत्र रहस्यं स्थानं सोमस्योल्लिखितं यत्र त्रयस्त्रिशद्देवाः स्वधाभिस्तं मृजन्तीति मन्त्रस्य उत्तरार्धे पठ्यते। जीव आत्माऽपि अन्तर्हित उक्तः। अत्र दीर्घतमसो मन्त्र-दृष्टिर्भवति--" न वि जानामि यदि वेदमस्मि निण्यः सन्नद्धो मनसा चरामि” (१-१६४-३७)। वसिष्ठ-मण्डल शाखासहस्रात्मतया विततं तद्रहस्यं ’निण्यं’ हार्द-साक्षात्कारैः सत्य-दर्शनैरुपायैरधिगम्यत इत्युक्तम् । “त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभिसञ्चरन्ति” (७-३३-६)। वसिष्ठः मारुते सूक्ते मरुतां रूपवाहनादीनि साश्चर्यं पश्यन् धीर एव इमानि (निण्यानि) रहस्यानि जानाति इत्याह--"एतानि धीरो निण्या चिकेत पृश्निर्यदूधो मही जभार" (७-५६-४)। पुनश्चान्यत्र वसिष्ठः मित्रावरुणौ सम्बोध्य प्राह--’अस्माकं रहस्यानि स्तोत्राणि युवयोविदितानि" इति। ’न वां निण्यानि अचिते अभूवन्’ (७-६१-५)। “निण्यानि रहस्यान्यपि स्तोत्राणि" इति सायणः। यन्न प्रत्यक्षं गूढ उद्देश्यपूर्वकं गोपितं रहस्यं वा तदभिधातुं निण्यपदं प्रयुक्तं वेदे इति निदर्शनायोक्तान्युदाहरणानि पर्याप्तानि । वृषणा" इत्यस्या ऋचः (७-६१-५) तात्पर्ये परीक्षिते, रहस्यं मन्त्रार्थं विजानन्ति देवाः यन्न किमपि तेषां दृष्ट रपवारयितुं शक्यं, यच्च रहस्यं जन-सामान्याद् बहिर्मुख-बुद्धेः रक्षणाय आच्छादितं इति तात्पर्यं स्पष्टं भवति। अरविन्द-श्रीचरणैः वामदेव-सूक्तस्तथा “निण्या वचांसि” इति वाक् निस्संशयं वेदभाषारहस्य-मुद्वाट्यतीति निरूपितम्। सेयं मन्त्र-दृष्टि: भवति वामदेवस्य--"एता विश्वा विदुष वेधो नीथानि अग्ने निण्या वचांसि। निवचना कवये काव्यानि अशंसिषं मतिभिविप्र उक्थैः" (४-३-१६)। सायणीय-विवरणार्थानि पदान्युपयुज्य अस्यार्थोऽत्र समस्यते। वेध विधातः हे अग्ने, विदुषे कवये (तुभ्यं) नीथानि (फलप्रापकाणि, सुप्रणीतानि वा) “निण्या” गूढानि निवचनानि नितरां वक्तव्यानि काव्यानि कविभिः क्रान्तशिभिः मेधाविभिः कृतानि “एता विश्वा वचांसि” एतानि सर्वाणि वाक्याणि “मतिभिः उक्थैः” मननीयैः स्तोत्रैः शस्त्रैश्च (सहितः) विप्रः प्राज्ञोऽहं अशंसिषं अवोचं, तानि सेवस्व। अन्यश्च मन्त्र इह वामदेवस्योदाहार्यः। तत्र इन्द्रेण क्रियमाणं सोम-पानं रहसि निर्वर्त्यत इति दृष्टान्तोदाहरणेन प्रतिपाद्यते, यथा ऋषिः वेदितव्यानर्थान् रहसि साधयति, तथा सोममन्यैरविदितमेव रहसि पिबतीन्द्रः इति। “कविन निण्यं विदथानि साधन् वृषा यत् सेकं विपिपानो अर्चात्” (४-१६-३) । ।
निण्य-पदं रहस्यार्थं सोदाहरणं व्याख्यातं, येन वेद-भाषायां रहस्यं ऋषिभिः निक्षिप्तमित्यसन्दिग्धमवगतं भवति । तच्च रहस्यं क्वचिद्देवता क्वचिदसुरः अन्यत्र ज्ञानं सत्यं कमप्यर्थमुद्दिश्य भवतीति न विस्मार्यम् । ऋक्संहितायां अन्यानि च पदानि रहस्यार्थद्योतकानि प्रयुज्यन्ते। अत्र द्वित्राण्युदाहरणानि दीयन्ते, यतोऽपि वेद-मन्त्रेषु रहस्यं निक्षिप्तमिति ज्ञायत। गुहा-गुह्य-अपीच्यानि क्वचित् प्रतीच्यं अपि रहस्यार्थे प्रयुज्यन्ते। स्वगुण-क्रियाद्योतकः उपयोगविशेषायत्तैः उक्थ-शस्त्र-स्तोम-गीर-वाग्-वाणीब्रह्म-मन्त्रादिपदैः ऋग् व्यवढियत इति विदित-चरमेवैतत् । अपि तु सन्ति मन्त्राः यत्र गूढभाषा-कलितां स्तोत्र-वाचमावेदयितुं नाम-पदं प्रयुज्यन्ते । “नाम” इत्यभिधानवाचकं नामधेयमित्यत्र न विवाद: वेदे देवतायाः नाम न केवलं अन्याभ्यो देवताभ्यो व्यावर्त्य कामपि देवता-व्यक्ति निर्देष्टुं प्रयुज्यते, किं तु प्रकृतं देवताव्यक्तिविशेषं विज्ञापयितुं सन्निधापयितुं वा या शक्तिरपेक्षिता भवति तां बिभर्ति तन्नाम। यतः तद्देवेभ्यो नमनाय साधनं भवति ततस्तन्नामेत्युच्यते। नमनसाधनं नामेति सायणीय-व्याख्यानेऽपि दृश्यते। तस्मान्नाम-पदं देवताराधन-साधनभूतं सर्वाङ्गप्रणामं आविष्कुर्वन्तं मन्त्र-दृष्टिरूपं स्तवं लक्षयतीति ग्राह्यम् । "नम उक्ति विधेम" इत्यादावपि देवतां प्रति सर्वथा प्रह्वत्वं अनहङकृतेर्देवात्मभावं सम्पिपादयिषोभक्तस्यार्जेयम् । तस्मात् नमन-साधनं ’नाम’ स्तोत्रपर्यायतया वेदे प्रयुज्यमानं ऋग्भ्य एवावगम्यते । तत्रापि तच्च नाम क्वचित् गुहायां निहितं गूढं रहस्यमिति वर्ण्यते। क्वचि-दपीच्यशब्दविशिष्टं नाम-पदं प्रयुक्तम् । अपीच्यं निण्यमिव अन्तर्हितनामैव भवति । नैकेषु मन्त्रेषु रहस्यं नाम रहस्यं स्तोत्रं वा अपीच्यनामप्रयोगेणावेदितं लक्ष्यते । गृत्समदस्य मन्त्रदृष्टिर्भवति--" तदस्यानीकं उत चारु नाम अपीच्यं वर्धते नप्तु-रपाम्” (२-३५-११)। अपां वत्सस्य शोभनं मुखं रहस्यं नाम अन्तहितं स्तवात्मकं नाम च वर्धते इति भावः। स्थूलपक्षे यः कोऽप्यस्तु नामशब्दार्थः, सोऽपीच्यपदार्थ-विशिष्ट इति तु असन्दिग्धं भवति। नाभाक ऋषिः वरुणं स्तौति-“यो धर्ता भुवनानां य उस्राणां अपीच्या वेद नामानि गुह्या। स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभन्तामन्यके समे" (८-४१-५)। अत्र इमानि पदान्यवधेयानि--’ अपीच्या नामानि गुह्या कविः काव्या’ इति। इंदं च तात्पर्य लक्षणीयम् । यो वरुणः सर्वेषां भुवनानां धारकः देवाधिष्ठानभूत-रश्मि-समूहोपलक्षित-ज्ञानप्रकाशानां रहस्यानि गुहा-हितानि नामानि (स्त्रोत्राणि वा) जानाति, स कविः क्रान्त-दर्शी काव्यानि कवि-कर्माणि पुष्यति, यथा द्यौः पुरु-रूपं पोषयतीति संक्षेपार्थः ।।
अस्मिन्नेव सूक्ते--" स समुद्रो अपीच्यस्तुरो द्यामिव रोहति” (८-४१-८) इति अन्तर्हितो रहस्य-समुद्रो वरुण इत्युक्तम् । कविर्भार्गव ऋषिः मातापित्रोः रहस्यं नाम पुत्रो धारयतीत्याह--" ऋतस्य जिह्वा . दधाति पुत्रः पित्रो-रपीच्यं नाम (६-७५-२) सदा ते नाम स्वयशो विवक्मि” (७-२२-५) इति वासिष्ठमन्त्र-व्याख्याने “तव नाम स्तोत्रं सदा सदैव ब्रवीमि " इति सायणः । पुनश्च मा अमर्त्यस्य ते भूरि नाम मनामहे। विप्रासो जातवेदसः (८-११-५) । ’भूरि नाम मनामहे’ विस्तृतं स्तोत्रं जानीम इति सायणः ।।
बहवः सन्ति मन्त्र-वर्णाः संहितायाम्, यत्र नाम-पदं देवताव्यक्तिविशेष प्रति विज्ञापनाय प्रयुज्यते, ऋचं स्तोत्र-वाचं द्योतयितुं चोपयुज्यते। द्विधाऽपि तद्रहस्यं अन्तहितं गहनं वेत्यर्थे वर्तते। कदाचित् प्रतीच्य-पदमपि तिरोहित-रहस्य-गोपिता-द्यर्थे व्यवहृतं पश्यामः। परं तु आभिमुख्य अन्तर्मुखत्वे वा लोक इव वेदेऽपि भूयः प्रयुक्तं भवति। अन्तर्मुखत्वार्थे प्रत्यगात्मादिः प्रयोगोऽद्यापि वर्तते। प्रत्यङमुख-पराङमुख-शब्दौ अन्तर्मुख-बहिर्मुख-वाचकौ विदितचरौ। उपन्यस्तमिदं सर्व वेदभाषायां रहस्यमस्तीति बढचसंहिताप्रमाणपूर्वक निरूपयितुं पर्याप्तं भवेद्विचार-रसिकानां जिज्ञासूनाम् ॥
अथ तद्रहस्यं परीक्ष्यते। तत् कीदृशं, केनाच्छादनेन अन्तरर्थभूतं तत् संव्रियते? प्रागुक्तं सङ्केत-पदार्थरूपं तदावरणमित्याचक्ष्महे। यद्यपि अन्तरर्थः परमार्थो गोप्य-विद्याप्रवृत्तानां अध्यात्म-निष्ठानां विदित उपयुक्तश्च भवति, बाह्योऽर्थः सङ्केत-रूप: स्थूलः कर्म-पराणामुपयुक्तश्चेत्युक्तं, तथाऽपि बाह्योऽर्थः सर्वत्र सङ्केतरूपेणैव साध्यत इति नियमो न भवति। सङ्केत-निरपेक्षमेव बाह्या-भ्यन्तरार्थ-द्वयं मन्त्राणामने कत्र निष्पन्नं भवति। तत्र मुख्यं साधनं कतिपय-पदानां द्वयर्थता बह्वर्थता वा प्रसिद्धा वेदे। अत्रे मान्युदाहरणानि भवन्ति--’धी:’ इदं च पदं लोके वेदे च बुद्धि-वाचकं प्रसिद्धम्। धी-शब्दः कर्मार्थेऽपि गृह्यते वेदे। तस्मादन्तरर्थे सर्वत्र ज्ञानवृत्ति-विशेषतयैव व्याख्यायते। बाह्य तु धियः कर्माणीति व्याचक्षते, न तु सर्वत्रेति नियमः। केतुरिति प्रज्ञापकोऽन्तर्ज्ञानविलासविशेष: गूढार्थपक्षे, बाह्य-पक्षे तु केतूनां धात्वर्थानुगमेन प्रज्ञापकत्वे प्रोक्तेऽपि अत्यन्त-स्थूलतया रश्मिभिः प्रकाश-दानात् तेषां प्रत्यक्षं जगत् प्रति प्रज्ञापकत्वाच्च केतवो रश्मय उच्यन्ते। अनापि न नियमः, नैक: केतु-पदार्थः कर्मपर-व्याख्यातणाम् । ’श्रवः’ इदं च शृणोति धात्वर्थ-सम्बन्धिनां श्रुति-श्रोत्र-श्रवणादीनामेकं पदम् । अन्तःश्रवणं दिव्यं वा देवतानुग्रहान्निष्ठांविशेष-लब्धाद् ज्ञान-बलावेशाद्वा सिद्धं श्रवणं इति रहस्यसम्प्रदायार्थः। स्थूल-पक्षे कीर्तिरिति स्यात् न्यायतः, कीर्तेः सर्वत्र श्रूयमाणत्वात्। क्वचिदन्नमपि व्याचष्टे सायणः, पुनरिहापि नास्ति नियमः । ऋतु:’ प्रज्ञा, अध्यवसायात्मकं प्राज्ञमिच्छा-बलं वा सर्वत्र अन्तरर्थ-प्रतिपत्तौ। स्थूल-पक्षे तु न नियमः। क्वचित् प्रज्ञा क्वचित् याज्ञिकं कर्म, अन्यत् किमपि वेच्छानुसारेण व्याहरति सायणः । ’ऋतम्’ रहस्याधिगमे प्रधानतममिदं पदं, अन्तहितानां वेदार्थानां अधिगमाय प्रथमं द्वारमिति वक्तव्यम् । सत्यं आविर्भूतं सत्यं वा तद्धर्मो वा ऋत-पदेनोच्यते, नान्यथा गूढार्थप्रकाशनपद्धतौ। स्थूल-पक्षे क्वचित् ऋतमुदकं भवति, यज्ञो भवति, अन्यत्र अन्यत् किमपि भवति, किं वा न भवेन्निरङकुश-कर्मपरता-प्रतिपादनोत्साहसमीरिते सायणीये भाष्ये? एवमन्यानि पदान्यपि सङ्केत-रूपं विनैव बाह्याभ्यन्तरार्थसाधकानि वर्तमानानि यथावसरं ऋचां व्याख्यानेषु प्रसज्यन्त इति नेह विस्तर इष्यते। इमदत्रावधेयम् । इदमेव महद्वलं अन्तरर्थविवरणसरणेः, यद् ऋतादि-पदानां एकैकस्यापि एकरूपतया नियमेनार्थ-ग्रहणात् सर्वत्र गूढार्थानुसारेण तात्पर्य-सङ्गतिः सुलभा लक्ष्यते। स्थूलपक्ष-रीत्या तु बहुषु स्थलेषु न केवलं भावदारिद्रयं किं तु तात्पर्यमसङ्गतं च भवतीति पुरस्ताद्व्याख्याने दिङमात्रं वा प्रदर्शयिष्यामः ।।
अथ सङकेताः । ऋतादिपदान्यसङकेत-पदान्यपि अन्तरर्थ-साधनान्युपपादितानि । अन्यानि पदानि सङकेत-रूपाणि गवाश्व-घृतादीनि वर्तन्ते। एषामेकैकमपि आन्तरस्य प्रपञ्चस्य सत्यस्य भावस्य पदार्थस्य वा बाह्यं सङकेत-रूपं ज्ञेयं भवति। अत्र उदाहरणानि भवन्ति । ‘गौः’ इति विशिष्टं आद्यं पदम् । यद्यपि लोक इव वेदेऽपि गोपदं रश्मिः, वाक् चतुष्पाद्विशेषः इत्याद्यर्थेषु वर्तते, तथाऽपि गूढार्थ-पक्षे किरणोपलक्षित-अन्तःप्रकाशार्थे प्रयुज्यते। तस्य सङकेतः गौरिति चतुष्पाद्वाह्ये ग्राह्यः । यद्यपि गो-पदस्य श्लिष्टतया द्वयर्थः सिध्येत्, तथाऽपि सङकेतरूपंव गौाह्या, गोपर्याय-धेन्वादीनां गोविकार-दुग्ध-घृतादीनां च सङकेत-रूपतया मन्त्र-वर्णेषु प्रयोग-बाहुल्यात्। तादृशस्थलेषु सङकेतं उज्झित्वा तात्पर्यान्वेषणे लाभस्तु असत्यः शोचनीयश्च भवेत्। मन्त्र-द्रष्टार ऋषयः असम्बद्ध-प्रलापिन उन्मत्ता इति वा सिध्येत् । ’अश्वः’ बलस्य सङकेतः, अद्यतने युगेऽपि नव्यानां व्यवहारे इयदश्व-बलमिति बलप्रमाण-गणनायां आहुः । इदं च बलसङकेत-भूतत्वं अश्वस्य चिरन्तन-मिति स्मार्यम्। ’आपः’ जीवनरसः तच्छक्ति-विशेषाणां सृष्टिकार्य-स्थितानां विश्वमूलतत्त्व-शक्तीनां च सङकेतः । ’नद्यः’ ’सिन्धवः’ सर्जनपोषण-शक्तीनाम् । ’समुद्रः’ अखण्डसत्त्व-स्वरूपं, यस्मादुदेति सूर्यात्मा सत्यः। ‘पर्वतः’ पर्ववान् सानुमान् सृष्टस्य भूम्यादेर्जगतः बहु-प्रस्थस्य उपर्युपरि सानव इवावस्थितस्य सङकेतः । ‘गुहा’ रहस्य-स्थानस्य, सर्वभूत-मूलस्थान-भूतस्य हृदयस्य सङकेतः । इमानि बहिरुपस्थितानि वस्तुरूपाणि वेद-कविभिः स्वोद्दिष्टानर्थान् आविष्कर्तुं निरायासेनोपयुक्तानीति सावधानावलोकने स्पष्टं भवेत्। अकृत्रिम-धियां आदि-कवीनाम् अन्तरङ्गेषु समुद्रादीनामखण्डसत्त्व-स्वरूपादिभिः पदं कृतमिति नात्र चित्रम् । तथा च, अपरिमेयत्व-गांभीर्यादिरखण्डद्रव्य-समृद्धिर्वा समुद्रस्य, निरन्तर-वहनाप्यायनादिशीलता सिन्धूनाम्, जीवनाधारता वा अपां एवमन्येषामभितः सतां चराणां स्थिराणां वा गुणक्रिया-विशेषाः सर्गस्य मूल-तत्त्वानि सूक्ष्मगहन-प्रदेषुशे विगाह्य अन्तरे प्रकृतौ देवताकार्यविलसितानि पश्यतामृषीणाम् स्वानुभव-सदृशाः सङकेता अभूवन्। परदैवतं प्रति यात्रायां वेद-कवेः दर्शन-प्राप्तानाम् सत्यार्थानां सूक्ष्माणां असाधारणभावानां आविष्करणाय स्थूलानि सरित्समुद्र-गवाश्वप्रभृतीनि निसर्ग-सिद्धानि बिम्बानि अप्रयास-प्रवृत्तान्यासन् । तथा मन्त्रवाग्भिगूढार्थाना-माविष्करणं ऋषेः स्वोपयोगाय अन्येषां तादृशाध्वचराणामनुचराणां वा प्रयोज-नायाकल्पिष्ट। इदं च सङकेत-बिम्बानां परमं प्रयोजनम् । तानि हि स्वभावैरिष्टा-र्थान् प्रतिपाद्य विवरणमन्तरेण गाढं संस्कारमात्मनि द्रष्टरि विदधते। उत्तर-युगेषु बुद्धिप्रधानेषु साहित्याभ्युदये भ्राजमानेऽपि बिम्बैः विना प्रायो भावा-विष्कारो न घटतेऽद्यापि। तत्रापि गुणक्रियाविशेषधर्मारोपणेन रूप्य-रूपकभावं प्रतिपाद्य इष्टमर्थं बोधयन्ति कवयः। वेदे तु सङकेतरूपग्रहणेन रूप्ये रूपक-धर्मारोपस्य नास्त्यवसरः। पर्वतबिम्बप्रदर्शनमात्रेण अचलत्व-जीवनप्रवाहप्रभवत्व-बहुप्रस्थाधिरोहसानुमत्त्व-उत्तुङ्गत्वादयः अनभिहिता एव साक्षादुपस्थिता प्रभवन्ति हृदयं प्रवेष्टुम्। अपरं चेदं बोध्यम्। वेदनात्मकाद् भावादनुभव-विशेषाद्वा धीवृत्त्यात्मकं ज्ञानं (बौद्धेऽस्मदीये युग इव) न पृथक्कृतं वैदिके युगे, यत्र वेदनं बुद्धिः उभे अपि सुसंगते निरन्तरे चाभूताम्। यानि सत्यानि अवगन्तुं बुद्धिः प्रवर्तते, तानि स्वरूपावस्थितानि घनानि अनुभव-वेद्यानि भवन्ति, न पुनस्तानि केवलं वृत्त्यात्मकतया गृह्यन्ते। तस्माम् सत्यं घनं सर्वदा स्वरूपावस्थितं अनुभवैक-वेद्यं धीवृत्तिभावनाविषयभूतं च भवति । यच्च सत्यमस्माकं प्रत्यक्षं भवति, भावना-गोचरं वा, तद्वस्तुतः स्वरूपावस्थितं ज्ञेयं, तस्य बाह्य-तलमेव नः प्रत्यक्ष भवति, तस्य भावनाऽपि छायेव विदूरा मानसी वृत्तिः। यत्किमपि सत्यं प्रति आद्यानामृषीणाम् बुद्धिस्थवृत्तेः हार्द-भावस्य च सांगत्यात् भावानुभव-धीवृत्त्यो-द्वैधीभावव्यवहारस्य नासीत्प्राबल्यम्। ऋषिभिः प्रयुक्ताः सङकेताः युगपदनुभवधी-वृत्त्योर्गोचराः समपद्यन्तेति संक्षेपार्थः ।।
अथ नैक-विधाः सङकेताः। प्रत्यक्षे स्थूले जगति स्थितानां पर्वतादीनां सङकेतोपयोगित्वमुक्तम् । एषां सर्वेषां समान-वर्गता ज्ञेया। प्रायशोऽयमेव सङकेत-वर्ग: मन्त्र-दृष्टिषूपयुक्तः प्रागस्माभिः व्याख्यातः , येनावगतेन गूढार्थप्रवेश-पद्या सुगमा भवेत्। अन्य-विधाश्च सन्ति सङकेताः ये च न भवन्ति बाह्य-जगत्सम्बन्धिनः, किं तु ऋषिभिः चर्यमाणे रहस्याध्वनि लब्धाश्चार्थाः ज्ञान-चक्षुर्दष्ट: लोकान्तर-सम्बन्धिभिः बिम्बैः भाषा-स्थानीयरावेद्यन्ते। स्थूलात् जाग्रत्प्रपञ्चादुपरिष्टात् स्थितानां विपुलतरप्रज्ञाशक्ति-विलासक्षेत्रभुवां सम्बन्धिनो गहनार्थाः स्वयं ऋषि-दृष्टः बिम्ब-विशेषेराविर्भवन्ति। तस्मात् तादृशानां रूपाणामेवार्थाभिधायकत्वं सिद्धम्। तथा-विधानि रहस्यानि ऋषेश्चक्षुषः, प्रत्यक्षाणि भवन्ति। एतद्वर्गीयाः सङकेताः देवताविशेष-वर्ण-वाहन-आकृतिव्यापारादि-वर्णनपराः मन्त्रेषु लक्ष्यन्त इति बोध्यम् ।।
पुरा-युगेषु प्राचीन-मानुषवर्गेषु देवताराधन-पद्धतिः सर्वथा सङकेतरूपसमृद्धेति नास्ति संशयः। अद्यापि केचन बिन्दु-त्रिकोण-षट्कोणमण्डलादयो यन्त्रपदवाच्याः तान्त्रिकाः सङकेताः रहस्यार्थाः पूज्यन्ते अन्य पुनः पुराणागमप्रसिद्धाः त्रिशूल-शङ्ख-चक्र-गरुड-वृषादयः अद्यापि उपयुक्ता: सुप्रसिद्धाः, एतेषां सङकेतानां क्वचित् पुराणेषु विवरणं लक्ष्यते। तान्त्रिक-मूर्त्यादीनां सङकेतार्थस्तत्र तत्र व्यक्तमव्यक्तं वा सूच्यते। ईदृशां सङकेतानां पूर्वोक्तवैदिक-सङकेतानां च आधारतः प्रयोजनतश्च भेदो वर्तत इत्यवधेयम्। अस्य विषयस्य अत्रानुपयोगाद्विस्तर-भिया च एतावतैव विरम्यते। सर्वथा वेदसूक्तार्थ-विचारे सङकेतरूपार्थ-ग्रहणं न्याय्यं सुतरामुपपन्नमित्यलं बहुनोक्तेन ॥
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.