Volume 4 contains the Bhūmika, Introduction to Rig Bhashya, followed by the text and the commentary of Suktas 1 - 19 in Sanskrit & English
On Veda
Volume 4 includes Rig Veda Bhashya - Siddhanjana, Rig-Bhashya Bhumika, Rig Veda Samihita - First Ashtaka (Text of Suktas 1-19 with Padapatha), Detailed word for word commentary in Sanskrit and its English translation.
THEME/S
अथ प्रथमानुवाकस्य द्वितीयं सूक्तं नवर्च तृचत्रयात्मकं भवति । द्वादशर्च तृतीयं सूक्तम्, तत्र चत्वारस्तृचाः। इदं तृचसप्तकं प्रउगाख्यं शस्त्रं प्रातःसवने होत्रा वैश्वदेवग्रहणादूर्ध्व शंसनीयम् । अत्र प्रथमस्य तृचस्य वायुर्देवता, द्वितीयस्य इन्द्रो वायुश्च, तृतीयस्य मित्रो वरुणश्च भवन्ति ।
वायव्ये तृचे प्रथमामृचमाह—
वायवायाहि दर्शतेमे सोमा अरङ्कताः। तेषां पाहि श्रुधी हवम् ॥१॥ वायो इतिआ याहि दर्शत इमे सोमाः अरम्ऽकृताः। तेषां पाहि श्रुधि हवम् ॥
वायो जगत्प्राण, दर्शत दर्शनीय आयाहि आगच्छ । इमे (अस्माभि-निवेदिताः) सोमाः निष्पीडिताः सोमसवाः अरङ्कृताः अलङ्कृताः सम्यक् साधिताः सिद्धा इति यावत् । तेषां तान् (द्वितीयार्थे षष्ठी) पाहि पिब । हवं ह्वानं अस्मदाह्वानं श्रुधि शृणु ॥
सुबोधा अत्र पदार्थाः। अरबृताः, पर्याप्त्यर्थो भूषणार्थो वा अलं-शब्दः, संस्कृता इति तात्पर्यम् । अग्निस्तवनात्परं वायु प्रार्थयते सोमपानाय । वायुश्च जगत्प्राणः, अत एव शारीरः प्राणोऽपि भवन् बिभर्ति नाडीचक्रव्यवस्थाम् । तस्मादाधारोऽयं मानवे मनोमयव्यापारस्य। तर्हि कोऽसौ सोमः यस्याभिषवानां पानाय वायुराहूयते ? ब्रूमः । ऋतचित्पदवाच्य-सत्यज्ञानभुवः क्षरन् यो दिव्यः सदानन्दरसो मनोमयभुवि प्रवहति, स हि सोमपदवाच्यो वेदे व्यवढ़ियते । लताविशेषः सोमस्तु बाह्यः सङ्केतो याज्ञे कर्मणि। पुरस्ताद् अस्य तृचस्य व्याख्या-नान्ते तत्त्वमिदं प्रपञ्चयिष्यते ॥
द्वितीयामृचमाह—
वार्थ उक्थेभिर्जरन्ते । वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः। सुतसोमा अहुर्विदः ॥२॥ वायो इति उक्थेभिः जरन्ते त्वाम् अच्छ जरितारः सुतऽसोमाः अहःऽविदः॥
वायो प्राणदेव, त्वां अच्छ त्वां अभिलक्ष्य जरितारः स्तोतारः [त्वत्कामाः] उक्थेभिः स्तोत्रवचनैः [त्वदाविष्कारकैः] जरन्ते स्तुवन्ति । कीदृशास्ते ? सुतसोमाः सोमाभिषवं कृतवन्तः, पुनः कीदृशाः ? अहर्विदः अहश्शब्दलक्षितं प्रकाशं विदितवन्तो दृष्टवन्त इत्यर्थः ।।
अत्रेदमवधेयम् । यद्यपि ’रेभः कार्जरिता’ इत्यादीनि स्तोतनामानि पठितानि निघण्टौ, तथाऽपि एकैकमपि स्तोतुः किमपि वैशिष्टयं द्योतयति । वेदे जारशब्द इव जरितृपदमपि गूढं प्रेमाणं गमयति, अत एव स्तोतारः त्वत्कामा इति व्याख्यातम् । एवं वेदे वाचः सर्जनसामर्थ्य आविष्कारकत्वं वा प्रसिद्धम् । अत एव वचेनिष्पन्नस्य ’उक्थ’ शब्दस्य, त्वदाविष्कारकैः स्तोत्रवचनैः इति व्याख्यानं उपपन्नम् ॥
तृतीयामृचमाह—
वायो तव प्रपञ्चती धेना जिगाति दाशुषे। उरुची सोमपीतये ॥३॥ वायो इति तव प्रऽपृञ्चती धेना जिगाति दाशुषे उरूची सोमऽपीतये ॥
तत्र प्रीणनं वायो! प्रपृश्चती प्रकर्षेण सम्पर्क कुर्वती (पूरयित्रीत्यर्थः) तव धेना वागुपलक्षिता रसनाधारा सोमपीतये सोमपानाय उरूची (सती) विस्तार प्राप्नुवन्ती दाशुषे यजमानाय जिगाति गच्छति वहतीत्यर्थः ।।
धेना वाङ्नामसु पठितम् । तथा सर्वत्र ऋक्षु सायणीयं व्याख्यानम् । धेना ’धारा’ इति सर्वत्रास्माभिर्व्याख्यायते । अत्रेदं कारणं भवति । प्रायश ऋग्वेदे नद्यः धेनव इति क्वचिदुपमया क्वचिदभेदाध्यवसायेन वय॑ते । पोषणं वा साधर्म्य भवति । अत एव सायणः धेना प्रीणयित्री वाक् इति क्वचित् , प्रीणयित्री नदी इति क्वचित् , प्रीणयित्री योषिद् इत्यन्यत्र व्याचष्टे । यथा पयस्विन्यो धेनवः प्रीणयित्र्यो नद्यः भवन्ति, तथा धेनाऽपि प्रीणयित्री धारा भवति । वाचो धारारूपत्वं सायणव्याख्यायामप्यङ्गीकृतं भवति । ’एकं गर्भ दधिरे सप्त वाणी:’ (३-१-६.) ’सप्तवाणी: नद्यः’ इत्याह । वाग्वाहिनी सरस्वती प्रथिता वेदे । ’सरस्वती देवतारूपेण नदीरूपेण च वर्तते, देवतारूपा स्तुता। अधुनाऽनया नदीरूपां स्तौति’ इति ’इयं शुष्मेभिः’ (६-६१-२) इति मन्त्रव्याख्या-नारम्भे सरस्वत्या द्विरूपत्वकल्पनया सायणीयः क्लेशः स्पष्टो भवति । एवमेव तृतीयसूक्ते ’महो अर्णः’ इति अन्तिमर्ची व्याख्यानेऽपि। तदिह वाक्पयित्वेन निघण्टुपठितमपि धेनापदं धारात्वं न जहातीति बोध्यम् ।
’सम्यक्स्रवन्ति सरितो न धेनाः’ (४. ५८. ६.), ’व्यस्य धारा असृजद् वि घेनाः’ (३. १. ९.) इत्यादिषु स्थलेषु विस्पष्टा भवेदस्मदुक्ता युक्तिः । तहिं धेना धारेत्येवालं स्यात् , कुतो ’वागुपलक्षितरसनाधारा’ इत्युक्तमिति चेत्, ब्रूमः । अस्यामृचि वायो: धारा सोमपानाय यजमानकृते वहतीत्युक्तम् । वाचा (वचनेन) पानस्यासम्भवात् लक्षणाश्रयणेन रसनामयत्वविशिष्टधारा प्रोक्ता । तस्माद्वि-वरणार्थोऽयं न केवलपदार्थः धेनापदस्य । प्रीणयित्री पोषयित्रीति वा केवलावयवार्थः । सा धारा चेत् सङ्गच्छते, धारकत्वात् । एवं हि उरूचीति विशेषणं उपपद्यते । सोमरसादानाय सङ्कोचं उज्झित्वा विपुला भवति धारा। प्रपृञ्चतीति धेनाविशेषण-मप्युपपन्नम्। अभिषुते सोमे दातरि यजमाने च धारायाः सम्पर्कप्रकर्ष उक्तः । वायोः प्राणदेवस्य धारा यजमाने सर्वोत्कृष्ट स्पर्श विदधती, अत एव स्वयं पूरयित्री यथेष्टं सोमाभिषवं ग्रहीतुं प्रभवति ॥
अत्र बाह्यार्थपरा एवमाहुः--’हे यजमान ! त्वया दत्तं सोमं पास्यामि’ इति वायु: ब्रूत इति। एवं ’धेना वाक्’ इति मुख्यार्थपरिग्रहः सायणीयः । तदनुसारेण वाग्विशेषणद्वयं व्याख्यातम् । ’प्रपृश्चती’ वाक् सोमगुणवर्णनपरा किल । ’उरूची’ वाक् तु बहून् यजमानान् वर्णयितुं गच्छतीति चाहुः। स्कन्दस्वामी तु धेनापदस्य मुख्यार्थबाधात् वाचा लक्षिता जिह्वेतिं अब्रुवन्नपि ’धेना’ ’जिह्वा’ इत्याह ।
अन्तरर्थपरेऽस्मिन् व्याख्याने त्विदं विचारयितव्यम्-कोऽसौ सोमः ? यस्याभिषुतस्य स्वीकाराय वायु: सम्प्रार्थित: स्वीयां धारां विवृतां कुर्वन् यजमानार्थ गच्छति। ऋतचिद्भुवः पवमानो रसापरपर्याय आनन्दो मनोमयं क्षेत्रं आविश्य प्रवहतीत्यवोचाम पूर्वम् । कथ तर्हि तादृशं सोमं यजमानः सुनुते, वायवेऽर्पयितुं वा प्रभवति? तथ्यमेव इदं यत् सोम ऊर्ध्व विश्वातीत-सत्यचिदानन्दरस: स्वयंप्रकाशो मनोमयभुवमवतीर्य प्राधान्येन मनोमयधामाधिराजायेन्द्राय क्षरतीति । ’अपाम सोमं अमृता अभूम’ ’रसो वै स:’ ’को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्’ इत्यादिवाक्यैः प्रतिपादित: सोम एव अध्यण्डमधिपिण्डं च बहुसोपानपदे विश्वसर्ग उपाध्यनुरोधेन प्राप्नोत्याविर्भावम् । तद्यथा दिव्यं सत्यं ज्योतिरिहापि तमसि पार्थिवे लोके सर्वत्र निलीनं सत् परिणामवशात् क्वचिद् व्यक्त भवति, तथा सोमोऽपि सर्वत्र निगूढः पृथिव्यां पृथिवीरहेषु इन्द्रियार्थेषु इन्द्रियार्थानु-भूतिषु च सारांशभूत-रसात्मकतयाऽवस्थितो भवति। स एष रसात्मा बहिः सोम-लतया सङ्केतितो निष्पीडय संस्कृतो देवेभ्यो दीयते। इन्द्रियार्थानुभवेषु य: सुखमयो रसो लसति तं निष्कृष्य तत्र स्वीयतां स्वार्थतां च सन्त्यज्य देवेभ्य: समर्पयति सोमयाजी देवभक्तोऽन्तर्यजने । अयं च रसोऽमृतं अन्नं भवति देवानाम् , येनामृतान्धसो यजमाने देवा अमृताः पुष्टिं लभन्ते । देवेभ्य:, अग्नये, वायवे, इन्द्राय वा ’स्वाहा इदं न मम’ इति आहुतिवाच इदमेव तात्पर्य बोध्यम् । सोमस्वरूपं समासेन प्रतिपादितम् ॥
अथ सोमाभिषवसंस्काराहुतिनिहाय दिवमारुरुक्षो: भूस्थस्य यजमानस्य शारीरकनाडीचक्र शुद्ध प्राणबलसमृद्धं स्यात्। तस्मात् प्रथमं वायोरनुग्रहोऽभ्यर्थनीयः । तत्रापि न केवलं प्राणदेवताया वायोरनुग्रहेण इन्द्रियानुभूतीनां परिष्कारः प्रसन्नता वा निष्पाद्यते मनोमयाधिदेवतायाः प्रसादमन्तरेण । अत एवेन्द्रं वायु च प्रार्थयते द्वितीयेन तृचेन । शरीरे प्राणमनसो: साधुर्व्यापारो वाय्विन्द्राभ्यां निरुह्यत इति बोध्यम् । यद्यपि, ऋतचित्प्रकाशात्मनः सूर्यस्य उदयभूमिरिव स्वर्भूमिः शुद्धसत्त्वमनः प्रधाना इन्द्रस्य विशिष्ट धाम भवति, तथाऽपि बहुभूमिकस्य मनस: स एव देवता । इन्द्रियात्मकस्यापि मनसः स एवेश्वरः । इन्द्रशब्दान्निष्पन्नं हि इन्द्रियपदम् । सर्वेन्द्रियाणां आद्यं गुप्तमिन्द्रियं मन इत्यपि शक्यं वदितुम् । ’मनः षष्ठानीन्द्रियाणि’ इत्यपि स्मयते। ’इन्द्रियमिन्द्रलिङ्गं इन्द्रदृष्टं इन्द्रसृष्टं इन्द्रजुष्टं इन्द्रदत्तं इति वा’ इति पाणिनिः (५. २. ९३.)। अत्र लिङ्गं दृष्टं इत्यादीनां विकल्प उक्तः, "अत्र बा-शब्द: प्रत्येकमभिसम्बध्यमानः विकल्पानां स्वातन्त्र्यं दर्शयति’ इति वृत्तिकारोक्तं स्मरणीयम् । एवं सर्वेन्द्रियसार्वभौमस्येन्द्रस्य साहाय्यमन्तरेण वायुर्यथाभाग सोममादातुं न प्रभवेदित्यार्पोऽयं आशय: । मनोबलवर्ज प्राणवृत्तिर्न साध्वीति सर्वेषां अनुभवसिद्धम् । एवं हि, अत्र द्वितीयतृचस्य विनियोगे ऐन्द्रवायवग्रहे त्रयो भागा वायोरिन्द्रस्यैको भागः ’तुरीयभागिन्द्रोऽभवत् त्रिभाग्वायु:’ (ऐ. ब्रा. अ. ९, खं. १) इति ऐतरेयिणः समामनन्ति । वायोरिन्द्रः सारथिरित्यप्युक्तं ब्राह्मणे ’नियुत्वा इन्द्रसारथिः। एतेन इन्द्रानुग्राह्यमनोबलस्य नेतृत्वरूपं उपकारकत्वं शारीरकनाडीगतप्राणबलस्य सोमभागभूयस्त्वं च द्योतिते ॥
द्वितीयतृचे ऐन्द्रवायवे प्रथमां ऋचमाह—
इन्द्रवायू इमे सुता उपप्रयोमरागतम्। इन्दवो वामुशन्ति हि ॥४॥ इन्द्रवायू इति इमे सुताः उप प्रयःऽभिः आ गतम् । इन्दवः वाम् उशन्ति हि ॥
हे इन्द्रवायू ! इमे सोमाः सुताः अभिषुताः। प्रयोभिः प्रीणयितृभिः (वस्तुभिः सह) उपागतम् उपागच्छतम् । हि यस्माद् इन्दवः क्लेदनकरा: (सुखप्रदाः सोमाः) वां युवां [इन्द्र वायु च] उशन्ति कामयन्ते ॥
’प्रयो मिः अन्नैः अस्मभ्यं दातव्यैः सह’ इति सायणः । प्रय: प्रीणयित प्रीञ्धातोर्निष्पन्नत्वात् । यत् प्रीणयति यजमानं तत् प्रय: । अत एव इन्द्र-वायुगतानि यानि कानि वा भवन्तु ’प्रयांसि’ प्रीणयितृणि वस्तूनि वैभवानि वा, तैः सह उपागच्छतम् इति अस्माभियाख्यातम् ॥
ऐन्द्रवायवे तृचे द्वितीयामृचमाह—
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू। तावायातमुपवत् ॥ ५॥ वायो इति इन्द्रः च चेतथः सुताना वाजिनीवसू इति वाजिनीऽवसू तौ आ यातम् उप द्रुवत् ॥
हे वायो त्वं इन्द्रश्च उभावपि सुतानाम् अभिषुतान् सोमान् [द्वितीयार्थे षष्ठी] चेतथ: जानीथः । वाजिनीवसू सत्त्वसमृद्धिसम्पन्नौ तौ युवां द्रवत् क्षिप्र उपायातम् उपागच्छतम् ॥
वाजिनीवसू—वाजिनी यागक्रियासन्ततिः तत्र वसत: इन्द्र-वायू इति कर्मठव्याख्यानम् । अन्नं, बलं, युद्धं, वेगः इति बहुधा वाजपदार्थः कथ्यते सायणेन । अत्र वाजोऽन्नं, तद् अस्यां हविस्सन्ततावस्ति इति वाजिनी, तत्र वसत इत्युक्तम् । अस्मदीयो वाजपदार्थस्तु सर्वत्र एकरूपः, समृद्धिः पूर्णता वा यत्र बलस्य अन्नादेर्वा अन्तर्भावेऽङ्गीकारक्षमेऽपि सङ्केतरूपत्वं ग्राह्यम् । वसुपदं धनवाचकं सर्वत्र सत्त्वं द्रव्यं इति गृह्यतेऽस्माभिः । वाजस्येव वसोरपि नैकोऽर्थः सायणीयः ॥
इति प्रथमस्य प्रथमे तृतीयो वर्ग:
ऐन्द्रवायवे तृचे तृतीयामृचमाह—
वायविन्द्रश्च सुन्वत आयातमुप निष्कृतम् । मश्वित्था धिया नरा ॥६॥ वायो इति इन्द्रः च सुन्वतः आ यातम् उप निःऽकृतम् मक्षु इत्था धिया नरा ॥
वायो इन्द्रश्च उभौ युवां सुन्वतः सोमाभिषवं कुर्वत: [यजमानस्य निष्कृतम् निश्शेषेण साधितं (युष्मदर्थ देयं वस्तु उद्दिश्य) मक्षु शीघ्रं इत्था इत्थं [अस्मदान-परिग्रहक्षमया सिद्धया] सत्यया वा धिया बुद्धया (धारणात्मिकया प्रज्ञया) युक्तौ उपायातम् उपागच्छतम् । नरा नरौ नेतारौ हे देवौ इति सम्बोधनम् ॥
इत्था-इत्थं सत्यमिति वा यथासम्भवं अर्थो ग्राह्यः । उभयथाऽपि वेदे प्रयोगदर्शनात् । निष्कृतं-संस्कृतं सोमं इत्याह सायणः । वेद्याख्यप्रदेशमिति स्कन्दखामी । निश्शेषेण सम्पादित किमपि सोमाभिषवफलितमिति वयम् । इदं चास्य तृचस्य तात्पर्यपर्यालोचनया स्पष्टं भवेदिति ब्रूम: समासत इन्द्र-वायुप्रसादवैभवम् ॥
प्रथमं सोमाः सुताः इन्द्रं वायुं च कामयन्ते, तस्मात्, तत: प्रवहन्तं सोमरस चेततो: तयोरागतयो: वाय्विन्द्रयोः क्षिप्रं तल्लाभः प्रार्थितः। प्राणमनसो-रधीश्वरौ हि वाग्विन्द्रौ। अनेन सोमपदवाच्य अमृतानन्दरस: ऊर्ध्वदेशात्प्रवहन प्राणबलपूरिते नाडीचक्रे सत्त्वसमृद्ध मनसि च लब्धान्तरो भवतीत्युक्तम् । अत एव समृद्धिसम्पदं द्योतयितुं वाजिनीवसू इत्युक्तम् । अथ तस्मिन् रसे प्राण-मनसोः पवमाने सति कोऽपि अपूर्वो व्यापारः फलितो भवति, यस्मात् मर्ये अमृतचिद्विलास: प्रारभते । इदं च फलितं कर्म निश्शेषेण सम्पादित ’निष्कृतम्’ इत्युक्तम् । अस्य कर्मणः सम्पूरणे वाय्विन्द्राभ्यां भागहराभ्यां भाव्यम् । तस्मात् तन्निर्वर्तनार्थया सिद्धया धिया युक्तौ उभावपि आगमनार्थ प्रार्थितौ । धी: बुद्धिरिति सामान्येनावो चाम । वस्तुतस्तु तस्याः स्थानं इन्द्रियात्मनो युक्तायुक्तविचारशीलस्य वा मनस ऊर्ध्व ’ऋतचित:’ अधस्ताच, एवमुभयोमध्यमिति बोध्यम् । अत्रैव प्रथमं धीपदं प्रयुक्तम् । अस्य प्रयोजन तृतीयतृचार्थविचारे विशदं स्यात् ॥
तृतीयतृचे मैत्रावरुणे प्रथमामृचमाह—
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम्। धियं घृताची साधन्ता ॥७॥ मित्रम् हुवे पूतऽदक्षम् वरुणं च रिशादसम् धियम् घृताचीम् साधन्ता ॥
पूतदक्षम् पवित्रं धीकौशलं यस्य तं मित्रं हुवे आह्वयामि रिशादसम् हिंसकानां अत्तारं भक्षकं (विनाशनमित्यर्थः) वरुणं च [हुवे आह्वयामि] कथंभूती तौ मित्रावरुणौ ? घृताचीम् घृतं दीप्ति अञ्चति प्राप्नोतीति घृताची तां दीप्तां धियं धारणावतीं बुद्धिं साधन्ता साधयन्तौ निष्पादयन्तौ ॥
दक्षपदं सर्वत्र बलार्थे वर्तते, तथैव सायणो व्याचष्टे । अपि तु बहुप्रयोगस्थल-परिशोधनेन धीकौशलरूपं बलमिति वक्तव्यम् । बलस्य वैविध्यमङ्गीकृत्य साध्व-साधुसत्यासत्यादि-विवेचनपरां तत्त्वनिर्णायिकां प्रज्ञां दक्षपदवाच्यां ब्रूमः । एव धीकौशलं इति सामान्येन दक्षपदार्थो दत्तः। महीधरो ज्ञानेन्द्रियकौशलं दक्षपदार्थमाह । अन्ये पुनर्नव्याश्च अत्र विप्रतिपन्नाः । पुरस्तात् पुनर्विचार-यिष्यामः अस्य सूक्तस्य अन्तिमर्ची व्याख्यानावसरे ॥
अत एव घृताचीम्-धीविशेषणम् । जिघर्तिर्जुहोत्यादिः क्षरणे दीप्तौ च । ’जिधर्म्यग्निं हविषा घृतेन’ इत्यादिः दीप्त्यर्थे मन्त्रवर्णेषु प्रयोगो लक्षणीयः । दीप्तां अत एव प्रकाशमानां धियं इति विशेषणं उपपद्यते। क्षरणे प्रस्रवणे च वर्तते । घृतं सर्पिर्वाचकं लोके। वेदे तु ’दीप्तिमत्’ घृतम् । ऋक्संहितायां अत्रैव प्रथम ’घृताची’ इति घृतपदं धीविशेषणतया प्रयुक्तम् । इदं च वेदरहस्यार्थोद्धाटन-प्रधानानां सङ्केतपदानां एकम् , कवि-क्रतु-भद्र-दक्ष-ऋतादिपदानीव यौगिकत्व-मजहत् सर्वत्र नियतेऽर्थे प्रयुक्त मन्त्रेषु । अस्य तृचस्य तात्पर्य पुरस्तात् पर्यालोचयामः ॥
मैत्रावरुणे तृचे द्वितीयामृचमाह—
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा। क्रतुं बृहन्तमाशाथे ॥८॥ ऋतेन मित्रावरुणौ ऋतऽवृधौ ऋतऽस्पृशा क्रतुम् बृहन्तम् आशाथे ॥
ऋतेन सत्येन [सत्येनैव साधनेन] हे मित्रावरुणौ मित्रो वरुणश्च [उभौ युवा] बृहन्तम् महान्तं ऋतुम् प्राज्ञं दृढसङ्कल्पं [कर्मसाधकं इच्छाबलमित्यर्थः] आशाथे आनशाथे [व्याप्तवन्तौ, प्राप्तौ उपभोगायेत्यर्थः] कीदृशौ मित्रावरुणौ ? ऋतावृधौ ऋतस्य सत्यस्य वर्धयितारौ, पुन: कौ ? ऋतस्पृशा ऋतं सत्य स्पृशन्तौ ॥
ऋतं सत्यं सत्यधर्मो वा भवति सर्वत्र वेदे । वेदगूढार्थाविष्कारायोपयुक्तानां पदानां इदमाद्यं वक्तव्यम् । ऋतं यजमाने वर्धयन्तौ मित्रावरुणौ ’ऋतावृधौ’ । स्वभावतः सिद्धस्तयो: सत्यस्पर्शः ’ऋतस्पृशौ’। तथा सत्यवर्धनकर्मणः सत्यमेव साधनं भवति तयोः । अत एव करणे तृतीया प्रयुक्ता ’ऋतेन’। तादृशव्यापारस्य तयोः प्राज्ञकर्मणि स्यादध्यवसायः । अत एव ’क्रतुं आशाथे’ इत्युक्तम् । बहिः, क्रतुर्यज्ञ इति प्रसिद्धम् । तर्हि बाह्येऽर्थे, अन्नबहुलं महान्तं ’बृहन्तम्’ अङ्गैश्चोपाङ्गैश्च अतिप्रौढं यज्ञं भोक्तुं यज्ञदेशं प्राप्तौ यज्ञभुजौ मित्रावरुणौ इति तात्पर्य प्राहुः । अस्मत्पक्षे तु, अन्तर्यजने समारब्धे, कविक्रतौ समिद्धे भगवत्यन्तवलने, प्रसादितयोरिन्द्रवाय्वोरनुग्रहबलात् सोमाभिषवसामर्थ्य प्राप्ते च मनस्सारथौ मुख्यप्राणे, मित्रावरुणौ उक्तगुणविशिष्टौ ऋतवर्धनौ विपुलं विशाल वा ऋतवद् बृहद्भूतं कतुपदवाच्यं कर्मसाधकं अध्यवसायबलं प्राप्तौ भुजात इति ग्राह्यम् ॥
मैत्रावरुणे तृचे तृतीयामृचमाह—
कवी नो मित्रावरुणा तुविजाता उरुक्षया। दक्षं दधाते अपसम् ॥९॥ कवी इति नः मित्रावरुणा तुविऽजातौ उरुऽक्षया । दक्षम् दधाते इति अपसम्॥
कवी मेधाविनौ (अतीन्द्रियार्थदर्शिनौ) तुविजाती बहुषु बहुधा वा प्राप्तजन्मानौ उरुक्षया उरुक्षयौ विशालनिवासौ (एवंभूतौ) मित्रावरुणा मित्रावरुणौ देवौ नः अस्माकं अपसम् कर्मवत् (कर्मसाधकं, क्रियानिष्पादकमिति यावत्) दक्षम् विवेचनात्मकं धीकौशलं दधाते धारयेते ॥
कवी-नेदं मेधाविसामान्यवाचकं वेदे, दृष्टिसम्पत्तिं द्योतयति । क्रान्तदर्शी, अतीन्द्रियार्थदर्शीति वा व्याख्यातम् । तुविजाती-तुविपदं वेदे बलवाचकम् । बलं सेनार्थे यथा बहुत्वं द्योतयति तथा तुविपदमपि बह्वर्थकम् । बहुनामसु पठितं च । बहूनामुपकारकत्वाद् बहुधा जात इति सायणव्याख्या। यजमाने देवाः स्वरूपतो व्यापारतश्च बहुशः स्वात्मानमाविष्कुर्वन्ति तेषामाविष्कार एव तेषां जन्म, तस्माद बहुधा जात इति वयम् । उरु बहुनामसु पठितमिति हेतो: ’उरुक्षया’ बहुनिवासौ इति सायणः । उरु विस्तृतं अत एव विशालं विपुलं वा वेदे। तस्माद् वितते बृहति निवासो ऽनयोरिति ग्राह्यम् । ’दक्षं बलं ’अपस’ कर्म च दधाते मित्रावरुणाविति चकाराध्या-हारेणोभयं च समुच्चितं सायणव्याख्याने। नावसरोऽध्याहारस्य । ’अपसम्’ इति दक्षविशेषणम् । न चेदिदं विशेषणमभविष्यत् अपि त्विह सत्त्ववाचि, तदा आद्युदात्तं अपठिष्यत । नेदमाद्युदात्तम् । ननु विशेषणं चेत् विशेष्यनिघ्नं वाच्यलिङ्गं स्यात् , अपश्शब्दस्तु न तथेति चेत्, मत्वर्थलक्षणया व्याख्यातपूर्व ’रयिं यशसं’ इत्यादिकमिव ’अपस्वि दक्षम्’ इति बोध्यम् । अन्यथा च अपश्शब्दो वेदे वाच्यलिङ्गतया प्रयुज्यत इत्यवधेयम् । अपि च वेदे सत्त्वनामान्यपि यौगिकार्थप्राबल्यं व्यञ्जयितुं गुणवाचकत्वं दधते । ’गोतमः’ ’अङ्गिरस्तमः’ ’इन्द्रतम:’ ’अपस्तमा’ इत्यादिः प्रयोगः साधारणो वेदे।
’अयं देवानामपसामपस्तम:’ (१-१६०-४) अप इति कर्मनाम । तेन तद्वान् लक्ष्यते। कर्मवतां मध्ये प्रकृष्टकर्मा इति सा. व्या. । ’अपसामपस्तमा’ (६-६१-१३) वेगवतीनां वेगवत्तमा-सा. व्या.। (१०-७५-७) कर्मवतीनां मध्ये वेगाख्यकर्मवती-सा. व्या.। (१०-५३-९) शोभनकर्मवतां मध्ये अतिशयेन शोभनकर्मी। (१०-११५-२) अपस्वितमः कर्मवत्तमः मत्वर्थो लुप्तः-सा. व्या. ।
दक्षम्-प्राग्व्याख्यातम् । फलवत्कर्मसाधकं दक्षपदवाच्य-विवेचनात्मकधी-कौशलं दधाते मित्रावरुणौ। प्राक् पूतदक्षपदार्थ-प्रतिपादनावसरे दक्षपदं सामान्येन बलनामसु पठितमपि तस्य धीवैशिष्टयमुपपादितम् । अस्यामृचि मित्रावरुणौ सुसङ्गतौ क्रियाकौशलविशिष्टं विवेचनात्मकज्ञानकौशलं धारयमाणावित्युक्तम् । अनेन युक्तयोमित्रावरुणयो: आयत्तं किमपि कर्मविशिष्टं ज्ञानमित्युक्तं भवति । ’पूतदक्षं मित्रं ’रिशादस’ वरुणं इति उक्तेश्च प्रकारान्तरेणेदमुक्तं ग्राह्यम् । किमिदं कर्म ज्ञानं वा ? को नाम मित्रावरुणौ ? का वा तयो: प्रसक्तिः ? ब्रूम:—
सूक्तेऽस्मिन् प्रथमस्य तृचस्य सोमाभिषवे प्राणसन्नाहो विषयः, यदर्थ वायुरेक एव पृथक् स्तुतः । ततः परं यजमाने मानव ऋतचिद्विलासाय मनोमयभू–परिष्कारः प्रस्तुतः, यदर्थ धिया युक्तौ इन्द्र-वायू आगमनाय प्रार्थितौ । अस्य सूक्तान्ततृचस्य विषयस्तु, ऋतम्य व्यापारो मनोमयसत्त्वे साधनीय इति; येन धी: सम्यक् साधिता स्यात् कर्म च विपुलं भवेत् । एतत्कृते मित्रावरुणावाहूतौ । इमौ च, मित्रो वरुणोऽर्यमा भग इति चतुर्णा एकसदनानां (१-१३६-२) व्यूहभूतानां मध्ये प्रसिद्धौ द्वन्द्वभूतौ । तादृशीं प्रदीप्तां धियं साधयितुं प्रभू इमौ ’घृताची धियं साधन्ता’ इति प्रथममुक्तम् ।
अत्रेदमवयेयम् । सूक्तमन्त्रेष्वियं ऋषीणां शैली लक्ष्यते, यत् कमपि विषयं प्रतिपाद्य अन्यस्य क्रमणे पूर्वोक्तं किमपि मुख्य पदं पुन: प्रयुज्य उत्तरत्र तदनुरणनेन साधनेन पूर्वोत्तरयो: सम्बन्धं व्यञ्जयन्ति मन्त्रकृतः । एवं कथितपदस्य पुन: कथनं सप्रयोजनं भवति । प्राय: सर्वेषामृषीणां समाना रीतिरियम् । इह धीपदं बन्धकं उभयोः । ’धिया नरा’ ’धियं साधन्ता’ इति पुनः प्रयुक्तमवधार्यम् ।
अथ धीपदं विचार्यम् । यद्यपि मतिर्बुद्धिवाचको धीपर्यायो वा भवति साधारणव्यवहारे, तथाऽपि वेदे मतेर्षियश्च भेदो बोध्यः। मतिर्मननं सामान्य-बुद्धिर्मनसो वृत्तिरवस्था वा भवति, रोषावेगादिभावमपि क्वचित् प्रतिपादयति मन्युशब्दवत् । धीस्तु धारणावती प्रज्ञा, धिया धीवृत्तिश्च आक्षिप्यते । सह आगमनाय इन्द्र-वायू पूर्व प्रार्थितौ । अधुना तु, ऋतचित्सम्पर्क-तद्वयवहाराय सा धीः साधिता समृद्धा प्रदीप्ता च विधातव्या। तत्कृते मित्रावरुणौ स्तुत्या आहूतौ । उक्तलक्षणे धीक्षेत्रे ऋतचितेापारस्य विशुद्धप्रतिफलनस्य वा प्रतिबन्धकद्वयं वर्तते । तत्रैकं ऋतानृतसाध्वसाधुविवेचनमालिन्यम् , येन सत्यसम्बन्धिव्याकुलतापत्ति: । अन्यत्तु, बहूनि कारणानि सम्भूय धियः सत्यसम्बद्धमभ्युदयं प्रतिरुध्य धीवृत्तीनां परस्पर साधुयोगविघातकं वैषम्यमापाद्य धियो दारिद्यं तद्गतवृत्तीनां वैतथ्यं च विदधते । अतः सकलविधकलुषध्वंसिनः सर्वमावृत्य तिष्ठतो वरुणस्य प्रसादात्पारिशुद्धय सिद्धिर्भवति । स कतचितिशत्तया-स्मना मानुषे वर्तमानोऽस्मदभिवृद्धिं विघातयतः सर्वान् विरोधिन: पापान अन्तयति । अतो ’रिशादसं’ वरुणं इत्युक्तम् । वरुण इव मित्रश्च ऋतज्योति: शक्त्यात्मना वरुणसाधितनैर्मल्यविभवेन साधुयोग-सौख्य-सौहार्द-साम्यादिव्यवस्था धियः सम्पादयन् मानुषे ऋतानन्दविधानाय प्रभवति । ।।
एवं युक्तौ देवावुभौ ऋतेन साधनेन ऋतं वर्धयन्तौ मानुषे ऋतसम्पर्क धत्तः । बृहन्त ऋतुमस्मासु भुआते। ’बृहन्’ महान् विततो विपुलो वा भूमा, ’ऋतुः’ अमोघोऽध्यवसायः कर्मभाक् । स ह्यावश्यको भवति प्राप्तव्यसिद्धये। ज्योतिः शक्तिश्चेति द्वयमिदं अपेक्षणीयं भवति वेदर्षीणामन्तर्यजने। ऋतस्य ज्योतिव्यापाराद् धीदीप्ता भवति (घृताचीम्) । ऋतस्य शक्तिव्यापाराद् अध्यवसायोऽविफलो बृहन् भवति [क्रतुं बृहन्तम् ] । ऋतस्य विभवेषु खयमाविष्कुर्वत्सु कर्मवती कर्मणि प्रवृत्ता विवेचनात्मिका धी: स्थिरीकृता धारिता भवति [दक्षं दधाते अपसम्] । पूता विवेचिका निर्णायिका वा धीः ऋतानुरोधेन कर्मणि प्रवर्तते, ऋतस्य शक्तिविशेष: सआयते, इन्द्रवायुविहितं कर्म सम्यक् साधयति । तस्मात् ’क्रतो:’ ’धिय’श्च मालिन्यव्याकुलतादेविमोक्ष: । इममर्थ अन्यत्र बहूनि मैत्रावरुणसूक्तानि समर्थयन्ति । विस्तरभिया नोदाह्रियन्ते । ’मित्रं वयं हवामहे वरुणं सोमपीतये । जज्ञाना पूतदक्षसा। ऋतेन यावृतावृधा ऋतस्य ज्योतिषस्पती। ता मित्रावरुणा हुवे’ इति निदर्शनमेकं मेधातिथेः (१. २३. ४-५) ।।
इदं च बोध्यम् । ऋतप्राप्तिनिःश्रेयसलाभश्च यज्ञस्य फलम्. तच्च, अग्नेविशिष्टं साध्यं कर्मेति प्रथमे अग्निसूक्ते सूक्ष्मशः सूचितम् । द्वितीये सूक्ते. सोमाभिषवे वाग्विन्द्राभ्यां साधनीयं पूर्वाङ्गं कर्म, ततः परं मित्रावरुणयो: कार्यम् , येन ऋतवर्धनेन पवमानानन्दबलेन द्वारा च मानुषस्य साधारण-मनोमयसत्त्वसन्नाहनं च प्रतिपादितानि ।
ऋग्वेदे सर्वत्र ऋषीणामन्तर्यागे द्विधा प्रयत्न: क्रियमाणो लक्ष्यते । तत्रैकः, मानुषस्य शरीरे मनसि च परिपाकः, येन प्राप्तव्यमुद्दिश्य तयोः सन्नाहनं भवति । अन्यस्तु, ऋतस्य सोमपदवाच्य-तदानन्दस्य चाधिगमः, येन मानुषे अमृतखरूपस्य परदैवतस्य कार्यपरिपूरणं भवति ।
इति प्रथमस्य प्रथमे चतुर्थो वर्ग:
प्रथमानुवाकस्य तृतीयं द्वादशचं सूक्तम् , तत्र चत्वारस्तृचाः। प्रउगशस्त्रस्य देवताः प्रागुक्ताः। अश्विनेत्यादिः प्रथमस्तृच आश्विनः ।।
अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती। पुरुभुजा चनस्यतम् ॥१॥ अश्विना यज्वरीः इषः द्रवत्पाणी इति द्रवत्ऽपाणी शुभः पती इति पुरुऽभुजा चनस्यतम् ॥
अश्विना हे अश्विनौ यज्वरी: यागनिष्पादिकाः इप: प्रेरणात्मिकाः शक्ती: चनस्यतम् भुआथाम् । अश्विनोस्त्रीणि विशेषणानि । द्रवत्पाणी क्षिप्रगपादौ शुभस्पती शुभस्य पालको पुरुभुजा बहूपभोक्तारौ ॥
इषः-अन्नानि [ प्रायशः कर्मठव्याख्यानम् ] तथा चनः अन्नं इति च । तदनुसारि द्रवत्पाण्यादीनां तात्पर्यम् । प्रेरणार्थाद् धातोरपि निष्पन्नत्वात् प्रेरणवेगार्थे परिग्राह्यः ।
चनस्यतम्-अन्नमपि भोग्यं भवति, तस्मादन्तरर्थे चन: भोग्यं, इच्छतम् उपभुजाथां इति ग्राह्यम् ।
द्रवत्पाणी-औचित्यात् पाण्युपलक्षितः पादो बोध्य: । अन्यत्र (२. ३१. २) ’पाण्युपलक्षितैः पादैः’ इति सायणोऽप्याह ।
शुभस्पती-दीप्तौ भोगक्षमे शोभार्थे शुभे च वर्तते शुभधातु: । अत्र द्वितीयोऽर्थ उपपन्नः ’पुरुभुजा’ ’चनस्यतम्’ इति पदद्वयेऽपि भोगार्थकशब्दश्रवणात् ।।
सामान्येनायं मन्त्रार्थो भवति-द्रुतगतिको भोगाधीश्वरौ बहुभोगसमर्थों अश्वाधिरूढौ देवावश्विनौ सम्बोधितौ, ताभ्यां यजननिष्पत्ति-निमित्तभूता: प्रेरयित्री: यागसम्बन्धिनी: शक्तीराक्रम्य अधिष्ठाय वा सामोदं भाव्यम्-इति । विशेष: पुरस्ताद् विचार्यते तृचस्यान्ते ।।
अश्विना पुरुदंससा नरा शवीरया धिया। धिष्ण्या वनतं गिरः ॥२॥ अश्विना पुरुऽदंससा नरा शवीरया धिया धिष्ण्या वनतम् गिरः ॥
अश्विना हे अश्विनौ अश्वारूढौ कीदृशौ ? पुरुदंससा बहुकर्माणौ [बहुविधक्रियानिष्पादकौ] नरा नरौ नेतारौ पुरुषौ [बलिनौ देवौ] युवां गिर: वाचः [अस्मदीयाः स्तोत्रवाचः] वनतम् सम्भजतम् [ तासु रमध्वम् ] । धिष्ण्या हे धारयितारौ [धियां सन्तौ] तयोः कया निमित्तभूतया गिरां सम्भजनं स्यात ? शवीरया धिया स्फुरद्बलभूयस्या धारणात्मिकया बुद्धया ॥
पुरुदंससा-आश्चर्यभूतविविधकर्माणौ इत्येके व्याख्यातार: । पुरु बहु, दंसः कर्म, एतावन्निर्विवादम् । आश्चर्यभूतेति विशेषणोपादानं व्याख्यानमात्रम् , न पदार्थः। नात्र दोषः ॥
नरा-नृपदं बलवाचकं वेदे। यथा नृम्णम् । नृणां नृतमः । बलवत्वादेव नरो नेतार इति व्याख्यानं साधु स्यात् । नराः पुरुषाः मानुषा देवाश्च वेदे । स्त्री-देवतास्तु गणाः ।।
शवीरया-बहुधा निर्वचनमाहुः । शव इति स्फुरद्वलम् , तस्माद ईरन्प्रत्ययः। धियो विशेषणं अस्मदभिमतम् ।।
धिष्ण्या-अत्रापि बहूनि निर्वचनानि। धिषणा विष्णा तत्र भवौ धिष्ण्यो इति चेत् ’शवीर या धिया’ इत्यनेन स्यादर्थसङ्गतिः ।।
अयं साधारणोऽर्थ:--हे अश्वारूढौ विविधकार्यसाधको बलवन्तौ देवौ धियां ध्रियमाणौ धारयितारौ, युवां स्फुरद्वलसाधनीय-अप्रतिहतप्रसरया बुद्धया अस्मदीय-स्तोत्रवाक्षु मोदध्वम् इति ।।
दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः। आ यातं रुद्रवर्तनी ॥३॥ दस्रा युवाकवः सुताः नासत्या वृक्तऽबर्हिषः आ यातम् रुद्रवर्तनी इति रुद्रऽवर्तनी॥
दस्रा कर्मनिष्पादको नासत्या द्रुतगमनशीलौ हे अश्विनौ वृक्तबर्हिषः वृक्तं वर्जितं (अनुपयुक्तै: वर्जनीयैरपावनैर्वा वस्तुभिरिति शेष:) बर्हि: आस्तीर्ण येन तस्य यजमानस्य मम युवाकवः बलिनः सोमाः सुताः। हे रुद्रवर्तनी रुद्रः गतिवेगेन भीषणः वर्तनिः मार्गः ययोस्तौ युवां आयातम् आगच्छतम् ।।
दसा—उपक्षयार्थाद दस्यतेर्धातो: क्वचिद् , दर्शनार्थाद् दशनार्थाद्वा दंसतेर्दस्थतेर्वा क्वचिद् दस-दस्मपदयोनिष्पत्ति आह सायणः । तस्माद् दर्शनीयोपक्षपयित्राद्यर्थः नैकः प्रोक्तः । अपरोक्तार्थे गृहीतं दस्रपदं दंसवत् कर्मसम्बन्धित्वं द्योतयेत् । यथा ’पुरुदंससा’ इत्यत्र कमैव प्रतिपादितम् , न तु उपक्षय-दर्शनीयादिकम् । तथेहापि । तस्माद् दसौ कर्मणां निष्पादको इति वयम् ।।
युवाकव:—युवां कामयन्ते, मिश्रणार्थाद् यौतेनिष्पन्नत्वात् मिश्रणं कामयन्ते, इति चान्यत्र सायणः । ’युवावते यौवनवता बलिना’ इति (३. ६२. १.) सायणव्याख्या । अत्रापि युवशब्दलक्षितं वीर्य, तच्छालिन: सोमा ग्राह्याः । नासत्या--न असत्यौ सत्यौ एवेति पूर्वे । इदं न साधु लक्ष्यते । वेदे देवतानाम्नामेकैकमपि तत्तद्देवताधर्म-गुणस्वरूपान्यतमबोधकं भवति । अश्विनो: नासत्याविति नयूद्वयेन सत्यत्वदृढीकरणे किं प्रयोजनम् ? तथा मित्रावरुणादीनां ऋतसम्बन्धो वैशिष्टयं द्योतयति तथा अश्विनोन । नासत्यशब्दोऽश्विनो रेव नाम । तस्मात् किमपि वैशिष्टयप्रतिपादकं स्यात् । तच्च नसतेर्गत्यान्निरुक्तं भवति । ’द्रवत्पाणी’ ’रुद्रवर्तनी’ अश्विनौ अश्वारूढी द्रुतगतिप्रसिद्धौ । तस्माद्युक्तमस्मदुक्तं निर्वचनम् ।
वृक्तबर्हिष:—अग्निं परितः (वेद्यां सोमार्थ वा) छिन्नमूलानां दर्भाणां आस्तरणं कृतम् । तस्माद येषां सोमानां बर्हि: आस्तीर्ण वृक्तं मूलवर्जितं ते सुताः (सोमाः) इति प्रथमाबहुवचनम् इति सायणप्रभृतयः । षष्ठयेकवचनान्तं अध्याहृतस्य यजमानस्य विशेषणमुक्तमस्माभिः । एवं स्थूलार्थस्य कर्मोपयोगिनो न क्षतिः । अन्तरर्थे बर्हिः यजने देवानामागमनस्थानसन्नहनम् ।।
रुद्रवर्तनी—’रुद्रस्येव मार्गो ययोस्तौ’ इति प्राश्चः। रक्तवर्णे द्वे अश्विनीनक्षत्रे इति नव्यानामेकेषां कल्पना। गतिवेगस्य भीषणत्वात् मार्गो रुद्रोऽनयोरिति वयम् ।।
कर्मनिर्वर्तनपटू द्रुतगमनौ वेगभीषणमार्गों हे अश्विनौ ! वेद्यां आसनं सिद्धं कृतं मया, इमे वीर्यशालिन: सोमा अभिषुताः, तान् उपभोक्तुं आगच्छतम् इति ऋषिब्रूते ।।
अथास्य तृचस्य तात्पर्यावगाहने अश्विनावधिकृत्येदं वक्तव्यम् । काऽपि भवतु तयो: कथा पुराणेषु प्रथिता, तावुद्दिश्य नव्यैः कृता नक्षत्रात्मकत्वकल्पना मिथ्या सत्या वा भवतु, प्राच्यया पाश्चात्यया वा आश्विनस्वरूपनिर्णायिकया स्थूलदृष्टया नास्ति कार्यमस्माकम् । अन्तरर्थविधामवलम्ब्य अश्विनोस्तत्त्वं प्रतिपित्सूनां नो बाह्यार्थपक्षीयाभिप्रायपरीक्षाया नावसरः। अथेदमश्विनोविवरणं भवति—
अश्विनौ यमौ अश्वारूढौ । अश्वो बलोपलक्षकः, विशेषत: प्राणबल प्राणानुगृहीतनाडीबलं प्राणमेव वा लक्षयत्यश्वः । तस्मादश्वः क्रियाशक्तिनिष्पादकस्य प्राणस्य प्राणबलस्य वा सङ्केतो भवति । यद्यपि सर्वेषां देवानां ऋतसम्बन्धित्वादिः सामान्यधर्मो लक्ष्यते, तथाऽप्यनयोवैशिष्टयं सर्वेषां आश्विनसूक्तानां परीक्षणेनाव-गम्यते। भोगशक्तिभूयिष्ठी, सौम्यं मधु पिबन्ती, तदिच्छन्ती, आरोग्यं रोगिणे यच्छन्तौ भिषजौ इति बहुषु मन्त्रेषु वणितौ। विशेषत: पक्षिवत् , तथा मनोवच्च वेगवन्तौ । रौद्रोऽनयो रथवेगः । उषा सूर्यदुहिता रथं तयोरारुह्य याति प्रिया तयोर्योषा । यद्यपि मय:-पदवाच्य-परमसुखस्य भावयित्रोस्तयो: क्रियाभोग-निष्पादनमेव प्रधानं कर्म, तथाऽपि ऋतशक्तिविशेषाविमौ मतिमत्तमकर्माणौ अखण्डसत्त्वलक्षक-समुद्रसमुत्थौ ऋतसत्त्वं ऋतबलं चाधिजग्मुषा धीबलविशेषेण परमजीवन-सम्मद-सम्पत्तीनां मनोमयतां सम्पाद्य दधाते, महते कर्मणे यद अपेक्षितं प्रेरणबलं तद् विधत्तः, येन ज्योतिष्मता तमसस्पारं तारयतो नरं यजमानम् । इमौ नरं मतिभुवः सर्वा अतिक्रम्य खयं नावा तारयत इत्येवमर्थकानि सूक्तानि द्रष्टव्यानि ।।
निदर्शनाय मन्त्रभागाः केचन स्वल्पश इह भवन्ति—
’मनोजवसा वृषणा मदच्युता...अवसे पूर्वीभिः पुरुभोजसा’ (८-२२-१६.) ’आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा’ (८-२२-१७) युवमत्यस्याव-नक्षथो...खसा यद् वां विश्वगूर्ती भराति । वाजाये? मधुपाविषे च ।’ (१-१८०-२) ’मध्वः पिबन्ता उषसः सचेथे’ (१-१८०-१) ’अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम्’ (६-६३-५) ’युवोरुषा अनुश्रियं परिज्मनोरुपाचरत् । ऋता वनथो अक्तुभिः ।’ (१-४६-१४) ’यदन्तरिक्षे पतथ: पुरुभुजा’ (८-१०-६) ’उत त्या दैव्या भिषजा शं न: करतो अश्विना’ (८-१८-८) ’उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः’ (८-८६-१) ’एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः। स्तुषे वामश्विना बृहत् ॥’ (१-४६-१) ’या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । धिया देवा वसुविदा ॥’ (१-४६-२) ’या न: पीपरदश्विना ज्योतिष्मती तमस्तिरः तामस्मे रासाथामिषम् ॥’ (१-४६-६) ’आ नो नावा मतीनां यातं पाराय गन्तवे। युञ्जाथामश्विना रथम् ॥ (१-४६-७) एतादृशैः शतशो दृश्यमानैरन्यैश्च मन्त्रैविचारितैराश्विन तत्त्वं अस्माभिरक्तविघं सुगमं युक्तं च भवेदित्यसशयम् ॥
अत्र अश्विने तृचे, बहुभोगभृतौ आशुगतिकौ अश्विनौ यजननिष्पादिनीः प्रेरण-शक्तीरुपभोक्तुं प्रार्थितौ (यज्वरीरिषः)। इमाश्च सोममदवैभवजा इति बोध्यम् । तथा च हेतुरुक्तः । चिते: अभिनवरूपाविष्कारसमर्था वाचः [गिरः] उद्गताः, यजनक्षेत्रं च सिद्धं कृतम् (वृक्तबर्हिषः), वीर्यवत्तमाः सोमाश्चाभिषुताः (युवाकवः सुताः), तस्माद् अश्विनोगिरां सम्भज नायागमनमवश्यम् । कार्यसाधकधौरेयाभ्यां ताभ्यां धियां गिरः स्थापयित्वा तासां तद्रूपतामापाद्य तत्स्वीकारः साधनीयः [धिष्ण्या धिया वनतं गिरः] । कार्यसाधकौ तौ सोमाभिषवबलप्रेरितेन रौद्रवेगेन निष्कण्टकमार्गों आगच्छेताम् (रुद्रवर्तनी)। अश्वाधिरूढाभ्यामाभ्यां प्रदेयं तु सर्वथा बलं, वीर्यम् ।। याज्ञिक शक्तिभोगे हि रतिस्तयोः। तदिदं तयो: साधनीयम्-वाक् सत्त्वसमृद्ध-धीखरूपसात्कर्तव्या, कर्मण: कार्यनिष्पादकत्वं सम्पाद्यम् , प्रयाणे क्षिप्रगमनं निर्वर्तनीयम् , क्रियादक्षता आशुता इतीदं द्वयं अश्विनो: शक्तयुल्लासाल्लभ्यम् ।
एवं आध्यात्मिकार्थानुसारेण ऋषीणां भाषासु सर्वत्र अर्थसाङ्गत्यम् , प्रसादनिर्भरः, अभिप्रायाणामेकरूपता च स्पष्टं लक्ष्यन्ते । बाह्यार्थव्याख्यास्तु, वेदो गहनतमज्ञानगर्भित इति नाभिमन्यन्ते, चिरन्तनं गूढार्थ विवरणपरं सम्प्रदाय ऐतिह्यं वा न लक्षयन्ति, अत एव असङ्गतार्थान् ब्रुवते, विविधाशयव्याकुल-व्यामोहपरिभूत-मन्त्रार्थ-विवरणधोरणीमवलब्य परमार्षपथात् पतिताः पण्डितानपि पातयन्ति व्यामोह्य ।।
द्वितीयमिव सोमयागे विनियुक्तमिदं तृतीयं सूक्तं आध्यात्मिकभावभूयिष्ठम् । द्वितीयसूक्तीयान्तिमतृच इव अत्राप्यन्तिमे सारस्वते तृचे, ऋतस्य प्राप्तिः, ऋतचिते: अधिगम एव यज्ञस्य फलमिति स्पष्टतरं लक्ष्यते । द्वितीयसूक्त इवेहापि प्राणबलात्मिकाः प्राणशक्तयो देवता: प्रार्थ्यन्ते। तत्राहृतो वायु:, येन प्राणभृतो-प्राणबलविशेषाः सम्भृत्योपकल्प्यन्ते । इह तु, अश्विनावाहूती, याभ्यामश्वाः प्राणशक्तयोऽधिरुह्योपयुज्यन्ते। द्वितीये वाय्वनुग्रहात् प्राणव्यापाराद् ऋषिः मनोमयभुवं साधयितुं प्रवृत्तः । इहापि आश्विनबलादिन्द्रवलावाप्तये प्रवर्तते । एवं सर्वत्र वेदे देवताव्यवस्था, भाषाव्यवस्था, अर्थसाम्यं, इति सर्व एकरीतिकं समञ्जसं सूपपादं च भवति ऋजु पश्यतां चिन्तकानाम् ।।
ऐन्द्रे तृचे प्रथमामाह—
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः। अण्वीमिस्तना पृतासः॥४॥ इन्द्र आ याहि चित्रभानो इति चित्रऽभानो सुताः इमे त्वाऽयवः अण्वीभिः तना पूतासः ॥
हे इन्द्र चित्रभानो बहुविधरश्मे (बहुप्रकारक-प्रभासमृद्धेत्यर्थः) आयाहि आगच्छ । सुताः अभिषुताः, इमे सोमाः त्वायवः त्वां कामयमानाः (त्वत्कामा वर्तन्ते) एते सोमाः अण्वीमिः अङ्गुलीभिः इति व्याख्यातारः (सूक्ष्माभिः शक्तिभिः)। तना विस्तृत्य पूतासः शुद्धाः कृता इत्यर्थः ।
’अण्वीभिः, तना’ इति पदद्वयमेवात्र विचारयितव्यम् । इन्द्रपदार्थों यास्कोदाहृतनिर्वचनबाहुल्यात् अव्यवस्थितविकल्पत्वाच्च न विचार्यते । इन्द्रमधिकृत्य सारत: प्रागुक्तम् । चित्रपदार्थविवरणे व्याख्यानभेदोऽप्यकिञ्चित्करः । ’अण्वी सूक्ष्मा’ ’तना विस्तृतेन’ इति सायणव्याख्यानं, अन्यत्र ’एष धिया याति अण्व्या’ (९-१-७) ’यच्चिद्धि शश्वता तना’ (१-२६-६) इत्यादिस्थलेषु द्रष्टव्यम् । ’तना दशापवित्रम्’ इति च सायणोऽन्यत्र ब्रूते । इह स्कन्दस्वामी तमेवार्थमाह । अण्व्य: अङ्गुलय इति निघण्टुबलात् सर्वे व्याख्यातार आहुः । अयं तेषामाशय:-ऋत्विज: सोमरसशोधनं कुर्वन्ति । तत्र एकं साधनं हस्तः अङ्गुलीभिः (अण्वीभिः) लक्षित:, अन्यत्तु विशोधनी भवति । तद् दशापवित्रं तनापदेनोक्तम् । हस्तेन दशापवित्रमादाय शोधिताः सोमाः पूता इति भाव: ।
अत्र याथार्य सविमर्श ग्राह्यम् । आश्विनानुग्रहसम्पत्तेः परं ऐन्द्र प्रसादमभि-कासति सूक्तद्रष्टा। प्राणबलसमृद्धः शुद्धसत्त्वमनोमयं ऐन्द्रमनुग्रहं याचत इत्युक्तं भवति । अभिषुताः सोमाः इन्द्रं कामयन्ते । प्राणाश्वबलवेग-प्रचोदितानां सम्मदभरप्रसराणां यथायथं साधुकर्मणे शुद्धसत्त्व-धीराज्यप्रवेशलाभः आवश्यकः, तदर्थ इन्द्रः शस्यते। अशोधितानां सोमाभिषवानां आमोदरसक्षरणरूपाणां कथं इन्द्रभोग्यता युक्ता स्यात् ? अत: सूक्ष्माभिः धीशक्तिभिः (अण्वीभिः) बहिः प्रज्ञाधारे शरीरे वितत्या च (तना) शोधिताः (पूतास:) इत्युक्तम् । ननु, अणु-तन्निष्पन्न-अण्व्यादिपदानि सूक्ष्मवाचकानि भवन्तु, कथं सूक्ष्मता घिय एवोच्यत इति चेत् , मन्त्रवर्ण एव प्रत्युत्तरमाह, सायणोऽप्यवश इव गत्यन्तराभावात् ’अण्वी घी:’ इत्यभ्युपगम्य व्याचष्टे । तथा हि ’तममृक्षन्त वाजिनमुपस्थे अदितेरधि । विप्रासो अण्व्या धिया’ (९-२६-१)। अत्र सायणीयव्याख्यायां इदं दृश्यते-तं वाजिनं अश्वं अश्ववदाशुव्याप्तं (समृद्धं सोमं इति वक्तव्यम्) अदितेरुपस्थे अमृक्षन्त शोधितवन्तः। के? विप्रास: मेधाविनः। केन साधनेन ? अण्व्या अङ्गुल्या धिया प्रज्ञया स्तुत्या वा, अथवा सूक्ष्मया घिया अङ्गुल्येति विशेष्य-विशेषणभाव:-इति । एष विक्रान्तः सोमः सूक्ष्मया धिया द्वारा सम्यडू निष्पादितं ऐन्द्रं द्युस्थान गच्छतीत्येवमर्थकस्य मन्त्रस्य (९-१५-१) अघटनघटनापटीयसी सायणव्याख्या ब्रूते ’एष सोमः अङ्गुल्याऽभिषुतो चिया कर्मणा इन्द्रस्य निष्कृतं स्थानं दिवं प्रतिगच्छति ।... अङ्गुल्याऽभिषूयमाणः सन् होमद्वारा अग्निनिष्पीडनद्वारा पात्रं वा गच्छति’ इति! मन्त्रवर्णस्तु विस्पष्टमाह-’धियमिच्छन् देवानां अमृतानां निवासस्थान बृहत् (ऋतं सत्यं) प्रतिगच्छति, न तु पानपात्रं चमसं प्रति सोम:’-इति ’एष पुरु घियायते बृहते देवतातये। यत्रामृतास आसते’ (९-१५-२) ॥
अन्ये च मन्त्राः सन्ति नवममण्डले, यत्र अङ्गुल्यर्थकः अण्वी शब्दः, कर्मार्थे धीशब्दो वा नोपपद्यते, विस्तरभिया नोदाहरामः । अथ चेद् अण्वीभिः अङ्गुलीभिरेव भाव्यं, तर्हि ता न मानुष्यः, किं तु दिवो दुहितु: सूर्याया अश्विनो: प्रियाया इति वक्तव्यम् । नेयमस्माकं कल्पना । अत्रोपपत्तिं प्रदर्शयामः । यमर्थ मनसि निधाय ऋषिर्मधुच्छन्दाः ’अण्वी भिस्तना पूतासः’ इत्याह सूक्ष्मशः गूढं वा गूढार्थमन्त्रदर्शी, तमेव स्वयं नवममण्डले, प्रथमसूक्ते विस्पष्टमाह (९-१-६-७) । अत्र ’सूर्यस्य दुहिता’ ’अण्वी:’ ’दश स्वसारः’ ’योषणः’ ठुलो के तार्ये सोम गृह्णन्तीति प्रत्यक्षवचनानि लक्षणीयानि भवन्ति । सोममधिकृत्यालमेतावताऽत्र । तृचस्य प्रथम!ऽर्थोऽस्माभिरुक्त उपपादित: । अथावशिष्टं ऋग्द्वयं सुगमार्थ भवति ।
ऐन्द्रे तृचे द्वितीयामृचमाह—
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः : उप ब्रह्माणि वाघतः ॥५॥ इन्द्र आ याहि धिया इषितः विप्रऽजूतः सुतऽवतः उप ब्रह्माणि वाघतः॥
हे इन्द्र धिया प्रज्ञया [धारणात्मिकया] इषितः प्रेरित:, विप्रजूतः विप्रेण मेधाविना प्रदीप्तध्यानेन जूत: प्रेरित: (पुरो गन्तुमुद्योजित इत्यर्थः)। एवंभूत: त्वं आयाहि आगच्छ । किमर्थम् ? सुतवतः सोमं अभिषुतवत: (मम) वाघतः स्तोतु: [आत्मार्थध्यानानि वाचा आविष्कर्तुमिच्छतो मम] ब्रह्माणि मन्त्रात्मकानि स्तोत्राणि उप उपैतुम् ॥
प्रथमं अभिषुताः सोमाः इन्द्रं कामयन्त इत्युक्तम् । तत इन्द्रः सोम सुतवत आत्मार्थध्यानानि वाग्भिराविष्कृत्य स्तोतु: मन्त्रानङ्गीकर्तुं स्तूयतेऽस्यामृचि । अथ प्रदीप्तया धिया तबलेनोपेतः भ्राजमानैरश्वैर्युक्त इन्द्रस्तान् ऋमन्त्रानुपगच्छति । तमृषिः प्रार्थयते सुते सोमरसे सम्मदभरं धतुं धारयितुं चेति तृतीयस्यामृचि प्रोच्यते ॥
ऐन्द्रे तृचे तृतीयामृचमाह—
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः। सुते दधिष्व नश्वनः ॥६॥ इन्द्र आ याहि तूतुजानः उप ब्रह्माणि हरिऽवः सुते दुधिष्व नः चनः ॥
हे इन्द्र, हरिवः अश्वयुक्त, तू तुजानः अत्यन्तं त्वरमाणः सन् [अश्वयुक्तत्वात् ब्रह्माणि मन्त्रात्मकानि स्तोत्राणि उप उपैतुं आयाहि आगच्छ । सुते सोमे नः अस्मदर्थ चनः सुखं सम्मदं वा दधिष्व धारय ।।
पूर्व सोमाभिषवेण साधिते आनन्दक्षरणे, अश्विभ्यां प्राणमयसत्त्वे प्राणावधृते नाडीचक्रे च यो मदो वीर्यवान् कृत: स्थापितश्च, सोऽधुना इन्द्राधीन: कर्तव्य:, येन स शुभधी-दीप्ते दुस्थाने पदं लब्ध्वा चितेनं च्युत: स्यात् । तस्मादिन्द्रं प्रज्ञायां आनन्दधृत्यै प्रार्थितवानृषिः ‘सुते दधिष्व नश्चनः’ इति ॥
इति प्रथमस्य प्रथमे पञ्चमो वर्ग:
तृतीये वैश्वदेवतृचे प्रथमामृचमाह—
ओमासश्चर्षणीधृतो विश्वेदेवास आ गत । दाश्वांसो दाशुषः सुतम् ॥७॥ ओमासः चर्षणिऽधृतः विश्वे देवासः आ गत दाश्वांसः दाशुषः सुतम् ॥
हे विश्वेदेवासः एतत्संज्ञकाः सर्वे देवाः, आगत आगच्छत। कीदृशास्ते? ओमास: अवितारः [वर्धयितारः] पुनः कीदृशाः ? चर्षणिधृतः चर्षणीनां नराणां धारयितारः [चर्षणयः कृष्टय इव कर्मोद्युक्ताः, न केवलं मनुष्या इति बोध्यम्] पुनः कीदृशाः ? दाशुषः दत्तवतो यजमानस्य सुतम् अभिषुतं सोमं दाश्वांसः यथाभागं विभज्य दातारः ॥
ओमास:-अवते(तोनिष्पन्नः शब्द इति निर्विवादम् । धातूनां बर्थत्वाद् वर्धने च अव-धातुर्वर्तते। यद्यपीदं पदं सकृदेव प्रयुक्तं ऋक्संहितायां, तथाऽपि ’ओमानं’ ’ऊमासः’ ’ऊमाः’ इत्यादयः शब्दा: प्रयुक्ता दृश्यन्ते । सायणस्तु प्रायश: रक्षणार्थोऽवधातुरिति क्वचित् अर्थान्तरमप्याह । तथा च ’ओमानं सुखविशेष’ (१-३४-६) इत्याह । धात्वर्थमब्रुवन्नेव ’ऊमास: अवितारः’ (१-१६६-३) इत्याह । अन्यत्र ’ऊमाः’ ऊमसंज्ञकाः पितरः (३-६-८) इति च। प्राचीन-आर्यभाषाशाखीय-अवादिधात्वर्थपरीक्षणाद अवतिः वर्धने पोषणे वा वर्तत इति शक्यं निर्णेतुम् । एवमेव अव-धातो-रूठिपरे ’ऊतिः’ वर्धनं वृद्धिः इति क्तिन्प्रत्ययान्तं पदम् ॥
’चर्षणयः’ मनुष्यनामसु पठितमिति हेतोर्मनुष्यसामान्यार्थे न ग्राह्यम् । पञ्चविंशतिनामसु एकमिदम् । कारः कीरिः कृष्टयः चर्षणयः-इत्यादीनि तत्र तत्र पठितान्यपि अविशेषेण न कदाऽपि ग्राह्याणि ॥
दाश्वांस:-दारी दान इत्यस्मानिष्पन्नम् । अत्रापि विशेषो बोध्यः । तत्तद्युक्तभागानुसारेण विभजनपूर्वकं दानमिति धात्वर्थो बोध्यः ।
वैश्वदेवतृचे द्वितीयामृचमाह—
तूर्णयःउस्रा इव तूर्णयः उना इव स्खसराणि ।। विश्वे देवास: अप्ऽतुरः सुतम् आ गन्त तूर्णयः उस्राःऽ इव खसराणि ॥
हे विश्वेदेवासः विश्वेदेवाः सुतम् अस्मदीयं सोमं प्रति आगन्त आगच्छत । कीदृशाः ? अतुरः अपः तुतुरति, लुगूविकरणी त्वरयन्तीति अतुरः वृष्टिप्रदा: (वृष्टिदिव्यानामभीष्टानामिति बोध्यम् )। पुनः कीदृशाः? तूर्णयः त्वरमाणाः अत्रोपमामाह-खसराणि गोष्ठानि उस्राः इव गाव इव। उस्राः रश्मयः स्वसराणि स्वावासस्थानानि अहानि यथेति केचन व्याख्यातारः ।
असुरः-वृष्टिप्रदाः। सर्वेऽपि देवाः वर्षितारः एव तेजो-बल-भोगादीनां, उदकस्यैव वर्षितारो देवा इति कथा शैशवी कल्पनोपहास्यतां याति । अपां तारयितारः, ’अन्तर्णीतण्यर्थस्य तरतरतुरः’ इति स्कन्दस्वामी। अर्थद्वयेऽपि अपां साङ्केतिकमर्थ गृह्णीयात् । तेन ऋचस्तात्पर्य सुगमं भवति । तृचस्यान्ते प्रदर्शयिष्यामः । ’उस्राः’-गोनाम रश्मिनाम च। एवं द्वयर्थशब्दप्रयोगः साधारणो वेदे। तत्रापि उपमायां ईदृशा प्रयोगेण उपमानोपमेययोरभेदाध्यवसायद्वारा उपमेयार्थस्य उपमान-पदार्थः सङ्केतरूपबाह्यभाव इति व्यक्तो भवति । तथा स्वसराणि-अहानि स्वयं सरति आदित्यः एषु, स्व: सूर्यः इमानि सारयतीत्यादि निर्वचनमाहुः । विश्रान्तिसुखप्रदानि स्वसराणि गृहाणि (गोष्ठानि) अहानि वा भवन्तु ॥
आगन्तेति मध्यमपुरुषश्रुतिसामर्थ्याद् ’विश्वेदेवासः,’ इत्यत्र आमन्त्रित-प्रथमान्ततया व्याख्यातम् । तथा तद्विशेषणे च। एवं तृतीयतचेऽपि आमन्त्रिता विश्वदेवा इति बोध्यम् । एवं ऋग्द्वये श्रुतेन आमन्त्रणेन सङ्गच्छेत ॥
वैश्वदेवतृचे तृतीयामृचमाह—
विश्वेदेवासो अस्निध एहिमायासो अद्रुहः। मेधं जुषन्त वह्नयः ॥९॥ विश्वे देवासः अनिधः पहिऽमायासः अद्रुहः मेधम् जुषन्त वह्नयः॥
विश्वेदेवासः हे विश्वेदेवाः मेधं यज्ञं (मदीयं सोमसर्व) जुषन्त सेवध्वम् (व्यत्ययेन प्रथमपुरुषबहुवचनान्तम्) । कीदृशाः ? अनिघः क्षतिरहिताः [न केनापि क्षपयितुं शक्या इत्यर्थः] । पुनः कीदृशाः ? अद्रुहः द्रोहरहिताः [यजमानाय न द्रुह्यन्ति, स्वयं अक्षय्याः आश्रितानां भक्तानां न क्षथमापादयन्ति, प्रतिकूलं नाचरन्ति, तान् न वश्चयन्तीत्यर्थः]। पुनः कीदृशाः ? पहिमायासः आङ् समन्तात् ईहि: ईहमाना माया प्रज्ञा येषां ते [सर्वतोगतिक-प्रज्ञाविशेष-सम्पन्ना इत्यर्थः] । पुनः कीदृशाः? वह्नयः वोढारः [भर्तारः, अस्मदीय-यज्ञस्य धारकाः सन्तः तं भजन्तु भवन्त इत्यर्थः] ॥
असिध:-सिधिः क्षये शोषणे वा इति व्याख्यातारः। न कुतोऽप्यभिघात एषामिति विवक्षा । एहिमायासः-सकृदेव प्रयुक्तं इदं वेदे । अप्सु प्रविष्टं सौचीकमग्निं ’एहि मा यासी:’ इति विश्वेदेवा अवोचन् , तदनुकरणहेतुकोऽयं विश्वेषां देवानां व्यपदेश ‘एहिमायासः’ इति सायणस्य वापक्षव्याख्या। सर्वतो व्याप्तप्रज्ञाः इति साधुरर्थः सायणीयः। अद्रुहः-व्याख्यातम् । मेघम्- मेध्यते सङ्गम्यते देवैरिति मेधं हविराह सायणः । यज्ञ इति वक्तव्यम् । ’अस्मदीयं यज्ञ’ इति स्कन्दस्वामी, तथा अन्ये च । क इमे विश्वेदेवाः ? एतत्संज्ञकाः देवताविशेषा इत्येके, यथा शाकपूणिः । सर्वपर्यायो विश्वशब्दः, तस्मात् सर्वदैवतसमष्टिरिति यास्कमतम् । अपरोक्तमेव साधीयो दृश्यते, यतो वैश्वदेव-सूक्तमन्त्रेषु प्रयुक्तानि विशेषणानि प्रतिपादिता अर्थाश्च सर्वदेवसमुदायार्थ-संवाद बिभतीत्यसंशयम् । तदस्मिन् तृचे सर्वदैवतसाधारणगुणाः कीर्तिताः। तर्हि एषां शंसनस्य कोऽवसरः ? उच्यते। यदश्विभ्यां इन्द्रेण च साधितं तदेव दिव्यं कर्म विश्वैर्देवैः उक्तानुक्तैर्शाताज्ञातैर्वा परदैवत-विभूतिभूतैः सम्भूय धारयितव्यम् , ततः पूरयितव्यम् । अत एव सर्वदेवसमष्टेः प्रसादः प्रार्थ्यते ।
अस्य तृचस्य तत्र तत्र कृतैः पदार्थविवरणैरेषां वीश्वेषां देवानां विशेषणानि आवश्यकस्थलेषु व्याख्यातानि। ’अस्तुरः’ इत्यस्य अपां त्वरयितारः तारयितारो वेति व्याख्याय द्विधाऽपि सम्भवः साधीयान् अभ्युपगतश्च । समुद्रः-नदी-इत्यादिशब्दाः सङ्केतरूपाः, तस्मादापश्च सङ्केतार्थः प्रागुक्तः। भूमिकायां सविचार इदं सर्वमावेदितं स्मार्यम् । तदेवं मानुषे जने यजमाने अन्तर्यांगपरायणे, आश्विनव्यापारात् प्राणसत्त्वे साघिते, ऐन्द्रकर्मणो धीसत्त्वे च निष्पादिते, सोमाभिषवपदलक्षित-आनन्दवर्षे च मन:-प्राण-शरीरेषु प्रवृत्ते, विश्वेदेवा आमन्त्रितास्तं सवमाविश्य धारयमाणाः यजनपरिपूर्तये प्रभवन्तीति बोध्यम् ।
अथान्तिमे तृचे, अश्विनोरिन्द्रस्य विश्वेषां देवानां च प्राणबुद्धिनिष्पादनस्य पर्यवसानं ऋतचितिप्राप्तौ इति, ऋतचितिसम्पत्तिरेव यज्ञस्योद्देशः प्राप्तव्यं फलितमिति च असन्दिग्धं विस्पष्टं लक्ष्यते ।
अन्तिमे सारस्वते तृचे प्रथमामाह—
पावका नः सरस्वती वाजेभिर्वाजिनीवती । यक्षं वष्टु धियावसुः॥ १० ॥ पावका नः सरस्वती वाजेभिः वाजिनीऽवती। यज्ञं वष्टु धियाऽवसुः॥
सरस्वती वाग्देवी नः यज्ञम् अस्मदीयं यजनं वष्टु कामयताम् । कीदृशी? पावका शोधयित्री अपि च वाजेभिः वाजिनीवती समृद्धिभिः बहुलविधया समृद्धया युक्ता । पुनः कीदृशी? धियावसुः धिया द्रव्यवती ।।
पावका-पुनातेः, पापापनोदिनीत्यर्थः। पापं दुरितम्, भद्रपदव्याख्याने तत्स्वरूपं अशुभं अनृतमेवेति वेदर्षीणां मतं प्रतिपादितम् । अनृतप्रध्वंसात्पापापनये शोधनं साधितं भवति । वक्ष्यति च अनृतनाशाय ’सूनृतानां चोदयित्री’ इति । वाजेभिः वाजिनीवती-ऐन्द्रवायवतृचव्याख्याने ’वाजिनीवसू’ पदार्थप्रसक्ती वाजशब्दो विचारितः । धियावसुः-अलुक्समास: छान्दस:। ’वसु’ सर्वत्र द्रव्यं, सत्त्वं, इति व्याख्यायत इति प्रागुक्तम् । प्रज्ञावृत्तिभिः सत्त्वसमृद्धेत्यर्थः ।
सारस्वते तृचे द्वितीयामृचमाह—
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञ दधे सरस्वती ॥ ११ ॥ चोदयित्री सुनृतानाम् चेतन्ती सुऽमतीनाम् य॒ज्ञम् दुधे सरस्वती ॥
सरस्वती सेयं वाग्देवी यज्ञ (इमं) दधे धारयते। कीदृशी? सूनृतानाम् शुभानां सत्यानां चोदयित्री प्रेरयित्री। सुमतीनाम् शोभनानां मतीनां मनो-वृत्तीनां हादभावानां वा चेतन्ती चेतयन्ती प्रज्ञापयन्ती।
सूनृतानाम्-प्रियसत्या वाक् सूनृतेति लोके प्रसिद्धिः । तथाऽपि अत्र वेदे सूपपदस्य शोभनार्थ एवोपपन्नः । सुमतीनाम्-अत्रापि कल्याणमतीनामिति बोध्यम् । दधे-लडर्थ एव साधीयान् , छान्दसः। नेह भूतार्थविवक्षा ।
महो अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि राजति ॥१२॥ महः अर्णः सरस्वती प्र चेतयति केतुना धियः विश्वाः वि राजति ॥
सरस्वती वाग्देवी (पूर्वऋग्द्वयप्रतिपादिता) केतुना प्रज्ञापकेन (दर्शनकर्मणा) महो अर्णः महान्तं प्रवाहं समुद्रं वा [कतस्य बृहती प्रवृत्ति इति बोध्यम् ] प्रचेतयति प्रकर्षेण ज्ञापयति [प्रज्ञायां सुप्तमिव स्थितं ऋतप्रवृत्तिरूपं अर्ण:-पदवाच्यं प्रवाहं उत्याप्य प्रबोधयति] । अपि च विश्वाः धियः विराजति समस्ता धीवृत्तीश्च प्रदीपयति ॥
अस्यामृचि ’केतुना’ कर्मणेति सायणः, कर्मणा प्रज्ञया वेति यास्कः । वेदरहस्योद्घाटन-साधनभूतानां ऋत-क्रतु-श्रवः-प्रभृतीनां एकमिदं केतुपदम् । दर्शनात्मकः सहजावबोध: केतुरिति सर्वत्र ग्राह्यम् । स्थूलार्थपक्षीयानां नये क्रतु-वाज-ऋतादीनामिव केतोरपि बहवोऽर्थाः। नास्ति नियमः । अस्मदुक्तेऽर्थे नियतः केतुशब्दः सर्वत्र मन्त्रवर्णेषु घटत इत्यवधेयम् । स्थूलार्थानुसारेण अस्यामृचि नदी सरस्वती स्तुता। पूर्व ऋचोर्द्वयोः वाग्देवी विग्रहवतीति च प्राहुः कर्मठसम्प्रदायिनः । नावश्यकी परीक्षा तेषां विवक्षायाः। यत् किं वा भवतु तात्पर्य तन्मते, तन्मन्त्रद्रष्टरि महर्षों मधुच्छन्दसि भावदारिद्यं आरोपयतीत्यसंशयम् । प्रथमं विग्रहवती भूत्वा, तत: नदीरूपा संवृत्ता किल! कुतोऽयं ऋषिदृष्टौ हठाद् वेषान्तरपरिग्रहस्तस्याः सरस्वत्याः ? कारणं नोक्तम् । फलं तु देवो जानाति ।
अथ चेदवगच्छामः स्वरूपं सरस्वत्याः, आद्यं ऋग्द्वयमस्मिन् तृचे विस्पष्टार्थ प्रसन्नं भवेदित्यसंशयम् । महीति स्तूयमानया भारत्या इळया च सह सरस्वती गीयते वेदे। ’इळा सरस्ती मही’ इति तिसो देवीरधिकृत्य व्याख्यानावसरे तासां विवेकः पुरस्तात् प्रपञ्चयिष्यते। ऋतचिते : शक्तिविशेषा सत्यश्रुतिप्रचोदिनी दिव्यावेशवाणी सरस्वतीति कीर्त्यते। सत्यावेशादनृतप्रध्वंसो भवति । अनृतं हि सर्वतोमुखपापरूपतां धत्ते, अनृतात्पापं नातिरिच्यत इति पुरातनमार्ष मतम् । अनृतप्रेरणयैव असाधु; दुष्टः सुखाद्यनुभव:, असाधुः सङ्कल्पः, असाधु च कर्म, मानुषं जन्म आविश्य वशयन्ति। तस्माद् अनृतमायु: सर्वथा जन्मन: प्रभृति नः प्रबाधते, येन सर्वाणि न: कर्माणि कायिकानि मानसिकानि वा अनृतसात्कृतान्यन्धि-तानि भवन्ति । तदत्र चिकित्साया नास्ति शरणं ऋताहते। तच्च ऋतं, ज्योतिषा वाचा वा रूपेण उभयथा च अवतरत्याविशत्याविर्भवतीति दर्शनं महर्षीणामाद्यानाम् । येन धियः परिवर्तनं साध्यते, जगता सह अस्मान् प्रति नूतनो विवेकश्च सआयते । ऋतमयी धीः दृष्टिं ऋतमयीं विधत्ते, ऋतदृष्टया नः सत्यरूपता निष्पादिता स्यात् । यत: प्रयासवर्ज स्वभावतः सत्याः हार्दभावा: सत्याः सङ्कल्पाः सत्यानि च कर्माणि निरर्गलं प्रवहेयुः ।
अधुना तृचतात्पर्य सुगमं स्यात् । प्रथमं ’धियावसुः’ ’पावका’ सरस्वती पापापनोदाय पारिशुद्धव्यं विदधाना यज्ञकामा धीसमृद्धा प्रसीदति । ततः मानुषस्य सर्वकर्मसमर्पणरूपं यज्ञं परिपाल्य धारयते, येन ऋतानुरोधेन मर्त्यस्य कर्माणि ज्ञानानि वाचो भावाश्च प्रवर्तेरन् (सूनृतानां चोदयन्ती, सुमतीनां चेतन्ती) । अन्ते च सा भगवती वर्षति प्रवाहयति स्वीयेन दर्शनकर्मणा ऋतचिद्दीप्ती: ’अपः’ प्रेरयन्ती मानुषे यजमाने, सर्वाश्च धीप्रवृत्ती: सत्यज्योतिषा प्रज्वलयति (धियो विश्वा विराजति) चेति सारांशः ।
तदिदं व्याख्यातं तृतीयं सूक्तम् । तत्र विशेषतश्चतुर्थतृचप्रतिपादितो विषयः प्रागुक्तमर्थ समस्तं दृढीकृत्योजवलयन् बाह्यस्य कर्मणः, यजमानस्य अन्तःकरण-परिपाकदशाविशेषस्य च सम्बन्धं प्रद्योतयतीति स्पष्टम् । ’महो अर्ण’ इति प्रायशोऽगूढया सङ्केतभाषया महान्तं ऋतचितिप्रवाहं प्रबोधयन्त्याः सरस्वत्या दर्शनकर्मवैभवप्रस्तावेन वेदरहस्यं नात्यन्तं अविभेद्यतया गोपितम्, अपि तु मधुच्छन्दसैव महर्षिणा किञ्चिद्वा रहस्यप्रकाशकैः पदैः प्रयुक्तैरुपदर्शितमिति गम्यते।
इति प्रथमस्य प्रथमे षष्ठो वर्ग: इति प्रथमे मण्डले प्रथमोऽनुवाक:
अथ द्वितीयेऽनुवाके चतुस्सूक्तात्मके ’सुरूपकृत्नुम्’ इति प्रथमं सूक्तम् । प्राग्वद् ऋषिश्छन्दश्च, इन्द्रो देवता। तत्र प्रथमामृचमाह—
सुरूपकृत्युमूतये सुयामिव गोदुहे। जुहमसि द्यविद्यवि ॥ १ ॥ सुरूपऽकुलुम् कृतये सुयाम्ऽश्व गोऽदुहे । जुट्टमसि विऽयधि ॥
सुरूपकृत्नुम् सुरूपाणां साधूनां सिद्धानां वा रूपाणां कृत्नुम् कर्तारम् ऊतये वृद्धये द्यविद्यवि अहरहः जुहूमसि जुहुमः, आह्वयामः । आह्वानकर्मणि दृष्टान्तमाह-गोदुहे गां दोग्धि गोधुक् तस्मै सुदुघामिव सुष्टु दोग्ध्रीं पयस्विनीमिव ।
सुरूपकृत्नुम्--कृत्नुः कर्ता, शिल्पीति भट्टोजीदीक्षितानां उणादिसूत्रवृत्ति-मुचितां पश्यामः । अत्रेन्द्रः कर्ता, शिल्पी साधूनां सिद्धानां वा धोवृत्तिरूपाणां कर्मरूपाणां वा । हत्नुः, दर्नुः, जिगत्नुरित्येते औणादीकक्नु-प्रत्ययान्ताः । ऋक्संहितायां सकृदेवात्र प्रयुक्तमिदं पदम् । ऊतये--अवतेर्धातोरूतिरिति निर्विवादम् । यद्यपि क्वचिद्रक्षणार्थोऽप्युपपद्येत, तथाऽपि वर्धनार्थः प्रायः सर्वत्र सङ्गतः स्यादिति ’ओमासः’ इति शब्दस्यार्थविचारे प्रतिपादितम् ।
सुदुघामिव--सुष्ठु दोग्धि सुदुघा तामिव । गोदुहे--’गोः दोग्धा तस्मै’ इति वयमपि पूर्वे व्याख्यातार इव ब्रूमः । अत्र नव्याः केचन विप्रतिपद्यन्ते । अत्र दृष्टान्तदान्तिकपर्यांलोचना कार्या। जुहूमसि--वयते: लडुत्तमपुरुषबहुवचने छन्दसि शपः लुः। द्यविद्यवि-निघण्टुपठितमेव पदम् , प्रतिदिनमित्यर्थः ।
अत्रेन्द्रः सुरूपकृत्नुः सुदुघया पयस्विन्योपमीयते। ’ऊतये’ इन्द्र आहूयते, गोदोहनाय सुदुघा आहूयत इत्यर्थो वक्तव्य इत्याहुः । एवं भावविबन्ताद् गोधुक्पदात् चतुर्थी ’गोदुहे’ इति ग्रहणे उपमायां लोपो न भवेदित्याशयः । इयं च युक्तिरापाततः साध्वी लक्ष्यते, कि तु न लक्षयति विवक्षा मन्त्रद्रष्टुः, दृष्टान्तप्रतिपादितं भावं वा। भवतु लुप्तोपमा, सर्वसाधारणी सा वेदे। ’गोदुहे’ गोदोहन क्रियार्थमिति चेत्, गोर्दोग्धा कः ? दोहनमात्रेण कथं ’ऊतिः’ भवति ? भवतु ’ऊतिः’ रक्षैव, मास्तु ’वृद्धिः’ इति अस्मदुक्तार्था । कस्य भोग्यं भवति दुग्धम् , येन ’ऊतिः’ सम्पाद्या ? इदं सर्वमनालोच्य उपमां पूर्णा निरूपयितुं कृत: प्रयासो निस्सारो भवति । आहाता यजमानः स्तोतैव दोग्धा, दुग्धं फलं तस्यैव भोग्यं ’ऊतये’ भवति । अन्यत्रापि मन्त्रवर्णेषु स्तोता गोधुक् सुदुघा त्विन्द्र इति च गीयते। यथा वा ’आ त्वद्य सबटुंघां हुवे...... इन्द्रं धेनुं सुदुघां’ (८. १. १०.)। ’आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे । इन्द्र सोमस्य पीतये’ (८. ५४. ३.) । प्रथमचि इन्द्रधेन्वोरभेदाध्यवसायः कृतः। द्वितीयर्चि इन्द्र उपमीयते गवा । अन्यामृचमुदाहरामः, यत्र स्तोता आह्वातैव दोग्धा स्पष्टमुक्तः–’दोहेन गामुपशिक्ष सखायं प्रबोधय जरितर्जारमिन्द्रम्’ (१०. ४२. २.) । अत्र ’जरितः’ स्तोतः इति सम्बोधनम् । तस्यैव दोहनकर्मणा साधनेन गूढकामं (जारं) इन्द्रं वशं नेतुं (उपशिक्ष) प्रयासः कार्य इत्युक्तः । आह्वातृभिः स्तोतृभिरेव दोग्धृभिर्भाव्यमिति संशयच्छेदकोऽन्यो मन्त्रो वालखिल्यसूक्ते भवति । इदं उत्तरार्धम्--’तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः’ इति (वाल-सू. ४. क्र. ४.) । अत्र ’वयं इत्यस्य विशेषणं ’गोदुहः’ इति प्रथमाबहुवचनान्तम् । एवं ’गोदुहे’ भावक्विप-प्रत्ययान्ताद्वा इति संशय: छिन्नः ।
उप नः सवना गहि सोमस्य सोमपाः पिब। गोदा इद्रेवतो मदः॥२॥ उप नः सवना आ गहि सोमस्य सोमपाः पिब । गोऽदाः इत् । रेवतः मदः ॥
हे सोमपाः सोमपायिन् (इन्द्र) नः अस्माकं सवना सवनानि, यज्ञान उपागहि उपागच्छ (अस्मदीयसोमाभिषवं प्रति समीपमेहि)। सोमस्य पिब सोमं पिब । [तथा सोमपानेन] रेवतः ऋद्धिमतः [तव] मदः हर्षः गोदाः इत् गोप्रद एव, ज्ञानरश्मिप्रद एवेत्यर्थः ।
यजमानेन सुते सोमे धीसाम्राज्यधुरन्धरेण इन्द्रेण परिगृह्य पीते सति, सोमरसजन्यहर्षातिशयेन पोषितो धीराज्यस्वामी प्रज्ञारश्मीन् वर्षति सोमसुते यजमानायेति अन्तर्यागपरा अर्थपुष्टिर्भवति । मदमत्तः श्रीमान् यथा गोदानं गोकामेभ्यः करोति, तथा इन्द्रः अग्निष्टोमाख्ये बाह्ये कर्मणि सोमवल्लीं यथाविधि निष्पीड्य रसमादाय संस्कृत्य स्वस्मै [इन्द्राय] ददते यजमानाय पुष्कलाश्चतुष्पदो गा अनुगृह्णातीति परिहासवर्ज गम्भीरं व्याचक्षते कर्मठाः ।
तृतीयामृचमाह...
अथा ते अन्तमानां विद्याम सुमतीनाम् । मा नो अति ख्य आ गहि ॥ ३॥ अथ ते अन्तमानाम् विद्याम सुऽमतीनाम् मा नः अति ख्यः आ गहि ॥
अथ अनन्तरं [सोमपानाल्लब्धेन हर्षातिशयेन गोपदलक्षितज्ञानरश्मीनामस्मभ्यं वितरणात् परमित्यर्थः] इन्द्र ! ते तव अन्तमानाम् अन्तिकतमानां आत्यन्ति-कीनां सुमतीनाम् शोभन बुद्धीनां, साधुचिन्तनानां किञ्चिद्वा विद्याम जानीयाम [देवस्येन्द्रस्य सर्वाणि चिन्तनानि ज्ञातुं कथं प्रभवेज्जीवो यजमान: ? तस्मादेकदेशं वेति व्याख्यातम् । अन्यथाऽपि द्वितीयार्थे षष्ठी, ’सोमस्य पिब’ इतिवदुपपद्यते । नः अस्मान् अति मा ख्यः अतिक्रम्य मा दर्शय (स्वात्मानमिति शेष:) आ गहि आगच्छ।
’अति मा ख्यः’ इत्यत्र अन्तर्भावित-ण्यर्थो बोध्यः । अस्मान् अतीत्य मा ख्यापयात्मानमिति पदार्थः । अस्मान् मातिक्रमीरिति भावः । ’यावदस्माकं दर्शनसामर्थ्य तावदेव प्रकाशयात्मानम् । परिच्छिन्नामस्मच्छक्तिमतीत्य स्वात्मानं प्रकाशयसि चेत्, द्रष्टुं न शक्नुमः । अथ च मा भूरगोचरः, आगच्छ’ इति तात्पर्यम् ।
अत्र सायणीयव्याख्यानसारंश एवं भवति–इन्द्र! तव सोमपानानन्तरं अन्तिकतमानां शोभनप्रज्ञानां पुरुषाणां मध्ये वयं स्थित्वा त्वां जानीयाम । त्वमपि अस्मानतिक्रम्य अन्येषां त्वत्स्वरूपं मा प्रकथय, अस्मानेवागच्छ’ इति। ’पुरुषाणां मध्ये वयं स्थित्वा’ इति व्याहारो निर्मूलाधारः। ’अन्येषां त्वत्स्वरूपं मा प्रकथय, अस्मानेव आगच्छ’ इत्यस्य न केवलं अयुक्तता, मन्त्रद्रष्टषु मात्सर्यमप्यारोपितम् । एवंविधं व्याख्यानमेव मूलं सायणे नव्यानामविश्वासस्य ।
चतुर्थीमृचमाह—
परेहि विग्रमस्तृतमिन्द्र पृच्छा विपश्चितम् । यस्ते सखिभ्य आ वरम् ॥४॥ परा इहि विग्रम् अस्तृतम् इन्द्रम् पृछ विपःऽचितम् यः ते सखिभ्यः आ वरम् ॥
ऋषिरन्तर्यागे प्रवर्तमानमन्यं सखायं ब्रूते । अथवा स्कन्दस्वामिनोक्तप्रकारेण आत्मन एवान्तरात्मनः प्रैषः। परेहि परागच्छ। इन्द्रं पृच्छ। कीदृशम् ? विनम् अस्तृतम् विपश्चितम् इति त्रीणि विशेषणानि इन्द्रस्य, क्रमेण ’वेगिनं अहिंसित सम्यग्दर्शनप्राशं’ इत्यर्थकानि । य इन्द्रः ते तव सखिभ्यः समानोद्योगेभ्यः सुहृद्भ्यः वरम् श्रेष्ठं [कल्याणं] आ आहार्षीदित्यर्थः ।
परेहि—परा अतीत्य, अतिदूरं, इहि गच्छ। अतिदूरं गतोऽपि स इन्द्र एव प्रष्टव्यः प्राप्तव्यलब्धि तदुपायं वा । कुतो दूरगमनमवश्यम् ? स ’विगः’ वेगवान् पुष्टिबाहुल्यात् स वेगगमनशील: । अयमर्थः सङ्गच्छते ’मा नो अति ख्यः’ इति पूर्वोक्तेन वाक्येन । विग्रपदं मेधाविनामसु पठितमिति ’विपश्चितम्’ इति विशेषणान्तरे वर्तमानेऽपि अनर्थकां पुनरुक्तिमलक्षयन् विगं ’मेधाविनं’ इति व्याचष्टे सायणः । केचन विग्रमिन्द्रविशेषणं विपश्चितं स्तोतृविशेषणं चाहुः । विग्रशब्द: वेगशब्द इव विजतेश्चलनार्थाद् धातोनिष्पन्नो वेगार्थद्योतक इति ग्राह्यम् ।
अस्तृतम्—अहिंसितं, अपराजितं प्रतिकूलैरसुरैः वृत्रादिभिरित्यर्थः । विपश्चितम्-अन्तर्यागे काः प्रतिकूलाः शक्तयः काश्चानुकूला इति विशिष्य पश्यन्ती प्रज्ञा इन्द्रस्य वर्तते, तस्मात् स जानाति बलीयान् शात्रवशक्तीविजेतुम् । तथाकर्तु प्रभुः अन्येभ्यः समानेभ्यो युक्तेभ्यः (सखिभ्यः) श्रेष्ठं (वरं) व्यधत्त, विदधाति च, तस्मात् स एव उपगन्तव्यः, उपगम्य प्रष्टव्यश्च ।।
पञ्चमीमृचमाह—
उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत। दधाना इन्द्र इदुवः ॥५॥ उत वन्तु नः निदः नि: अन्यत: चित् आरत दधानाः इन्द्रे इत् दुवः ॥
उत अपि च नः अस्माकं निदः निरोधकाः ब्रुवन्तु भणन्तु (एवं वक्ष्यमाणप्रकारेण) । अन्यतः चित् अन्येषु क्षेत्रेष्वपि निरारत (इतो निर्गत्य) अरणं कुरुत प्रयास कुरुत। कीदृशाः सन्तः ? इन्द्र इत् इन्द्र एव दुवः (युष्मदीयां) परिचर्या दधानाः धारयमाणाः ।
निदः-निन्दका इति पूर्वे व्याख्यातारः । बन्धनं निरोधनं वा धात्वर्थः । निन्दायामपि क्वचिद्वर्तते, उपपन्नश्च । यथा वृत्रादयः प्रकाशावरकास्तद्विभूतयश्च देवद्विषो यज्ञविघातका भवन्ति, तथा अन्येऽपि अन्तर्यागप्रवृत्तस्य पुरुषस्य देवराजमिन्द्रं प्रेप्सो: निरोद्धारो भवन्ति । त एव ’निदः’ इत्युच्यन्ते । णिदिधातु: बन्धनार्थे अन्यत्र अपि प्रयुक्तो भवति । ’निदितम्’ ’निदानम्’ ’निदातारम्’ इत्येतानि बन्धनार्थानि मन्त्रेषु दृश्यन्ते । ’उदुनियाणामसृजन्निदानम्’ (६. ३२. २.)। निदानं बन्धनं बोध्यम् । ’वलस्य भृत्यैः पणिभिरपहृतानां गवां निदान बन्धनं उदसृजत् अमोचयत्’ इति सायणः । ’चरन् वत्सो रुशन्निह निदातारं न विन्दते’ (८. ६१. ५)। निदातारं निरोधकम् इति सायण एव । ’शुनश्चिच्छेपं निदितं सहस्राङ्पादमुश्चः’ । निदितं नितरां बद्धमित्येव व्याख्याता ।
अस्य सूक्तस्य तात्पर्य पर्यालोचनायां ’निदो’ निरोद्धारः, न त्विह निन्दका इति विस्पष्ट भवेत् । अस्यामृचि अस्माकं प्रतिकूला निरोद्धार एव उत्तरोत्तर-प्रयाणाय नः सम्मतिं ब्रुवन्त्वित्युक्तम् । अस्मदनुकूला अपि अस्मान् भाग्य-शालिनः कर्मवीराः कार्यसाधका इति ब्रुवन्तु, ’उत नः सुभगान्’ इति उत्तरत्र ऋचि प्राह, तस्मादुभयो ऋचो: तात्पर्य सम्बन्धोऽवधेयः ।
आरत-अरतिः अरणं अरिः अर्य: आर्य: इत्यादयः शब्दाः, प्रयास-परिश्रम-निरन्तरोद्योग-कर्षणाद्यर्थे वेदे प्रयुक्ता ज्ञेयाः । अत एव ’आय:’ अनलसः, नित्योद्यमी, देवाराधनकर्मणि देवशत्रुभिः सह योद्धा, मानुषभुवं दिव्यसम्पत्फलिनी विधातुं कृषि न जहाति नित्यं कर्षक:- इत्याद्यर्थे प्रयुक्तो ग्राह्यः ।
दुवः-सामान्यं कर्म, परिचर्या वा॥
इति प्रथमस्य प्रथमे सप्तमो वर्ग:
षष्ठीमृचमाह—
उत नः सुभगाँ अरिर्वोचेयुर्दस्म कृष्टयः। स्यामेदिन्द्रस्य शर्मणि ॥ ६॥ उत नः सुऽभगान् अरिः वोचेयुः दस्म कृष्टयः स्याम इत् इन्द्रस्य शर्मणि ॥
उत अपि च [न केवलमस्मत्प्रतिकूला ’निदः’, अनुकूला अपि वक्ष्यमाणरीत्या ब्रुवन्त्वित्याह ’उत’ इति निपातः] अरिः कृष्टयः (अस्मदर्थ) योद्धारः, कर्म कुर्वन्तः [अरिरिति वचनव्यत्ययः सं-अरणशीला आर्या देवार्थ योद्धारः, कृष्टयः कर्षणशीला: फलावाप्तये] नः अस्मान् सुभगान् धन्यान् कृतार्थान् वोचेयुः उच्यासुः। (किञ्च) हे दस्म कर्मनिष्पादक, इन्द्रस्य शर्मणि सुखे स्याम भवेम इत् पादपूरणे, [अथवा इन्द्रस्यैव प्रसादालभ्ये तदानन्दे ध्रियेमहि इति अवधारणार्थे वा ’इत्’ इति वोचेयुरिति सम्बन्ध:] ॥
पदार्थकथन एव तात्पर्यमाविष्कृतम् । ऋचोऽस्याः पूर्वस्याश्च सम्बन्ध: प्रागुक्तः । दस-दसादिवत् दस्मपदमपि कर्मनिष्पादनं प्रतिपादयतीति बोद्धव्यम् । ’अरि: कृष्टयः’ स्युर्नाम आर्यमानुषवर्गीयाः अन्तर्यागप्रवर्तनसाधनानुकूलाः । वस्तुतस्तु, अतीन्द्रियभूस्था देवताशक्तिभेदाः दिव्यविभूतिविशेषाः मानुषं यज्ञेन साधनेन दिवमारुरुक्षु आरोहन्तं च उपकुर्वन्तः, तब भातर इव सखाय इव तद्युक्ताः [जामयः सखायः युजः] तं तारयन्ति तेन स्वयं च तृप्यन्ति सम्प्राप्ता ऐन्द्र शर्म । यज्ञाध्वनि पुरुषं निरुद्धवतां परिच्छिन्नवतां वा वैरिणां [निदः] अतिक्रमणे सहायभूता ’अरिः कृष्टयः’ अधुना तेन साधितकर्मणा (दम्म) पुरुषेण कृतार्थेन सह इन्द्रानन्दपरायणा भवेयुरिति युक्तमेवेदम् ॥
अनयोद्वयो ऋचोः परस्परसम्बन्धज्ञापकं वाक्यद्वयं च निरीक्षणीयम् । ऐन्द्रं कर्म कुरुत, सर्वकर्मभारमिन्द्रे निवेश्य विभृत (दधाना इन्द्र इदुवः) इति पूर्वर्चि प्रोक्तम् । अत्र इन्द्रस्यैव शर्मणि ध्रियेम (स्यामेदिन्द्रस्य शर्मणि) इति तथाविधस्य कर्मणः फलं च द्योतितम् ।।
’आरत’ इत्युक्तवा तदेवानुरणितं अरणार्थकधातुनिष्पन्न-अरिपदप्रयोगेन । पूर्वोत्तरसम्बन्धध्वननायेदृशी रीतिरवलम्बिता मन्त्रदर्शिभिरिति पुन: स्मारयामः ।।
सप्तमीमृचमाह—
एमाशुमाशवे भर यज्ञश्रिय नुमादनम् । पतयन्मन्यत्सखम् ॥ ७ ॥ आ ईम् आशुम् आशवे भर यज्ञऽश्रियम् नृऽमादनम् पतयत् मन्दयत्ऽसखम् ॥
आशवे [वेगोपलक्षिताय तीव्रायेति वक्तव्यम् ] इन्द्राय ईम् [एनम् इदमर्थोऽयं निपात:] आशुम् सोमम् आ भर आहर। कीदृशं सोमम् ? यज्ञश्रियम् यज्ञवैभवभूतम् (यज्ञं श्रयति, यज्ञश्रीः तं इत्येके)। पुन: कीदृशम् ? नृमादनम् नृणां मादनं मदकरम् , (मनुष्यो देवश्च नर उच्यते वेदे) पुनश्च मन्दयत्सखं पतयत् मन्दयत्सखं इन्द्रं पतयत् पतयन्तं गमयन्तं पुरतो वहन्तम् ।
पतयत्-द्वितीयाविभक्तिलोप: छान्दस:, सर्वेऽपि व्याख्यातारः सोमविशे-षणत्वेन गृह्णन्ति, कथञ्चित् रूपं निष्पादयन्ति । मन्दयत्सखम्-’पतयत्’ इति सकर्मकधातोः शतृप्रत्ययान्तस्य क्रियार्थकस्य कर्मपदं भवति । यजमानान् मन्दयति हर्षयति इन्द्रः, तस्मिन् सखिभूतः सोम इति सायणो मन्यते, अन्ये व्याख्यातारः अन्यथा व्याकुर्वते, नव्याश्च किमपि विभावयन्ति, यः को वा भवत्वर्थः ’पतयन्मन्दयत्सखम्’ इत्यत्र व्याकरणोपपादनं छान्दसत्वाश्रयणेनैव साध्यम् । तदिह मन्दयन् हर्षयन् सखा (इन्द्रः) तम् ‘पतयत्’ सोममिति वयम् । य: को वा भवतु इन्द्रस्य सखा, सोम इति सायणः । अत्रानुपपत्तिर्भवति, तन्निरीक्षा नावश्यकी। यजमान ऋषिरन्तस्सोमयाजी इन्द्रसख एवेति वयम् । अयमर्थ: सूक्तेऽस्मिन्नन्याभिग्भिः सङ्खच्छते। व्याख्यानान्तपरीक्षया नास्ति प्रयोजन-मित्यलमेतावता।
अष्टमीमृचमाह—
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः। प्रावो वाजेषु वाजिनम् ॥ ८॥ अस्य पीत्वा शतक्रतो इति शतऽक्रतो घनः वृत्राणाम् अभवः प्र आव: पाजेषु वाजिनम् ॥
हे शतक्रतो शतकर्मन् (शतं बहुनाम, क्रतु: कर्म प्रज्ञा वा, औचित्यादत्र कर्मार्थो ग्राह्यः) अस्य सोमं (द्वितीयार्थे षष्ठी, सोमसम्बन्धिनं अंशं इति शेषषष्ठी वा युक्ता) पीत्वा, वृत्राणाम् आवरकाणां (वृत्रनामकासुर-तद्विभूतिभूतानां शत्रूणाम् ) घनः अभवः हन्ता भवसि [लङो लडर्थः छन्दसि, इह युक्तश्च] । वाजेषु समृद्धिषु वाजिनम् समृद्धिमन्तम् प्रावः प्रकर्षेण रक्षसि ।
अत्र वृत्राद्यसुराणां तत्त्वं समासत: सूक्तान्ते निवेदयामः । वाजपदार्थः प्राग विचारित:, सर्वत्र समृद्धिः पूर्णता वेति ’वाजिनीवसू’, ’वाजेभिर्वाजिनीवती’ इत्यादौ व्याख्याने प्रदर्शितम् । प्र-आव:-अत्र रक्षणार्थोऽव-धातुः, वृत्रं हत्वा वाजिनं इन्द्रो रक्षतीत्यौचित्यात् । ’प्राव:’ ’अभवः’ इति लङा भूतार्थो न विवक्षितः । यदा सोमं पिबति शतक्रतुः, तदा वृत्रं हन्तुं प्रभुः, वाजिनं रक्षितुं चेति विवक्षा । तस्मात् सार्वकालिकं तत्त्वमुक्तम् । तत्र लडर्थो युक्तः ।
नवमीमृचमाह—
तं त्वा वाजेषु वाजिन वाजयामः शतक्रतो। धनानामिन्द्र सातये ॥९॥ तम् त्वा वाजेषु वाजिनम् वाजयामः शतक्रतो इति शतऽक्रतो धनानाम् इन्द्र सातये ॥
वाजेषु समृद्धिषु वाजिनम् समृद्धम् (सन्तं) तं त्वा तथाविधं त्वां, हे इन्द्र शतक्रतो बहुकर्मन् वाजयामः पुनः समर्धयामः । किमर्थम् ? धनानां सातये लब्धानां दिव्यधनानां अन्तस्सम्पदां उपभोगाय। सातिः न केवलं प्राप्तिः, प्राप्तस्य रक्षणमपि, तस्माद्भोगायेत्युक्तम् ॥
वाजशब्दार्थ बहुधा ब्रूते सायण इत्यवोचाम । एकत्रैव स्थले विविधमर्थमेकस्य पदस्योक्तवा भ्रमयति चिन्तकान् इति तु नोक्तम् । अतीतायाभूचि ’वाजेषु वाजिनम्’ इत्यत्र ’सङ्ग्रामेषु सङ्ग्रामवन्तम्’ इत्याह । अस्यामृचि ’वाजेषु वाजिनं वाजयामः’ इत्यस्य अर्थ: ’युद्धेषु बलवन्तम् (त्वां) अन्नवन्तं कुर्मः’ इत्याह । ’वाजिनं सङ्ग्रामवन्तम्’ ’वाजिनं बलवन्तम्’ इत्येकत्रैव पदमेकं द्विधा व्याख्यातम् । अपरं च वाजं अन्नम् , वाजं बलम् , वाजं युद्धम् , इत्येकस्यैव पदस्य एकत्रैवचिं त्रयोऽर्थाः दत्ताः। मृग्य एव व्यवस्थागन्धः ॥
दशमीमृचमाह—
यो रायो३ऽवनिर्महान्त्सुपारः सुन्वतः सखा । तस्मा इन्द्राय गायत ॥१०॥ यः रायः अवनिः महान् सुऽपारः सुन्वतः सखा तस्मै इन्द्राय गायत ॥
यः [इन्द्रः] रायः धनस्य (दिव्यस्यान्तरस्य) अवनिः आश्रय आधार इत्यर्थः (पृथ्वीनाम, सर्वेषां भूतजातानां आश्रयो हि पृथिवी)। महान् बृहन् [अत एवाश्रयत्वं उपपद्यते] बलेनापि महान् , अत एव सुपार: सुष्टु पारयति [सुरक्षितं प्रापयति देवभक्तं पुरुषं प्राप्तव्यं स्थानम् ] । स्थानम् ] । सुन्वतः सखा सोमयाजिन: सखा (च) भवति, तस्मै इन्द्राय तस्येन्द्रस्यार्थाय (तादर्थ्य चतुर्थी) गायत स्तुतिं कुरुत (मन्त्रैरिति शेष:)। अस्यामृचि स्पष्टमुक्तं ’सुन्वतः सखा’ इन्द्र इति । ’मन्दयत्सख’ इन्द्र एवेत्युपपद्यतेऽस्मदुक्तिः ।।
व्याख्यातं ’सुरूपकृत्नुम्’ इति सूक्तम् । अस्य कर्मसु विनियोगो याज्ञिकैरानातः। तेन विचारितेनास्माकमल्पं प्रयोजनम् । तस्मात् सूक्ततात्पर्य-मन्तरर्थानुसार्येव सुतरामुपपद्यत इति संवेपेण तन्निरीक्ष्यते। अन्तर्बहिर्वा सर्वथा सोमयागे विनियोगोऽस्येति तु बोध्यम् । इहान्तांगे चलति, कमपि दशाविशेष प्राप्तस्य ऋषेमधुच्छन्दस ऐन्द्री स्तुतिः भवति । का सा दशा यत्र किमपीन्द्राल्लभ्यं ऋषेरवश्यं भवति ? किं वा तत् प्राप्तव्यम् , यदर्थमभ्यर्थना क्रियते सोमयाजिना महर्षिणा ? पश्यामस्तावत् ॥
सुतः संस्कृतः सोमो देवानामन्नं भवति । देवास्तं यथाभागं भुजानास्तन्मदेन बलिनो मानुषे स्वयं वर्धन्ते, तेन तमपि वर्धयन्ति, सर्वोत्कृष्टानुभूतीनां तमधिकारिणं च विदधते । ये चास्वार्थपरा भूत्वा स्वीयमानन्दं सर्वानुभूतीनां सारं सोमपदलक्षितं रसं ’देवेभ्य इदं न मम’ इति न प्रयच्छन्ति प्रत्युत विषयभोगरताः स्वार्थपरा नीचैर्जीविनश्च भवन्ति, न खलु ते देवानामाराधकाः किं तु पणिनामकानामसुराणा-मुपासकाः भवन्ति । पणयो हि स्वामिन इन्द्रियार्थचैतन्यस्य, यस्य सर्वशः परिच्छिन्नवृत्तेर्व्यापारेषु वणिज इव ते व्यवहरन्ति । न हि ते सुन्वते सोमं, नार्पयन्ति संस्कृतं सोमाभिषवं, नापि मन्त्रानुच्चारयन्ति । एतैरेव पणिभिरपहृत्य समुज्वलचैतन्यरश्मयः (रोचमानाः सूर्यस्य गाव:) गुहायां गूहिता भवन्ति । सा च गुहा, गूढमस्मासु वर्तमानं जागरितप्रज्ञायाः प्रागवस्थितं अप्रबुद्धचैतन्यं वासनाना-मधिकरणं बोध्यम् । न केवलमेवं लक्षितायां गुहायां गाः प्रच्छादयन्ति पणयः, अद्रिशब्दलक्षिते घनीभूते अन्धतमसेऽन्नमये जडे वस्तुन्यपि । अपि च ते स्वीयमध्वानमनुगम्य चोरिता गाश्च गवेषयन्ती उज्ज्वलसहजावबोधरूपिणी सरमाख्यां देवशुनीमपि वशयन्ति, भंशयितुं प्रयतन्ते ॥
त इमे पणयोऽधुना सोमसवनिवर्तनादतिक्रान्ताः । ऋषेर्यज्ञाभ्युदये प्रवर्तमाने ते वृत्राश्च (वृत्रस्तद्विभूतयश्च) समतीताः, पैरस्माकं पूर्णाः शक्तय: क्रियावैभवानि च आवृत्य प्रतिबध्यन्ते। तथा वलश्च पृष्ठतः कृत: येन ज्योतिर्वलयितं अस्मत्तो-ऽवरुध्यते । एवं प्रमुखेष्वसुरेषु यज्ञवैरिषु अतिक्रान्तेष्वपि, मार्गे पुनरन्येऽवतिष्ठन्ते ये परिच्छेदनियामकाः बन्धका (निदः) निन्दका वा भवन्ति । यद्यप्येते न पणिवृत्रवलादय इव ज्ञानक्रियाशक्तिप्रसारप्रतिकूला भवन्ति, तथाऽपि अभिवृद्धावृषे-रुत्तरोत्तरपदक्रमणे तं निरुन्धन्ति । तस्य ज्ञानशक्तिक्रियालोपन्यूनातिरिक्ततादीन् दोषान् प्रकाश्य ’इतो न गन्तव्यम् , गन्तुमधिकारसम्पादनात् प्राङ्नानुजानीमो-ऽनन्तरगमनम्’ इति प्रत्यवतिष्ठन्ते ।
तदस्मिन् सूक्ते सेयं दशा प्रस्तुता, यस्यामृषिर्दिव्यप्रकाशाभिवर्धनायेन्द्रमाह्वयति, येन निरोधक तद्धेतुभूतन्यूनतादिदोषाणां निवारणं भवेत् । इन्द्रो हि प्रभुस्त्रैलोक्याधि-कारिकाणां देवानाम् , विश्वमनस्तत्त्वाभिमानी, दिव्यो मनोमयः सम्राट् । तत्प्रसादात् तद्वैभवस्य उज्जवलप्रज्ञात्मकस्य मनसो विलासनमस्मासु सम्पादयि-तव्यम् । येनेन्द्रियार्थेषणादिभिर्विकृति प्रापितस्य अनृतप्रज्ञाविमोहितस्य मनस: सङ्कोचाद्विस्तृतिः बन्धनात् विमोचनम् प्रकाशलेशात् प्रकाशभूमा च निष्पोरन् ।
ऐन्द्री शुभ्रोजवलप्रज्ञा हि सुरूपाः साध्वी(वृत्ती: साधुरूपाणि कर्माणि वा साधयितुं प्रभवेत् , येनानुदिनवर्धनं स्यादिति ’सुरूपकृत्नुमूतये’ महर्षिराह्वयति प्रथमस्यां क्रचि । दिव्यप्रकाशा प्रज्ञा अभिषुतेन सोमेन भुक्तन पोषिता हर्षभरिता स्वीयान् रश्मीनभिवर्षतीत्युक्तं (गोदा इद्रेवतो मदः) द्वितीयस्याम् । तथा चित्तेजोविशेषलाभे दैव्याः प्रज्ञाया आत्यन्तिकीर्वृत्तीर्वेदितुं यद्यपि प्रभवामः, तथाऽपि प्रभातिशयोदयाद् दुनिरीक्ष्योऽतिगोचरो वा मा भूद् भगवानिन्द्र इति तृतीयस्याम् । अथान्तरात्मानं अन्यं वा सखायमुपासकं प्राह-’इन्द्र एव प्रष्टव्यः, स वेगेन बलवानपि प्रतिकूलाननुकूलांश्च पश्यति प्राज्ञचक्षुः, ददाति च श्रेष्ठं पदं, दत्तवांश्च नः सखिभ्यः’ इति चतुर्थ्यांम् । अस्माकं अनन्तरप्रतिपत्तिं निरोद्धार एव अनुजानन्तु, भणन्तु च-’यूयमधिकारिणोऽधुना, अन्यतोऽपि गत्वा इन्द्रकर्माणः सन्त: परिश्रमं कुरुत’ इति पञ्चम्याम् । अस्मदनुकूलाः कार्यसहकारिणो देवकार्यनिरताश्च ’ऋषे, साधु साधितं कर्म त्वया, अस्य फलं ऐन्द्रं महत् सुखम् , तत्रैव स्यामेति ब्रुवन्तु’ इति षष्ठयाम् । शिष्टाश्च ऋचो यावत्सूक्तसमाप्ति इन्द्रमहिमानुवर्णनपरा इन्द्रप्रार्थनात्मिकाश्च प्रागविवृतरीत्या मन्त्रार्थपरिज्ञानाद् विस्पष्ट बोध्याः ।
इति प्रथमस्य प्रथमे अष्टमो वर्ग: द्वितीयानुवाके प्रथमं सूक्तं समाप्तम्
द्वितीयानुवाके आ त्विति दशर्च द्वितीयं सूक्तम् । ऋषिच्छन्दोदेवताः पूर्ववत् ॥
आ त्वेता नि षीदुतेन्द्रमभि प्र गायत । सखायः स्तोमवाहसः॥१॥ आ तु आ इत नि सीदत इन्द्रम् अभि प्र गायत सखायः स्तोमऽवाहसः॥
आ आ इत आगच्छत (उपसभ्यिासात् तद्युक्तस्याख्यातस्याभ्यास:, अवश्यमागन्तव्यमित्यर्थक:) तु (पादपूरणः, क्षिप्रार्थको निपातो वा) निषीदत उपविशत इन्द्रम् अभिप्रगायत इन्द्रमभिमुखीभूय प्रकर्षेण गायत। हे सखायः सुहृदः (समानकर्मणि प्रवृत्ताः) कीदृशास्ते? स्तोमवाहसः स्तोमान् प्रापयितारः [इन्द्रं प्रति] ॥
अत्र ऋत्विज आमन्त्रिता इन्द्रस्तवनायेति कर्मपरं व्याख्यानमुपपद्यते द्विधाऽपि तात्पर्य प्रायशः सम्भवति मन्त्राणामित्युक्तमेवास्माभिः । परं तु अन्तरर्थस्य प्राधान्यं सर्वत्र, बाह्यार्थस्य विसंवादो नैकत्रेति च स्मरणीयम् । अत्र ’स्तोमवाहसः’ इति सखीनां आमन्त्रितानां विशेषणं साकूतं बोध्यम् । अन्तर्यागे, ’सखाय इमे युजः जामयः’ अतिमानुषभूचरा: देवकार्यधुरंधराः अस्माकं स्तोमान् इन्द्रं प्रति प्रापयितुं प्रभवन्ति । न तु केवलं स्तोतार इमे, अपि तु स्तोत्रवाचोऽस्मन्निर्गता हार्दवाणीर्वा नयन्ति स्तुतिविषयीभूतमिन्द्रम् । ’अरिः कृष्टय:’ प्रागुक्ता अप्येवंभूताः सुहृदो ज्ञेयाः ॥
पुरूतम पुरूणामीशान वार्याणाम् । इन्द्रं सोमे सचा सुते ॥२॥ पुरुऽतमम् पुरुणाम् ईशानम् वार्याणाम् इन्द्रम् सोमे सचा सुते ॥
कचोऽस्याः पूर्वयों एकवाक्यत्वात् ’प्रगायत’ इति अन्वय: ॥
सचा सह [सखिभिः यजमानेन सह ऋत्विग्भिर्वा सम्भूय] सोमे सुते अभिषुते इन्द्रम् अभिप्रगायतेति सम्बन्धः । कीदृशमिन्द्रम् ? पुरुतमम् अतिशयेन बहुल: [बहुधा भवन् प्रभूत इत्यर्थः] तम् । पुनः कीदृशम् ? पुरूणाम् वार्याणाम् ईशानम् बहूनां वरणीयानां (वराणाम्) स्वामिनम् ॥
पुरुतमम्-अत्र व्याख्यातारो विविधं व्याचक्षते । ’पुरून् बहून् [ शत्रून् ] तमयति गुपयति’ इति सायणः । शत्रुनाशन इति विशेषणमिहेन्द्रस्यायुक्तम् , वरदानशौण्ड इति स्तुतिप्रसक्तेः । ’अतिशयेन प्रभूतम्’ इति पदमिदं व्याख्यात-मन्यत्र सायणेन, इहापि तद्युक्तम् । ’यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन्’ (६-६-२) ॥
तृतीयाचमाह—
स घा नो योग आ भुव॒त्स राये स पुरन्ध्याम् । गमद्वाजेभिरा स नः॥३॥ स: घ नः योगे आ भुवत् सः राये सः पुरम् ऽध्याम् गमत् वाजेभिः आ सः नः ॥
घ पादपूरणः । अवधारणार्थो निपातोऽयमित्येके । तर्हि चतुर्धा प्रयुक्तेन तच्छब्देनास्य सम्बन्धः। सः इन्द्रः प्रागुक्तगुणविशिष्टः नः अस्माकं योगे अप्राप्तस्य लाभे विषये आ भुवत् अभिमुखं यथा तथा भवतु [सन्निहितो भूत्वा अलब्धं पुरुषार्थ लम्भयत्वित्यर्थ:] स: राये धनाय दिव्यसम्पदर्थ स ’आ भुवत्’ इति सम्बन्धः । सः पुरन्ध्याम् बह्वयां प्रज्ञायां [बहुविधायां बुद्धौ, आ भुवत्] सः वाजेभिः समृद्धिभिः (सर्वविधाभिः) नः अस्मान् आ गमत् आगच्छतु । वाजेभिरित्यत्र सहयोगलक्षणा तृतीया ॥
बहुविधपूर्णताविशिष्टः इन्द्रः सान्निध्येन अलब्धलाभ-लब्धसम्पद्रक्षण-बहुलप्रज्ञाः साधयत्विति प्रार्थना ॥
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । तस्मा इन्द्राय गायत ॥४॥ यस्य सम्ऽस्थे न वृण्वते हरी इति समत्ऽमुं शत्रवः तस्मै इन्द्राय गायत॥
यस्य इन्द्रस्य संस्थे संस्थाने हरी अश्वौ द्वौ (द्वितीया) समत्सु सङ्ग्रामेषु शत्रवः शातयितारो वैरिणः न वृण्वते न वारयन्ति तस्मै इन्द्राय तस्येन्द्रस्य सन्तर्पणार्थम् गायत स्तुती: कुरुत ।
संस्थे-धात्वर्थानुसारेण ’संस्थाने’ इत्युक्तम् । इन्द्रस्य आवासस्थाने, समागमस्थाने वा शत्रवः हरिनामको इन्द्राश्वौ वारयितुं न प्रभवन्ति, तयोरप्रतिहत-वीर्यत्वात् ॥ ’हरी इन्द्रस्य’ इति निघण्टुपठितं इन्द्राश्वयो म प्रसिद्धम् । हरिः हरितवर्ण इत्याचक्षते प्रायशो व्याख्यातारः। हर्य गति-कान्त्योरिति धातो: हरिपदनिष्पत्तौ कान्त्यर्थसिद्धिः सुगमा भवति । हर्यश्वः, हरिकेशः, हरिवर्पसम् , हरिघायसम् इत्यादिप्रयोगे कमनीयत्वं भास्वरत्वं वा द्योतितं भवति । इन्द्रस्य प्रकाशमयस्य वाही ’हरी’ हरितवर्णावपि कान्तिमन्तौ। इन्द्रसंस्थाने तयोः प्रभां देवशत्रवः न ’वृण्वते’, नाच्छादयन्ति न आवृण्वन्ति, तयोः प्रसारं न प्रतिरुन्वन्ति । ’संस्थे रथे संयुक्तौ हरी’ इति सायणव्याख्या । अन्यत्र विविधमेवं सायणीयं संस्थपदव्याख्यानं भवति-’संस्थाने आसादने’ (५-१-८) ’स्थाने युद्ध’ (८-२१-११) ’संस्थानभूते यज्ञे’ (८-२७-१५) ’सङ्ग्रामे’ (८-३२-११)। अत्रेदं द्रष्टव्यम् । सर्वत्र संस्थानं स्थानं वा संस्थपदार्थमुक्त्वा तत: स्वसम्भावितप्रकरण-वशात् सङ्ग्रामो यज्ञो वा विवरणार्थ : कथितः । गूढार्थे अन्तर्दर्शनशक्तिविशेष-सङ्केतभूतौ हरी इन्द्रस्य ।
सुतपाने सुता इमे शुचयो यन्ति वीतये। सोमासो दध्याशिरः ॥ ५॥ सुतऽपाने सुताः इमे शुचयः यन्ति वीतये सोमासः दधिऽआशिरः॥
इमे सुताः सम्पादिताः सोमासः सोमाः सुतपान्ने सुतस्य अभिषुतस्य सोमस्य पान्ने पात्रे इन्द्राय यन्ति गच्छन्ति । किमर्थम् ? वीतये तदीयव्याप्तये (यजमाने इन्द्रस्य जन्मने, व्याप्तये, आगतये वा इत्यर्थः वेतेर्धातोर्गति-व्यात्याद्यर्थ-त्वात् । अन्तर्यागे देवानां वीति म यजमानमुद्दिश्य आगतिः, तत्र व्याप्तिः, जन्म वा भवति) कोदृशाः सोमाः ? शुचयः दीप्ताः [संस्कृताः शोधिता अत एव दीप्ताः, शुच दीप्तौ इति धात्वर्थानुगमो बोध्यः]। पुनः कीदृशाः ? दध्याशिरः दधिमिश्राः [आपूर्वकात् हिंसात् शृणातेर्निष्पन्नं, आशृणाति आशी: इति रेफान्तं पदम् । दोषविघातकं इत्यर्थः । दधि आशीः येषां ते दध्याशिरः इति सायणीय-व्याख्यानुसारत: शब्दार्थः] ।
व्याशिरः सोमाः प्रसिद्धाः श्रौतकर्मसु, गवाशिरः दध्याशिरः यवाशिर इति क्रमशः पयो-दधि-यवमिश्राः सोमा उच्यन्ते । अधिश्रयणसाधनभूतानि त्रीणि द्रव्याणि । श्रयणं च मिश्रणम् । अत्र सङ्केतार्थो लक्षणीयः । पयसा तत्प्रकृतिभूता गावो रश्मय: प्रज्ञाप्रकाशा लक्ष्यन्ते। तत्परिणामेन दध्ना धारणात्मिका सूक्ष्मा बुद्धिः, यवैः घनीभूत-बाह्यप्रज्ञा स्थूला बुद्धिश्च । एवं गवादिद्रव्यत्रय-सङ्केतितेषु प्रज्ञाप्रकाश-सूक्ष्मबुद्धिस्थूलप्रज्ञासत्त्वेषु सोमैः सह मिश्रणाय सिद्धेषु सत्स्वेव गवादिभिरधिश्रिताः सम्मदरसवाहिनः सोमाः पूताः तत्तद्देवताभ्योऽप्यन्ते, ताभिश्चादीयन्ते, भुज्यन्ते। तथा रसग्रहणेन देवानां मानुषे यजमाने वृद्धिरित्यादि स्पष्टं पूर्वोक्तं सर्व स्मार्यम् ।।
इति प्रथमस्य प्रथमे नवमो वर्ग:
अथ षष्ठीमृचमाह—
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः। इन्द्र ज्यैष्ठ्याय सुक्रतो ॥६॥ त्वम् सुतस्य पीतये सद्यः वृद्धः अजायथाः इन्द्र इन्द्र ज्यैष्ठ्याय सुक्रतो इति सुऽक्रतो ॥
हे इन्द्र त्वम् सुतस्य अभिषुतस्य सोमस्य पीतये पानाय सद्यः तस्मिन्नेव समये वृद्धः शरीरेण वीर्येण च वृद्धि प्राप्तः अजायथाः जायसे, भवसि । किमर्थम् ? ज्यैष्ठ्याय ज्येष्ठानां प्रवृद्धानां श्रेष्ठानां वा कर्मणे, हे सुक्रतो शोभनकर्मन् ! ॥
इन्द्रः सोमं पीत्वा तत्प्रभावेण सद्यो वृद्धो भवति । अत एव प्रवृद्धवीर्यस्य तस्य श्रेष्ठकर्म युक्तम् । उपपन्नं च सुक्रतो इति सम्बोधनम् । ’पीतये’ इत्यत्र तृतीयार्थे चतुर्थी इति स्कन्दस्वामिनो व्याख्या समीचीनं तात्पर्यमुपपादयति । चेदेवम् , ’सद्यः’ इत्यस्य स्वरसता विहता शोषिता स्यात् । कर्मपरव्याख्याने तु ’तस्मिन्नेवाहनि’ इत्याहुः। ’गुणवचनब्राह्मणादिभ्यः कर्मणि च’ इति सूत्रानु-सारेण ज्यैष्ठयं कर्म अत्र उपपन्नं ग्राह्यम् , ’वृद्धो अजायथाः’ इत्युक्ते: पुनर्येष्ठ-भावो न विवक्षितः।
आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः । शं ते सन्तु प्रचेतसे ॥ ७ ॥ आ त्वा विशन्तु आशवः सोमासः इन्द्र गिर्वणः शम् ते सन्तु प्रऽचेतसे ॥
हे इन्द्र गिर्वणः गीर्भिः स्तुतिभिः वननीय सम्भजनीय, त्वा त्वां आशवः व्यापनशीला: सोमासः सोमाः आविशन्तु प्रविशन्तु। ते तव प्रचेतसे प्रकृष्टज्ञानाय (ते सोमाः) शम् शान्तिसुखरूपाः सन्तु भवन्तु ।
पूर्वस्यामृचि पीताः सोमाः इन्द्रस्य श्रेष्ठकर्मणे प्रभवन्ति, अत्र तु इन्द्रं समन्तात् प्रविष्टास्ते तस्य श्रेष्ठज्ञानायेत्युक्तम् ।
त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो। त्वां वर्धन्तु नो गिरः ॥ ८॥ त्वाम् स्तोमाः अवीवृधन् त्वाम् उक्था शतक्रतो इति शतऽक्रतो त्वाम् वर्धन्तु नः गिरः॥
शतक्रतो शतकर्मन् इन्द्र [ शतं बह्वर्थकम् ] त्वाम् स्तोमाः सामरूपाणि स्तोत्राणि इत्यर्थः। अवीवृधन् वर्षितवन्तः । तया त्वाम् उक्था उक्थानि शस्त्राणि ऋग्भिः शंसनानीत्यर्थः । अवीवृधन् । त्वाम् नः अस्माकं गिरः स्तोत्रवाचः वर्धन्तु वर्धयन्तु [णि-लोपः छान्दसः, तथा परस्मैपदं च] ।
स्तोत्रेण मन्त्रात्मकेन देवानां यजमाने (उपासके) अभिवृद्धिरिति शतश उद्घोषयन्ति वेदाः। कर्मपरव्याख्याने मेघमण्डलादुपर्येव मध्यमस्थानस्येन्द्रस्य वृद्धिर्वक्तव्या । फलं तु अपां वृष्टिः ! ॥
अक्षितोतिः सनेमिं वाजमिन्द्रः सहस्रिणम् । यस्मिन्विश्वानि पौंस्या ॥९॥ अक्षितऽऊतिः सनेत् इमम् वाजम् इन्द्रः सहस्रिणम् यस्मिन् विश्वानि पौंस्या ॥
अक्षितोतिः अक्षिता अक्षीणा ऊतिः वृद्धिः यस्य स इन्द्रः इमम् अस्माभिः अर्यमाणं सहस्रिणम् सहस्रयुक्तं वाजम् (सोमात्मकं) समृद्धिविशेष सनेत् सम्भजेत् । यस्मिन् वाजे विश्वानि समस्तानि पौंस्या पुंस्त्वानि पुंसः कर्माणि कर्मोपलक्षितानि बलानि वर्तन्त इत्यर्थः ।।
अक्षितोति:-अहिंसितरक्षण इति सा० व्याख्या । क्षि क्षये इत्यकर्मको धातुः, तस्मान्नपुंसके भावे क्तः। एवं क्षितं इति रूपम् । न विद्यते क्षितं क्षयः अत्रेति अक्षिता ऊतिः वृद्धिः यस्येति विग्रहः । इन्द्रस्य वृद्धिः प्रस्तुता स्मार्या । तस्मादूतिः वृद्धिरेवात्र न तु रक्षा । तस्येन्द्रस्य वृद्धर्न क्षयो भवति । सहस्रिणम्-वाजविशेषणम् । बहुविधबलगुणसम्पन्नः समृद्धिवाचको वाज: इह सोमात्मको भवति । सोऽप्य॑माण इन्द्रस्वीकारक्षमो भवति । तेन शतक्रतोरिन्द्रस्य विश्वेषां कर्मणां निर्वाहः स्यात् । ’यस्मिन्’ इन्द्रे ’विश्वानि पौंस्या’ इति एके प्राहुः । उभयथाऽपि सम्भवं पश्यामः । यस्मिन् ‘वाजे’ समृद्धौ सोमरसात्मिकायां विश्वानि ’पौंस्या’ बलानि प्रादुर्भवन्ति । यस्मिन् इन्द्रे विश्वानि कर्माणि आयत्तानि इति च समञ्जसम् ।
मा नो मर्ता अभि द्रुहन् तनूनामिन्द्र गिर्वणः। ईशानो यवया वधम् ॥१०॥ मा नः मर्ताः अभि द्रुहुन् तनूनाम् इन्द्र गिर्वणः ईशानः यवय वधम् ॥
गिर्वणः स्तुतिभिर्वननीय देव हे इन्द्र मर्ताः मनुष्याः नः अस्माकं तनूनाम् शरीराणां मा अभि द्रुहन् द्रोहं मा कार्युः। ईशानः ईश्वरः त्वं वधम् नाशं यवय पृथक्कुरु ॥
मरणधर्मभ्यो विरोधिभ्यः विपत्तिाभूदस्मदीयानां देहानाम् । शरीरगतं ’वधं’ अपि पृथक्कतुं समर्थ ईश्वरस्त्वम् । अयमृगर्थः। अत्रेदं रहस्यमवधेयम् । तच्च तृतीयपादे निक्षिप्तम् । यौतिः पृथग्भावे तस्माणिचि ‘यवय’ (पृथक्कुरु) इति रूपम् । शरीरस्य नश्वरता इह वधापरपर्याय-हिंसया लक्षिता ।
शरीराद्वधं पृथक्कर्तुमिन्द्र एव प्रभुरित्युक्तम् । सदसतो: अमरण-मरणधर्मयोः मिश्रितयोराश्रयभूतादेहात् मृत्युलक्षणभूतं सर्व वधं, वधस्य आपादयितारं वा, मानुषममानुषं वा पृथक्कृत्य अपसारयितुमीश्वर इन्द्रोऽत्र प्रार्थितः ।
इति प्रथमस्य प्रथमे दशमो वर्ग: इति प्रथमाध्याये द्वितीयानुवाके द्वितीयं सूक्तम्
द्वितीयानुवाकस्य तृतीयं ’युअन्ति’ इति दशर्च सूक्तम् । ऋषिच्छन्दोदैवतानि पूर्ववदवगन्तव्यानि। अस्मिन् सूक्ते ’आ दह’ इत्येतां चतुर्थीमारभ्य षडचो मारुत्यः । तासु मध्ये ’वीळुचित्’ ’इन्द्रेण’ इत्येते द्वे ऋचौ मारुत्यौ सत्यौ ऐन्द्यावपि भवतः । इदं सर्वमनुक्रमणिकोक्तमुदाहृतं सायणभाष्ये । परमार्थपरेऽस्मिन् व्याख्याने कर्मसु विनियोगः सविस्तरं नोदाहियते । आवश्यकस्थलेषु ईषन्मात्रं सूच्यते ॥
तत्र प्रथमामृचमाह—
युञ्जति नमरुषं चरन्तं परि तस्थुषः। रोचन्ते रोचना दिवि ॥१॥ युञ्जन्ति ब्रनम् अरुषं चरन्तम् परि तस्थुषः रोचन्ते रोचना दिवि ॥
बध्नम् महान्तं अरुषम् आरोचमानम् चरन्तम् गच्छन्तं (न तु तिष्ठन्तम्) परि तस्थुषः परित: तस्थिवांसः स्थिताः युञ्जन्ति सम्बन्धयन्ति । दिवि द्युलोके रोचना रोचनानि ज्योतींषि रोचन्ते दीप्तानि भवन्तीत्यर्थः ॥
प्रथमं केवलपदार्थो दत्तः । तात्पांनुनारेण पदार्थो दास्यते । ततः प्राक्, ईषन्मात्र पूर्वेषां व्याख्या पालोचनीया, येन वक्ष्यमाणस्य तात्पर्यस्योपपत्ति: सुगमा स्यात् । बन्न:-इदं पदं महन्नामसु पठितम् । ब्रनं महान्तमिति पदार्थमनुतवा आदित्यं इति सावणव्याख्या। सर्वत्र सामान्यतः पदार्घ उक्तवैव सन्दर्भमनुसृत्य तात्पर्यमाविष्करोति, अान्तरं वा ब्रवीति सायणः । यथा वा-’वनस्य महतोऽने:’ (३-७-५) ’नं महान्तं वभुं अवम् (७-४४-३) ’अघि बन्नस्य विस्तृतस्य (अश्मनः) उपरि (८-४-१३) ’उद्यद् अन्नस्य विष्टपं महत् (आदित्यत्य) न्यानम् (८-५८-७) ’बन्नो यामः, महान् रय:’ (१०-२०-९) । अन्तिमोदाहरणे याम इति विशेष्यं मन्त्र एव पठितम् । अत्र युञ्जन्तीति अत्यामृ चि अन्यत्र क्वचिच्च आदित्यपपांयतया बन्नपदं गृहीतं सायणीयव्याख्यायाम् । । ’ब्रघ्नमादित्यं अरुषमग्निं चरन्तं वायुम् इति ब्राह्मणवाक्यवलेन तथा कृतम् । अनुक्रमणिकायामयं ऐन्द्रो मन्त्र इत्युक्तम् । तहिं कथमनेन ब्राह्मणवाक्यं सङ्गच्छेत? इन्द्र एव आदित्याग्निवायुरूपेणावस्थित इत्युपपादितम् ।
ब्रनम्-विकल्पबहुला व्युत्पत्तिः ’वन्ये ब्रधिबुधी च’ इत्युणादिसूत्रेण नक्प्रत्यय: बन्चेबघिरादेशश्चेत्येके ।
अरुषम्-हिंसा द् रुषबातोनिष्पन्नं अहिंसकम् अग्निमित्याचष्टे सावणः । बहुषु स्थलेषु आरोचमानमित्येव भवत्यन्य व्याख्या। आपूर्वकाद् दौत्यर्थकाद् रुशतेनिष्पादयति स्कन्दस्वामी, आङो ह्रस्वत्वं शकारस्य षञ्च भवत: । अरुषपदस्य आरोचमानत्वं प्रायः सर्वत्र सर्वेऽपि व्याख्यातारोऽभ्युपगच्छन्ति ।।
तत्युषः-विभक्तिव्यत्ययेन तस्थिवांस इति प्रथमावहुवचनान्तं पदं सायण-व्याख्यानुसारतः । युक्तमेतत् ॥
अघ अर्थविचारः समासतः क्रियते । युञ्जन्ति युगयुगन्धरयोजनेन रचं युक्तं सुसम्वद्धं कुर्वन्ति । न च रथो विशालो रोचमानञ्च भवति । सामथ्यात् ’चरन्तं’ रयम् । परितोऽवस्थिताः नित्यसूरयस्तत्र स्थिराः चरन्तं रधं सन्नद्धं कुर्वन्ति । तथा रघसन्नाहे क्रियमाणे सति धुलोके ज्योतिर्मयानि ऊर्ध्वस्थानानि भुवनानि वा रोचमानानि लक्ष्यन्ते । अन्तरांनुसारेण तात्पर्य पुरस्ताद् वक्ष्यते ॥
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे। शोणा धृष्ण नुवाहसा ॥२॥ युञ्जन्ति अस्य काम्या हरी इति विऽपक्षसा रथे शोणा धृष्णू धृष्ण इति नृऽवाहसा ॥
अस्य हरी अस्येन्द्रस्य अश्वौ (कर्म) रथे ब्रन्नादिगुणविशिष्टे पूर्वोक्ते रघे युञ्जन्ति योजयन्ति रघयुक्तौ विदधते । के ? पूर्वोक्ताः परित: स्थिताः (नित्यसूरयो द्युन्यानाः)। कीडझौ हरी ? काम्या कमनीयौ कामयितन्यौ वा । अन्यानि हर्यो विशेषणानि चत्वारि भवन्ति । विपक्षसा विपन्नौ वामवामेतरभेदेन विभिन्नौ रघपक्षौ ययोस्ती, रघस्य पार्श्वद्वये युक्तावित्यर्थः। शोणा रक्तवर्णी, धृष्णू घृष्टी, नृवाहसा नरं नेतृत्वबलान्यं देवं वहन्ती, [नृपदं देवं मानुषं वा पुरुष अभिवत्ते इदं बलोपलक्षणम् ] ।।
प्रथमत्वामृचि विशालस्य रोचिष्मत इन्द्ररथस्य सन्नाहः प्रोक्तः । अस्यां तु कमनीययोधृष्टयोबलवाहयोरिन्द्राश्चयो रघयोग उक्तः । उभयत्रापि कार्यनिर्वाह: पर्यवस्थितैः स्थिरैदिविषद्भिः सूरिभिर्मवति । एवं पूर्वाने साघिते, इन्द्र एवाविर्मवतीति तृतीयस्यां उच्यते । स किं कुर्वन् प्रादुर्भवति ? ।।
केतु कृण्वन्न केतवे पेशो मर्या अपेशसे। समुपद्भिरजायथाः ॥३॥ केतुम् कृण्वन् अकेतवे पेश: मर्याः अपेशसे सम् उपत्ऽभिः अजायथाः॥
हे मर्याः हे मर्य बलाझ्य, त्वं अकेतवे अविद्यमानप्रज्ञानाय तादयें चीं केतुम् प्रज्ञानं कृण्वन् कुर्वन् अपेशसे अविद्यमानरूपाय पेशः स्पं (कृण्वन् ) सम् सम्भूव उपद्भिः प्रज्ञानप्रभातरश्मिभिः अजायथाः जातोऽसि प्रज्ञामयानां दैवतांशु-भूतानां सङ्गतानां सहायानां उदयेन त्वं प्रादुरभरित्यर्थः ।।
मर्य:-बलार्यकाः शब्दाः प्रायदो हितार्थक्यातृभ्यो निष्पन्ना भवन्ति । दक्षपदं बलार्थे दंशते: दंसतेः दसयतेर्वेत्याहुः । शत्रूणां मारयितृत्वात् मर्य: बलवान् । ’स हि क्रतु: स मर्य:’ (१-७७-३) इत्यत्र सायणव्याख्याऽपि इममर्थ समर्थयति । अन्यत्र च शतशो मर्यपदं बलद्योतकं प्रयुक्तं लक्षणीयम् । अत्र ’मर्य’ इति इन्द्रसम्बोधनम् । रथे सन्नद्धे तत्र अश्वयोर्योगे च साधिते प्रज्ञामयदैवतांशुभिः सम्भूयोदिते, इन्द्रः प्रादुर्भूत: । स प्रसन्नो ऋषेदृष्टिगोचरोऽभवदित्यर्थः। तां च दृष्टिं स एव ऋषये ददाति । अत एव ’केतुं कृण्वन्’ इत्याह । केतु: अन्तर्बोधाज्जायमानं प्रज्ञाचक्षुः । एवं इन्द्रप्रसादलब्धं प्राज्ञं अन्तश्चक्षुर्नालं स्थैर्येण दिव्यदर्शनेऽवस्थातुम् । तादृशस्य दिव्यदर्शनकर्मणः किमप्यधिकरणं अपेक्षित भवति । तत्तु नेदं पार्थिव शरीरं भवितुमर्हति । यथा वाह्यचक्षुष आधारो बाह्यो देहः, तथा आन्तरस्य प्रज्ञाचक्षुषोऽपि तद्युक्तं शरीरं नियताय आश्रयणाय अवश्यं भवति। तच्च सामान्यतो मानुषे जने पार्थिवदेहे जडीभूतप्रज्ञे मिश्रित मग्नं निलीनं अत एव अनभिव्यक्तं भवति । तदेव रूपपदलक्षितं सूक्ष्मं दिव्य-दृष्टियोग्यं शरीरं अभिव्यक्तं कुर्वन् प्रकाशाऽभवदिन्द्र इत्यर्थः ।
अथेदमवधातव्यम् । रथो गतिविशेष: दिव्य: विस्तृतो रोचमानश्च भवति । तमधितिष्ठतीन्द्रः। तद्युक्ती हरी अपि दीप्तौ अश्वौ विशेषतो बलवाहिनौ । ऋक्संहितायां इन्द्राश्वगुणवर्णनपरैर्वचनैः हर्यो: स्वरूपं सामान्यतोऽवगन्तुं शक्यम् । इमौ अन्तर्दर्शनशक्तिविशेषौ दिव्यौ प्रज्ञाविभवौ इति बोध्यम् । ’स्तवा हरी सूर्यस्य केतू’ (२-११-६) ’केता’ ’द्युक्षा’ इत्यपि इन्द्राश्वौ वर्येते। इमौ प्रथमं ऋषेर्दि-वागात्मना मन्त्रेण युक्तौ भूत्वा तत: परं इन्द्राधिष्ठानभूते रथे युक्ती अत एव बहुषु मन्त्रवर्णेषु ब्रह्मयुजौ हरी इन्द्रस्य गीतौ। ’आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी’ (१-८४-३) ’ब्रह्मणा ते ब्रह्ययुजा युनज्मि हरी सखाया’ (३-३५-४) ’एहि हरी ब्रह्मयुजा शग्मा वक्षत: सखायम् । गीर्भि: श्रुतं गिर्वणसम् (८-२-२७) ॥’ एवमन्येऽपि भवन्ति मन्त्रवर्णाः, यैन केवलं इन्द्राश्वस्वरूपं गूढमगूढं च प्रतिपाद्यते, किंतु इन्द्राश्वप्रसादद्वारा दिव्यदृष्टयादि-सम्पत्तये महर्षीणां ब्रह्मपदवाच्यमन्त्रात्मा हार्दवागेव साधनमभूदिति अवगम्यते । भवतः ।
अथेन्द्रप्रादुर्भावात्परं तत्कार्यस्य मरुतां साहाय्यमपेक्षितं भवति । मरुतश्च चण्डवेगानां दीप्तानां धीवृत्तीनां दिव्यगतिविधायिनो देवविशेषाः । दिव्यमनस्साम्राज्य इन्द्रस्येति प्रागस्माभिः प्रतिपादितं स्मार्यम् । तत्र परिपक्वस्य ऋषेप्रवेशात् तद्वत्तीनां तत्र पुनर्जन्म भवति। इदं च मानुषे व्यष्टौ मरुतां द्वितीयं जन्म । प्रथमं तु सर्वेषां देवानामिव सृष्टौ समष्टौ स्वाधिकाराय भवति । इदं च मरुतां पुनर्जन्म इन्द्रजन्मन: परं भवति । अत एव इन्द्रज्येष्ठा मरुद्गणा इति प्रसिद्धिर्वेदे । इममेवार्थमाह ऋक् चतुर्थी । एवं पूर्वेषां मतमनुसृत्य मरुतां जन्मेत्युक्तम् । वस्तुतस्तु देवकामानां ऋषीणामेव दिव्यत्वप्राप्तये पुनर्जन्म तत् ।।
आदह स्वधामनु पुनर्गर्भत्वमेरिरे। दधाना नाम यज्ञियम् ॥ ४॥ आत् अह स्वधाम् अनु पुनः गर्भऽत्वम् आऽईरिरे दधानाः नाम यज्ञियम् ॥
आदह अनन्तरमेव (आत् इत्यानन्तर्ये अह इत्यवधारणे च निपातौ)। खधाम् अनु स्वधापदवाच्य-स्वीयधारणधर्मानुसारेण पुनः गर्भत्वम् पुनर्जनिष्य-माणशिशुभावम् एरिरे प्रापुः । के ? सामर्थ्यात् देवकामा ऋषयः। कीदृशाः ? यशियम् यज्ञार्ह नाम अभिधानं (देवताव्यक्तिबोधकं संज्ञात्मक) दधानाः धारयमाणाः ॥
स्वधाम्-स्वं दधाति धारयते, स्वभावधारणसमर्थी शक्तिः, ताम् । स्वभाव सर्वस्यापि विविधस्य सतः यो धारयते पोषयति वा स धर्म: स्वधापदवाच्यो भवति वेदे। एरिरे-आङ्पूर्वकस्य ईर गतौ इति धातो: लिटि रूपम् ।
इन्द्रप्रादुर्भावानन्तरमेव मरुतां जन्म । तच्च कथं पुनर्जन्मेति प्रागुक्तम् । इह तेषां स्वधारणसामर्थ्यरूप-धर्मानुसारि जन्मेत्युक्तम् ’स्वधामनु’ । तत्र तथाविधपुनर्जन्मलाभविषये स्वार्थतावर्ज देवार्थ क्रियमाणस्य अर्पणरूपस्य यज्ञाख्यस्य कर्मणः यद्युक्तं देवताप्रतिबोधकं रहस्यं पावनं’ नाम भवति, तस्य धारणं साधनं भवति ’दधाना नाम यज्ञियम्’ ।।
वीलु चिदारुजमुभिर्गुहा चिदिन्द्र वह्निभिः। अविन्द उस्रिया अनु ॥५॥ वील चित् आरुजत्नुभिः गुहा चित् इन्द्र वह्निऽभिः अविन्दः उस्रियाः अनु ॥
हे इन्द्र ! वीळुचित् दृढमपि (पर्वतादिस्थानम्) आरुजत्नुभिः भाद्भिः गुहाचित् गुहायामपि (गुप्तिस्थानेऽपि) वह्निभिः वोदृभिः (त्वां वोढुं समर्थ: लब्ध-दिव्यजन्मभिः सहायभूतैः) उस्रियाः गाः अनु अनुगम्य अविन्दः अलब्धाः ।।
वीलु–बीलयते: संस्तम्भनार्यान्निष्पन्नं बलनामसु पठितम् । आरुजनुभि:-हज भङ्गे इत्यन्मात् आपूर्वकाद् धातो: औणादिक-तनु-प्रत्यये परे तृतीया-बहुवचनान्तं पदम् । गुहा गुहा नमम्याडाददाः । उलियाः उस्राः कान्त्वाद् बटेनिप्पन्नाः (पन्ध न:), वननेरिति नायणीयम् । प्रज्ञानरश्मयो गाव उस्रियाः प्रोक्ताः ।।
ज्योतिईदां पूर्वोक्तमन्त्रार्यानुनारेण अतिमानुषभुवि पुनर्जन्मलाभे पणिभि-रपहतानां पर्वतगुहायां न्यापितानां गवां अधिगमाय इन्द्रनाहाव्ये प्रवृत्तिरुक्ता । तेषां पर्वतद दलक्षितन्य घनीभूतप्रज्ञन्य जडन्य भजने नामर्य, तत्र अन्धकारवन्धुरं गुहापदवाच्यं रहन्यन्यानं प्रविय, तत्रेन्द्र-नद्विभूतीर्वोढुं शक्तिञ्च प्रोक्ते। ईदृश: प्रभाव: कयं नमभवत् तेषामिति चेत् , इन्द्रााधिकारे गर्भसम्भवाद् देवकामास्ते कतंश्चमधिकृत्य इन्द्रप्रसादलभ्यं दिव्यावेदश्रवणं प्रतिपालयन्त उपतस्थिरे, अतोऽचमेषां विभव इति उत्तरत्र वक्ष्यते ।।
इति प्रथमस्य प्रथमे एकादयो वर्ग:
देवयन्तो यथा मतिमच्छा विदद्वसुं गिरः। महामनूषत श्रुतम् ॥ ६ ॥ देवऽयन्तः यथा मतिम् अच्छ विदत्ऽवसुम् गिरः महाम् अनूषत श्रुतम् ॥
देवयन्तः देवकामा ऋषय: महाम् महान्तं श्रुतम् दिव्यावेश अतिगोचरं इन्द्रं अनूषत न्तृतवन्तः [ दिव्यवाणीश्रवणलाभात् ] । तत्र दृष्टान्तमाह । गिरः गृणन्त: स्तोतारः विदद्वसुम् वेदयतुं वेदयद्धनं मतिम् मन्तारं इन्हें अच्छ अभिमुखं यथा न्तुवन्ति (अनूषत) वसुलाभात्तघेति ॥
देवयन्तः-देवानान्मन इच्छन्तः, क्यच् । मतिम्-मतिशब्दो बुद्धिपरोऽपि उपचारादिन्द्रे बोद्धरि वर्तते। एवं गिरः न्तृतय: न्तोतृषूपचर्यते ।।
विदद्वसृम्—विदन्ति वेदयन्ति अन्तभ वितण्यर्थः ज्ञापयन्ति लम्भवन्ति वा ’मतिम् इन्द्रमात्मानं वसूनि धनानि वन्य तम् । वसु धनं ऐश्वर्य भवति । तत्त्व ज्ञानमयत्वाद् इन्द्रं ज्ञापयितुं साम मस्तीति तात्पर्यम् । अनूषत-णू स्तवने इति धातो: लुङि प्रथमपुरुषबहुवचनम् . गुणाभावः छान्दनः, तथा आत्मनेपदं च ।।
अयं मन्त्राों भवति-यथा स्तोतारः स्ववैभवप्रापकदिव्यधनयुक्तं इन्हें स्तुतिभि: उपतिष्ठन्ते, तथा प्रत्यग्रजन्मानो ज्योतिर्दशिन इन्द्रकामा इन्द्रात् श्रुति लभमानास्तं दिव्यावशवाणीश्रवणगोचरमुपासत इति। अघ प्राधान्येन प्राणपद-मचितिष्ठतां क्रियाशक्तिपराणामपि ऐन्द्रतेजोक्लदीपितानां येषां मरुतां साहाय्य-मत्वन्तमुपयुक्तमभूत् पर्वतभजनादौ, तेषामधुना समुदायेन गणरूपतया स्तृतिर्भवति ।
इन्द्रेण सं हि दृक्षसे सञ्जम्मानो अबिभ्युषा । मन्दू समानवर्चसा ॥ ७ ॥ इन्द्रेण सम् हि दृक्षसे सम्ऽजग्मानः अबिभ्युपा । मन्दू इति समानऽवर्चसा ॥
हे मरुद्गण ! त्वं इन्द्रेण सजग्मानः सङ्गच्छमान: संवादसम्पन्नो युक्त इति यावत् , सन्दक्षसे हि सम्यग् दृश्यसे । कीडशेन्द्रेण ? अविभ्युषा भयवर्जितेन । युवां इन्द्रो मरुद्गणश्च मन्दू मुदितौ समानवर्चसा तृल्यदीप्ती [भवधः] ॥
दृक्षसे-लिङर्थे प्रार्थनायां लेट् इति सायणीयम् । ’दृश्यसे’ इति कर्मणि लडेव स्कन्दस्वामीये। युक्तमेतत् , प्रत्यक्षकृतो ह्ययम् । मन्दू-मन्दतेमोंदनार्थत्येदं रूपम् ॥ सजग्मानः-सम्पूर्वाद्गम: लिट: कानच् । अविभ्युषा-विभेते: वसुः, अन्यत् छान्दमम् ।।
एवं इन्द्रेण सङ्गतस्य तत्तुल्यतेजसो मुदितस्य मरुद्गणस्य सन्दर्शनात् सम्प्राप्तद्युतिविशेष ऋषिर्यज्ञकारी बलवडचमुच्चारयतीति वक्ष्यते ।।
अनवद्यैरभियुभिर्मुखः सहस्वदति। गणैरिन्द्रस्य काम्यैः ॥ ८ ॥ अनवद्यैः अभिद्युऽभिः मुखः सहस्वत् अर्चति गणैः इन्द्रस्य काम्यैः ॥
मखः यज्ञकारी (तत् करोति तदाचष्टे, मखपति यज्ञं करोति) अर्चति स्तौति कचमुच्चारयति । कथम् ? सहस्वत् बलवत् वीर्यवद्यया भवति तथा (अर्चति) कीदृशः सन् ? गणैः मरुद्गणैः उपेत: (प्रसादात्तेषामावेशाद्वा तैर्युक्त इत्यर्थः) कीदृशैर्गणैः ? अनवद्यैः दोषरहितैः शुभैरित्यर्थः (धोवृत्तीनां दिव्य-भावमापन्नानां अत एव लब्धपुनर्जन्मनां दिव्यमनोमयसम्राज इन्द्रस्य साहाय्ये वर्तमानानां मरुतां निष्कलङ्कत्वमुपपन्नम् ) । पुन: अभिद्युभिः अभितः (मखं यज्ञकारिणं) प्राप्ता द्युलक्षिता द्युतिः येषां तैः । पुनश्च, इन्द्रस्य काम्यैः इन्द्रस्य स्पृहणीयैः, प्रियैरित्यर्थः ।।
अर्थाविष्कार एव विशिष्टशब्दनिर्वचनं दत्तम् , तेन तात्पर्यबोधाय द्वारं च कृतम् ॥
ऋषिर्यजमानः स्वीयामर्चनविधां मरुदणसहितेन्द्रप्रसादलब्धां विस्रम्भेण गायन् , सर्वतोऽपि इन्द्रसान्निध्यं प्रार्थयत उत्तरे मन्त्रे ॥
अतः परिज्मन्नाहि दिवो वा रोचनादधि । समस्मिन्नुजते गिरः ॥९॥ अतः परिज्मन् आ गहि दिवः वा रोचनात् अधि सम् अस्मिन् ऋञ्जते गिरः ॥
परिज्मन् परितो गामिन् [सर्वव्यापिन् इत्यर्थः, परि-उपसर्गस्य अज-धातोः रूपम् , मनिन्प्रत्यय:] हे इन्द्र ! अतः अस्मान्मध्यमादन्तरिक्षस्थानात् आगहि आगच्छ दिवो वा द्युलोकाद्वा, रोचनादधि रोचमानात् दीप्तात् ततोऽप्यूज़लोकाद्वा आगच्छ (सर्वत्र व्यापकत्वात् , तत्तत्स्थानविभवसम्पन्नस्य इन्द्रस्य आगमनं ऋषेर्दिव्याभ्युदयपोषकं भवति)। अस्मिन् मदीये अन्तर्यजने कर्मणि, [अयं मधुच्छन्दाः] गिरः स्तुतीः मन्त्रवाच इत्यर्थः, समृञ्जते प्रसाधयति, उजवलाः करोति ॥
प्राधान्येनास्मिन् ऐन्द्रे सूक्ते, विस्पष्टा इन्द्रस्तुतिरन्ते भवति ।।
दशमीमृचमाह–
इतो वा सातिमीमहे दिवो वा पार्थिवादधि । इन्द्र महो वा रजसः ॥१०॥ इतः वा सातिम् ईमहे दिवः वा पार्थिवात् अधि । इन्द्रम् महः वा रजसः॥
इतो वा अस्माकं सन्निहितात् पृथिवीम्थानाद्वा सातिम् लब्धि सम्भजनीयं प्राप्तव्यमित्यर्थः। ईमहे प्रार्थयामहे । न च प्राप्तव्य इन्द्र एव भवति। इन्द्रम प्राप्तव्यतया ईहामहे । तस्य त्रैलोक्याधिराज्यत्वात् इतो वा स प्राप्यो भवति । पार्थिवादधि दिवो वा पृथिवीसम्बन्धिनो द्युलोकाद्वा, महो रजसो वा महतो-ऽन्तरिक्षलोकाद्वा तं प्राप्तव्यमिन्द्रमीहामहे ।
व्याख्यातं युञ्जन्तीति सूक्तम् । अनुक्रमणिकोक्तप्रकारेण ऐन्द्रमारुतऋचौ द्वे मारुत्यश्चतस्रश्च ऐन्द्यश्चतस्रञ्च व्याख्याताः । दार्चेऽस्मिन् ऋचां पूर्वो तर सम्बन्धः प्रदर्शितः । रहस्यगर्भितमिदं स्थूलपक्षव्याख्यातॄणामाविष्कारनये शुष्कभावं संवृत्तम् । नेष्यते तत्तात्पर्य परीक्षा । अस्ति त्वस्माकमिह वक्तव्यम् ॥
बह्वस्ति रहस्यमस्मिन् गाडं कामतो निक्षिप्तमृषिणेति वक्तव्यम् । इदं च प्रबलं निदर्शनं भवति प्रागस्माभिभूमिकायां आर्ष रहस्यमधिकृत्य प्रतिपादितस्यार्थस्य । ’इदं च रहस्यं ऋषीणां विदितं, तच्छिष्याणां च। ये च गुरुभ्यो महर्षिभ्यो दीक्षा लब्ध्वा अन्तरङ्गशोधनसाधनादिभिः अन्तर्यजनाय शिक्षिताः ।’ इत्यादि ह्युक्तम् । अत्र गवाश्वकेत्वादिपदानि साङ्केतिकानि द्वयर्थानि वा पदानि परिचितान्यस्माकमधुना न कष्टप्रदानि भवन्ति। तथाऽपि रहस्यं सूक्ते स्पष्टुं विचारपूर्वकं निहितमिति वक्तुं वाक्यान्येवालम् ॥
प्रथमस्यामृचि ’युञ्जन्ती’त्याह । के? कर्तृपदं नोक्तम् । ’परि’ ’तस्थिवांसः’ इति विभक्तिव्यत्ययेन गृहीतमपि विशेषणमेव तत् , विशेष्यस्य स्वरूपमनुक्तवा शिष्यशिक्षार्थ अन्तर्याजिनो बोधाय वा विसृष्टम् । ’चरन्तम्’ अत्रापि कम् ? इति नोक्तम् । द्वितीयस्यामपि कर्तृपदमध्याहृतं तत्तु सुलभं प्रथमर्गपेक्षया। तृतीयस्यां, ’उषद्भिः’ कैः इन्द्रजन्म? नोक्तम् । चतुर्सा, के ’पुनर्गर्भत्वमेरिरे’? पञ्चम्यां ’आरुजनुभिः’ वह्निभिः कैः इन्द्रस्य गोलाभः ? षष्ठया, के ’देवयन्त:’ देवकामाः महान्तं श्रुतं नुतवन्त: ? सप्तम्यां, कः सम्बोध्यते इन्द्रेण सह सन्दृश्यमानः, तेन ’समानवर्चा:’ ? अष्टम्यामपि कण्ठतो नोक्तं ’इन्द्रस्य काम्या गणाः’ के? इति । नवम्यां, ’परिज्मन्’ इति कस्यामन्त्रणम् ? दशम्यामेव स्पष्टमुक्तमिन्द्रं ’ईमहे’ इति ।
अस्य सर्वस्योत्तरं वचनं उद्देशपूर्वकमेवान्तर्निधाय गोपितं वाक्यविदैव साक्षात्कृतधर्मणा महर्षिणा मधुच्छन्दसेति ब्रूमहे । एवमपि तत्र तत्र ऋक्षु स्पष्टान्यस्पष्टानि वा लिङ्गानि क्षिप्तानि । तेषां परीक्षणेन प्राचीनैः कृतं दैवतनिर्णय आधारीकृत्य बृहद्देवतानुक्रमणिकादयः प्रवृत्ताः । बहुषु स्थलेषु पूर्वेषामेव देवतनिर्णये मतभेदः सन्देहो विवादश्च दृश्यन्ते। इदं च पर्यालोचनीयम् । आद्यानां मन्त्रद्रष्टुणां तदपेक्षया अर्वाचीनानां श्रौतकल्पादिसूत्रकाराणां च युगान्तरकालभेद एव कारणं भवति देवतादिविषयकविचिकित्सायाः । प्राधान्ये-नान्तर्यागसम्बन्धिनो हि मन्त्राः। तेषां बहिर्यागोपयोगाय भावमाविष्कर्तुमुद्यताः, तत्राप्यर्वाचीनाः मन्त्रप्रतिपादितदेवता अत्यन्तस्थूलदृष्टया निरणैषुरिति नात्र चित्रम् । अत एव सामान्येन मन्त्रार्थविचारे विशेषतोऽन्तर्यांगानुरोधेन क्रियमाणे, मन्त्रार्थस्य कात्यायनादिभिरुक्ताया देवतायाश्च उभयो लक्ष्यते संवाद: । अस्मिन्नेव ’युअन्ति’ इति सूक्ते ’देवयन्तः’ इत्यादिमन्त्रेषु विस्पष्टं विसंवादो भवति । यद्यपि यावत् शक्यं यथासम्भवं अनुक्रमणिकाकारमेव देवताप्रतिपादनविषयेऽनुसरामः, क्वचित् स्पष्टं अयुक्तस्थलेषु विप्रतिपन्नाः स्मः । तरमादरविन्दश्रीचरणानामाशयमवलम्ब्य अन्तरर्थपरेऽस्मिन् विवरणे ’देवयन्तः’ इति मन्त्रे मरुतो देवता इति नाङ्गीकृताः । तथा ’अत: परिज्मन्’ इत्यत्र न मरुद्गण आमन्त्रित: । अन्यत् सर्व व्याख्यायामुक्तम् ।
इति प्रथमस्य प्रथमे द्वादशो वर्ग:
द्वितीयेऽनुवाके चतुर्थ ’इन्द्र’ इत्यादिकं दशर्च सूक्तम् । ऋषिच्छन्दोदेवताः पूर्ववत् ।
इन्दुमिद्गाथिनो बृहदिन्द्रमर्केभिरविणः। इन्द्रं वाणीरनूषत ॥१॥ इन्द्रम् इत् गाथिनः बृहत् इन्द्रम् अर्केभिः अर्किणः। इन्द्रम् वाणी: अनूषत ॥
गाथिनः सामगायिन: [गाथा एषां सन्ति, गायतेर्गाथा] इन्द्रम् इत् इन्द्रमेव बृहत् बृहता सामा [’त्वामिद्धि हवामहे’ इति प्रसिद्धेन बृहत्सामा] अनूषत स्तुतवन्तः। अर्किणः ऋग्भिः स्तोतारो होतारः अर्केभिः अझै: ऋग्रूपैमन्त्रैः इन्द्र एव ’अनूषत’ । इन्द्रम् वाणीः वाचः अवशिष्टाः सर्वाः यजूंषीत्यर्थः, विभक्ति-व्यत्ययेन यजुर्भिः सामर्थ्यांदध्वर्यवः इन्द्रमेव ’अनूषत’ ।
ऋक्संहितायामवैव प्रथमं ऋग्यजुस्सामात्मिका वयी, तस्या उपयोक्तारः क्रमशो होतध्वयूँगातार इति सूचितम् ।
इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा । इन्द्रो वजी हिरण्ययः ॥२॥ इन्द्रः इत् होः सचा सम्ऽमिश्लः आ वच:ऽयुजा इन्द्रः वज्री हिरण्ययः॥
इन्द्रः इत् इन्द्र एव होः अश्वयोः, अश्वाभ्यामिति तृतीयार्थे । सह आ आगच्छति। कीदृशः ? संमिश्लः संमिश्रः लकारश्छान्दसः। सर्वेषां वस्तूनां सम्यमिश्रयिता योजयितेति यावत् । कीदृशोर्हो: ? वचोयुजा वचोयुजोः वचोयुग्भ्यां । सुविनीतौ अश्वौ स्वामिन इन्द्रस्य वचनमात्रेण स्वयं युज्येते, इति स्थूल व्याख्यानं पूर्वेषाम् । अस्माकं तु न चतुष्पात्पशुरश्वः, तत्रापि विशेषतो ’इन्द्रस्य हरी’ प्रति किमु वक्तव्यम् दीप्तिविशिष्टप्राणबलसङ्केताविति ? तस्मात् वचोयुजा ’ब्रह्मयुजा’ इति ग्राह्यम् । ’युञ्जन्त्यस्य काम्या हरी’ इत्यस्या ऋचो व्याख्यानमवधेयम् । पुनः कीदृगिन्द्रः ? इन्द्रो वज्री वज्रोपेतः हिरण्ययः हिरण्मयः स्वर्णप्रभोजवल इत्यर्थः ।
मिश्रणम् मिश्रः, समीचीनो मिश्रो यस्य सः संमिश्रः । इन्द्र आगच्छति। स हरिद्वयसहितः सर्ववस्तुसम्यक्संयोजनकारी, तस्याश्वौ ब्रह्मपदवाच्य-मन्त्रवाग्युक्तौ । वृतभिदा वज्रेणोपेत: हिरण्योजवल आगत्य किं करोति ?
इन्द्रो दीर्घाय चक्षस आ सूर्य रोहयढिवि। वि गोभिरद्रिमैरयत् ॥३॥ इन्द्रः दीर्घाय चक्षसे आ सूर्यम् रोहयत् दिवि वि गोभिः अदिम् ऐरयत् ॥
इन्द्रः दीर्घाय दूरगामिने शाश्वताय प्रौढाय वा चक्षसे दर्शनाय सूर्य (सर्वस्यापि जगतः) प्रेरकम् , सूर्यसङ्केतितं ऋतज्योतिरित्यर्थः । दिवि चुलोके आरोहयत् आरोपितवान् । म इन्द्रः गोभिः स्वीयैः रश्मिभिः अद्रिम् अदिशब्द-लक्षितं तमोमयं जडं जगत् व्यैरयत विभिन्नं यथा तथा ऐर यत् , व्यभेत्सीदित्यर्थः ।
चक्षम-दर्शनार्थात् चक्षेः, सर्वधातुभ्योऽसुन् । ऐरयत्-ईर गतौ ण्यन्तात् लुङ्ग । सूर्यम्-पू प्रेरणे, सुवति प्रेर यति. धात्वादे: षस्य मः, सर्वस्यापि प्रेरक: सूर्य: प्रसिद्धः, कधं तं प्रेरयतीन्द्रः ? यद्यपि देवास्सर्वेऽपि ज्योतिर्मया ऋतजाः ऋतनदः, तथाऽपि तत्र ज्येष्ठ इन्द्रः, ऋतज्योतिम्तु माक्षात्सूर्यात्मकं सूर्यवाच्यं भवति । तस्माद् यदा इन्द्रः स्वीयैदिव्यैः प्रज्ञारश्मिभिस्तमस्सर्व व्यपोहति, तदा ऋतज्योतिष: मन्ततदानं मम्भवति । अत एव दीर्घाय चक्षसे, वि--ऐरयत्’ ’वितत्य रश्मिभिः सूर्य यथा दिवि सर्वदा दर्शनक्षमं तथा उच्च स्थान प्रापयदित्युक्तम् । ’सदा पश्यन्ति सूर य: दिवीव चक्षुराततम्’ इत्युत्तरत्र मन्त्रोऽप्येवं नङ्गच्छते । इन्द्रमधिकृत्य प्रथमानुवाके द्वितीयसूक्तव्याख्याने समाख्यातमिति नेह विस्तर इप्यते ।
इन्दु वाजेपु नोऽव सहस्रप्रधनेषु च। उग्र उग्राभिरूतिभिः ॥ ४॥ च इन्द्र वाजेषु नः अब सहस्रऽप्रधनेषु च उग्रः उग्राभिः ऊतिभिः ॥
हे इन्द्र, उग्र अप्रधृप्य उग्राभिः अप्रष्याभिः ऊतिभिः रक्षाभिः वाजेषु ममृद्धिपु, [अस्माभिरधिगतासु, इतः परं प्राप्यमानास्वपि] नः अस्मान् अव रक्ष, यथा देवशत्रुभ्यो भीतिर्न भवति तथेति भावः । सहस्रप्रधनेषु च अत्यधिक-प्रकृष्टधनेषु लब्बेष्वपि नोऽव । ज्ञानवलादीन्यव प्रकृष्टानि धनानि अन्तर्याजिना-मृषीणाम् ।
इन्द्रं वयं महाधन इन्दुमभै हवामहे । युजं वृत्रेषु वज्रिणम् ॥५॥ इन्द्रम् वयम् महाऽधने इन्द्रम् अर्भे हवामहे युजम् वृत्रेषु वज्रिणम् ॥
वयं देवार्थ आत्मानं समर्पयन्तोऽनुष्टातारः इन्द्रं महाधने महत्यैश्वर्ये लब्धे लब्धव्ये वा, निमित्तसप्तमी। अर्मे तथा अल्पेऽपि इन्द्रम् हवामहे आह्वयामः । न केवलं सम्पत्तौ विपत्खपि तमेवाश्रयामह इति तृतीयपादेनोच्यते। वृत्रेषु बहुधा आवरकेषु शत्रुष्वसुरेषु प्राप्तेषु युजम् युक्तम् , अस्मासु कृतयोगं सहकारिणम् वज्रिणम् वृत्रवधसाधनेन वज्रेणायुधेनोपेतं इन्द्रमेवाह्वयामः । ’हवामह’ इत्याह्वानं च सर्वथा समाश्रयणम् ।।
इति प्रथमस्य प्रथमे त्रयोदशो वर्ग:
अथ ’इन्द्रमिद्गाथिन’ इति सूक्ते षष्ठीमृचमाह—
स नो वृषन्नमुं चरुं सत्रादावन्नपावृधि। अस्मभ्यमप्रतिष्कुतः ॥ ६॥ सः नः वृषन् अमुम् चरुम् सत्राऽदावन अप वृधि । अस्मभ्यम् अप्रतिऽस्कुतः॥
सः तथाभूतस्त्वम् नः अस्मदर्थ हे वृषन् वर्षितः सर्वस्याप्यभीष्टस्य, हे सत्रादावन सत्रा सह युगपत् दावन् दात: ज्ञानेश्वर्यतेजोबलादे:, अमुम् पुरतो दृश्यमानम् चरुम् चरन्तं मेघं सततपरिचलत्प्राणमनोवृत्त्यात्मनाऽवस्थितं चित् तेजोबलाद्यावरकम् अप वृधि अपावृणु, उद्घाट्य प्रकाशय स्वात्मानम् , अस्मभ्यं अस्मदर्थ अप्रतिष्कुतः अप्रतिशब्दितः, दानशौण्डस्त्वं न कदापि ’न दास्यामि’ इति न: प्रतिवचनं ददासीत्यर्थः । अथवा त्वत्क्रियाविघातोपलक्षणं प्रतिवचनं न कुतोऽपि भवतीत्यर्थः। एवंविधं सायणीयं व्याख्यानम् । वस्तुतस्तु न केनापि छादयितुं शक्य इति वक्तव्यम् । स्कुञ् आवरणे इति नाविकरणी धातु: । प्रतिपूर्वकात्तस्मात् क्तः। ततो नञ् समास: । आवरकं चरुं अपावृणु, निरा-च्छादनो नित्यप्रकाशो भव नः इत्यर्थ: । ’ अस्कुनात् शरवृष्टिभिः’ बाणवर्षे: छादितवान् इत्यादिः प्रयोगः अद्यापि द्रष्टव्यः ।।
चरुम्-मेघनाम, पात्रेऽपि वर्तते क्वचित् । चरतेनिष्पन्नं, तस्मादुपपन्न-मन्तरर्थपरं व्याख्यानम् । सत्रादावन्-सत्रा सहार्थे, दवा दातरि, छान्दसं रूपम् । वृधिवृञ् वरणे, लोटि मध्यमपुरुषे धिरादेशः, छान्दसः ।।
तुओतु य उत्तरे स्तोमा इन्द्रस्य वज्रिणः। न विधे अस्य सुष्टुतिम् ॥ ७॥ । तुओऽतुले ये उत्ऽतरे स्तोमाः इन्द्रस्य वज्रिणः। न विन्धे अस्य सुऽस्तुतिम्।।
तुओ-तुजे प्रतिप्रेरणम् [तुजतिः यज्ञे वा दाने वेति पूर्वे, बलादानयोरपि वर्तते, त्वरयति प्रेरयतीत्यर्थेऽपि क्वचित् सा०. व्या०.। तस्मात् प्रेरणबलं, तदादानं वेति वयम् ] ये उत्तरे उत्कृष्टतराः स्तोमाः स्तोत्राणि मदीयानि प्रवर्तन्ते, तैः अस्य मम सन्निहितस्य वज्रिणः महापराक्रमद्योतकवज्रयुक्तस्य इन्द्रस्य सुष्टुतिम् सुष्ठु पर्याप्तां स्तुतिं न विन्धे न विन्दामि, न लभे ।
यदा यदा प्रेरणानि मामाविश्य स्तावयन्ति तदा तदा उक्तरोत्तराः श्रेष्ठाः स्तुती: करोम्येव । तथाऽपि वज्रबाहोरिन्द्रस्य वर्णने नालमिमाः स्तुतय इति मे मतिः इति भावः । विन्धे-विद्ल-लाभे दस्य व्यत्ययेन ध: छान्दस: ॥
वृषा युथेव वसगः कृष्टीरियोजसा। ईशानो अप्रतिष्कुतः ॥ ८ ॥ वृषा यथाऽइव वंसगः कृष्टीः इयर्ति ओजसा ईशानः अप्रतिऽस्कुतः ॥
वृषा इन्द्रः वर्षिता दिव्यानां कामानां कृष्टीः कर्षणपदलक्षितनित्योद्यम-शीलान् आर्यान् मनुष्यान् ओजसा वीर्यवत्तमेन खानुग्रहबलेन इयति प्राप्नोति, प्रेरयतीत्यर्थः । तत्र दृष्टान्तः । वंसगः यः वंसं वननीयं यथा तथा गच्छति, सः वननीयगतिः वृषा वृषभः यूथेव गोयूथानीव । यथा गवां यूथानि प्रविष्ट: बलिष्ठो बलीवर्दः तान् प्रेरयति तथा स चेन्द्रः ईशानः ईश्वरः, अप्रतिष्कुतः न केनापि छादयितुं शक्य:, अत एव नित्यप्रकाशः । अन्यत् प्रागुक्तम् ॥
य एकश्चर्षणीनां वसूनामिरज्यति। इन्दुः पञ्च क्षितीनाम् ॥ ९॥ यः एकः चर्षणीनाम् वसूनाम् इरज्यति । इन्द्रः पञ्च क्षितीनाम् ॥
यः इन्द्रः एकः समान: खयमेक एव चर्षणीनां चर्षण-कर्षण-अरणादि-प्रागुक्तलक्षणानां मनुष्याणां इरज्यति ईष्टे, ईश्वरो भवति, तथा वसूनां विविधानां धनानामपि इरज्यति ईश्वरो भवति, स इन्द्रः पश्च पञ्चानां, विभक्तिव्यत्यय: । क्षितीनाम् निवासस्थानानां ईश्वर इति शेषः ।।
चर्षणीनाम्-न केवलं मनुष्यसामान्यपरं ग्राह्यम् । यौगिकार्थानुसारेण ’आर्य: कृष्टिः’ इत्यादिवग्राह्यः । इरज्यति-ऐश्वर्यकर्मा । ’पञ्च क्षितीनाम्’ इत्यत्र पञ्चजनानां इति सायणीयम् । सर्वत्र पञ्चजनाः निषादपश्चमा इति व्याख्या । स्थूलपक्षानुसारेण अपि सन्दिग्धमिदम् । उपन्यस्तोऽयं विषयो भूमिकायाम् । क्षियतेर्निवासार्थस्य रूपं क्षितिः । क्षितयो निवासस्थानानि पृथिव्यादीनि पञ्च इत: पृथिवीमारभ्य उत्तरोत्तरं ऊर्ध्व सृष्टौ परिकल्पितानि भवन्ति। एवं त्रिलोकसंस्थानं, सप्तलोकसंस्थानं क्वचित् चतुर्व्याहृतिप्रतिपादितचतुर्लोक संस्थान चामनन्ति। यथा पृथिव्यस्तिस्र इति वेदे प्रतिपादिताः त्रैलोक्यसम्बन्धिनीः पृथुला भूमीरभिदधते, यत्रेयं नः पृथिवी स्थूला भूमिः प्रथमा भवति, तथा पञ्च क्षितयोऽपि पञ्च वासभूमय: यत्रेयं क्षितिर्नः प्रथमेति बोध्यम् ।। ।
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः। अस्माकमस्तु केवलः ॥ १० ॥ इन्द्रम् वः विश्वतः परि हवामहे जनेभ्यः अस्माकम् अस्तु केवलः॥
भो यजमानाः, देवतानुग्रहसम्पादनप्रवृत्तान् प्रति सम्बोधनम्। वः युष्मदर्थ विश्वतः सर्वेभ्यः जनेभ्यः जातेभ्यः मनुष्येभ्यः प्राप्तजन्मभ्यो लोकेभ्योऽपि परि उपरि अवस्थितं इन्द्रम् हवामहे आहयाम: । स इन्द्रः अस्माकम् सर्वेषामनुष्ठातॄणां केवलः असाधारणः, अद्वितीयाराध्यः अनन्योपास्तिविषयभूतः अस्तु भवतु । इतरेभ्योऽप्यधिकमनुग्रहमस्माकं करोत्विति व्याख्यानमयुक्तम् । न तद्भक्ति-लक्षणम् । अल्पमनस्कता मधुच्छन्दसि महर्षावारोपिता भवति ।
इति प्रथमस्य प्रथमे चतुर्दशो वर्ग: इति प्रथमे मण्डले द्वितीयोऽनुवाक:
तृतीयोऽनुवाकः चतुस्सूक्तात्मकः, तत्र प्रथमं ’एन्द्र सानसिम्’ इति दशर्च सूक्तम् । ऋषिच्छन्दोदेवताः पूर्ववत् ।। तत्र प्रथमामृचमाह—
एन्द्र सानसिं रयिं सजित्वानं सदासहम्। वषिष्टमूतये भर ॥१॥ आ इन्द्र सानसिम् रयिम् सऽजित्वानम् सदाऽसहम् वर्षिष्ठम् ऊतये भर ॥
हे इन्द्र ऊतये अस्मदभिवृद्धये रयिं धनं आभर आहर। नेदं साधारणं धनमिति ज्ञापयन्ति रयिविशेषणानि इमानि भवन्ति। सानसिम् सभ्भजनीयं (षणधातो: असिप्रत्ययनिपातः)। सजित्वानम् समानजयशीलं (समानस्य सभाव: जयते: वनिप्) सदासहम् सदा साहयितारं अभिभवप्रापकं शत्रूणामिति शेषः । वेर्षिष्ठम् प्रवृद्धं (वृद्धशब्दस्य वर्षादेशः, तत इष्ठन् ) । अत्र तेजोबलरूपं प्रार्थ्यते तत्तु सर्वस्यापि श्रेयस्कामस्य सम्भजनीयम् । प्रबलशत्रभिः तेजोबलविरोधिभिः समानं युद्ध्वा तान् जेतुं शीलं अस्य तेजोबलरूपस्य धनस्य, अत: ’सजित्वानम् रयिम्’। शत्रुजयपरिचयवान् ‘रयिः’ न तु अशिक्षित:, अतः ’वर्षिष्ठं रयिम्’ ।।
नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै। त्वोतासो न्यर्वता ॥२॥ नि येन मुष्टिऽहत्यया नि वृत्रा कृणधामहै त्वाऽऊतासः नि अर्वता ॥
येन पूर्वोक्तलक्षणेन धनेन दिव्यतेजोबलेन वृत्रा आवरकतमोघनान् असुरान् शत्रून् नि नितरां मुष्टिहत्यया मुष्टिभिः प्रहरणेन निरुणधामहै निरुद्धान् करवाम वयम् । कीदृशो वयम् ? त्वोतासः त्वया रक्षिताः [ त्वद् इत्यत्र दकारलोपः छान्दसः, ऊतास: अवनिष्ठायां इडभावः, अन्यत् छान्दसम् ] पुनः कीदृशा वयम् ? नि नितरां अवता अश्वेन तल्लक्षितेन प्राणवलेन युक्ताः इति सहयोगलक्षणा तृतीया ॥
इन्द्र त्वोतास आ वयं व घना ददीमहि। जयेम संयुधि स्पृधः ॥ ३॥ इन्द्र त्वाऽऊतासः आ वयं वजं घना दीमहि जयेम सम् युधि स्पृधः ॥
हे इन्द्र त्वोतासः त्वद्रक्षिताः वयम् वज्रम् दिव्यमायुधं घनीभूत-अरिष्ट-अनृतज्ञानादिभेदकं घना घनत्वेन, तृतीयाविभक्तिः भावप्रधानम् आददीमहि लभेमहि, युधि युद्धे स्पृधः स्पर्धमानान् शत्रून् सञ्जयेम सम्यग्जितवन्त: स्याम । वज्रम्-वज व्रज गती, रन्-प्रत्ययो निपात्यते। घना-वज्रविशेषणतया गृहीतं सायणीये। तत्रापि अस्मदीयतात्पर्यस्य न क्षतिः ॥
वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् । सासह्याम पृतन्यतः॥४॥ वयम् शूरेभिः अस्तृऽभिः इन्द्रं त्वया युजा वयम् । ससह्याम पृतन्यतः ॥
हे इन्द्र वयं त्वदाराधका अन्तर्वांगानुष्ठायिन: शूरेभिः शूरैः शौर्ययुक्तैः अस्तृभिः दूरादेव आयुधप्रक्षेपणशीलै: (असु-क्षेपणे, तृन् ताच्छील्ये) शत्रुभिः सह युद्धे जेतारः स्यामेति शेषः। केचन देवद्विषो यागशत्रवः क्वापि निलीय दूराद्वा अस्त्राणि प्रयुञ्जते तान् प्रति इदमुक्तम् । कीदृशो वयं एवं जेतारो भवाम इति चेत् युजा त्वया युञ्जता युक्तेनास्मन्नित्यसहायेनेत्युक्तम् । तथाभूता वयं पृतन्यतः सेनामिच्छतः, सम्मुखीनं युद्धं कर्तुमिच्छतः शत्रूनपि ससह्याम अतिशयेन साहयेम अभिभवेम ॥
पृतन्यतः-पृतनामात्मन इच्छत:-क्यच् , आकारलोप: लट: शतरि, द्वितीयाबहुवचनान्तं रूपम् ॥
महाँ इन्द्रः परश्च नु महित्वमस्तु वज्रिणे। द्यौर्न प्रथिना शवः॥ ५॥ महान् इन्द्रः परः च नु महिऽत्वम् अस्तु वज्रिणे द्यौः न प्रथिना शवः ॥
महान् बृहत्स्वरूपः इन्द्रः परश्च उत्कृष्टोऽपि भवति । न केवलं स्वरूपेण बृहन्नयं, प्रभावेण सर्वोत्कृष्टश्च । नु पादपूरणः (बह्वर्थोऽयं निपातः) वज्रिणे वज्रयुक्ताय इन्द्राय महित्वम् महत्त्वं परत्वं च पूर्वोक्तं द्विविधं गुरुत्वं अस्तु भवतु । इदं च भक्तेन ऋषिणा भगवते कृतं मङ्गलाशासनम् । तस्मादुपपन्नमिदं स्वभाव-सिद्धमहत्त्वादिविशिष्टस्येन्द्रस्य स्तोत्रे। अद्यापि गुरुदेवाद्याराधने मङ्गलाशासन-सम्प्रदाय: जयवादो लौकिक इव सुप्रसिद्धः । द्यौन द्युलोक इव प्रथिना पृथुलत्वेन वैपुल्येन शवः दीप्तं बलं अस्येति शेषः, अस्तु जयत्विति वा अध्याहारः ॥
प्रथिना-प्रथिना, मकारलोपछान्दसः ।।
इति प्रथमस्य प्रथमे पञ्चदशो वर्ग:
अथास्मिन् सूक्ते षष्ठीमृचमाह—
समोहे वा य आशंत नरस्तोकस्य सनितौ। विप्रासो वा धियायवः ॥६॥ सम्ऽओहे वा ये आशत नरः तोकस्य सनितौ विप्रासः वा धियाऽयवः ॥
ये नरः पुरुषाः समोहे सङ्ग्रामे, देववैरिभिः सहेति बोध्यम् । तोकस्य अपत्यस्य सनितौ वा लाभे वा आशत प्राप्तवन्तः, (अश् व्याप्तौ लुङि छान्दसं रूपम् ,) ये पुरुषा इन्द्रमाश्रयन्ते ते लभन्त इति शेषः । वा अथवा धियायवः प्रज्ञाकामाः विप्रासः विप्राः मेधाविन: ये इन्द्रं ’आशत,’ तेऽपि लभन्त इत्यर्थः । नरः पुरुषा देवा मनुष्या वा बलिन:। देवानां अपत्यलाभस्तु मनुष्ये स्वांशप्रादु-र्भावः । मनुष्याणामपि स्वान्तरे दैवतजन्मैव तोकपदवाच्यमपत्यं भवति । उभयथाऽपि अपत्यलाभप्रतिरोधकैर्विरोधिभिर्योद्धव्यमवश्यं भवति । अत: ’समोहे सङ्ग्रामे’ इति निघण्टुपठितमभ्युपगम्य व्याख्यातम् ।।
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । उर्वीरापो न काकुदः ॥ ७ ॥ यः कुक्षिः सोमऽपातमः समुद्रऽइव पिन्वते उर्वी: आप न काकुदः ॥
अस्येन्द्रस्य यः कुक्षिः उदरदेशः सोमपातमः अतिशयेन सोमरसस्य पाता, स समुद्र इव पिन्वते वर्धते, यथा समुद्रः अक्षयो गभीरो विपुलश्च भवति, सर्वसिन्धु-समागमेन विशेषत: पोषवान् लक्ष्यते, तथा इन्द्रकुक्षिः सर्वलोकरस-भूयिष्ठ: न कदाऽपि शुष्यति, सदा सिक्त आर्द्र एव भवति ’पिवि सेचने’ इति धातो: पिन्वति नुमागमः, औचित्यात् वर्धते इति पूर्वैर्व्याख्यातम् । इन्द्रकुक्षे-नित्यबृहत्त्वसोमसिक्तत्वबोधनाय उपमान्तरमाह-उर्वीरापो न काकुदः इति । ककुत् उच्छित: प्रदेशः शिखरभूत: ’अग्निर्मूर्धा दिवः ककुत्’ इत्याद्यवधेयम् । स च धुलोकः तत्सम्बन्धिन्यः काकुद: उर्वीः बृहत्यः आपो न आपः जलानीव, दिव्या आप इव बृहत्त्वं स्वभावसिद्धरसार्द्रत्वं च धत्ते कुक्षिरिति भावः । अत्र पूर्वे प्राहुः-’काकुत् जिह्वा’ इति निघण्टुपाठमालम्ब्य जिह्वासम्बन्धमास्योदकं यथा न कदा-चिदपि शुष्यति तथेन्द्रस्य कुक्षि: सोमपूरितो न शुष्यतीति ।।
एवा ह्यस्य सूनृता विरप्शी गोमती मही। पक्का शाखा न दाशुषे ॥ ८ ॥ एव हि अस्य सूनृता विऽरप्शी गोऽमती मही पक्का शाखा न दाशुषे ॥
एव हि एवं खलु वक्ष्यमाणप्रकारेण अस्य इन्द्रस्य सूनृता वाक् (प्रिय-सत्येति सामान्यवाद:) वस्तुतस्तु कल्याणी सत्या वाक् सम्पद्यत इति शेषः । ’चोदयित्री सूनृतानाम्’ इति मन्त्रस्य व्याख्याने प्रतिपादितम् । का सा सूनृता? मही भारतीति प्रसिद्धा इळासरस्वत्योः सहचरी ऋतज्योतिषो बृहत्त्वद्योतिनी, न केवलं महतीत्यर्थः, न विशेषणं कि तु विशेष्यम् , ’इळा सरस्वती मही’ इति भारतीपर्यायत्वात् । पुन: कीदृश्येषा मही इन्द्रसम्बन्धिनी सम्पन्ना भवति ? विरप्शी वैपुल्यवाहिनी महन्नामैतदिति बहुषु मन्त्रेषु सायणव्याख्या । विविधरपणशीला विविधोपचारवादिनीत्यादि दृश्यते। पुनश्च सा गोमती अंशुमती प्रज्ञाकिरणवती। अत्रोपमामाह-पक्का पक्वफला शाखा दाशुषे न यजमानाय यथा। पक्वफलगुच्छसम्पन्ना शाखा भोग्या यथा यजमानाय सन्तृप्तये भवति तथा इन्द्रकृते उक्तगुणसम्पन्ना भारती भवतीति भावः ॥
एवा हि ते विभूतय ऊतय इन्द्र मावते । सद्यश्चित्सन्ति दाशुषे ॥९॥ एव हि ते विऽभूतयः ऊतयः इन्द्र माऽवते सद्यः चित् सन्ति दाशुषे ॥
हे इन्द्र ! एव हि एवं महीपदवाच्यभारतीसमाश्रितः खलु त्वम् । ते तव विभूतयः विभवा ऐश्वर्यविशेषाः मावते मत्सदृशाय मद्विधायेत्यर्थः (अस्मच्छब्दात् छन्दसि वतुप) दाशुषे यजमानाय सद्यश्चित् सपद्येव ऊतयः सन्ति अस्मदभिवर्ध-नानि भवन्ति । अन्यथाऽपि व्याख्येयम् । अन्यथाऽपि व्याख्येयम्। ’एव हि’ एवं वक्ष्यमाणरीत्या खलु । ’ते विभूतयो मावते दाशुषे सद्यश्चित् ऊतयः सन्ति’ इति ।
एवा हास्य काम्या स्तोम उक्थं च शंस्या । इन्द्राय सोमपीतये ॥ १० ॥ एव हि अस्य काम्या स्तोमः उक्थम् च शंस्या इन्द्राय सोमपीतये ॥
एव हि एवं खलु अस्मदनुष्ठानप्रकारेणेत्यर्थः । अस्य इन्द्रस्य काम्या कामनायोग्ये स्पृहणीये प्रिये इत्यर्थः, स्तोमः उक्थम् च सामगानात्मकं ऋग्रूपं च शंस्या शंसनीये। किमर्थम् ? इन्द्राय इन्द्रार्थम् , सोमपीतये तदीयसोम-पानाय तदीयसोमस्वीकारः सर्वशिवङ्करः यजमानस्यपेस्तेजोबलवृद्धि-दैवतापत्य-लाभादये प्रभवति इति सूक्तमन्त्रार्थपर्यालोचनया दृढं भवेदित्यसंशयम् ।।
इति प्रथमस्य प्रथमे षोडशो वर्ग:
तृतीयेऽनुवाके द्वितीयं ’इन्द्रेहि’ इत्यादिकं दशर्च सूक्तम् ऋषिच्छन्दोदेवताः पूर्ववत् ॥
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः। महाँ अभिष्टिरोजसा ॥१॥ इन्द्र आ इहि मत्सि अन्धसः विश्वेभिः सोमपर्वऽभिः महान् अभिष्टिः ओजसा॥
हे इन्द्र एहि आगच्छ । अन्धसः अन्नैः सोमात्मकर्नोग्यैः (व्यत्ययेन तृतीया) मत्सि माद्य हृष्टो भव। विश्वेभिः सर्वैः सोमपर्वभिः सोममयानि रसभरितानि पर्वाणि अङ्गानि अवयवसन्धयो वा येषां तै: देवैः सह आगत्य सोमैः स्वीकृतैः प्रहृष्टो भवेत्यर्थः । ततः ओजसा स्पष्टेन बलेन महान् प्रभूतस्त्वं अभिष्टिः अभिगन्ता शत्रूणां भवसि । ओजसा-व्यक्तीभावार्थात् आर्जनार्थीद्वा उब्जतेर्धातो: ओजतेर्वा । अभिष्टि:--अभिपूर्वकात् इष-धातोः । इष्टिरिति भाव-प्रधानं पदं, तेन भविता लक्ष्यते। सोमपर्वभिः सोमरसपूर्णै: ’अन्धसः’ अन्नैरिति पूर्वेषां व्याख्या। पर्व पूरणे इति धात्वर्थानुसारेणेदं समर्थयन्ति । ’पर्व’ अङ्गं, तेन शरीरं, अवयवसन्धिश्च, द्विधाऽपि वेदे प्रयुक्तम् । तथा सायणव्याख्या च (१-६१-१२, ४-१९-९, ७-१०३-५, १०-१६३-६.) ।।
पो एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने । चर्कि विश्वानि चक्रये ॥२॥ आ ईम् एनम् सृजत सुते मन्दिं इन्द्राय मन्दिने चक्रिम् विश्वानि चक्रये॥
अन्तर्यागे प्रवृत्तान् सखीन् सम्बोधयति । ईम् पादपूरणाय । सुते अभिषुते अभिषवे समाप्ते निष्पीडिते रसे संस्कृते सति, एनम् मन्दिम् मोदमानं सोमं रसात्मानं इन्द्राय आसृजत अतिसृजत, अभ्युन्नयनार्थ दत्त । कीदृशम् मन्दिम् ? चक्रिम् साधुकार्यकरणशीलम् (करोतेरभ्यासः, किन् ताच्छील्ये, अन्यच्छान्दसम् ) कीदृशे इन्द्राय ? मन्दिने मोदहेतवे, मोदमानाय वा। पुनः कीहशे? विश्वानि चक्रये विश्वेषां कार्याणां । अन्तर्याजिना स्वानुभूति-रसार्पणेन स्वाभ्युन्नतये स्वस्मिन् स्रष्टव्यानि सर्वाणि समोद इन्द्रः स्रष्टा सानोति ।।
मत्सा सुशिप्र मन्दिभिः स्तोमेभिर्विश्वचर्षणे । सचेषु सवनेष्वा ॥ ३ ॥ मत्स्व सुऽशिप्र मन्दिऽभिः स्तोमेभिः विश्वऽचर्षणे सचा एषु सवनेषु आ॥
सुशिप्र शोभनहनो, सुनस, वा (शिप्रं हनुसा वा) सुमुखेति दर्शनीयत्वं द्योतितं, मुखैकदेशेन मुखं लक्षितम् । विश्वचर्षणे (पश्यतिकर्माऽयं निघण्टुपठितः) विश्वदृष्टे, इन्द्र! मत्स्व मोदस्व, कान्तो भव वा, कैः ? मन्दिभिः स्तोमेभिः मोद-हेतभिः, कान्तिहेतुभिर्वा, अस्मदीयैः स्तोत्रैः । अथ च सचा सह त्वदीयैः विभूतिभूतैरन्यैर्देवैर्वा, इति शेषः, एषु सवनेषु अस्मदीयेषु यज्ञेषु देवाराधनेषु, आ आगत्य सन्निहितो भव । भो: विश्वदर्शिन् ! अस्माकं मदकरैः स्तोत्रैः हर्षित: कमनीयवदन: सन् अस्मदीयदेवताराधनकर्मसु अन्तर्यागेषु सन्निधिं कुरु, इति भावः ॥
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । अजोषा वृषभं पतिम् ॥४॥ असृग्रम् इन्द्र ते गिरः प्रति त्वाम् उत् अहासत अजोषाः वृषभम् पतिम् ॥
हे इन्द्र! ते तुभ्यं गिरः स्तुतीः असृग्रम् असृजं, सृष्टवानस्मि । (जकारस्य गकारः छान्दसः रुडागमश्च) ताश्च गिरः त्वां प्रति उदहासत स्वासिनं त्वां प्रति ऊर्ध्व गताः (ओहाङ् गतौ, लुङ्, छान्दसम्) अजोषाः सेवितवानसि, ताः स्तुती: (जुषी प्रीति-सेवनयोः, लङ् छान्दसम्)। कीदृशं त्वां गिरः उद्गत्य प्राप्नुवन् ? वृषभम् वर्षितारम् , पुनः कीदृशम् ? पतिम् पातारं रक्षकम् ।
सञ्चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम्। असदित्ते विभु प्रभु ॥५॥ सम् चोदय चित्रम् अर्वाक् राधः इन्द्र वरेण्यम् असत् इत् ते विऽभु प्रऽभु॥
हे इन्द्र ! चित्रम् विविधम् वरेण्यम् श्रेष्ठं राधः धनम् अर्वाकू अस्मदभिमुखं सञ्चोदय सम्यक् प्रेरय। नेदं लौकिकं पश्वादि धनं, इन्द्रस्यैवेदमिति तत्स्वरूपं तृतीयचरणेनाह-ते तव इदं ’राधः’ असत् इत् अस्त्येव, अस भुवि, (छन्दसि लेट्) कीदृशम् तत् ? विभु विततं भवति, अपि च प्रभु प्रकर्षण भवति। प्रभुत्वं एकत्र संहत्य स्थित्वा राजमानत्वं ईशितृत्वरूपं ऐश्वर्यम् । विभुत्वं तु वितत्य व्यापकतया विभूतिभूतत्वं ऐश्वर्यम् । एवं द्विविधमपि ’राधः’ ऐश्वर्यमिन्द्रस्य, तदीश्वरप्रेरणया विना नेषदपि प्राप्यम् । अन्यत्सर्व धीमद्भिरूह्यम् ॥
इति प्रथमस्य प्रथमे सप्तदशो वर्ग:
अस्मान्त्सु तत्र चोदयेन्द्र राये रभवतः। तुविद्युम्न यशस्खतः ॥ ६॥ अस्मान् सु तत्र चोदय इन्द्र राये रभस्वत: तुविऽद्युम्न यशस्वतः ॥
हे इन्द्र तुविद्यम्न बहुद्युते चित्रभानो इत्यर्थः (तुवि बहुनाम, द्युम्नं द्युतिः) अस्मान् तव स्तावकान् तत्र यत्र ’विभु प्रभु राध:’ वर्तते तत्र सु सुष्टु चोदय प्रेरय । किमर्थम् ? राये धनाय पूर्वोक्तलक्षणाय । कीहशे? रभस्वतः (चतुर्थ्यर्थे षष्ठयेकवचनम् ) तीव्रवेगाय (रभ राभस्ये, तीव्रवेगेन उद्योगवते इत्यर्थः)। पुनः यशस्वतः विश्रुताय चतुर्थ्यर्थे षष्ठी। पूर्वस्यामृचि तत्र तव धाग्नि स्थितं विभु प्रभु धनं अस्मदर्थ प्रेरय ‘सञ्चोदय’ इत्युक्तम् । अस्यां ऋचि तस्मा एव धनाय अस्मान् प्रेरय ’सुचोदय’ इत्युक्तम् । तच्च दिव्यं धनं ऊर्ध्व वर्तते, तस्मिन्नस्माकं इह लब्धव्ये स्वामिन इन्द्रस्य प्रेरणमवश्यं भवति । तेन तदस्मदर्थमिह आगच्छेत् । अस्माभिरपि तत्र गन्तव्यम् । तत्रापि इन्द्र-प्रेरणया विना गमनशक्तिर्न सिद्धयति । उभयथाऽपि गत्यागती स्याताम् । ऊर्ध्व-स्थस्य धनस्येहागमनम् , इतश्चास्माकमूर्ध्वगमनं उभयं च इन्द्रकृतप्रेरणासाध्यम् । प्रेर्यमाणस्य ’रायः’ रभसा गतिसामर्थ्य, तस्य विश्रुतत्वं च द्योतयितुं ’रभस्वतः’ ’यशस्वतः’ इति विशेषणद्वयम् । नेमे ’अस्मान्’ इत्यस्य विशेषणे। स्तोतारः स्वयमेव ’वयं यशस्विनः सरभसं प्रार्थयामहे, अतः प्रेरय ते धनम्’ इति आविष्कृतं व्याख्यानमसमञ्जसम् । तस्य ऐन्द्रस्य धनस्य स्वरूपमुत्तरत्रापि वक्ष्यते ॥
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् । विश्वायुर्वैयक्षितम् ॥ ७॥ सम् गोऽमत् इन्द्र वाजऽवत् अस्मे इति पृथु श्रवः बृहत् विश्वऽआयुः धेहि अक्षितम् ॥
हे इन्द्र ! अस्मे अस्मभ्यं सन्धेहि सन्धानं कुरु अविच्छिन्नं यथा तथा सम्बन्धय पूर्वोक्तं रायं इति शेषः। तस्य ‘राधसः’ धनस्य विशेषणानि भवन्ति । गोमत् प्रज्ञांशुमत् वाजवत् समृद्धिमत् । अन्यच्च सन्धेहि पृथु पृथुलं विस्तीर्ण श्रवः दिव्यावेशश्रवणम् बृहत् प्रभावेण महत् च अपि च अक्षितम् क्षयरहितं विश्वायुः विश्वायुष्यं विश्वजीवितं सन्धेहि । यजमानव्यष्टौ विश्वायुष्ट्वं धातव्यमिति प्रार्थना। अत्र ’श्रवः’ धनमिति कृत्वा तद्विशेषणानि गोमदादीनि गृहीतानि स्थूलव्याख्यानेषु ॥
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम्। इन्द्र ता रथिनीरिषः ॥८॥ अस्मे इति धेहि श्रवः बृहत् द्युम्नं सहस्रऽसातमम् इन्द्रं ताः रथिनीः इषः ॥
हे इन्द्र अस्मे अस्मभ्यं बृहत् महत् श्रवः श्रवणं दिव्यावेशप्रेरितं धेहि धारय, देहीत्यर्थः। सहस्रसातमम् अतिशयेन सहस्रसङ्ख्यालक्षित-बाहुल्य-सम्भक्तबह्वर्थसम्भजनसमर्थमित्यर्थः, द्युम्नम् प्रकाशं तेजो वा घेहि। रथिनीः रथः आसामस्तीति रथिन्य: ताः, (रथो रहते:) शीघ्रगमना इत्यर्थः इषः प्रेरणाः धेहि । ताः याः पूर्व प्रार्थिताः ‘सञ्चोदय, सुचोदय’ इति । अत्र इष: अन्नानि कर्मठानां, तदनुसारेण विशेषणस्य बहुरथोपेता इति व्याख्या ।
वसोरिन्, वसुपति गीर्भिर्गुणन्त ऋग्मियम्। होम गन्तारमूतये ॥९॥ वसोः इन्द्रम् वसुऽपतिम् गी:ऽभि गृणन्तः ऋग्मियम् होम गन्तारम् ऊतये॥
वसोः वसुनः (यावल्लब्धं अन्तर्घनस्य) ऊतये वृद्धये इन्द्रम् होम वयं आह्वयामः ह्वेजू स्पर्चायां गमने चेत्यस्य रूपम् , लट् छान्दसम् । वयं किं कुर्वन्तः? गीर्भिणन्तः स्तुतिभिः स्तुवन्तः । कीदृशमिन्द्रम् ? वसुपतिम् वसूनां धनानां पतिं पालकम् , पुनश्च, ऋग्मियम् ऋचां मातारं (कचो मिमीत इति ऋग्मी: तमिति सायणव्याख्या)। अर्चना कक् तद्वन्तं (स्तुतियोग्यमिति स्कन्दस्वामीयम् ) पुनः कीदृशम् ? गन्तारम् यजमानं तदीयं यजनं वा गन्तुं शीलमस्येति गन्ता, तम् । अत्र ’वसोः वसुपतिम् ’ अन्वयं उपपादयति स्कन्दस्वामी। प्रकृष्टो वीणायामिति प्रवीणशब्दव्युत्पत्तौ सिद्धायामपि वीणायां प्रवीण इति प्रयोगो दृश्यते, एवं वसोर्वसुपतिरिति ।।
दशमीचमाह—
सुतेसुते न्योकसे बृहबृहत एडरिः। इन्द्राय शूषमर्चति ॥ १० ॥ सुतेऽसुते निऽओकसे बृहत् बृहते आ इत् अरिः इन्द्राय शूषम् अर्चति ॥
सुतेसुते यत्र यत्र अभिषुतः सोमः तत्र तत्रेत्यर्थः, इन्द्राय सोमपायिने अरिः स्वामी यजमानः (इयर्ति गच्छति कर्तव्यमित्यरिरित्याहुः, अरणशीलोऽरिरर्य: इत्यादि प्रागुक्तम् ) शूषम् बलम् (इन्द्रसम्बन्धि) अचंति स्तौति । कीदृशं शूषम् ? बृहत् महत् । कीडशे इन्द्राय ? न्योकसे नियतं ओक: स्थानं यस्य तस्मै नियतवासस्थानाय बृहते महते (स्वरूपतः प्रभावतश्चेति बोध्यम् ) । इन्द्रस्य नियतं दिव्यं धाम स्वर्लोकः, तत्स्वरूपं प्रायुक्त अवधातव्यम् । आकारः इच्छब्दश्च पादपूरणी॥
इति प्रथमस्य प्रथमेऽष्टादशो वर्ग:
तृतीयेऽनुवाके तृतीयं ’गायन्ति’ इति द्वादशर्च सूक्तम् । अनुष्टुप् -छन्दस्कम् । ऋषिदेवते पूर्ववत् ॥
गायन्ति त्वा गायत्रिणोऽर्चन्त्यमणिः । ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥१॥ गायन्ति त्वा गायत्रिणः अर्चन्ति अर्कम् अर्किण: ब्रह्माणः त्वा शतक्रतो इति शतऽतो उत् वंशम्ऽइव येमिरे ॥
हे शतक्रतो शतसङ्ख्यालक्षितबहुप्राज्ञकर्मन् , त्वा त्वां गायत्रिणः स्तोतारः गायन्ति साममिः स्तुवन्ति, अर्किण: ऋग्भिमन्त्रैः अर्चन्तः, अर्कम् अर्चनीयं त्वां अर्चन्ति स्तुवन्ति। ब्रह्माणः स्वयं साक्षात्कृत-ब्रह्मपदवाच्यमन्त्राः मन्त्रदर्शिनः त्वा त्वां उद्येमिरे उद्गत्य प्राप्नुवन्ति । तत्र दृष्टान्त:-वंशमिव यथा वंश वंशनिर्मितं सोपानपथमारोहन्ति तथा, वंशः वेणु: प्रकृतिः तद्विकारः आरोहण-साधनभूत: सोपानपथोऽपि प्रकृत्या वंशेन प्रतिपाद्यते। अयं च प्रयोगः साधारणो वेदे। ’गोभिः श्रीणीतमत्सरम्’ (९-४६-४) अत्र ’गोभिः गोविकारैः पयोभिः सोमं संस्कुरुत’ इति सायणीयम् । इन्द्रमेव सानुमन्तं बृहन्तं शिखरिणमिव आरोहन्ति पदे पदे क्रमश इति भावः । अयमर्थः स्पष्टं समर्थितो भवति ’यत् सानो: सानुम्’ इति मन्त्रवर्णेनेति न सन्देहः । ’यथा वंशाग्रे नृत्यन्तः शिल्पिनः प्रौढं वंशं उन्नतं कुर्वन्ति, यथा वा सन्मार्गवर्तिनः स्वकीयं कुलं उन्नतं कुर्वन्ति तद्वत्’ इति पूर्वव्याख्या। अर्थसङ्गतिम॑ग्या ॥
यत्सानोः सानुमारुहृद्भूर्यस्पष्ट कर्ध्वम् । तदिन्द्रो अर्थ चेतति यूथेन वृष्णिरेजति ॥२॥ यत् सानोः सानुम् आ अरुहत् भूरि अस्पष्ट कर्वम्। तत् इन्द्रः अर्थम् चेतति यूथेन वृष्णिः एजति ॥
यत् यदा सानोः एक स्मात् पर्वतसंविभागात् सानुम् अन्यं उपरिष्टात् स्थितं पर्वतप्रस्थं आरुहत् आरोहति ऋषिरन्तर्यजनाध्वगामीति शेषः (लडर्थे लडू) भूरि प्रभूतं कवंम् कर्तव्यं (कर्मनाम) आरोहणकर्मसाध्यं अस्पष्ट अस्पशत स्पृष्टवान् (स्पश स्पर्शने, लङ्ग लडथै) आरोहणीयं अवशिष्टं प्रभूतमिति स्पष्टं भवती-त्यर्थः। तत् तदा इन्द्रः अर्थम् आरोहणलक्ष्यभूतं प्रयोजनं उच्चैर्चामेत्यर्थः, चेतत्ति चेतयति (अन्तर्भावितण्यर्थः) संज्ञपयति प्रकाशयतीति यावत् । वृष्णिः वर्षिता स इन्द्रः यूथेन गणेन, स्वीयविभूतिभूतदैवतगणेन सहेत्यर्थः (मरुद्गणेनेति सायणीयम् ) एजति कम्पते, ईषच्चलति ऋषेरिन्द्रकामस्यानुग्रहाय तदभिमुखं तद्वाचः श्रोतुं प्रवर्तत इत्यर्थः । अनयोरुभयो ऋचोरात्यन्तिक: सम्बन्ध: अन्तर्यागपरेऽर्थे स्पष्टो भवति, तथा च व्याख्यातम् । विस्तर भिया नातोऽपि विवृतिः क्रियते। क्रमनियमानुसारेण ऊर्ध्वगतौ शरीरिणा पुरुषेण लभ्यमानायां, उत्तरोत्तराधिरोहे प्रभूतं प्राप्तव्यमिति स्पष्टं भवति । तादृश्यां दशायां देवराज इन्द्रः सगण ’एजति’ भक्तं गम्यं समग्रं स्वर्धाम नेतुम् । एवं साधनरहस्यं किञ्चित् प्रदर्य ऋषिरिन्द्रं आसूक्तसमाप्ति स्तौति ।।
युक्ष्व युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा। । अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥३॥ हि केशिना हरी इति वृषणा कक्ष्य ऽप्रा अथ नः इन्द्र सोमऽपाः गिराम् उपऽश्रुतिं चर ॥
हे सोमपाः सोमस्य पातः, इन्द्र! हरी त्वदीयावश्वौ युक्ष्व हि संयोजय (छान्दसः श्नम्लोपः)। कीदृशौ हरी ? केशिना केशिनी, प्रशस्ताः स्कन्धप्रदेशे लम्बमाना: केशाः अनयोः । पुनः कीदृशौ ? वृषणा वर्षितारौ स्वीयेन ओजसा सेक्तारौ। पुनः कीदृशौ ? कक्ष्यप्रा पुष्टाङ्गो (कक्ष्या उदरबन्धनरज्जुः तस्याः पूरकौ, अत: शरीरपुष्टिं द्योतयितुमिदं विशेषणम् ) अथ एवं अश्वयोगसन्नाहादनन्तरं नः अस्माकं गिराम् स्तुतीनां उपश्रुतिम् श्रुतेः समीपं चर आगच्छ, यावति देशे नः स्तुतयः त्वदीयश्रवणगोचराः भवन्ति तावन्तं देशं प्राप्नुहीत्यर्थः । प्राणबलसङ्केतोऽस्माकं परिचितः । इन्द्रों विशेषत: कान्तिमत्त्वं स्मार्यम् । ’केशिनौ’ केशै: मशकमक्षिकादय: तामस्यः शक्तयो विधूयन्ते । ’वृषणौ’ अन्त-जिन ओजसो वर्धयितारौ । ’कक्ष्यप्रा’ पुष्टौ सन्तौ आयासवर्ज देवराजं वहत: यजमानानुग्रहाय । अत्र तात्पर्यग्रहणपद्धतिः सूचिता। अन्यत् स्पष्टं भवेन्मति-अश्वः मताम् ॥
एहि स्तोमा अभि स्वराभि गृणीह्या रुव । ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥४॥ आ इहि स्तोमान् अभि स्वर अभि गृणीहि आ रुव ब्रह्म च नः वसो इति सचा इन्द्र यज्ञं च वर्धय ॥
हे इन्द्र एहि आगच्छ। स्तोमान् अस्मदीयानि स्तोत्राणि अभिस्वर अभिमुखीभूय ॐ इति अनुज्ञाक्षरं शब्दय, ’ओमित्यनुज्ञाक्षरं’ ’ओमिति स्वरन्नुदेति’ इति छन्दोगाः (स्वरतिर्न शब्दसामान्यार्थकः, तत्र वैशिष्ट्यं बोध्यम् । ओमिति स्वरात्मकं शब्दं कुर्वित्यर्थः) एवमनुज्ञानात्परं अभिगृणीहि आरुव अभितः गुणीहि, सर्वतः शब्दय (हेतुमत्कर्तृतया उभयत्रापि इन्द्रस्य कर्तृत्वं इति स्कन्द-स्वामीयं उपपन्नतरं, त्वमेव स्तावय उच्चारयेत्यर्थः)। वसो वसुभूत, सर्वस्यापि प्राप्तव्यत्वेन धनभूत, (अन्तर्गौतमत्वर्थे) धनवन् , (शतपथे वसिष्ठ इति वसुशब्दः प्रशस्यनामेति च स्कन्दस्वामी) नः अस्माकं ब्रह्म च मन्त्रं च यज्ञं च सचा सह वर्धय वृद्धि प्रापय। मन्त्रात्मकं ब्रह्म ज्ञानसम्पाद्यं ज्ञानसम्पादकं च भवति । । यज्ञो यजनम् , तच्च योगयुक्तकर्मानुष्ठानेन सम्पाद्यं तस्य सम्पादकं च भवति। इद-मुभयं भक्तस्येन्द्रानुग्रहलभ्यम् । तस्माद्वर्धय इति प्रार्थना ।।
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे । शुक्रो यथा सुतेषु णो रारणत् स॒ख्येषु च ॥५॥ उक्थम् इन्द्राय शंस्यम वर्धनम् पुरुनिःऽसिधे शक्रः यथा सुतेषु नः सरणत् सख्येषु च ॥
इन्द्राय उक्थम् ऋग्रूपं शस्त्राख्यं स्तोत्रम् शंस्यम् शंसनीयम् । कीदृशं उक्थम् ? वर्धनम् सामर्थ्यात् इन्द्रस्य, उपास्या स्तुता देवता उपासके वर्धते । कीदृशायेन्द्राय ? पुरुनिष्षिधे पुरूणां शत्रूणां निषेधकाय निवारकायेत्यर्थः (निरुप-सर्गस्य निशब्दार्थः, षिध गत्याम् , क्विप्)। केन प्रकारेण शंस्यम् ? यथा पुत्रेषु पिता, सख्येषु विषये सखा वा रमते तथेत्याह । शक्रः शक्त इन्द्रः (शक्नोते:) नः अस्मदर्थ सुतेषु पुत्रेषु, सख्येषु च सखित्वेषु च यथा रारणत् रमेत तथा शंस्यम् । (रारणत् , रमेर्भािवः मस्य णः छान्दस: लेट्) ॥
तमित्सखित्व ईमहे तं राये तं सुवीर्ये । स शुक्र उत नः शकदिन्द्रो वसु दयमानः ॥६॥ तम् इत् सखित्वे ईमहे तम् ग़ये तम् सुऽवीर्ये स शुक्रः उत नः शकत् इन्द्रः वसुदयमानः॥
तमित् तमेवेन्द्रं सखित्वे सख्ये (निमित्तसप्तमी) ईमहे प्रार्थयामहे । तम् राये धनार्थ ’ईमहे’। तम् सुवीर्ये शोभनाय सामर्थ्याय च (निमित्तसप्तमी) ’ईमहे’। उत अपि च सः शक्रः शक्तः इन्द्रः वसु धनं दिव्यं श्रेष्ठं नः अस्मभ्यं दयमानः वितरन् शकत् शक्नोति शक्तो भवति ।।
इति प्रथमस्य प्रथमे एकोनविंशो वर्ग:
सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः । गवामप वजं वृधि कृणुष्व राधो अद्रिवः॥७॥ सुऽविवृतम् सुनिःऽअजम् इन्द्र त्वाऽदातम् इत् यशः गवाम् अप वजम् वृधि कृणुष्व राधः अद्रिवः॥
हे इन्द्र यशः त्वदीयं वैभवं (प्रभावप्रसारशालिव्यापकत्वमेव यशः) सुविवृतं सुष्ठु अनावृतं, प्रकटमित्यर्थः । सुनिरजम् सुखेनानायासेन निर्गन्तुं शक्यम् , निष्प्रतिबन्धविसारक्षममित्यर्थः, सुनिष्पूर्वकस्य गत्यर्थस्य अज-धातो: खलि रूपम् । त्वादातम् इत् त्वया शोधितमेव (दैप शोधने कर्मणि क्तः) वृत्रतद्विभूतिभूतास्त्वद्वैभवविघातका अपसारिताः । तेन शोधनेन निष्प्रतिरोधं त्वद्यशो-ऽस्मान् परितो विलसतीति भावः । अतः परं इन्द्रस्यैव कार्यमाह। हे अद्रिवः पर्वतलक्षितवज्रोपेत अदिरस्येति मतुप् छान्दसम् , गावो यत्र गूढा आसन् स पर्वत: अधुना तव वशं गतः, तस्मात् पर्वतवन् पर्वतस्वामिन् इति युक्तमामन्त्रणम् (पर्वतो जडस्य सङ्केतः स्मार्यः)। गवां व्रजम् प्रज्ञानरश्मीनां आवासस्थानम् अपवृधि उद्घाटितद्वारं कुरु । राधः वृद्धिरूपं सिद्धिरूपं वा धनं कृणुष्व कुरु सम्पादये-त्यर्थः। राध्यते: राघ्नोतेर्वा राधः । त्वद्वैभवं अस्मान् परितो लब्धप्रसरं ज्योतिः शत्रूणामपगमेन त्वयैव स्वच्छं कृतमधुना । तदस्मभ्यं दिव्यचिद्रश्मीन् तद्धामः द्वारमुद्धाट्य विसर्जय, एवं सिद्धिं न: सम्पादयेति समस्तार्थ:। स्थूल-व्याख्यानेषु ’यशः अन्नं’ इति कृत्वा कथमपि तात्पर्यमाविष्कृतम् ।।
न हि त्वा रोदसी उभे ऋघायमाणमिन्यतः। जेपः स्वर्वतीरपः सङ्गा अस्मभ्यं धूनुहि ॥ ८॥ न हि त्वा रोदसी इति उभे इति ऋयायमाणम् इन्वत: जेप: स्व:ऽवती: अपः सम् गाः अस्मभ्यम् धूनुहि ॥
हे इन्द्र! रोदसी द्यौः पृथिवी उभे अपि ऋघायमाणम् उग्रतया अवतिष्ठ-मानं त्वा त्वां न हि इन्वतः न व्याप्नुतः, त्वां धतुं न शक्नत इत्यर्थः (नेत्यर्थे ’नहि’ इति निपात:)। त्वं स्वर्वती: स्वरादित्यः स्वर्लोको वा तद्वत्यः ज्योतिष्मत्यः ताः अपः अप्छब्द सङ्केतिताः ब्रह्माण्डधारणपोषणात्मिका: ज्योतिर्वाहिनीः शक्ती: जेष: जयसि (जयते: लेटू छान्दसं, जयेरित्याशासनम् । तात्त्विकी सार्वकालिक-जयक्रिया, अतो लडथै)। अतो लडथै)। चिज्योतिरावरकवृत्ररूपतमोद्रिभेदनात् उक्तलक्षणानां अपां जयः बोध्यः। अत आह-अस्मभ्यं गाः प्रज्ञानमरीचीः सन्धूनुहि प्रेरय । ऋघायमाणम्-अत्र शत्रुहिंसां कुर्वन्तमिति व्याख्यातारः। ’नृन् हन्तीति नृहा, नकारलोपः, हकारस्य घकारः, एवं ऋघा ततः अभूततद्भावे लोहितादि-डाज्भ्यः क्यः । तस्मादात्मनेपदम् , लट: शानचू’ इति सायणीया व्युत्पत्तिः ।।
आश्रुत्कर्ण श्रुधी हव नू चिदधिष्व मे गिरः। इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम् ॥ ९ ॥ आश्रुत्ऽकर्ण श्रुधि हवम् नु चित् ढधिष्व मे गिर: इन्द्र स्तोमम् इमम् मम कृष्व युज: चित् अन्तरम् ॥
आशुत्कर्ण आ सर्वतः शृणुत इति आश्रुतौ (क्विप्) तौ कौँ यस्य तादृश, इन्द्र मे मम हवम् आह्वानं श्रुधि शृणु नु क्षिप्रम् । शीघ्रश्रवणशालिनौ कर्णी तीव्रौ, न मन्दौ, तस्मात् क्षिप्रमाकर्णनं प्रार्थ्यते । गिर; चित् स्तुतीरपि दधिष्व धत्स्व (दधाते: छान्दसम् ) चित्ते धारयेत्यर्थः । युजः युञ्जत: त्वयि युक्तस्य सख्यु: मम इमं स्तोमम् स्तोत्रं अन्तरम् चित् अत्यासन्नमपि कृष्व कुरु [अन्ततरं समीपम् । अत एव ’आसन्नं’ इति सायणीयम् । अर्थात् प्रियं हृद्यमिति बोध्यम् । तरप-तमपो: तकारलोपः छान्दस: ’अन्तमानाम्’ इति प्रयोगेऽपि द्रष्टव्य:] आह्वानस्य श्रवणम् , गिरां चित्ते धारणम् , स्तोमस्य हृद्यत्वेन स्वीकरणम् , इति पदत्रयवान् क्रमः ऋषे: स्तवप्रकारगतः, तदनुरोधेन इन्द्रस्य तत्स्वीकारगतश्चेति लक्षणीयम् ।।
विद्मा हि त्वा वृषन्तम वाजेषु हवनश्रुतम् । वृषन्तमस्य हूमह ऊतिं सहनुसातमाम् ॥ १० ॥ विद्म हि त्वा वृषन्ऽतमम् वाजेषु वन॒ऽश्रुतम् वृषन्ऽतमस्य हूमहे ऊतिम् सहस्रऽसातमाम् ॥
हे इन्द्र, त्वा त्वां वृषन्तमम् अतिशयेन वर्षितारं दिव्यानामभीष्टानाम् । वाजेषु समृद्धिषु निमित्तभूतासु हवनश्रुतम् आह्वानस्य श्रोतारम् (विधेयविशेषणे द्वे अपि) विद्म विद्मः (मसो मादेशः)। हि यस्मादेवं जानीमः तस्मात् वृषन्तमस्य अतिशयेन वर्षितुस्तव ऊतिम् त्वत्कर्तृकां वृद्धि हूमहे आह्वयामः । कीदृशीमूतिम् ? सहस्रसातमाम् अतिशयेन सहस्रस्य दात्रीम् । सहस्रं बहुविधस्य ऐश्वर्यस्य द्योतकम् ॥
एकादशीमृचमाह—
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब । नव्य॒मायुः प्र सू तिर कृधी सहस्रसामृषिम् ॥ ११ ॥ आ तु नः इन्द्र कौशिक मन्दसानः सुतम् पिब नव्यम् आयुः प्र सु तिर कृधि सहस्रऽसाम् ऋषिम् ॥
ऐषिरथेः कुशिकस्य प्रार्थनानुरोधेन इन्द्र एव तत्पुत्रो विश्वामित्रो जात इति वृत्तान्तमुदाहृत्य ’कौशिक’ इति अस्यामृचि इन्द्रस्य सम्बोधनमुपपादयन्ति व्याख्यातारः। ऋग्वेदे बहुषु सूक्तेषु उपासक ऋषिरुपास्यमानं देवं स्वनाम्ना-ऽभिधत्ते । अत्र कारणमिदं भवति । उपासके मानुषे उपास्यस्य दैवतस्य जन्मलाभात् स्वनाम्ना ऋषिर्व्यवहरति साक्षात्कृतं तदैवतम् । स्वात्मरूपतया दैवतं पश्यतीत्युक्तम् भवति । अन्यच्च, ऋषे: स्वनाम्ना गोत्रनाम्ना वा देवतायां अभि-हितायां, ऋषौ देवतायां च अवयवार्थ उपपद्यते। गोतम-जमदग्नि-भरद्वाजादयोऽत्र निदर्शनम् । अस्मिन् , कुशिकस्य गोत्रापत्यं कौशिको मधुच्छन्दाः। कोशादृषेः शारीरकोशाद्भवति, ब्रह्माण्डकोशे वा भवतीति कौशिकः (भवार्थे ठक्) । अथ ऋगर्थ: स्पष्टो भवति । हे इन्द्र कौशिक नः अस्मदर्थ आ आगच्छ । तु पादपूरणः। कीदृशः सन् ? मन्दसानः (मन्दतेः असानचू ) मोदमानः । आगत्य सुतम् अभिषुतं सोमं पिब । नव्यमू स्तुत्यं उत्कृष्टं नवं नूतनं वा आयुः जीवितं अस्म-दीयमिति शेषः। प्रसुतिर प्रकर्षेण सुष्ठु वर्धय (तरतेयंत्यय इति सायणीयम् )। अपि च सहस्रसाम् सहस्रस्य संभक्तारं ऋषिमू अतीन्द्रियार्थदर्शिनं कृधि कुरु । अतीन्द्रियदर्शने सिद्धे विभवसहस्रप्राप्तेः सम्भव इति तथाविधमृषित्वं मे सम्पादये-त्युक्तम् ॥
द्वादशीमृचमाह—
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥ १२ ॥ परि त्वा गिर्वणः गिर: इमा: भवन्तु विश्वत: वृद्धऽआयुमू अनु वृद्धय: जुष्टाः भवन्तु जुष्टयः॥
हे गिर्वणः गीर्भिर्वननीय स्तोत्रभागित्यर्थः, विश्वतः सर्वथा, सर्वांसु अवस्थासु सर्वेष्वाराधनेषु, इमाः मदीयाः गिरः स्तुतयः त्वा परि त्वां परितः भवन्तु प्राप्नुवन्तु। कीदृश्यो गिर: ? वृद्धायुम् अनु (अस्मासु) प्रवृद्धजीवितं (त्वां) अनुसृत्य वृद्धयः वर्धमानाः, जुष्टाः सेविताः, त्वया प्रीत्या स्वीकृता इत्यर्थः, जुष्टयः प्रीतिहेतवः भवन्तु (त्वत्प्रीतिरेवास्माकं प्रीतिहेतुरिति हृदयम् ) ।
इति प्रथमस्य प्रथमे विंशो वर्ग: ।
अथ ’इन्द्रं विश्वा’ इत्यनुष्टुप्छन्दस्कं अष्टर्च सूक्तम् । अस्य जेता मधु-च्छन्दसः पुत्र ऋषिः, इन्द्र एव देवता । तत्र प्रथमामृचमाह—
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥१॥ इन्द्रम् विश्वाः अवीवृधन् समुद्रऽव्यचसम् गिरः रथिऽतमम् रथिनाम् वाजानाम् सत्ऽपतिम् पतिम् ॥
विश्वाः समस्ताः गिरः स्तुतयः इन्द्रम् अवीवृधन् वर्धितवत्यः, स्तूयमानो देवः स्तोतरि आधारे वर्धते। कीदृशम् ? समुद्रव्यचसम् समुद्रवद् व्याप्तवन्तम् , अन्तरिक्षवत् सर्वव्यापिनम् इति साधीयानर्थः, अन्तरिक्षपर्यायत्वात् समुद्रस्य (व्याप्त्यर्थाद्वयचेरसुन्) । पुन: रथिनाम् रथयुक्तानां मध्ये रथितमम् अतिशयेन रथिनम् वेगार्थाद्रहतेः रथः प्रागुक्तः, इदं च विशेषणं सर्व-व्यापक आकाश इव न केवलं निश्चलः, सर्वत्र शीघ्रगामीति प्रतिपादनार्थम्। पुनश्च वाजानां पतिम् बहुविधानां समृद्धीनां पालकं ईश्वरम् , अपि च सत्पतिम् सतां प्राप्तसत्ताकानां सर्वेषामपि सृष्टानां पालकं, ईश्वरम् ।
सख्ये त इन्द्र वाजिनो मा मेम शवसस्पते । त्वामुभि प्र णोनुमो जेतारमपराजितम् ॥२॥ सख्ये ते इन्द्र वाजिनः मा भेम शवस: पते त्वाम् अभि प्र नोनुमः जेतारम् अपराऽजितम् ॥
हे शवस: पते दीप्तिमद्बलस्य स्वामिन् इन्द्र! ते तव सख्ये सखित्वे वर्तमानाः वाजिनः समृद्धिमन्तः वयम् मा मेम मा भैष्म (च्लेर्लोपादि छान्दसम् ) शत्रुभ्यो भीता मा भूमेत्यर्थः । त्वाम् अभिप्रणोनुमः सर्वतः प्रकर्षण स्तुमः । कीदृशं त्वाम् ? जेतारम् सर्वत्र जयशीलम् । अपराजितम् पराजयरहितम् । अत्र ऋषिभक्तः स्वनाम्ना भगवन्तं स्तौति । तत्र युक्तिः प्रागुक्ता अवधेया ।
पूर्वीरिन्द्रस्य रा॒तयो न वि दस्यन्त्यूतयः। यदी वाजस्य गोमतः स्तोतृभ्यो मंहते मघम् ॥३॥ पूर्वीः इन्द्रस्य रातयः न वि दस्यन्ति ऊतयः यदि वाजस्य गोऽमतः स्तोतृऽभ्य: मंहते मघम् ॥
इन्द्रस्य रातयः दानानि रातिर्दानकर्मा, पूर्वीः बह्वयः बहूनि तस्यानुग्रह-कार्याणि दानानीत्यर्थः । अथवा पूर्वीश्चिरन्तन्यो रातयः, स्वभावसिद्धा-स्तस्येत्यर्थः । तस्मात् स इन्द्रः स्तोतृभ्यः भक्तेभ्यः गोमतः प्रज्ञानकिरण-सम्पन्नस्य वाजस्य समृद्धिवाचिनो धनस्य सम्बन्धिनं अंशभूतं मघम् धनं मंहते ददाति यदि, ऊतयः तस्य वृद्धयो नित्याः न विदस्यन्ति नोपक्षीयन्ते। इन्द्रस्य अगण्यानां ऐश्वर्याणां नित्यवर्धनानां नित्यदानैरपि नास्ति क्षयः। ऐश्वर्यस्य धनस्य स्वरूपं गोमद्वाजशब्दप्रयोगेणोक्तम् ।
पुरां भिन्दुर्युवा कविरमितौजा अजायत । इन्द्रो विश्वस्य॒ कर्मणो धर्ता वज्री पुरुष्टुतः ॥४॥ पुराम भिन्दुः युवा कविः अमितऽओजाः अजायत इन्द्रः विश्वस्य कर्मणः धर्ता वज्री पुरुऽस्तुतः॥
अयं इन्द्रः अजायत समपद्यत । किंप्रभाव:, किंगुणविशिष्टः ? पुरां भिन्दुः असुरवासपुराणां भेदकः । भिदेर्भेदनार्थाद्धातोभिन्दुः तेन दुर्भेद्यानि दुर्गवन्ति पुराणि, तेषां भेदनीयत्वाक्षेपात् तानि देवद्विषां सम्बन्धीनीति च द्योतितम् । युवा यौवनसम्पन्नः औद्धत्यं असुरपुरध्वंसायावश्यम् , यौवनेन तल्लक्षितम् । कविः द्रष्टा सर्वान्तरदर्शी, गूढानामसुरदुर्गवासस्थानानां दर्शने समर्थः। अमितौजाः अमितं प्रभूतं ओजो बलमस्य । विश्वस्य कर्मणः धर्ता धारयिता, तेनैव धार्यन्ते सर्वाणि अस्मदन्तर्यजनानि। वज्री वज्रयुक्तः तमोवृत्रादिशत्रुभेदनाय । पुरुष्टुतः बहुभिः बहुषु कार्येषु वा स्तुतः स्तुत्या आश्रित: ।
त्वं वलस्य॒ गोमतोऽपावरद्रिवो बिलम् । त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥ ५॥ त्वम् वलस्य गोऽमतः अप अव: अद्विऽवः बिलम् त्वाम् दे॒वाः अबिभ्युषः तुज्यमानासः आविषुः॥
स्वर्वतीर्गा: अपहृत्य पर्वतगुहायां क्वापि अन्धतमसे जडोपलक्षणे निहितवान् असुरो वलो वृत्रबन्धुः। पिहितद्वारं ताद्वैलं अभियां देवानां साहय्येन उद्घाट्य, तास्सौरीः ऐन्द्रीर्वा गा विमोच्य पुनर्लब्धवान् । जडांशभूयिष्ठे देहे तामसेषु छिद्रेषु चिज्योतिर्मरीचयो गोपिता: दिव्यज्योतिश्शत्रूगां एकेनासुरेण वलयित्रा शक्तिविशेषेण। ऋतचित्तेजोबलभासिना चेतसा साधनेन तदध्यक्षेण स्वर्धामा इन्द्रेण गूढं घनं छिद्रं प्रविश्य उक्तस्वरूपाः गावो निस्सारिताः । इदं च वृत्तान्तान्वाख्यानस्य तत्त्वं सङ्कपत उक्तम् । सुरूपकृत्नुमिति सूक्तस्य व्याख्याऽप्यत्रावधेया। अद्रिवः हे वज्रिन् ! त्वम् गोमतः गोयुक्तस्य वलस्य उक्तलक्षणस्य बिलम् छिद्रं अपावः अपावृणो: वृञ्-वरणे लङ् छान्दसम् , देवाः त्वत्सहायाः मरुत इति व्याख्या-तारः ब्राह्मणमुदाहरन्ति, अबिभ्युषः अबिभिवांस: प्रथमार्थे द्वितीया, अभीताः शत्रोरित्यर्थः, तुज्यमानासः क्षिप्रनामैतत् , त्वरमाणा इति स्कन्दस्वामी। त्वाम् आविषुः आविविशुः (लिट् विशेः, अभ्यासाभावः छान्दस: शकारस्य षश्च) ।
तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् । उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥ ६॥ तव अहं शूर रातिऽभिः प्रति आयम् सिन्धुम् आऽवदन् उप अतष्ठन्त गिर्वणः विदुः ते तस्य कारवः॥
गिर्वणः स्तुतिभिः सम्भजनीय! शूर शौर्योपेत इन्द्र तव रातिभिः अनुग्रहलक्षणैः दानैः सिन्धुम् स्यन्दमानं सिन्धुवत् प्रवहन्तं त्वां, सोममित्येके व्याख्यातारः अहं प्रत्यायम् प्रत्यागमं त्वत्सन्निधिमहमागतवानस्मीत्यर्थः। आयम् , इण गतो लङ्क। किं कुर्वन् ? आ वदन् सर्वत: उच्चारयन् ख्यापयन्नित्यर्थ:, तव महिमानमिति शेषः । शूरस्य तव प्रसादाल्लब्धैः तेजो-बल-पराक्रमैरेव सर्वत्र कृतवानस्मि योगयात्राम् । अस्मदीयान-प्राण-मनोगतसोमरसशोषणैरसुरैरशोषित: सन् सिन्धुवन्नित्यरसप्रवाहं त्वां प्राप्तवानस्मीति भावः । ’शूर’ ’सिन्धुम्’ इति प्रयोगस्य प्रयोजनं बोध्यम् । ’मायाभिः’ इत्युत्तरर्चा सम्बन्धोऽस्या ग्राह्यः। तदिदं ते माहात्म्यं यद् विशुद्धबुद्धयो यज्ञशालिनो वा त्वामुपतिष्ठन्ते। मन्त्रकृतामृषीणां तत्ते विदितमिति चेत्युत्तरार्धेनाह । गिर्वणः गीर्भिर्वननीय हे इन्द्र, मेधाविनो यज्ञवन्तो वा उपातिष्ठन्त उपतिष्ठन्ते स्तुतिभिस्त्वामिति शेषः । तस्य ताहशस्य ते तव महिमानं कारवः कर्तारः स्तोत्राणाम् विदुः जानन्ति ।
मायाभिरिन्द्र मायिन त्वं शुष्णमवातिरः। विदुष्टे तस्य॒ मेधिग़स्तेषां श्रवांस्युक्तिर ॥ ७ ॥ मायाभिः इन्द्र मायिनं त्वम् शुष्णम् अव अतिरः विदुः ते तस्य मेधिराः तेषां श्रवांसि उत् तिर ॥
इन्द्र त्वम् मायाभिः तव प्रज्ञाभि: कापट्य गवेषणदर्शनविध्वंसनकुशलाभि: विविधाभिरित्यर्थः मायिनम् विविधकपटप्रज्ञोपेतं शुष्णम् एतन्नामकं असुरं अवातिर: हतवानसि अवतिरतिर्वधकर्मेति स्कन्दस्वामी, अधस्तात् कृतवान् इत्युपपन्नः पदार्थः । मेधिरा: मेधाविन ऋषय: तस्य ते तादृशस्तव महिमानं विदुः जानन्ति । तेषां ऋषीणां श्रवांसि श्रवणानि दिव्यानि उत्तिर वर्धय, उत्कृष्टानि कुरु। वृत्रबन्धुर्वल इव तज्जातीयकोऽसुरः शुष्णः शोषयिता रसानां [भूतानां इत्येके] । अन्यत्प्रारव्याख्यातं ’सिन्धुम्’ इति प्रसक्तो। ’विदुष्टे तस्य’ इति आवृत्ति: ’मेधिराः’ ’कारवः’ इति श्रवणं च उभयोचो: सम्बन्धं द्योतयेताम् ॥
इन्द्रमीशानमोजसाभि स्तोमा अनूषत । सहस्रं यस्य रातय उत वा सन्ति भूयसीः॥ ८॥ इन्द्रम् ईशानम् ओजसा अभि स्तोमा:अनूषत सहस्रम् यस्य रातयः उत वा सन्ति भूयसीः॥
ओजसा बलेन ईशानम् विश्वस्य नियामकं ईश्वरं (ईष्टे इत्यस्मात् शानच् )। इन्द्रं स्तोमाः स्तोतारः अभ्यनूषत अभिमुखं स्तुवन्ति, लडथै लुङ् । यस्य इन्द्रस्य रातयः दानानि सहस्रम् बहुसङ्खयोपलक्षणमिदम् , सन्ति, उत वा अपि वा भूयसी: भूयस्य: विभक्तिव्यत्यय:, बहुतराः सन्ति भवन्ति ।
सूक्तेऽस्मिन् ऋचा पदार्थकथन एव सामान्यतस्तत्र तत्र तात्पर्यमाविष्कृत-मिति नेह विस्तर इष्यते। मधुच्छन्दस एवेदमपि सूक्तं न तत्पुत्रस्येति प्राहुरेके। तथा आनन्दतीर्थ-आचार्यो मन्यते। ऋषिर्जेतैव भवतु मा वा। तात्पर्यावगतो ऋाषेनिर्णय अधिकृत्य मतभेदोऽकिञ्चित्करः, विशेषतो गतिसामान्यात् । माधु-च्छन्दसानि सूक्तानि एकादश दाशतय्यामाद्यानि व्याख्यातानि । अग्नीन्द्रादि-देवतानां तत्त्वं भूमिकायां प्रतिपादितमवधृत्य एषां सूक्तानां अवलोकने गूढार्थपद्धति-विंशदा भवेदित्यसंशयम् ।
इति प्रथमस्य प्रथमे एकविंशो वर्ग: इति तृतीयोऽनुवाकः
अथ चतुर्थोऽनुवाकः । तत्र षट्सूक्तानि । ऋषिर्मेधातिथि: कण्वपुत्रः । आद्यं अग्निं दूतमिति द्वादशर्च आग्नेयं गायत्रं सूक्तम् । तत्र प्रथमामृचमाह—
अग्नि दूतं वृणीमहे होतारं विश्ववेदसम् । होतारं विश्ववेदसम् । अस्य य॒ज्ञस्य सुक्रतुम् ॥१॥ अग्नि दूतं वृणीमहे होतारम् विश्वऽवेदसम् अस्य य॒ज्ञस्य सुऽक्रतुम् ॥
अग्निम् वृणीमहे अभ्यर्थयामहे इति स्कन्दस्वामी। अस्मदर्थ देवान् प्रति दूतत्वे अध्येषामहे इत्युपपन्नतरम् । कीदृशम् ? दूतम् सामर्थ्याद्विधेयविशेषणं ग्राह्यम् । पुनः कीदृशम् ? होतारम् आह्वातारम् । पुनश्च विश्ववेदसम् विश्वस्य वेत्तारम् । अस्य प्रवर्तमानस्य यज्ञस्य सुक्रतुम् शोभनकर्माणम् । कर्मणि प्रज्ञायां च वर्तते ऋतुशब्दः । अत्र विश्वज्ञानसम्पन्नमिति विशेषणमन्यत् प्रयुक्तमवधेयम् । तस्मात् कर्मेति ग्रहणमुपपद्यते ।
अग्निमग्नि हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहं पुरुप्रियम् ॥२॥ अग्निम्ऽअग्निम् हवीमऽभिः सदा हवन्त विश्पतिम् हव्यऽवाहम् पुरु-ऽप्रियम्
अग्निमग्निम् वीप्सायां द्विर्भावः, अग्निमेव सर्वत्र यजमाना ऋषयः हवीमभिः आह्वानमन्त्रैः, हे-धातो: मनिन् छान्दसम् । सदा हवन्त आह्वयन्ति, लडर्थे लङ् छान्दसम् । कीदृशम् ? विश्पतिम् प्रजानां पालकम् । हव्यवाहम् यजमानेन समय॑माणानां हव्यानां देवान् प्रति वोढारं प्रापकमित्यर्थः । पुरुप्रियम् पुरूणां बहूनां प्रियम्। अन्तर्यजने हविरादीनि घनद्रव्याणि शरीरसम्बन्धीनि अंशत: साकल्येन च अर्पणीयानि ग्राह्याणि। येनार्पणेन देवाधीनं क्रियते शरीरम् । अन्यत् सर्व सुगम अन्तरर्थे ।
अग्ने दे॒वाँ इहा वह जज्ञानो वृक्तबहिषे । असि होता न ईड्यः ॥ ३॥ अग्ने दे॒वान् इह आ वह जज्ञानः वृक्तऽबर्हिषे असि होता नः ईड्य:॥
हे अग्ने त्वं जज्ञान: जायमानः, अन्तर्यजमाने मयि प्रादुर्भवन्नित्यर्थः, जने: लिटि कानच् , जानातेर्वा इति स्कन्दस्वामी। वृक्तवहिषे वृक्तं आस्तीर्ण बहिर्येन तस्मै यजमानाय देवान् इह अत्रेदं मम यजनं आवह आनय । नः अस्माकं ईड्यः अध्येषणीयत्वेन स्तुत्यः त्वं होता आह्वाता देवानां असि ।
वृक्तबर्हिषे-व्याख्यातम् , अन्तर्यजने देवानामागमने आसनसन्नाह इत्यादि प्रागुक्तम् ’दम्रा युवाकवः’ इति मन्त्रस्य विचारे । ।
ताँ उशतो वि बोधय॒ यदग्ने यासि दृत्यम् । देवैरा सत्सि बर्हिषि ॥४॥ तान् उशतः वि बोधय॒ यत् अग्ने यासि दूत्यम् देवैः आ सत्सि बर्हिषि ॥
हे अग्ने यत् यस्मात्कारणात् , येषां यान् प्रति वा दूत्यं दूतकर्म यासि गच्छसि वहसीत्यर्थः, तस्मात् , तान् उशतः कामयमानान् यज्ञमिति शेषः, देवान् विबोधय प्रबुद्धान् कुरु। विबोध्य च तै: देवैः सह बर्हिषि उचिते सिद्ध च अस्मिन्नासने आसत्सि आसीदसि, आसीदेत्यर्थः, सीदतेर्लट् छान्दसम् ।
घृताहवन दीदिवः प्रति म रिषतो दह। अग्ने त्वं रक्षखिनः ॥५॥ घृतऽआहवन दीदिऽवः प्रति स्म रिषतः वह अग्ने त्वम् रक्षस्विनः॥
हे अग्ने घृताहवन घृतेनाहूयमान, दीप्तया धिया आहूयतेऽग्निरन्तर्यजने, ’धियं घृताचीम्’ इत्यत्र घृतं व्याख्यातम् । दीदिवः द्योतमान, द्योतनार्थाद दीव्यते: लिट: वसुन् , अन्यत् छान्दसम् । प्रति प्रतिकूलमाचरतो रिषतः शत्रून् हिंसार्थाद् रिषतेः शतृ। त्वं दह स्म भस्मीकुरु । स्मेति पादपूरणो वा । कीदृशान् रिषतः ? रक्षस्विनः रक्षोयुक्तान् , रक्षरशब्दान्मतुबर्थे विनिः ।
अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा। हव्य॒वाडू जुह्वास्यः ॥६॥ अग्निना अग्निः सम् इध्यते कविः गृहऽपतिः युवा हव्यऽवाट् जुहुऽआस्यः॥
अग्निः आहवनीय:, अन्तर्यजननिर्वाहार्थ आह्वातव्यः कृतचिद्धामा दिव्यः । अग्निना यजमानतपोबलादन्तर्निमथ्येनाग्निना समिध्यते सम्यग्दीप्यते [तपो ब्रह्म, तपसा विजिज्ञासस्वेतिवत् अग्निना अग्निः सम्पाद्यः । अलसस्य स दुर्लभः, ऋषेरायंस्य कृष्टेरग्निहोत्रं स्वभावसिद्धं सहजं कर्म]। कीडशोऽग्निः ? कविः अती-न्द्रियदर्शी। गृहपतिः अग्नये भगवते सर्वथा यजमानेन आत्मसमर्पणे क्रियमाणे, तस्य गृहस्य वासस्थानस्य स्वामी भवत्यग्निः, गृहस्य पालकः । युवा स नित्य-यौवनः, हव्यवाट् हव्यानां वोढा [व्याख्यातम् ], जुह्वास्यः जुहूरास्यं मुखमस्य, जिह्वा ज्वाला भवति । अग्ने: सैव मुखम् (जुहोतेर्जुहू:) ’जुहूभिजिह्वाभिः’ साय-णीयम् (१-५८-४) ’उत्तानं ऊर्ध्वः अधयत् जुहूभिः’ (५-१-३)।
इति प्रथमस्य प्रथमे द्वाविंशो वर्ग:
अथास्मिन् सप्तमीमृचमाह—
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे । देवममीवचातनम् ॥ ७ ॥ कविम् अग्निम् उप स्तुहि सत्यऽधर्माणम् अध्वरे दे॒वम् अमीवऽचातनम्॥
अग्निम् उप उपेत्य स्तुहि स्तुतिं कुरु। सखायमन्तर्याजिनं अन्तरात्मानं एव वा आमन्त्र्य ऋषेर्वचनम्। कीदृशम् ? कविम् द्रष्टारमतीन्द्रियार्थानां अध्वरे अनुष्ठाने दिव्यपथस्य दातरि यज्ञे, सत्यधर्माणम् सत्यं ऋतमेव धर्मो यस्य तम् (विस्तरभिया न व्याख्यायते, इदं त्ववधेयम् । सत्यधर्म एव परमं श्रेयः यदर्थमेव ऋषीणां सर्वाण्यनुष्ठानानि प्रवर्तन्ते। उपनिषदि ’सत्यधर्माय दृष्टये’ इत्युक्तिश्चानु-सन्धेया)। देवम् दीप्तिमन्तम् । अमीवचातनम् अमीवानां हिंसकानां रोगाणां वा चातनं नाशयितारं, (अम रोगे इत्यस्मात् ईंडागमो वन् प्रत्ययश्च ।) चते याचने इत्यस्य णिचि रूपमित्याहुः । किं तु ’चातयते नाशयति’ इति सायणीयम् । ’अयं वृत: चातयते’ (४-१७-९) अन्यत्रापि एवमेव ।
अष्ठमीमृचमाह—
यस्त्वामग्ने हविष्पति तं देव सर्यति । तस्य स्म प्राविता भव ॥ ८॥ यः त्वाम् अग्ने हविःऽपतिः दूतम् देव सर्यति तस्य स्म प्रऽअवता भव ॥
हे अग्ने देव यः हविष्पतिः हविष: स्वामी यजमानः । हविरग्नये अर्पण-योग्यं द्रव्यम् । सङ्केतः प्राग्विवृतः। दूतम् देवानां अस्मदर्थमिति शेषः, त्वाम् सपर्यति परिचरति तस्य हविरपणं कुर्वतो यजमानस्य त्वम् प्राविता प्रकर्षण वर्धयिता भव स्म असीत्यर्थः, ’स्म’ पादपूरणो वा
नवमीमृचमाहू—
यो अग्नि देववीतये हविष्माँ आविवासति । तस्मै पावक मृळय ॥९॥ य: अग्निम् देवऽवीतये हविष्मान् आऽविवासति तस्मै पावक मृळय ॥
यः हविष्मान् हवियुक्तः यजमान: देववीतये देवानां वीतिरागमनं यस्मिन् यज्ञे तस्मै (बहुव्रीहिः, तस्माद्विशेषणमध्याहार्यस्य यज्ञस्य) अग्निम् आविवासति परिचरति (अन्तर्भावितण्यर्थः, गत्यर्थो वातिर्धातु: तस्मात् सन् , आगमयितुं इच्छतीति धात्वर्थः, तादृशीच्छैव परिचर्यायां पर्यवस्यतीति हेतो: निघण्टौ तथा पठितम् )। तस्मै यजमानाय हे पावक शोधक अग्ने मृळय सुखं कुरु । यज्ञ प्रति देवानां ’वीतिः’ यजमाने तेषां प्रादुर्भाव एव भवति । पुनातेः पावको रूढिरग्नौ । अर्पणद्रव्यस्य हविषः स्वरूपं प्रागुक्तम् ।
स नः पावक दीदिवोऽग्ने दे॒वाँ इहा वह । उप यज्ञं हविश्च नः ॥१०॥ सः नः पावक दीढिऽव: अग्ने देवान् इह आ वह उप यज्ञम् हविः च नः॥
हे पावक शोधयितः, दीदिवः दीप्तिमन् , अग्ने सः त्वं नः अस्मभ्यं तादर्थे चतुर्थी, देवान् इह अत्र अस्मदीययजनस्थाने आवह आहर । अस्माकं यज्ञम् यजनम् हविश्व उप समीपं तेषां, प्रापयेत्यर्थः ।
एकादशीचमाह—
स नः स्तवान आ भर गायत्रेण नवीयसा। रयिं वीरवतीमिषम् ॥ ११ ॥ सः नः स्तवानः आ भर गायत्रेण नवीयसा रयिम् वीरऽवतीम् इषम् ॥
सः त्वम् नवीयसा नवतरेण गायत्रेण स्तोत्रेण गायत्र्या इदं गायत्रम् तेन स्तवानः स्तूयमानः नः अस्मदर्थ आभर आहर सम्पादयेत्यर्थः । आहरणीयं आह। रयिम् धनम् वीरवतीम् वीर्योपेतां इषम् प्रेरयित्री शक्तिं च । ’इषं अन्नं’ इति स्थूल: पक्षः। सूक्ष्मे तु सर्वत्र प्रेरणबलं, एषणाशक्तिरिति वा बोध्यम् । केवलं प्रेरणा निर्बलाऽपि स्यात् , अत एव वीरवतीति विशेषणम् । वीरशब्देन वीर्य लक्षितं ग्राह्यम् । रयिर्धनं अन्तर्याजिनः प्राधान्येन दिव्यं धनमेव भवति । (स्तवानः ष्टुबू स्तुतौ कर्मणि शानचू छान्दसं रूपम्) ’नवीयसा गायत्रेण’ पूर्वकै-रप्यसम्पादितमिदं गायत्रं सृक्तमिति सायणः । अन्यैरकृतपूर्वेण इति स्कन्द-स्वामी।
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः। इम स्तोमं जुषस्व नः ॥ १२ ॥ अग्ने शुक्रेण शोचिषा विश्वाभिः दे॒वहूतिऽभिः इमम् स्तोमम् जुषस्व नः ॥
हे अग्ने शुक्रेण शुभ्रेण शोचिषा रोचिषा विश्वाभिः सर्वाभिः देवहूतिभिः देवाहानसाधनभूताभिः स्तुतिभिश्च युक्तः, (बहुव्रीहिः, देवानां हृतय: यासु ता: स्तुतयः) नः अस्माकं इमम् स्तोमम् जुषस्व सेवस्व ॥
इति प्रथमस्य प्रथमे त्रयोविंशो वर्ग:
व्याख्यातं काण्वस्य मेधातिथेराद्यं आग्नेयं सूक्तम् । अथ तस्यैव द्वितीयं गायत्रं द्वादशर्च आप्री-संज्ञकं सूक्तमारभ्यते। तत्र प्रत्यूचं प्रतिपाद्यमाना द्वादश देवता इति अनुक्रमणिका। अग्निरेक एव द्वादशविभागभूतदेवतात्मकतया स्तूयत इति हेतोराग्नेयेषु सूक्तेषु मध्ये पट्यत इदमाप्रीसूक्तम् । अग्नीषोमीयं पशुं विधाय तत्र एकादश प्रयाजान् विपत्ते ’आप्रीभिराप्रीणाति’ इति ऐतरेयिण: समामनन्ति । प्रयाजदेवतानां याज्याः (स्तुतय:) प्रीतिहेतुत्वात् आप्रीशब्देनोच्यन्ते । एवं कर्मसु विनियोगः स्पष्टः स्थूलपक्षे, तथा मन्त्राणामर्थोऽपि सुखेन योजनीयतां लभते। सूक्ष्मार्थ एव विचारणीयः । कथं अग्निराधातव्यो यजमाने ? कीदृशं यजमानस्वरूपम् ? कीदृशोऽग्नेापारः ? इतीमानि अधिकृत्य तत्त्वे दृढं गृहीते आप्रीमन्त्रार्थानां रहस्यं अनायासेन स्पष्टं भवेदित्यसंशयम्। मन:-प्राण-शरीरात्मकस्य त्रिकस्योपयोक्ता उपभोक्ता अधिष्ठाता योऽन्तरे स्फुरन्नात्मा भवति स जीवो यजमानः पुरुष उच्यते। परिपाकवशात्तस्य दिव्यसम्पदे दिव्यजन्मने देवतानुग्रह-सम्पादनाय प्रवृत्तौ जातायाम्, तस्य हृद्ता काङ्क्षा तीव्रा भवति । सा च भक्ति-परवशया धिया तपोबलेन वा उभयथाऽपि वा विशेषतो ज्वलिता भवति। एवं देवकामस्य जीवस्य ज्वलितायां काङ्क्षायां, स्वयमेवेश्वरो द्रष्टा दर्शयिता च सर्वस्य, ’कविः’ कर्ता कारयिता च कर्तव्यस्य ’क्रतुः’ प्रादुर्भवति । अत एव ’अग्निनाग्निः समिध्यते’ इति मन्त्रदृष्टिः । तथा तस्याग्नेयजमाने जन्मनः परं क्रमेण स एव यजमानस्य सर्व भारं वहन् कार्य साधयति । स होता पुरोहित: सत्य: सत्यवर्मा गृहपतिः इत्यादीनां विशेषणानां प्रयोजनमधुना सुगमं भवेत् । स जातो वर्ध-यितव्य:, ज्वलयितव्य: अस्मदीयैः स्तोत्रैयानैः कर्मभिश्च । स एव न: कर्तव्येषु अध्येषणीय:। सर्वथा स प्रीणनीय:। प्रीते तस्मिन् , तस्योद्योगे सति तद्विभूति-भूतानि दैवतान्यन्यानि आविर्भूय स्वीयाः सम्पदो यजमानं प्रापयन्ति । ता एव देवता: आप्रियः अस्मिन् सूक्ते प्रतिपादिताः। सर्वाश्च ता अग्निसम्पद एवेति ग्राह्याः। प्रीज् प्रीणने इति धातो: आप्रीशब्दनिर्वचनं प्राहुः, तर्हि आप्रिय: स्तुतय इति युक्तम् । पृ-पालनपूरणयोरिति धातोश्च निष्पाद्यः शब्दः, तर्हि देवता: आप्रियः आपूरयित्र्य: यजमानस्येति शेषः । यजमानं इमाः स्वात्मना पूरयन्ति अग्निविभूतय इत्यर्थः । ’स विद्वाँ आ च पिप्रय:’ (२-६-८) स त्वं विद्वान् विशेषाभिज्ञः सन् आ च सर्वतोऽस्मान् ‘पूरय’ कामैः इति सायणव्याख्या लक्षणीया ।
तदस्मिन् सूक्ते इध्मापरनामकसमिधाद्याः आप्रिय: यजमाने लब्धजन्मनोऽग्नेः वर्धमानस्य दशाविशेषान् प्राप्नुवतः पूर्णाविष्कारायोपकरणभूताः काश्चन विभूति-विशेषा मूर्तिविशेषाश्च प्रतिपादिता भवन्ति । अथ च इदमवधातव्यम् । आप्री-सूक्तेषु सर्वत्र सर्वाश्च प्रधानदेवताः यज्ञे सान्निध्यं कर्तुं स्तूयन्ते। अग्निमुखेन ता आहूयन्ते। अतोऽग्निमुखा देवा भवन्तीति अग्निदेवत्यमाप्रीसूक्तमित्याहुः । यद्यपि परदैवतस्य मूर्तय एव सर्वांश्च देवताः, तथाऽपि व्यापारभेदो व्यक्तिभेदश्च बोध्यौ। ऋचां व्याख्याने तत्सर्व यावदपेक्षितं प्रदर्शयिष्यामः ।
सुसमिद्धो न आ वह दे॒वाँ अग्ने हविष्मते । होत: पावक यक्षि च ॥१॥ सुऽसमिद्धः नः आ वह देवान् अग्ने हविष्मते होतरिति पावक यक्षि च ॥
हे अग्ने सुसमिद्धः शोभनत्व-विशिष्टः सम्यग्दीप्तः त्वं नः मह्यम् (वचन-व्यत्ययेन बहुवचनमुक्तम् ) हविष्मते हविर्युक्ताय यजमानाय देवान् आवह आनय। हे होतः आह्वात:, पावक शोधक, यक्षि च यज च। सुसमिद्धः-सम् इति सम्यगर्थे इन्धनक्रियाविशेषणम् , तस्मात् समिद्धः गतिसमासः, सुशब्दः शोभन-वाची तस्मात् कर्मधारयः। यक्षि-यजेति लोटि मध्यमपुरुषैकवचनम् । सुसमिद्ध-शब्देन इध्मनामकोऽग्निः सूचित इत्याहुः। प्रादुर्भूतस्य प्रथमं अल्पाकारस्य ज्वालावर्धनं स्तोत्रध्यानकर्मानुष्ठानैः समित्सङ्केतितैः सम्पद्यते । अत्र ’अग्ने’ इति तत्संवर्धनोपकरणभूतसमिधः सम्बोधनं अवधेयम् । अन्यत् प्रागुक्तम् ।
मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । अद्या कृणुहि वीतये ॥२॥ मधुऽमन्तम् तनूऽनपात् यज्ञं देवेषु नः कवे अद्य कृणुहि वीतये ॥
हे अग्ने, तनूनपात् एतत्संज्ञक, कवे द्रष्टः, सर्वार्थदर्शिन् , अद्य न: अस्माकं अस्मदीयं मधुमन्तम् रसवन्तमुपभोगक्षममित्यर्थः यज्ञ इमं सर्व देवेषु देवानां मध्ये तत्समीपमित्यर्थः कृणुहि कुरु, नय । किमर्थम् ? वीतये आगतये तेषामिति शेषः । इमं यज्ञं निवेदय देवानाम् , येन ते च आगताः स्युः । अग्निरेव तनूनपात् प्रोक्तः । शरीरे प्रादुर्भूतोऽग्निरस्माभिः प्राग्व्याख्यातलक्षण-स्तनूनपात् । ऊर्जानपात्, अपां नपात् इत्यादौ यथा शक्तेर्जातोऽग्निरुच्यते, तथा यजमानस्य तन्वां जातः पुत्रः ।
अत्र तृतीयामृचमाह—
नराशंसमिह प्रियमुस्मिन्य॒ज्ञ उप ह्वये । मधुजि हविष्कृतम् ॥३॥ नराशंसम् इह प्रियम् अस्मिन् यज्ञे उप ह्वये मधुऽजिह्वम् हवि:ऽकृतम् ॥
नराशंसम् एतन्नामकमग्निं इह अस्मिन् यज्ञे अस्मदीयेऽत्र प्रवर्तमाने यजने उपह्वये आह्वयामि । कीदृशम् ? प्रियम् प्रीणनशीलं, देवानां प्रीतिं जनयति, यजमानस्यापि प्रीतिहेतुरग्निः । मधुजिह्नं मधुरवाचम् , जिह्वया वाग्लक्ष्यते । हविष्कृतम् हविष: कर्तारम् , हविषि य आस्वाद्यो रसः तस्य ग्रहणे समर्था जिह्वा तस्याग्नेः, हविरन्नमपि अग्निनैव पक्वं भवति, तस्माद्विशेषणद्वयमिदं उपपद्यते स्थूले बाह्ये कर्मणि। अन्तरर्थे तु देवाह्वानसमर्था मधुरभाषिणीव ज्वाला दिव्यमध्वान-मूर्ध्व गत्वा देवानधिगम्य आकर्षति, यजमानेनार्पणीयं देवाह्वानसाधनं हविरपि कविक्रतुना अग्निनैव साधितं भवति, यजमानप्रयाससाध्यं हव्यं अग्निनैव भगवता सफलं क्रियते । एवमुपपद्यते विशेषणद्वयम् । नराशंस इत्यग्निरेवोक्तोऽस्यामृचि । नराणां देवानां शंस इति व्युत्पत्तिः। देवानां शंसनेन देवकामं यजमानमुत्तेजय-त्यग्निः ।
अग्ने सुखतमे रथे देवाँ ईळित आ वह । अस होता मनुर्हितः॥४॥ अग्ने सुखऽतमे रथे देवान ईळित: आ वह असि होता मनुःऽहितः ॥
हे अग्ने, ईळित: इटू-शब्दाभिधेयोऽग्निः आप्रीषु प्रतिपादितानामेक: ईळितशब्देनोक्त इत्याहुः । यद्यपि अस्य शब्दस्य सामान्यार्थः स्तुतोऽस्माभिरिति भवति, तथाऽपि अस्माभिः काक्षितः, कर्तव्ये देवकार्येऽस्मिन् यजने सत्कारपूर्वकं नियोजित इति भवति । अत एव अध्येषित इति प्राग्वद् ग्राह्यम् । तथाभूतस्त्वं सुखतमे अत्यन्तसुखहेतौ रथे शीघ्रगतिके याने देवान् उपवेश्य, आवह आनय। सुखतमेन रथेन आवहनसाधनेनेति, तृतीयार्थे सप्तमी । तथा देवानां आनयनं अग्ने: कार्यम् । अत आह । त्वं होता आह्वाता असि आह्वानं तव धर्मः । किं च मनुर्हितः मनुना मन्त्रेण अस्माभिः हित: दृढं निहितः स्थापित: । ’मन ज्ञाने मन्यत इति भनुः छान्दस: सु इत्यादेशः तस्य रुत्वम् । मन्त्रा ज्ञात्रा यजमानेन हित इति विग्रहः । मन्त्रेण ब्रह्मपदवाच्येन हादवाग्विभवेन स्थापितोऽग्निर्यजन-निर्वाहायेत्यपि बोध्यम् । अद्यापि मनुशब्दः तन्त्रशास्त्रेषु मन्त्रपयितया प्रसिद्धः । अत्र ईळितः साक्षादग्निरेवेति स्पष्टम् ।
स्तुणीत बहिरानुषग्घृतपृष्ठं मनीषिणः। यत्रामृतस्य चक्षणम् ॥ ५॥ स्तृणीत बर्हिः आनुषक् घृतऽपृष्ठम् मनीषिणः यत्र अमृतस्य चक्षणम् ॥
हे मनीषिणः बुद्धिमन्तः सखायः, बर्हिः दर्भ (अन्तरे देवानामासनं बर्हिषा सङ्केतितं बोध्यम् )। स्तृणीत आस्तीर्ण कुरुत, वेदेरुपरिभागं आच्छादयत, अन्तर्वेद्यामासनं सुखं सिद्धं कुरुत। अन्यत्रापि वेद्यां बर्हिः सुखासनं भवतु देवा-नामिति द्योतयितुं ऊर्णाकम्बलवन्मृद्वित्युक्तं ’ऊर्णाम्रदाः’ (५-५-४)। कीदृशं बर्हिः ? आनुषक् आ समन्तादनुक्रमेण अनुषजति, परस्परसम्बद्धं सुसङ्गत-मित्यर्थः। घृतपृष्ठम् घृतशब्दवाच्यदीप्तियुक्तं पृष्ठं उपरिभागोऽस्य बहिर्वाच्यस्या-यत्र बर्हिषि अमृतस्य मरणरहितस्य नित्यस्य देवानां आगतौ तदासन-रूपतयाऽप्यवस्थितस्याग्ने:, चक्षणम् दर्शनं भवति । अमृतचक्षुःस्थानं भवति अन्तर्वेद्यां आसनमित्युक्तम् ॥ सनस्य । ।
वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः। अद्या नूनं च यष्टवे ॥६॥ वि श्रयन्ताम् ऋतऽवृधः द्वारः दे॒वीः असश्चतः अद्य नूनम् च यष्टवे ॥
यज्ञ ऊर्ध्व गच्छतीति प्रसिद्धिर्वेदे। अन्यत्रापि आप्रीसूक्तेषु यज्ञमूवं कुरुतेति प्रार्थना श्रूयते। तेन यजमानस्यैवोर्ध्वगतिः। ऊर्ध्वगमनाय द्वाराणि विवृतानि भवेयुः। अयज्वनः पुरुषस्य तानि पिहितानि भवन्ति । ततो यजमानस्तेषां ऊर्ध्वगतिद्वाराणां उद्घाटनाय दैवीः शक्तीः प्रार्थयते । देवीः द्योतमानाः द्वार: यज्ञगतिद्वाराणीत्यर्थः विश्रयन्ताम् विवृता भवन्तु। कीदृश्यो द्वारः ? ऋतवृधः ऋतस्य सत्यस्य वर्धयित्र्य:, असश्चत: सश्चतिः सङ्गकर्मा असक्ताः कवाटबन्धने, सुखोद्धाटना इत्यर्थः । किमर्थम् ? अद्य इदानीं नूनम् च अवश्यं यष्टवे यष्टुम् यज्ञायेत्यर्थः।
इति प्रथमस्य प्रथमे चतुर्विंशो वर्ग:
नक्तोषासा सुपेशसास्मिन् यज्ञ उप ह्वये। इदं नो बहिरासदे ॥७॥ नक्तोषासा सुऽपेशसा अस्मिन् यज्ञे उप ह्वये इदम् नः बर्हिः आऽसदे ॥
नक्तशब्द उषश्शब्दश्च रात्रि प्रभातं च अभिदधाते। रात्रिशब्देन अस्माकं साधारणी मानुषी प्रज्ञा, उषोलक्षितेन अह्ना दैवी प्रज्ञा च सङ्केतिते। दिने प्रकाशमानं सर्व रात्रिगर्भे वर्तते। दैवप्रज्ञायां प्रकाशमानं सर्व मानुषप्रज्ञागर्भे वर्तते। पर्यायेण वर्तमाने उभे अपि प्रज्ञे यशेऽस्मिन् आह्वयामीति मन्त्रार्थः ।
नक्तोषसा नक्तं च उषाश्च नक्तोषसा, आकारश्छान्दस: (द्वितीयाद्विवचनम् ) अस्मिन् यज्ञे उपह्वये आह्वयामि । कीदृश्यौ ? सुपेशसा शोभनरूपयुक्ते विविच्य ग्राह्ये शुभप्रदे च। किमर्थम् ? नः अस्माकं अस्माभिः आस्तीर्ण साधितं इदं बहिः आसदे आसत्तुं प्राप्तुमित्यर्थः। आङ्-पूर्वकात् सीदतेः भावे क्विप, प्रादिसमास:, आसत् तस्मै आसदे। ’विद्यां चाविद्यां च यस्तद्वेदोभयं सह’ इत्याद्युपनिषद्वाक्यानां ईदृशी मन्त्रदृष्टिमूलमिति धीमद्भिरूह्यम् ॥
ता सुजिह्वा उप ये होतारा दैव्या कवी। यज्ञं नो यक्षताम॒मम् ॥ ८॥ ता सुऽज़िौ उप हये होतारा दैव्या कवी इति यज्ञं न: यक्षताम् इमम् ॥
ता तौ (आकार छान्दसः) सुजिह्रौ शोभनवाचौ, जिह्वया आह्वात्री वाग् लक्ष्यते । दैव्या दैव्यौ देवसम्बन्धिनौ होतारा होतारौ आह्वातारो, अत एव अग्निमूर्तिविशेषौ कवी अतीन्द्रियदर्शिनौ उपह्वये आह्वयामि । नः अस्माकं इम यज्ञं तौ यक्षतां यजताम् [लोटि प्रथमपुरुषद्विवचनं छान्दसम् ] ।
इळा सरस्वती मही तस्रो देवीर्मयोभुवः । बहि:सीदन्त्व॒स्रिधः ॥९॥ इळा सरस्वती मही ति॒िस्रः दे॒वीः मयःऽभुवः बर्हिः सीढन्तु अनिधः ॥
’तिस्रो देवीः’ इति अन्यत्रापि आप्रीसूक्तेषु श्रूयमाणत्वात् तिसृणामासां साह-चर्यश्रवणाच्च तासामेका भारतीति प्रसिद्धेश्च अत्र ’मही’ भारतीति न सन्देहः । इळा एतदाख्या सरस्वती एतन्नाम्नी मही महती भारती इति तिस्रः देवी: दिव्याः शक्तिमूर्तय: । बर्हिः सिद्धमासनमिति बोध्यम् । सीदन्तु प्राप्नुवन्तु। कीदृश्य:? मयोभुवः मय: सुखनाम, तस्य सुखस्य अन्तर्भावितण्यर्थात् ’भुवः’ भावयित्र्यः । पुनः कीदृश्य:? अनिधः अहिंसिताः अबाधिताः, अथवा शोषणरहिताः, सिधेः शोषणार्थो हिंसार्थश्च भवतः । इळा ज्ञानदृष्टिदेवी शक्तिः, इति सारतोऽव-गन्तव्यम् ।8
इह त्वष्टारमग्रियं विश्वरूपमुप हये । अस्माकमस्तु केवलः ॥ १० ॥ इह त्वष्टारम् अग्रियम् विश्वऽरूपम् उप ह्वये अस्माकम् अस्तु केवलः ॥
इह अत्र यजने त्वष्टारम् एतन्नामकं सर्वेषां रूपाणां तक्षाणं देवम् उपह्वये आह्वयामि। कीदृशम् ? अग्रियम् श्रेष्ठम् सर्वदेवात्मकस्य ईश्वरस्यैव त्वष्टभूत-त्वात् यजमाने नवनवदिव्यरूपाणां आविष्कारायेति बोध्यम् । विश्वरूपम् विश्वानि सर्वाणि रूपाणि यस्य तम् , न केवलं स विश्वेषां रूपाणां साधु निष्पादक: स एव भवति विश्वरूपसामग्री। स: अस्माकम् केवलः अनन्याराधनविषयभूत: अस्तु भवतु। अत्र त्वष्टा ’अस्माकमस्तु केवल:’ इति मधुच्छन्दसा स्तुत इन्द्रः ’सुरूपकृत्नुः’ इव लक्ष्यते। यद्यपि अग्नेरेव मूर्तिविशेष एष इति व्याख्यातारः प्राहुः, देवदेवस्यैकत्वेऽपि देवानां पृथगात्मकत्वाभ्युपगमात् द्युस्थानोऽयं ऐन्द्रो देवः, इन्द्रकार्यनिर्वाही, तदात्मकतयाऽवस्थितः सर्वेश्वर इति वक्तव्यम् , विशेषत: केवलशब्दश्रवणात् ।
अव सृजा वनस्पते देव देवेभ्यो हविः। प्र दातुरस्तु चेतनम् ॥ ११ ॥ अव सृज़ वनस्पते देव देवेभ्य: हविः प्र दातुः अस्तु चेतनम् ॥
हे वनस्पते सोम, देव! त्वं देवोऽसि, तस्मात् देवेभ्यः इन्द्रादिभ्य: हवि: अस्मदीयं रसवदर्पितम् अवसृज समर्पय। प्रदातुः तथा देवेभ्य: स्वीयं सर्वानुभूतिसारात्मकं दैवतस्वीकरणक्षम संस्कृतं हव्यं ददते यजमानाय, चेतनं अस्तु संज्ञानं भवतु। चिती संज्ञान इति धात्वर्थांनुगमो बोध्यः। साक्षात्सम्पर्क-रूपं ज्ञानं संज्ञानं, दैवत-तदावासघामविषयकं ज्ञानं अस्माभिः सम्यक् स्पृष्टं लब्धं च भवत्विति भावः।
सोमस्य ओषधीशत्वं रसमयत्वं, अत एव आनन्दमयत्वं च प्रसिद्धम् ।
स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे। तत्र देवाँ उप ह्वये ॥ १२ ॥ खाहा यज्ञम् कृणोतन इन्द्राय यज्वनः गृहे तत्र देवान् उप ह्वये ॥
समानप्रवृत्तिकान् सखीनाह-हे यजमानाः, इन्द्राय इन्द्रार्थम् यज्ञं स्वाहा सुहुतं कृणोतन कुरुत। हविःप्रदानवाची स्वाहाशब्दः देवतासन्तृप्तिकारिण: सुहुतस्य प्रतिपादको भवति । कुत्र? यज्वनो गृहे यजमानस्य निकेतने मन:-प्राणशरीरात्मक इति ग्राह्यम् । तत्र पूर्वोक्ते गृहे देवान् यष्टव्यान् उपह्वये आइयामि।
इति प्रथमस्य प्रथमे पञ्चविंशो वर्ग:
अथ चतुर्थेऽनुवाके काण्वस्य मेधातिथेः तृतीयं द्वादशर्च सूक्तं गायत्रम् । अग्नयादिबहुदेवताकमिदं व्याख्याने स्पष्टं भवति ।
ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये । देवेभिर्याहि यक्षि च ॥१॥ आ एभिः अग्ने दुवः गिरः विश्वेभिः सोमपीतये देवेभिः याहि यक्षि च ॥
हे अग्ने, एभिः विश्वेभिः देवेभिः सह, पूर्वनिर्दिष्टानां सर्वेषां देवानां परामर्श: ’एभिः’ इत्यनेन बोध्य:। आयाहि आगच्छ, यक्षि यज च (यजतेर्लोटि, छान्दस:) किमर्थम् ? सोमपीतये सोमपानाय। दुवः अस्मदीयपरिश्रमरूपं कर्म प्रति गिरः स्तुतीश्च प्रति आयाहीति सम्बन्धयितव्यः। अस्मदीयस्तुतिषु परि-श्रमेषु च य: सारांशो वर्तते तं रसभरितं सोमपदवाच्यं सम्मदं स्वीकतुं देवैः सहागत्य त्वमेव यजमानो भूत्वा यजेत्युक्तम् । ।
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः। देवेभिरग्न आ गहि ॥२॥ आ त्वा कण्वाः अषत गृणन्ति विप्र ते धियः देवेभिः अग्ने आ गहि ॥
आ अहूषतेति क्रियया सम्बन्धयितव्यः । हे अग्ने त्वा त्वां कण्वाः मेधाविनः (वयं कण्ववंशजा वा) आहूषत आह्वयन्ति (हृञ् धातोर्लुङ्-छान्दस:, लडर्थे)। हे विप्र विपश्चित् , किञ्च, ते तव धियः धारणात्मिकाः प्रज्ञावृत्ती: गृणन्ति स्तुवन्ति। देवेभिः देवैः सह आगहि आगच्छ । न साधारणाः किं तु विशिष्टाः प्राज्ञाः आह्वानसमर्थास्त्वामाह्वयन्ति, तदागच्छ देवैः सह ।
इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम्। आदित्यान् मारुतं गणम् ॥३॥ इन्द्रवायू इति बृहस्पतिम् मित्रा अग्निम् पूषणम् भगम् आदित्यान् मारुतम् गणम्॥
अत्र द्वितीयानिर्देशात् तान् सर्वान् आह्वयामि सोमपीतये यैः सह अग्ने: आगमन प्रार्थितवानहमिति बोध्यम् । अथ देवानां नाम्ना निर्देशः । इन्द्रवायू इन्द्रं च वायुं च बृहस्पतिम् (पारस्करप्रभृतीनि च संज्ञायामिति सूत्रस्य वात्र्तिका-नुसारेण बृहत: तलोपः सुडागमश्च) । मित्रा मित्रावरुणौ, द्विवचनश्रवणं साहचर्याद्वरुणग्रहणार्थम् । अग्निम् पूषणम् भगम् आदित्यान् अदितिसम्भवान् मारुतं गणम् मरुद्गणम् - इमान् आह्वयामीति शेषः ।
प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः । द्रुप्सा मध्वश्चमुषदः ॥ ४ ॥ प्र वः भ्रियन्ते॒ इन्दवः मत्सराः मादयिष्णवः द्रुप्साः मध्वः चमूऽसदः ॥
वः युष्माकमर्थाय तादर्थ्य चतुर्थो, प्रकृतानामिन्द्रादीनामर्थाय प्रभ्रियन्ते प्रकर्षण भृताः भवन्ति इत्यर्थः। के ? इन्दवः क्लेदनशीलाः सोमाः । कीदृशाः ? मत्सरा: तृप्तिकराः (मन्दतेः तृप्तिकर्मणः सरप्रत्यय:, कृसर-धूसरवत् ) मादयि-ष्णवः हर्षयितारः। पुन: के ते? द्रप्साः रसबिन्दवः । मध्वः मधुस्वादाः मधुरा इत्यर्थः (मध्व इति लिङ्गव्यत्यय: जसि गुणाभावश्च) चमूषदः शरीरात्मक-पात्रे सीदन्ति गच्छन्ति। चमू-चमसादिशब्दोपलक्षित-यजमानशरीरात्मकपात्रगताः सोमा इति भावः । देवेभ्य: समर्पणाय मन:-प्राण-शरीरात्मके पात्रे कणशः कणशः (द्रप्साः) सम्पाद्य भूयांसो भूत्वा सम्भृताः (प्रभियन्त) सुखाः ’इन्दवः’ तृप्तिकारिणः हर्षहेतवः सुताः सिद्धा भवन्तीत्यर्थः। द्रुधातोनिष्पन्नः द्रप्सशब्दः, ईरणचलनादौ वर्तमानः ध्वजपर्यायो भवति क्वचित् , यथा ’ऊर्ध्व भानुं सविता देवो अश्रेद्रप्सम्’ (४-१३-२) । प्रायशः अत्यन्तमल्पांशद्योतक-बिन्दु-स्फुलिङ्ग-ज्वालैकदेशाद्यर्थे प्रयुक्तो लक्ष्यते । अत्र द्रप्सशब्दः द्रवणशीलो द्रुतोत्पतनो वा बिन्दुरित्यर्थे गृहीत:। अत एव कणशः सम्भृता: सोमा इत्युक्तम् । चमू-चमसादिवाच्यं पात्रं अन्तर्यजने शरीरमिति पुरस्ताद् आर्भवसूक्तव्याख्यानावसरे प्रपञ्चयिष्यामः।
ईळते त्वामव॒स्यवः कण्वासो वृक्तबर्हिषः। हविष्मन्तो अरंकृतः॥ ५॥ ईळते त्वाम् अव॒स्यवः कण्वास: वृक्तऽबर्हिषः ह॒विष्मन्तः अम्ऽकृतः ॥
हे अग्ने त्वाम् ईळते अध्येषन्ते । के ? अवस्यवः वर्धनकामाः कण्वासः मेघाविनः, वयममी कण्वा इति वा। कीदृशाः ? वृक्तबर्हिषः स्तीर्णासनाः, देवेभ्य इति शेष: । हविष्मन्तः देवार्थ उपकल्पितहव्याः । अरंकृतः अलं पर्याप्तं कुर्वन्तीति उपपदसमासः । अन्यूनकारिण: समृद्धकर्माण इत्यर्थः ।
घृतपृष्ठा मनोयुज़ो ये त्वा वहन्ति वह्नयः । आ देवान्त्सोमपीतये ॥६॥ घृतऽपृष्टाः मनःऽयुज: ये त्वा वहन्ति वह्नयः आ देवान् सोमपीतये ॥
हे अग्ने घृतपृष्ठाः घृतं दीप्तं पृष्ठं बहिरङ्गं येषां ते दीप्तबाह्यशरीरभागा इत्यर्थः । मनोयुजः मनसा युज्यमानाश्च ये वह्नयः अश्वा: त्वा त्वां वहन्ति, तै: आनयन-साधना है: देवान् इन्द्रादीन् सोमपीतये सोमस्य पानाय आ आवह । यज-मानमनोयुक्तवं एषां अग्निवाहानां उक्तम् । ब्रह्मयुजौ इन्द्राश्वौ प्राग्व्याख्यातौ । उभयं अपि सजातीयमभिप्रायं द्योतयति ।
इति प्रथमस्य प्रथमे षड् विंशो वर्ग:
सप्तमीमृचमाह-तान्यजत्राँ ऋतावृधोऽग्ने पत्नीवतस्कृधि । मध्वः सुजिह्व पायय ॥ ७ ॥ तान् यजत्रान् ऋतऽवृधः अग्ने पत्नीऽवत: कृधि मध्वः सुऽजिह्व पायय ॥
हे अग्ने तान् इन्द्रादीन् यजत्रान् यजनीयान् ऋतवृधः ऋतस्य सत्यस्य वर्धयितॄन् देवान् पत्नीवत: पत्नीयुक्तान् कृधि कुरु । हे सुजिह्व शोभनवाग्युक्त, अग्ने, तान् देवान् मध्वः मधुरस्य सोमस्य भागं पायय पिबतेर्हेतुमण्णिचू ।
अत्रेदमवधेयम् । पुमांस इन्द्रादयो देवाः, तच्छक्तय इन्द्राण्यादयो देव्य: । अयं विषयो भूमिकायां आवेदितः । पुंसो देवस्य महिमा शक्तया देव्या प्रख्याप्यते देवप्रभावविसारो देव्या निरुह्यते। तस्मात् शक्तिं देवीं विना शक्तस्य देवस्याविष्कारो दुर्घटः । ऋतं यजमाने वर्धयतो यष्टव्यान् इन्द्रादीन् तत्कार्यनिर्वाहशक्तियुक्तान् विधेहीति तात्पर्यम् ॥
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया। मधोरग्ने वषट्कृति ॥८॥ ये यजत्राः ये ईड्याः ते ते पिबन्तु जिह्वया मधोः अग्ने वषटूऽकृति ॥
हे अग्ने, ये यजत्राः यजनीयाः ये ईड्याः स्तुत्याः अध्येषणार्थमिति शेषः, ते देवाः ते तव त्वदीयया जिह्वया ज्वालारूपया वाचा मधोः मधुरस्य सोमस्य भागं पिबन्तु वषट्रकृति वषट्कारयुक्ते यज्ञे पिबन्त्विति सम्बन्धः । वषट्कृति-करोतेः भावे क्विप, वषडिति करणं यस्मिन् सः वषट् कृत् तस्मिन् वषट्कृति यज्ञे। स्वाहाकार इव वषट्कारः देवेभ्यः सम्प्रदाने प्रयुज्यते ।
आकीं सूर्यस्य रोचनाद्विश्वान्दे॒वाँ उपर्बुधः । विप्रो होतेह वक्षति॥९॥ आकीम् सूर्यस्य रोचनात् विश्वान् दे॒वान् उपःऽबुधः विप्रः होता होता इह वक्षति ॥
आकीम् आ इत्यर्थे निपातः योग्यक्रियया सम्बन्धयितव्य:। विप्रो मेघावी होता आह्वाता अग्निः सूर्यस्य सर्वप्रेरकस्य सर्वोत्तमस्य देवस्य रोचनात् दीप्तात् स्वर्धामः उषर्बुधः उषसि प्रबुध्यमानान् (सत्यज्योतिराविर्भावे आसन्ने देवाः यजमानस्य यजनमास्थातुं सिद्धा भवन्तीत्यर्थः) विश्वान् देवान् इह (आ) वक्षति आवहतु (वहेः प्रार्थनायां लिङर्थे लेट्) ।
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना। पिबा मित्रस्य॒ धामभिः ॥१०॥ विश्वेभिः सोम्यम् मधु अग्ने इन्द्रेण वायुना । पिब मित्रस्य धामऽभिः॥
हे अग्ने विश्वेभिः सर्वैर्देवैः इन्द्रेण वायुना, मित्रस्य एतदाख्यस्य देवस्य धामभिः तेजोविशेषैः सह सोम्यं सोममयं मधु मधुरं आस्वादनीयं रसं पिब । सोमस्य विकारः सोम्यमिति मयट् ।।
त्वं होता मनुहितोऽग्ने यज्ञेषु सीदसि । सेमं नो अध्वरं यज ॥ ११ ॥ त्वम् होता मनुःऽहितः अग्ने यज्ञेषु सीढसि स: इमम् नः अध्वरम् यज ॥
हे अग्ने त्वम् होता आह्वाता देवानाम् , मनुर्हितः मनुना मन्त्रेण मन्त्रा वा हितः स्थापित: यज्ञेषु सीदसि स्थितो भवसि । सः तादृक् त्वं न: इमम् अध्वरम् अस्मदीयमिमं यज्ञं प्राप्य यज यजनं निर्वह। सेमम्-संहितायां सोर्लोपे गुणः । मनुर्हितः प्राग्व्याख्यातम् ॥
युवा ह्यरुपी रथे हरितो देव रोहितः। ताभिर्देवाँ इहा वह ॥ १२ ॥ युक्ष्व हि अरुषीः रथे हरितः देव रोहितः ताभिः दे॒वान् इह आ वह ॥
देव, हे अग्ने रथे युक्ष्व योजय। का: ? त्वदीयाः रोहितः रोहिच्छब्दा-भिधेयाः बडवाः, कीदृशी: ? अरुषी: आरोचमानाः हरितः हरणसमर्थाश्च । ताभिः अश्वाभि: देवान् इह अस्मिन् यजने आवह आहर । अत्र पूर्वे व्याख्या-तारः स्थूलदृष्टया बाह्यार्थानुसारेणैवं प्राहु:-‘रोहितः’ अग्नेरश्वाः रोहिदाख्याः प्रसिद्धाः । ’अरुषी:’-गतिमती:, क्र-गतौ इति धातो: शब्दनिष्पत्तिः । ’हरितः’ हर्तुं अश्वारूढान् नेतुं समर्थी इति च। अत्रेदमवधेयम् । अश्वानां गतिमत्त्वे आरूढजनहरणसामर्थे वा न कस्यापि स्यात् सन्देहः । किं तु साभिप्रायविशेषणप्रयोग: मतिमत्पथं नावतरेत् , यदि गतिमत्त्वा दिकमेव विवक्षित-मित्यभ्युपगच्छेम । किं तहिँ ? विस्तरभिया किञ्चिदेव उपक्षिप्यते । अरुषपदेन आरोचमानं सांध्यरागं अरुणम् , हरिच्छब्देन हरिद्वर्ण कमनीयं ऐन्द्रम् , रोहि-च्छब्देन लोहितप्रभमाग्नेयं च वाहं वाहसमूह वा द्योतितवान् मन्त्रद्रष्टा । सर्वान् देवानानेतुं तत्तद्देवतायोग्यवाहशक्तिविशेषैर्युक्तानावह, भोः इति ॥
इति प्रथमस्य प्रथमे सप्तविंशो वर्ग:
चतुर्थे ऽनुवाक्रे काण्वस्य मेधातिथेश्चतुर्थ द्वादशर्च सूक्तं गायत्रम् । ऋतुस हिता इन्द्राद्या देवताः प्रतिपादिता इति सूक्तमिदं ऋतुदेवताकं ऋतव्यं इत्याहुः । लोके अहोरात्रमासादिभिः भिन्नभिन्नक्रियाफललक्षित: कालविभागैः महीरुहादि-मानवान्तानां तत्तद्योग्यपरिपाकविशेषाः सम्पाद्यमानाः संलक्ष्यन्ते, तथा अन्त-यंजनेऽपि देवतानामिन्द्राद्यानां तत्तद्युक्तकालविव्यनुसारेण सम्पाद्यमाना विलास-विशेषाः यजमाने पूर्णाहुतिपरे सम्पूर्णक्रतधामकामे,अत एव तदङ्गभूतबहुदैवतयोगनिष्ठे तत्तद्युक्तान् परिपाकान् विदधते। ऋतुशब्देनायमर्थो लक्षितः, यद्देवताभिः अस्म-दन्तनिरुह्यमानानां कर्मणां कालविधिः दैवतरहस्यभाक् यजमानपरिपाकदशानुसारीति, तस्मात् मन्त्रेषु व्याख्यास्यमानेषु ’ऋतुना’ सह इत्यत्र दिव्य समयानुसारेण इति ग्राह्यम् । विवरणमन्तरेण ऋतुशब्द: प्रयुज्यते मा भून्मन्त्रशोभाहानिरिति ॥
इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः। मत्सरासस्तदोकसः॥१॥ इन्द्र सोमम् पिब ऋतुना आ त्वा विशन्तु इन्दवः मत्सरासः तत्ऽओकसः॥
हे इन्द्र ऋतुना उक्तलक्षणेन सह सोमम् पिब । इन्दवः सोमाः त्वा त्वां आविशन्तु सर्वतः प्रविशन्तु। कीदृशास्ते? मत्सरासः तृप्तिकराः तदोकसः तन्निवासाः (तच्छब्दवाच्य इन्द्रस्य कुक्षिः ओको येषां ते)। एवं ’यः कुक्षि: सोमपातमः’ (१-८-७) इति सङ्गच्छते ।
मरुतः पिबत ऋतुना पोत्नाद्यशं पुनीतन। यूयं हि ष्ठा सुदानवः ॥ २॥ मरुतः पिबत ऋतुना पोत्रात् य॒ज्ञम् पुनीतन यूयं हि स्थ सुऽदानवः ॥
हे सुदानवः शोभनदानाः हे मरुतः ऋतुना युष्मदीययोग्यकालानुसारेण पिबत सोममिति शेषः। कुतः ? पोत्रात् पोतुः पात्रात् (पुनातेः पोता, तस्येदं इत्यण , वृद्धव्यभावो वैकल्पिकश्छन्दसि)। यज्ञम् इमं पुनीतन पुनीत, शोधयत (छन्दसि तनादेशः)। हि यस्मात् यूयं स्थ भवथ पवने प्रसिद्धा इति शेषः । सुदानवः-दानुशब्दः दानवचनो दातृवचनो वा, प्रादिसमासः। पोतृनामक ऋत्विक अन्तर्यजने पविता शोधको देवताविशेषः । ऋत्विजः सर्वेऽपि देवा एव झुक्ताः । प्रथममेवोक्तमग्निमधिकृत्य ’यज्ञस्य देवमृत्विजं’ इति । पवितुस्तस्य पात्रात्सोम-ग्रहणाश्रयभूतात् पीता मरुतोऽपि पवितारः प्रसिद्धाः यज्ञं पूतं निर्दोषं विधातुं प्रभवन्ति । तथा तत्कर्तृकपारिशुद्धयदाने शोभनत्वमत्यन्तस्पृहणीयम् ’सुदानवः’ ।
अभि यज्ञं गृणीहि नो नावो नेष्टः पिब ऋतुना । त्वं हि रत्नधा असि ॥३॥ अभि यज्ञं गृणीहि नः नाव: नेष्टरिति पिब ऋतुना त्वम् हि रत्नऽधाः असि॥
हे नाव: ग्नाः स्त्रियः अस्य सन्तीति नावान् तस्य सम्बोधनं नावन् , (व्यत्ययेन वः छान्दसः) पत्नीसमेत, हे नेष्टः, ’नेष्टा’ ऋत्विग्भूतो देवताविशेषः, णिजिर् शौचपोषणयोरित्यस्मान्निष्पन्नः । यदि पोता यज्ञं शोधयित्वा दोष-व्यतिरिक्तं विधत्ते, नेष्टा तं शुचिं शुभं अत एव शोभावहगुणान्वितं करोति अत्र देवशिल्पी त्वष्टा नेष्टरिति आमन्त्रित इत्यामनन्ति । तर्हि शुभत्वापादनरूप: परिष्कारः त्वाष्टकमैकदेश इत्यदोषः । उक्तलक्षणं स्वशक्तियुक्तं ऋत्विज देवमामन्त्र्य ऋषिराह-नः अस्माकं यज्ञम् अभिगृणीहि अभिष्टहि प्रशंसास्पदं कुरु । ऋतुना सह पिब सोमम् , हि यस्मात् त्वम् रत्नधाः असि (रत्नधाः व्याख्यातम् ) रतीनां धारकोऽसि, तस्मात् रत्यतिशयजनकं सोमं पिब ।
अग्ने देवाँ इहा वह सादा योनिषु त्रिषु । परि भूष पिब ऋतुना ॥४॥ अग्ने दे॒वान् इह आ वह सादय योनिषु त्रिषु परि भूष पिब ऋतुना ॥
हे अग्ने देवान् इह आवह (व्याख्यातः पादः)। आहूतान् देवान् सादय उपवेशय। कुत्र? त्रिषु योनिषु स्थानेषु सवनेषु परिभूष परितोऽलंकुरु, ऋतुना समयानुसारेण पिब। इदं सवनानां सदनानां वा त्रयस्य रहस्यं बोद्धव्यम् । अन्न-प्राण-मनोमयात्मकशरीरस्य यानि मूलभूतानि व्याहृतित्रयवाच्यपृथिव्यन्तरिक्ष-द्युलोकस्थानानि भवन्ति, तेषां तत्तद्विशिष्टवैभवस्थानानि मानवस्यान्तरे गुप्तानि किञ्चिद्वयक्तानि वा भवन्तीति बोध्यम् । आहिताग्नेस्त्वन्तयंजने इमानि त्रीणि देवसदनानि सन्नद्धानि भवन्ति, यान्यग्निपुरोहिताः देवा यष्टव्यत्वेन अलंकुर्वन्ति ।
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूंरनु। तवेद्धि सख्यमस्तृतम् ॥५॥ ब्राह्मणात् इन्द्र राधसः पिब सोमम् ऋतून् अनु तव इत् हि सख्यम् अस्तृतम् ॥
हे इन्द्र ब्राह्मणात् ऋत्विग्विशेषो देवो ब्रह्मा ब्राह्मणाच्छंसीत्याहुः, तस्येदं ब्राह्मणं तस्मात् । राधसः सोमरसरूपवनाश्रयभूतात् स्थानात् (पात्रात् इति बाह्यपक्षे वक्तव्यम् , । पात्रशब्दव्याख्याऽवधेया)। ऋतून् अनु अनुसुत्य सोमम् पिब । तव इत् सख्यम् तव सखित्वमेव अस्तृतम् अबाधितम् । हि अवधारणे । देवकामस्य यजमानस्य अन्तरुन्मेषशालिनः सर्वस्वं देवेभ्योऽर्पयतः परदैवतनिष्ठ स्य विषये इन्द्र सख्यं नित्यमेव भवति ।
युवं दक्षं धृतव्रत मित्रावरुण दृळभम्। ऋतुना यज्ञमाशाथे ॥६॥ युवम् दक्षम् धृव्रता मित्रावरुणा दुःऽदभम् ऋतुना य॒ज्ञम् आशा इति॥
हे धृतवता धृतव्रतौ ऋतानुरोधेन विहितानां कर्मणां धारयितारी मित्रावरुणा मित्रो वरुणश्च (संहितायां उभयत्र च ह्रस्वश्छान्दस:) युवम् युवां उभौ दक्षम् विवेचनपरं (व्याख्यातम् ) दुर्दभम् दुर्दहं दुःखेन दग्धुं शक्यम् , अन्यैः, विनाशयितुं अशक्यमित्यर्थः, यज्ञम् ऋतुना योग्यकालानुसारेण आशाथे व्याप्नुतः भोक्तुमिति शेषः । दूळभम् -दुःपूर्वकाहहतेः खल, दुरित्यत्र दूरिति दीर्घश्छान्दसः, तथा रेफस्य लोपः, दकारस्य डकारो हस्य भश्च ।
इति प्रथमस्य प्रथमे अष्टाविंशो वर्ग:
अथास्मिन् सूक्ते सप्तमीमृचमाह—
द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे। यज्ञेषु देवमीळते ॥ ७ ॥ द्रविण:ऽदाः द्रविणसः ग्रावऽहस्तासः अध्वरे यज्ञेषु दे॒वम् ईळते ॥
यो द्रविणोदाः द्रविणप्रद: तं देवम् अग्निं ईळते अध्येष्यत्वेन स्तुवन्ति ऋत्विज इति शेषः। कुत्र? अध्वरे यज्ञसामान्ये यज्ञेषु यज्ञविशेषेषु। प्रकृति-भूतोऽध्वरः अग्निष्टोमः, तद्विकृतयः उक्थादय इति बाह्यपक्षानुसारिणः । अन्तर्यजने तु सामान्येन परदैवताय स्वात्मीयतात्यागपूर्वकं यजमानकृतस्वात्मार्पणम् , विशेषेण स्वीयसर्वस्वभूताङ्गप्रत्यङ्गसमर्पणं परदैवतायैव तदङ्गभूतनानादेवतायजन-द्वारेण चेति प्रकृति-विकृतिसारांशो बोध्यः। ते च ऋत्विजः द्रविणसः द्रविणा-र्थिनः ग्रावहस्तासः सोमाभिषवसाधनभूताः ग्रावाणः पाषाणा: हस्तेषु येषां ते । यजमानार्थ ऋत्विजो देवा एव द्रविणार्थिनः सोमाभिषवाय सन्नद्धाः सन्त: अग्नि द्रविणदायिनं सत्कारपूर्वकं ईरयन्तीत्यर्थः। द्रविणम् धनं वा बलं वा भवतु । तद्दिव्यं वस्तु द्रव्यं भवति। यजमानकृते स्वयमग्निरेव तदद्रविणं गवेषयति साधयति चेति मन्त्रवर्णेभ्योऽवगम्यते। तस्मादग्निद्रविणस्युरपि भवति । न केवलं द्रविणोदाः । अत्र अन्ये देवाः ऋत्विग्भूता यजमानकृते द्रविणार्थिनो भवन्तीति बोध्यम्। द्रुदक्षिभ्यामिनन् , द्रविणं ददाति द्रविणोदाः, पूर्वपदस्य सकारश्छान्दसः । उत्तरपदात् ’सु’ आदेशोऽपि छान्दसः। द्रविणस:-द्रविणमात्मन इच्छन्तीति द्रविणस्यवः, द्रविणस्यतेः छान्दसत्वात् क्विप। द्रविणेच्छव इत्यवयवार्थः ।
द्रविणोदा ददातु नो वसूनि यानि शृविरे। देवेषु ता वनामहे ॥ ८ ॥ विणःऽदाः ददातु नः वसूनि यानि शृण्व॒िरे देवेषु ता वनामहे ॥
द्रविणोदाः एतन्नामको देवोऽग्निः नः अस्मभ्यं ददातु प्रयच्छतु । कानि? वसूनि द्रविणानि यानि शृण्विरे श्रूयन्ते (छन्दसि लट: लिट्, अन्यच्छान्दसम् ) यानि दिव्यानि वसूनि विश्रुतानि भवन्ति, देवरहस्यवेदिनां ऋषीणां विदितानि ता तानि देवेषु निमित्तभूतेषु वनामहे सम्भजामहे, देवार्थ देवेषु मध्ये भुज्मः । न स्वार्थपरा वयं सोमयाजिनः, अपि तु देवार्थपराः, अत: देवेष्वेव नो वसूपभोगः ।
विशोदाः पिपीपति जुहोत प्र च तिष्ठत। नेष्ट्रातुभिरिष्यत ॥९॥ विशऽदाः पिपीपति जुहोत प्र च तिष्ठत नेष्ट्रात् ऋतुऽभिः इष्यत ॥
द्रविणोदः देवः ऋतुभिः सह परिपाकविधि-विभवसम्पन्न-समयानुसारेणे-त्यर्थः, पिपीपति पिपासति (छान्दसम् ) सोममिति शेषः। कस्मात् ? नेष्ट्रात् नेष्टुसम्बन्धिन: पात्रात् (प्रागुक्तं द्रष्टव्यम् )। तस्मात् जुहोत हवनं कुरुत, प्रतिष्ठत च तदीयं स्थानं प्रति प्रस्थानं कुरुत। इष्यत तमुद्दिश्य एषणं कुरुत श्यनविकरणिनः इषधातो: न केवला गतिरर्थः, प्रेरणबलसम्पन्ना गतिरिति बोध्यम् । जुहोत-लोटू, मध्यमबहुवचनं छान्दसम् ॥
यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे। अध स्मा नो ददिर्भव ॥ १० ॥ यत् त्वा तुरीयम् ऋतुभिः द्रविण:ऽदः यजामहे अध स्म न: ददिः भव ॥
हे द्रविणोदः भगवन् , यत् यस्मात् ऋतुभिः त्वदीयदिव्यवेलानुसारेण तुरीयम् चतुर्णा पूरणं त्वा त्वाम् यजामहे अध तस्मात् कारणात् नः अस्मभ्यं ददिः दाता द्रविणस्येति शेष:, भव । स्म पादपूरणः । ददिः किप्रत्ययः, लिडूवद्-भावाद् द्विवचनादि, आतो लोपश्च । अत्रेदमवधातव्यम् । पूर्व द्रविणोदाः स्थान-त्रयापेक्षया त्रिः स्तुतः। अधुना चतुर्थवारं व्याहृतित्रयप्रतिपादित-त्रिलोकस्थाना-न्यतीत्य वर्तमानं तुरीयं सर्वोत्कृष्टं दिव्यं द्रविणं सम्पादयितुं तत्रस्थो द्रविणोदाः तुरीयस्थान: प्रार्थ्यते। चतुर्थवारं यजामह इति यजनक्रियाविशेषणतया तुरीय-पादग्रहणेऽपि समानमेव भवति तात्पर्यम् ।
अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता । ऋतुना यशवाहसा ॥ ११ ॥ अश्विना पिबतम् मधु दीद्यग्नी इति दीदिऽअग्नी शुचिता ऋतुना यज्ञ-ऽवाहसा॥
हे अश्विना अश्विनौ, ऋतुना दिव्यसमयानुसारेण मधु मधुरं सोमं पिबतम्। कीदृशौ ? दीद्यग्नी दीदिः दीप्तः अग्निः ययोस्तौ (दिवु धातोरभ्यास: छन्दसि रूपम् ) ’अश्विनौ वै देवानां भिषजावश्विनावध्वर्दू धर्म सम्भरतः’ इति ऐतरेय-ब्राह्मणं अश्विनो: अग्निमन्थनमुपपादयति । ऋक्संहितायामन्यत्र (१०-२४-४) ऋषिणा विमदेन ’ईळिती’ अश्विनौ परस्पर सङ्गतौ अग्निं निर्मथितवन्तौ-इत्वर्थको मन्त्रवर्णश्च भवति। अन्तरर्थानुसारेण तात्पर्य योजने रसवान् भवति ’दीद्यग्नी’ इति मन्त्रस्थशब्दार्थः । अश्विनोव्यापारः प्रथमानुवाके प्रतिपादित: । ’दीद्यग्नी’ इति सकृदेव प्रयुक्तं ऋक्संहितायाम् । अन्यत्र वालखिल्यसूक्तेषु सकृत् । उभयत्र च अश्विनोविशेषणम् । शुचिव्रता शुद्धकर्माणौ यज्ञवाहसा यज्ञस्य प्रापयितारो॥
गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि। दे॒वान् देवय॒ते यज ॥ १२ ॥ गाहऽपत्येन सन्त्य ऋतुना यजऽनी: असि देवान् देवऽयते यज ।
गार्हपत्येन गृहपतित्वेन हेतुना सन्त्य सनने दाने भव (षणु दाने भवेत् छन्दसीति यत् , अन्यच्च छान्दसम् ) हे अग्ने ऋतुना ऋत्वनुसारेण यज्ञनीः यज्ञस्य प्रापयिता असि भवसि । देवयते देवकामाय यजमानाय देवान् यज। अग्नि: यजमानाय स्वयं गार्हपत्यं वहन् दानाधिकारी भवति, तस्मात् यजमानस्यार्थाय स एव देवान् यष्टुं प्रभवति । सन्त्य इत्यत्र सनने भवः साधुर्वा स्यात् । भवश्चेत् यजमानेन कृते स्वार्थत्यागरूपे दाने इति ग्राह्यम् । साधुश्चेत् दाता सोऽग्निरिति स्पष्टम् ।
इति प्रथमस्य प्रथमे एकोन त्रिंशो वर्ग: ।
चतुर्थेऽनुवाके आ त्वा वहन्त्विति पञ्चमं नवचं सूक्तम् । ऋषिच्छन्दसी पूर्ववत् । इन्द्रो देवता।
आ त्वा वहन्तु हरयो वृषणं सोमपीतये। इन्द्र त्वा सूरचक्षसः॥१॥ आ त्वा वहन्तु हरयः वृषणम् सोमऽपीतये इन्द्र त्वा सूरऽचक्षसः ॥
हे इन्द्र वृषणम् वर्षितारं त्वा त्वां हरयः अश्वाः त्वदीयाः सोमपीतये सोमपानाय आवहन्तु आनयन्तु। त्वा त्वां सूरचक्षसः सूरवत् चक्षो दर्शनं येषां ते सूर्य तुल्यदृष्टय इत्यर्थः (चक्षेरसुन् छन्दसि)। ते हरयः आवहन्त्विति सम्वन्धः । त्वा इति द्विरावृत्तिरादरार्थी, अचर्चभेदाच्च । इन्द्रस्य हरीणां दर्शनानि सूर्यस्येव दूरगामीनि दीप्तानि च भवन्ति। सूर्यदर्शिनस्ते हरय इत्येकेषां व्याख्याने-ऽप्यदोषः। सूरचक्षस ऋत्विज इति सायणीयम् । तर्हि न तैर्मानुषैर्भाव्यम् । ये च यज्ञशालामलङ्कुर्वाणाः यथाविधि वेदपाठिनः यज्ञकर्मपरिसमाप्तौ स्वकर्मपरि-श्रमानुरोधेन यथोक्तदक्षिणालाभसन्तुष्टाः निवर्तन्ते, न ते सूरचक्षसः। अथेमे च ऋत्विजो देवाश्चेत् , तेषां न तत् कर्तव्यम् । इन्द्रस्य वोढारो हरयः, न ऋत्विजः, सर्वान् देवान् आवहन्नग्निः गीयते । इन्द्रश्च सर्वैर्देवैरागच्छतीति च श्रूयते । क्व श्रूयते देवा ऋत्विग्भूता इन्द्रं आवहन्तीति ? ’सूरचक्षसो’ देवाः स्यु:, देवत्वं प्राप्ता ऋषयः स्यु: । इह तु न सा प्रसक्तिः । हरय एव प्रसक्ताः उत्तरत्रापि सूक्तेऽस्मिन् हरिप्रशंसैव प्रकृतेत्यसंशयम् । नैतद्युक्तं यत् सूरचक्षस ऋत्विज इन्द्रावहनाय आहूयन्त इति। ।
इमा धाना घृतस्नुवो हरी इहोप वक्षतः। इन्द्रं सुखतमे रथे ॥२॥ इमाः धानाः घृतऽस्नुवः हरी इति इह उप वक्षतः इन्द्रम् सुखऽतमे रथे॥
इमाः पुरोवर्तिन्यः घृतसाधिताः अत एव घृतस्नुवः घृतं स्नुवन्ति प्रस्रा-वयन्तीति घृतस्नुवः ताः धानाः भृष्टयवतण्डुलरूपाः उद्दिश्य, हरी इन्द्रस्याश्वौ इह यजनकर्मणि इन्द्रम् सुखतमे रथे अवस्थाप्य उपवक्षतः वेदिसमीपे वहताम् , प्रार्थनायां लिङर्थे लोडर्थे वा लेटू । घृतेन यवतण्डुलानां भर्जनेन साधु साधिता: धानाः घृतं स्रावयन्ति । ता इमाः हर्यो: प्रोत्साहनार्थाः । यज्ञे हो: ऋजीषं भागो धानाश्च इति स्कन्दस्वामी। बहिर्यागपरस्य तात्पर्यस्यास्य जीवभूतो धानाशब्द: भृष्टयवतण्डुलेषु रूढः । यागोपयोगार्थानि द्रव्याणि घृतपयोदधिप्रभृतीनि सङ्केतभूतानीति अस्माभिः प्रतिपादितं अत्रावधातव्यम् , यवतण्डुलतद्विकारधाना-पुरोडाशादयः अन्नमयशरीरसम्बन्धलक्षकाः । यद्यपि धानं धानी धानाः इति त्रीण्यपि धारणार्थस्य दधाते: रूपाणि, रूढिभेदात् धानं धानी वा आधारपात्रं आसनं अभिधत्ते, न तथा धानाः । तथाऽपि तासां शरीरधारकत्वं, बुद्धिगतदीप्तिवाचक-घृतस्राविणीत्वं च अवयवार्थबलात् सङ्केतार्थबलात् घृतस्नुव इति विशेषणोपादानाच्च बोध्ये। बहिर्यागे हो ज्या धानाः । अन्तर्यागे हो: प्रदीप्तप्राणबलयोर्नोग्या: अन्नमयशरीरगतधारणाशक्तिविशेषाः । ऋक्संहितायां प्रायश: सर्वत्र इन्द्रायैव धानाः पच्यन्त इति श्रूयते। याज्ञिकग्रन्थेष्वेव हर्यो गो धाना उक्ताः । तत्रापि अन्तरर्थ उपपादितः। इन्द्रायैव धाना इति निर्णायका मन्त्रवर्णा बहवो भवन्ति । इन्द्र-स्वीका- ’घृतस्नुवो धानाः’ तु अन्नमयशरीरोपहितदीप्तिभरित-धीवृत्तिविशेषा इति ग्राह्यम् । तादृशीर्धानाः दिव्यप्रकाशमनोधामस्वामिनः इन्द्रस्य स्वीकार्या भवन्ति । प्रत्यहं ईदृशी: ’धानाः’ परस्परं सुसङ्गता इन्द्रमुद्दिश्य ऋषिनिवेदयन् ’भुक्ष्व’ इति प्रार्थयते ’दिवे दिवे सदृशी: अद्धि धानाः’ (३-३५-३) इति । अन्यत्र ’य इन्द्राय सुनवत् सोममद्य पचात् पक्ती: उत भृजाति धाना:’ (४-२४-७)। यागद्रव्याणां सङ्केतात्मकत्वे विचार्यमाणे, दधि-धानादिशब्दानामवयवार्थो गूढार्थ-द्वारमुद्घाटयेदिति बोध्यम् । उद्देशपूर्वकं धानादिद्रव्याणि सङ्केतरूपतया स्थापयित्वा अन्तर्यांगार्था: मन्त्रवर्णाः प्रवृत्ता इति प्रदर्शयितुं धानाशब्दप्रस्तावेऽत्र किञ्चिद्विस्तृत विवरणम् ।
इन्द्रं प्रातर्हवामह इन्द्र प्रय॒त्यध्वरे। इन्द्रं सोमस्य पीतये ॥३॥ इन्द्रम् प्रात: हवामहे इन्द्रम् प्रऽयति अध्वरे इन्द्रम् सोमस्य पीतये ।
इन्द्रम् प्रातः सवनारम्भे हवामहे आह्वयामः। अध्वरे यज्ञे प्रयति प्रवृत्ते चलति सति इन्द्रम् हवामहे इति सम्बन्ध: । इन्द्रम् सोमस्य पीतये पानाय हवामहे । अस्माकं सर्वांनुभूतिरसः सोमशब्दलक्षितः इन्द्रायाय॑ते, तस्मात् सवने प्रक्रान्ते प्रवृत्ते समाप्ते च इन्द्राह्वानमेव नः सर्वदा साधनं शरणं चेति भावः ।
उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः। सुते हि त्वा हवामहे ॥४॥ उप नः सुतम् आ गहि हरिऽभिः इन्द्र केशिऽभिः सुते हि त्वा हवामहे ॥
हे इन्द्र, नः अस्माकं सुतम् सोमं प्रति उपागहि समीपमागच्छ। कैः वोदृभिः ? केशिभिः हरिभिः प्रलम्बकेसरैरश्वैः। हि यस्मात् सुते सोमे अभि-षुते (निमित्तसप्तमी) त्वा त्वां हवामहे आह्वयामः, तस्मात् ’उपागहि’ इति सम्बन्धः । केशिभिरिति हरिविशेषणस्य प्रयोजनं प्रागुक्तम् ।
सेमं नः स्तोममा गृह्यपेदं सवनं सुतम् । गोरो न तृषितः पिब ॥५॥ स: इमम् नः स्तोमम् आ गृहि उप इदम् सवनम् सुतम् गौरः न तृषितः पिब॥
सः इमं इति संहितायां सुलोपः। सः त्वं नः अस्माकं इमं स्तोमम् स्तवं आगहि आगच्छ, आकर्ण्य अङ्गीकुर्विंत्यर्थः । सुतम् अभिषुतसोमं इदम् सवनम् यजनं उप उपेहि। उपेत्य तृषितः गौरो न तीव्रपिपासुः गौरमृग इव पिब सोममिति शेषः ।
इति प्रथमस्य प्रथमे त्रिंशो वर्ग:
इमे सोमास इन्दवः सुतासो अधि बर्हिषि । ताँ इन्द्र सहसे पिब ॥६॥ इमे सोमासः इन्दवः सुतासः अधि बर्हिषि तान् इन्द्र सहसे पिब ॥
इमे सोमासः सोमाः इन्दवः (उन्दी क्लेदने इत्यस्य रूपम् ) क्लेदनयुक्ताः आर्द्राः सुखकरा इत्यर्थः । बर्हिषि अन्तरे वेद्यां आसने अधि उपरि सुतासः अभिषुताः अवस्थिताः। तान् तथा त्वत्पानाय संस्कृतान् अंशबाहुल्यलक्षकपात्र-भेदेषु अवस्थितान् सोमान् हे इन्द्र सहसे बलार्थ पिब । अत्र ’अधि’ आधिक्येन ’सुतासः’, ’बर्हिषि’ यज्ञे इति सायणः । ’अघि बर्हिषि’ इत्यत्र अस्मदुक्तार्थो न क्षपयति स्थूलपक्षीयं आशयम् , बहिश्शब्दस्य कर्मणि दर्भे रूढेः । ’अधि’ उपरि ’बर्हिषि’ इत्येव स्कन्दस्वामी ।।
सप्तमीचमाह—
अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः। अथा सोमं सुतं पिब ॥ ७ ॥ अयं ते स्तोमः अग्रियः हृढिऽस्पृक् अस्तु शम्ऽतमः अथ सोमम् सुतम् पिब॥
हे इन्द्र, अयम् अस्मदीय: स्तोमः स्तोत्रविशेष: अग्रियः श्रेष्ठः ते तव हृदिस्पृकू हृदि स्पृशतीति हृदिस्पृक् (तत्पुरुषे कृति बहुलमित्यलुक्) हृदयङ्गमः शन्तमः सुखतमः अस्तु भवतु । अथ हृदयस्पृशः अत्यन्तसुखप्रदस्य अस्य स्तोत्र-विशेषस्य अङ्गीकारात् परं सुतम् अभिषुतं सोमम् पिब ॥
विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति । वृत्रहा सोमपीतये ॥८॥ विश्वम् इत् सवनम् सुतम् इन्द्रः मदाय गच्छति वृत्रऽहा सोमऽपीतये ॥
वृत्रहा सर्वावरकतमश्शरीरस्य ज्योतिर्विज्ञान शक्तिसंहतिशत्रोरसुरस्य वृत्रस्य घातक इन्द्रः सुतम् सुतसोमम् सोमाभिषवयुक्तमिति यावत् विश्वम् इत् सर्वमपि सवनम् यजनम् सोमपीतये सोमपानाय मदाय तजन्यसम्मदाय आनन्दाय इत्यर्थः गच्छति प्राप्नोति । यत्र यत्र सोमेन देवयजनं चलति तत्र सर्वत्र तदङ्गी-काराय सिद्धो भवन्निन्द्रः सन्निहितो भवति ।
सेमं नः काममा पृगु गोभिरश्वैः शतक्रतो। स्तवाम त्वा स्वाध्यः ॥९॥ स: इमम् नः कामम् आ पृणु गोभिः अश्वैः शतक्रतो इतिशतऽक्रतोस्तवाम त्वा सुऽआध्यः॥
हे शतक्रतो बहुकर्मन् बहुप्रज्ञ वा, सः तादृशस्त्वं न: अस्माकं इमं कामम् अभीप्सितमर्थ आपृण आपूरय (पृण प्रीणने, इत्यस्य रूपम् )। गोभिः अश्वैः च सह काममापृणेति सम्बन्धः। वयं स्वाध्यः सुष्ठु आध्यानपराः सन्तः त्वा त्वाम् स्तवाम। सु-आडू-पूर्वकस्य ध्यै चिन्तायामित्यस्य स्वाधीः इति प्रथमैक-वचनान्तं रूपम् । स्वाध्य इति बहुवचनम् । गाव: अश्वाश्च चतुष्पादः पशव: प्रेप्सिता इति स्थूलार्थपराणां मतम् । गोशब्दलक्षिताः प्रज्ञांशवः, अश्वशब्द-लक्षिता भोगसामर्थ्य सम्पन्नाः क्रियाशक्तिमूलभूतप्राणबलवाहिन इति सर्वत्रामिमत-मस्माकम् ।
इति प्रथमस्य प्रथमे कत्रिंशो वर्ग:
चतुर्थेऽनुवाक़े इन्द्रावरुणयोरित्यादिकं षष्ठं नवर्च सूक्तम् । इन्द्रावरुण-देवताकम् । ऋषिच्छन्दसी पूर्ववत् । युवाकु हीत्यादिके द्वे ऋचौ पादनिचून्नामक-च्छन्दोयुक्ते इत्ययं विशेषः ।
इन्द्रावरुणयोहं सम्राज़ोरव आ वृणे। ता नो मृळात ईदृशे ॥१॥ इन्द्रावरुणयोः अहम् सम्ऽराजोः अवः आ वृणे ता नः मुळात: ईदृशे ॥
अहम् सम्राजोः सम्यग्राजमानयोः इन्द्रावरुणयोः इन्द्रो वरुणश्च तयोः अवः वर्धनं मयीति शेषः, आवृणे प्रार्थये। ता तौ देवी ईदृशे एवंविधेऽस्मदीय-वरणे निमित्तभूते नः अस्मान् मृळातः सुखयतः। अवः-अवधातोरसुन् , रक्षणं वर्धनं वा भवति। उपासकस्य अन्तरे देवानां जन्म वर्धनं च अन्तर्यागफलांशभूते स्तः। मृळातः-मृड सुखने, प्रार्थनायां लिङर्थे लेटू । इन्द्रः स्वर्धामाऽपि दिव्येन मनसा धीसम्राड् भवति । वरुणस्तु ऋतसद्मा, ऋतवर्धनः, ऋतस्पृक् ज्योतिर्मय इति विशेषो ग्राह्यः । उभयोस्तत्त्वं प्रथमानुवाके प्रस्तुतम् ।
गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः। धारा चर्षणीनाम् ॥२॥ गन्तारा हि स्थः अवसे हवम् विप्रस्य माऽवतः धर्ताय चर्षणीनाम् ॥
हे इन्द्रावरुणौ, युवां अवसे अवितुं (अवतः तुमर्थे से) अन्तर्याजिनो वर्ध-नायेत्यर्थः, मावतः मद्विधस्य (वतुप-प्रकरणे छन्दसि सादृश्य उपसङ्ख्यानम् ) विप्रस्थ मेधाविनः हवम् आह्वानं गन्तारौ प्राप्तारौ स्थ: भवथः। कीदृशौ ? चर्षणीनाम् धारा सूक्ष्मं तत्त्वं देवतारहस्यं वा पश्यतां पुरुषाणां धारयितारौ । चर्षणिः पश्यतिकर्मा । द्रष्टृणां ऋषीणां योगक्षेमं बिभृतो देवाविन्द्रावरुणौ। ’चर्षणयः’, न मनुष्यसामान्यवाचकोऽवधेय: ।
अनुकामं तर्पयेथामिन्द्रावरुण राय आ। ता वां नेदिष्ठमीमहे ॥३॥ अनुऽकामम् तर्पयेथाम् इन्द्रावरुणा राय: आ ता वाम् नेदिष्ठम् ईमहे ॥
हे इन्द्रावरुणा (सांहितिकः ह्रस्वः अकारः) इन्द्रो वरुणश्च उभौ युवां अनु-कामम् कामम् अनु कर्मप्रवचनीयः। अनुरिह यथापयित्वेन ग्रहीतुं शक्य इति सायणस्याभिमतम् , कामस्य पश्चादनुकाममिति च युक्तो विग्रहः। प्रथमोक्ते यथेष्ट-मित्यर्थः, द्वितीयोक्ते, स्तोमाकर्णन-सोमपानादिरूप-कामपूर्तेरनन्तरं इत्यर्थः । एवमेव मन्यते स्कन्दस्वामी-’सोमस्य च पश्चादनुकामं कामयित्वा तत्पानानन्तर-मित्यर्थः’ इति । उभयथाऽप्यस्मत्पक्षे इन्द्रावरुणयो: काम: गृह्यते । तस्मात् तयोर्यथाकामं कामपूर्तेः पश्चाद्वेति बोध्यम् । रायः (तृतीयार्थे षष्ठी) दिव्येन युवयोर्धनेन आतर्पयेथाम् सर्वतः अस्मान् तृप्तान् कुरुतम् । ता तौ वाम् युवाम् नेदिष्ठम् अतिशयेन सामीप्यं ईमहे याचामहे । युवयोरत्यन्तसन्निकर्ष युवां याचामहे इति याच्नार्थक क्रियायाः द्विकर्मकत्वं अभ्युपगम्य तात्पर्य ग्राह्यम् । अथवा तौ युवां नेदिष्ठं युष्मदीयं रायं ईमहे इति स्याद्वा भावः। पूर्वे व्याख्यातारः सर्वेऽपि ’नेदिष्ठम्’ इत्यस्य तात्पर्य विवरणे विप्रतिपद्यन्ते । ’युवाकु हि’ इति उक्तरस्यामृचि प्रार्थितस्य दिव्यस्य धनस्य प्रज्ञाबलसमृद्धिनिघे: ’नेदिष्ठस्य’ ’रायः’ गूढं प्रतिपादनं भवति। तत्संप्रत्यावेदयामः ।
9
हि यस्मात् शचीनाम् शक्तीनाम् युवाकु वीर्य, सुमतीनाम् साधु-धी-वृत्तीनां युवाकु वीर्य भूयाम भूयास्म (प्रार्थनायां लिङ् सकारलोपश्छान्दस:) । । तस्मात् इन्द्रावरुणौ ’नेदिष्ठं ईमहे’ इति पूर्वया सम्बन्धः । कीदृशां शचीनां सुमतीनां वा ? वाजदानाम् वाजं समृद्धिं ददतीति वाजदावानः (आतो मनिन्नित्या-दिना वनिप् , छान्दसम् ) समृद्धिप्रदानां शक्तीनां शोभनानां साध्वीनां वा प्रज्ञा-वृत्तीनां च वयं बलभूताः भूयास्म इत्यर्थः । समृद्धिप्रदानां शक्तीनां प्रज्ञावृत्तीनां च यद्वीयं भवति तद्वन्त: स्याम तदेव वा भवेम । तस्मान्नेदिष्ठमीमहे, येनेयं सिद्धि: स्यात् । प्रकारान्तरव्याख्यायां पूर्वयर्चा नास्ति सम्बन्धः। सेयं भवति-हि यस्मात् शचीनां युवाकु (वयं) सुमतीनां युवाकु (वयं) तस्मात् ’वाजदानां’ समृद्धि-प्रदानां देवानां मध्ये भूयास्मेति ॥
इन्द्रः सहस्रदानां वरुणः शंस्यानाम्। ऋतुर्भवत्युक्थ्यः ॥५॥ इन्द्रः सहस्रऽदानाम् वरुणः शंस्यानाम् ऋतुः भवति उक्थ्यः ॥
इन्द्रः सहस्रदानाम् सहस्रं बर्थकम् , विविधस्य बहो: ज्ञानबलादे: : दातॄणां क्रतुः दानेच्छाबलभूतः दानकारकः कर्तेति यावत् । वरुणः शंस्यानाम् स्तुत्यानां उक्थ्यः सर्वोत्कृष्टत्वेन स्तुत्य: भवति । उक्थ्य:-उक्थं शस्त्रं तत्र स्तुत्यत्वेन भवः, भवे छन्दसीति यत् ।
इति प्रथमस्य प्रथमे द्वात्रिंशो वर्ग:
तयोरिदवसा वयं सनेम नि च धीमहि। स्यादुत परेचनम् ॥ ६॥ तयोः इत् अवसा वयम् सनेम नि च धीमहि स्यात् उत प्रऽरेचनम् ॥
तयोः इत् सर्वदातृऋतुभूतस्य कर्तुरिन्द्रस्य सर्वोत्कृष्टत्वेन शंसनीयस्य वरुणस्य च उभयोः अवसा अस्मासु वर्धनेन वयम् दिव्यधनकामाः सनेम सम्भजेम, लब्धव्यं लभेमहि, लब्धं च निधीमहि च उपभुक्तावशिष्टं अमितत्वात् निधिवनिदध्मः उपभोगाय यावदपेक्षितं तावतोऽप्यधिकं वर्तते तद्धनं, तस्मात् तन्निक्षेपवद्रक्ष्यते। अपि च यावदस्माभिनिधातुं शक्यं, तदपि अतिरिच्य वर्तते तदित्याह-उत अपि च प्ररेचनमू प्रकर्षेण अतिरिक्तं स्यात्। तयोरिन्द्रावरुणयो-रस्मासु वर्धनेन यदिव्यं धनं लभ्यते तदपरिमितमित्यर्थः । इदं ’विभु प्रभु’ इति माधुच्छन्दसी मन्त्रदृष्टिः स्मर्तव्या। इहापि ’चित्राय राधसे’ उत्तरत्राह ।
इन्द्रावरुण वामहं हुवे चित्राय राधसे। अस्मान्त्सु जिग्युषस्कृतम्॥७॥ इन्द्रावरुणा वाम् अहम् हुवे चित्राय राधसे अस्मान सु जिग्युषः कृतम्॥
हे इन्द्रावरुणा हे इन्द्रावरुणौ (संहितायां ह्रस्वश्छान्दस:) वाम् युवामुभौ अहं हुवे आह्वयामि । किमर्थम् ? चित्राय विविधाय राधसे धनाय । इदं च विचित्रं दिव्यं धनं बोध्यम् । अस्मान् दिव्याय कर्मणे प्रवृत्तान् देवोपासकान् सुजिग्युषः सुष्ठु जयसम्पन्नान् कृतम् कुरुतम् । जिग्युष:-जि जये इति धातो: लिड्वगावे वसुन्। कृतम्-करोते: लोण्मध्यमद्विवचनम् , लड्वद्भावात् तमादेशः छान्दसः ॥
इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा । अस्मभ्यं शर्म यच्छतम् ॥ ८ ॥ इन्द्रावरुणा नु नु वाम् सिसासन्तीपु धीषु आ अस्मम्यम् शर्म यच्छुतम् ॥
इन्द्रावरुणा साहितिकः ह्रस्वः, घीषु अस्मदीयासु वाम् युवां, सिषास-न्तीषु सनितुं सम्भक्तुं इच्छन्तीषु सतीषु (षण धातो: इच्छायां सन् , तत: शतरि ङीप्), अस्मभ्यम् शर्म सुखं आयच्छतम् सर्वतः दत्तम् । नु नु क्षिप्रम् द्विरावृत्तिरतिशयार्था । संहितायां पूर्वस्य दीर्घ छान्दसः ।
नवमीमृचमाह-प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे । यामृधाथे सधस्तुतिम् ॥९॥ प्र वाम् अश्नोतु सुऽस्तुतिः इन्द्रावरुण याम् हुवे याम् ऋधाथे इति सधऽस्तुतिम् ॥
हे इन्द्रावरुणा इन्द्रावरूणौ, सुष्टुतिः मदीया शोभनेयं स्तुतिः वाम् युवां प्र-अश्नोतु प्राप्नोतु याम् सुष्टुतिं प्रति, यस्या अङ्गीकरणायेत्यर्थः, हुवे आह्वयामि युवाम् । याम् सधस्तुतिम् सहस्तुतिसम्पन्नां अन्तर्यजनक्रियां ऋधाथे युवां वर्धयेथे। सधस्तुतिम्। हकारस्य धकारव्यत्ययः, पूर्वपदप्रकृतिस्वरः, बहुव्रीहिः । तस्मात् , यस्यां इन्द्रावरुणसाहित्ययुक्ता स्तुतिर्वर्तते सा अन्तर्यजन-क्रिया इति व्याख्यातम् , सर्वथा अन्यपदार्थप्रधान: समासो भवति । सा च ऋक् सधस्तुतिरिति सायणस्याभिमतम् । ऋधाथे-ऋधु वृद्धौ, व्यत्ययेन लुग्विकरणम् । अन्तर्णीतणिजर्थत्वं च। तर्हि अर्धर्चस्येदं तात्पर्य भवति। यां ’सधस्तुति’ ऋचं अन्तर्यजनक्रियां वा युवां वर्धयेथे, सा युवां प्रकर्षेण व्याप्नोत्विति ।
इति प्रथमस्य प्रथमे त्रयस्त्रिशो वर्ग:
चतुर्थोऽनुवाकः समाप्तः
पञ्चमानुवाके षट् सूक्तानि । तत्राद्यं सोमानमित्यादिकं नवर्च सूक्तम् । ऋषि-च्छन्दसी पूर्ववत् । ब्रह्मणस्पत्याद्या देवता मन्त्रार्थप्रतिपादने तत्र तत्र स्पष्टाः स्यु:।
सोमान स्वरणं कृणुहि ब्रह्मणस्पते। कक्षीवन्त य औशिजः ॥ १ ॥ सोमानं स्वरणं कृणुहि ब्रह्मणः पते कक्षीवन्तम् यः औशिजः ॥
ब्रह्मणस्पति म मन्त्राधिदेवता भवति । उत्तरत्र ’उत्तिष्ठ’ इति ब्राह्मण-स्पत्यसूक्तव्याख्यायां तदीयं तत्त्वं प्रपञ्चयिष्याम:। हे ब्रह्मणस्पते एतन्नामकदेव सोमानम् सोतारं मां (षुजू अभिषवे, सुनोतेर्मनिन् ) अभिषवस्य कर्तारमित्यर्थः स्वरणम् (स्वृशब्दोपतापयो:) प्रकाशनवन्तं कृणुहि कुरु। कक्षीवन्तम् ऋषिमिव इति अध्याहर्तव्यः। यः कक्षीवान् ऋषिः औशिज: उशिजः पुत्र: प्रसिद्ध आसीत् । इदं च पूर्वेषां व्याख्यानम् । इव-शब्दाध्याहारो नावश्यकः तं विनाऽपि तात्पर्य-ऐतिहासिक: कक्षीवान् ऋषि: बहुत्र ऋक्संहितायां प्रसिद्ध उपन्यस्तो भवति । अन्तरर्थपरे व्याख्याने उशिजः कक्षीवतश्च अवयवार्थानुगमेन तात्पर्य बोध्यम् । इमामृचं विवृण्वन् यास्कः ’कक्षीवान् कक्ष्यावान् औशिजः उशिजः पुत्रः । उशिग्वष्टे: कान्तिकर्मणः । अपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्’ इत्याह । तर्हि उशिक् कान्तिमत् तेजो वा भवति, तस्य अपत्यं तैजसः कक्षीवान् रहस्यवान् परदैवतरहस्यसम्पन्न इति वाच्यम् , कक्षशब्दस्य गहनार्थे गोप्यार्थे वा प्रसिद्धः । इदं चावधेयम्-अत्र इवशब्दाध्याहारवर्ज आचार्यदुर्गव्याख्या भवति । ’अपि चैवमन्यथा स्यात्-योऽहं सोमानं सोता कक्षीवान् औशिजः, तमेवंगुणविशिष्टं मां प्रकाशनवन्तं कुरु हे ब्रह्मणस्पते’ इति। योऽहमौशिजः कान्तिजन्मा तैजस:, तं सोमानं सोतारं कक्षीवन्तं परमरहस्यविज्ञं मां स्वरणं प्रकाशनवन्तं देवेषु प्रख्यातं कृणुहि कुरु, ब्रह्मणस्पते-इत्युपपन्नतरम् ॥
यो रेवान् यो अमीवहा वसुवित्पुष्टिवर्धनः। स नः सिषक्तु यस्तुरः॥२॥ य: रेवान् यः अमीव॒ऽहा वसुऽवित् पुष्टिऽवर्धनः सः नः सिषक्तु य: तुरः॥
यः ब्रह्मणस्पति: रेवान् धनवान् यः च अमीवहा हिंसितृणां हन्ता, अमीवा व्याख्यातः (१-१२-७) वसुवित् वसुनः द्रव्यस्य लम्भयिता (अन्तर्भावित-ण्यर्थः) पुष्टिवर्धनः पुष्टेः वर्धयिता च भवति, यः तुरः वेगवान् च (तुर त्वरणे) सः नः अस्मान् सिषक्तु समवैतु (षच समवाये श्लुविकरणम् ) अस्माभिः सदा संयुक्तो भवतु। मन्त्रवाचामधिष्ठातुर्ब्रह्मणस्पते: धनवत्त्वादिगुणवैशिष्ट व्याभिवर्णनात् सर्वार्थसिद्धिर्मन्त्रैरिष्टप्राप्तिरनिष्टपरिहारश्च भवन्तीति आर्षसम्प्रदायविदां मतं सामा-न्यतः सूचितं बोध्यम् । विशेषतस्तु ब्रह्मणस्पतेः प्रसादाद गुप्तस्य सर्वस्यार्थस्या-विष्कारः, अप्राप्तस्य प्राप्तिः, प्राप्तस्य वर्धनेन रक्षणं, रहस्यस्य प्रकाशः इत्यादयो वाचो महिना सिद्धयन्तीति बोध्यम् । अत एव पूर्वस्यामृचि ’कक्षोवन्तं (मां) स्वरणं कृणुहि’ इति प्रार्थितम् । अस्यां ऋचि मन्त्रवाक्पतेर्देवस्य अन्तर्याजिना उपासकेन नित्यसंयोगः प्रार्थित:। तथा ’मा नः शंसः’ इत्युत्तरस्यां ’तादृशो मन्त्रपतेर्महिमा, येन कवचिनमन्तर्याजिनं यजनविघातिनामयज्वनां रक्षोगुण-विशिष्टानां मानुषाणां वा बलिष्ठाऽपि वाणी न प्रभवेत् स्प्रष्टुम्’ इत्याह ।
मा नः शंसो अररुषो धूर्तिः प्रशृङ्मय॑स्य । रक्षा णो ब्रह्मणस्पते ॥३॥ मा न: शंस: अररुष: धूर्तिः प्रणकू मर्त्यस्य रक्ष नः ब्रह्मणः पते ॥
हे ब्रह्मणस्पते भगवन् , अररुषः अप्रयच्छतः, देवेभ्यो यो न ददाति तस्यायज्वन: देवधिक्कारमाचरतः शंसः शंसनं, ’आशंसा विनाशाद्यभिलाष’ इति स्कन्दस्वामी। तदाविष्कारकं वचनं नः अस्मान् मा प्रणकू मा सम्पृणक्तु । तथा मर्त्यस्य मरणशीलस्य मनुष्यस्य धूर्तिः हिंसा ‘मा प्रणक्’ इति सम्बन्धः । नः अस्मान् रक्ष पाहि । अररुष:-रातिर्दानार्थो धातु: छान्दसः, तस्य लिडूवद्भावे वसुन् , ’ररिवान्’ न ररिवान् , तस्य अदातुरित्यर्थः । प्रणक्-पृची सम्पर्के, नविकरणम् , लङस्तिप्, अन्यत् सर्व छान्दसम् । धूर्ति:-धुर्वी हिंसायाम् , क्तिचूप्रत्ययः ।
ऋचोऽस्याः प्रकारान्तरेण अन्वयं प्राहु:-अररुषो मर्त्यस्य धूर्तिः शंस: न: मा प्रणक् इति। अत्र धूर्ति: हिंसकः, शंसः वाग्विशेष इति सायणीयम् ॥
स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः। सोमो हिनोति मर्त्यम्॥४॥ स: घ वीर: न रिष्यति यम् इन्द्रः ब्रह्मणः पतिः सोमः हिनोति मर्त्यम् ॥
स: घ स एव पुमान् अन्तर्याजी वीर: वीर्योपेतः भवन् न रिष्यति न विनश्यति (रिष धातुर्हिसार्थकः, अत्र कर्मणि तिप् छान्दसम् , न हिंस्यत इत्यर्थः) यम् मर्त्यम् मनुष्यं ब्रह्मणस्पतिः देवः हिनोति त्वरयति (गतौ वृद्धौ च पठितो धातुः, तथाऽपि नायं गतिसामान्यमभिवत्ते) यं इन्द्रः हिनोति, तथा यं सोमः हिनोतीति सम्बन्धः । वैदिके यजनशब्दवाच्ये चिरन्तने योगे अनुदिनप्रवृद्धिः नित्य-मूर्ध्वगमनं च ऋतज्योतिःशब्दवाच्य-परदैवतसम्पल्लब्धि यावत् अवश्यं भवतः । तादृशी यात्रा अनलसस्य वीरस्य आर्यस्य नित्योद्यमस्य पुरुषस्यैव सिद्धयति । तत्रापि देवानां साहाय्यमपेक्ष्यते। तस्माद् देवराडिन्द्रः तस्य वाग्वीर्यमूलभूतो ब्रह्मणस्पतिः सम्मदबलभूत: सोमश्च उपासकं वीरं त्वरयन्तः प्रतिपादिताः ।
त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम्। दक्षिणा पात्वहसः॥५॥ त्वम् तम् ब्रह्मणः पते सोमः इन्द्रः च मय॑म् दक्षिणा पातु अंहसः ॥
प्रागुक्तास्तिस्रो देवता अत्रोक्ताः। दक्षिणा त्वधिका । सा च देवी साध्व-साधुसत्यासत्यविवेचनशीला सहजावबोधरूपिणी शक्तिः । ऋतज्योतिषः प्रादुर्भावात् प्रागुदयद्योतिन्या उषस: विभूतिभूतेति सूक्तान्तरचर्चया देवतान्तरसाहचर्यात् प्रकरण-वशाच्च निर्णेतुं शक्यम् । दक्षपदार्थ विचारे प्रागस्मदुक्तार्थाद् दक्ष-धातोनिष्पन्नः दक्षिणा-शब्दः । ’ दक्षिभ्यां इनन्’ ।
तम् मर्त्यम् उपासकं हे ब्रह्मणस्पते त्वम् अंहसः पापात् पाहि इति पुरुषव्यत्ययेन योजनीयम्। तथा सोमः पातु रक्षतु, इन्द्रश्च पातु दक्षिणा च पातु। अंहः पाप्मा, निर्ऋतिरित्यनर्थान्तरम् । अस्य दुरितस्य स्वरूपं अनृतम् , नित्यकल्याणपरिपन्थि भद्रपदार्थविचारे प्रतिपादितम् ।
इति प्रथमस्य प्रथमे चतुस्त्रिशो वर्ग:
सदस॒स्पति॒मद्भुतं प्रियमिन्द्रस्य॒ काम्यम् । सनि मेधामयासिषम् ॥ ६॥ सदसः पतिम् अद्भुतम् प्रियम् इन्द्रस्य काम्यम् स॒निम्मेधाम् अयासिषम्॥
इमाश्चतस्त्र ऋचो नराशंस इत्यन्ता: सदसस्पतिदेवताकाः। सदसस्पति-रग्निरेव भवति, तन्मुर्तिविशेषो वा । अत्र ’अद्भुतम्’ इति लिङ्गम्। प्रागुक्तम् । अन्ते ’नराशंस’ इति, स चाग्निरिति यास्कः। विचारितं चेदमाप्रीसूक्तप्रसक्तौ । सदसस्पतिम् एतन्नामकं देवं अयासिषम् प्रापम् (या प्रापणे, लुङ्) कीदृशम् ? अद्भुतम् महान्तम् , महन्नामैतत्, आश्चर्यकरमित्यदोषः। इन्द्रस्य प्रियम् प्रीतिहेतुं काम्यमू कामयितुं योग्यं सनिमू दातारं (षणु दाने) दानमेव वा, लाभस्वरूपमित्यर्थः, मेधामू मेधाभूतं धारणात्मकप्रज्ञास्वरूपमित्यर्थः । मेघां लब्धुं उक्तगुणविशिष्टं देवं अयासिषमिति सायणीयम् ॥
यस्मादृते न सिद्धयति यज्ञो विपश्चितश्चन । स धीनां योगमिन्वति ॥ ७ ॥ यस्मात् ऋते न सिद्धयति यज्ञः विप:ऽचितः चन सः धीनाम् योगम इन्वति ॥
यस्माद् ऋते येन सदसस्पतिना विना विपश्चितश्चन मेधाविनोऽपि प्रज्ञोज्वलस्यापीत्यर्थ: यज्ञः न सिद्धयति ऋषिः प्रज्ञाचक्षुरपि सदसस्पतेरग्नेरेव यजनतन्त्रं शिक्षते, तस्मात् तेन विना न यज्ञसिद्धिरित्युक्तम् । धीनामू बुद्धीनां, दिव्याध्वनि गच्छतः पुरुषस्य सम्भाविनीनां विसंवादिनीनां बुद्धीनामित्यर्थः, योगमू सम्बन्धम् परस्परसंवादरूपम् इन्वति प्राप्नोति तदर्थ यातीत्यर्थः (इविव्याप्ती, इदितः नुम् , शब्विकरणम् ) ।
आध्नोति हविष्कृति प्राञ्चं कृणीत्यध्वरम् । होत्रा देवेषु गच्छति ॥८॥ आत् ऋनोति हविःऽकृतिम् प्राश्चम् कृणोति अध्वरम् होता देवेषु गच्छति।।
आत् अनन्तरम् , सदसस्पतिना निरुह्यमानस्य ’धीनां योग’स्य सिद्धेः परं इत्यर्थः । स: देवः हविष्कृति हविषः कृतिः सम्पादनं यस्य तं अन्तर्यागपरं (पूर्वपदप्रकृतिस्वरो बहुव्रीहिः) ऋनोति वर्धयति (अन्तर्भावितण्यर्थः) अध्वरं (स्वरूपं प्रागुक्तम् ) यज्ञम् प्राश्चम् प्रकर्षेण गच्छन्तं प्रकृष्टगतिकमित्यर्थः (प्रपूर्व-कस्य अश्चतेर्गत्यर्थस्य रूपम् ) कृणोति करोति । ’होत्रा (वाङ्नाम) आह्वानी वाक् देवेषु मध्ये गच्छति तान् प्राप्नोतीत्यर्थः ।
नग़शंसं सुधृष्टममपश्यं सप्रथस्तमम् । द्विवो न सद्ममखसम् ॥९॥ नराशंसम् सुऽधृष्टमम् अपश्यम् सप्रथःऽतमम् दिवः न सद्मऽमखसम् ॥
नराशंसम् सदसस्पतिमूर्ति अग्निं अपश्यम् दृष्टवानस्मि-इति स्वीयं देवतासाक्षात्कारं ब्रूते। अग्निरेवायमिति स्कन्दस्वामीया पक्तिरियं भवति ’आसु चक्षु यज्ञसाधनहविष्कृतिसमर्थनाद्यग्निकर्मदर्शनात् तदैवत्याश्चतस्रश्चचः’ इति। कीदृश-मपश्यम् ? सुधृष्टमम् शोभनं घृष्णोतीति सुघृक् अतिशयेन सुधृक् तम् अत्यधिक-घाष्टर्ययुक्तं इत्यर्थः। सप्रथस्तमम् प्रख्याततमम् (सह प्रथसा वर्तत इति सप्रथः, सर्वघातुभ्यः असुन अतिशयेन तम्)। दिवः द्युलोकस्य (सम्बन्धिनम् ) सद्ममखसं न गृहयज्ञकारिणम् इव स्थितम् (मखो यज्ञः तत्करोति मखयति यज्ञकारी मखः, सद्मनि गृहे मखः, मखसो मखपर्यायः) स्वर्लोकगृहयाजी इव स्थितो नराशंसः, तमपश्यम् । ’सममखसं प्राप्ततेजस्कं, हकारस्य खकारव्यत्ययः’ इत्यभिप्रैति सायणः। ’अपठितमपि मखो महन्नाम, रेजते अग्ने पृथिवी मखेभ्य’ इत्युदाहृतं स्कन्दस्वामीये। देवानां समागमस्थानं यज्ञगृहं सद उच्यते। तच्च विशालं बहु-भूमिकं ऋषेरन्तर्याजिनः अन्तरं स्थानं भवति । तस्य पतिरग्निः स्वयं यज्ञभारं वहन् स्वर्लोकगृहस्थो यज्ञाकारीव व्यभासत इति ऋषिदृष्टिः । इति प्रथमस्य प्रथमे पञ्चत्रिंशो वर्ग: पञ्चमेऽनुवाके द्वितीयं अग्निमारुतं प्रति त्यमिति नवचं सूक्तम् । ऋषिच्छन्दसी पूर्ववत्।
तव प्रथमामृचमाह—
प्रति त्यं चारुमध्वरं गोपीथाय॒ प्र हूयसे। मुरुद्भिरग्न आ गहि ॥१॥ प्रति त्यम् चारुम् अध्वरम् गोऽपीथाय प्र हूयसे मरुत्ऽभिः अग्न आ गहि
हे अग्ने त्य तं मयाऽनुष्ठीयमानमिमं चारुं स्पृहणीयं अङ्गवैकल्यरहितं अध्वरं यज्ञम् प्रति उद्दिश्येत्यर्थ: गोपीथाय गौः सोमरस: तस्य पीथसे पानाय प्रहूयसे प्रकर्षणाहूतोऽसि । अतः मरुद्भिः सह आगहि आगच्छ । त्यच्छब्दः सर्वनामतच्छब्दपर्याय: । बहिर्यागस्येव अन्तर्यागस्यापि अङ्गानां परस्परसम्बन्धः सुसङ्गतः स्यात् । तेन चारुः सुन्दरः स्यादध्वरः। गोशब्देन विकृतिर्गव्यं पयो भवति । सर्वस्यापि हविष: अन्नपदवाच्यभोज्यत्वसाम्यात् प्रधानभोज्यतया सोमस्य प्रसिद्धेश्च गौः सोमरस इति पूर्वैर्व्याख्यातम् । मरुतोऽधिकृत्य प्राक् किञ्चिदुक्तम् । पुरस्ताच्च प्रसक्तो वक्ष्यते । मरुतश्चण्डवेगाः प्राणमयधामान: ऐन्द्रज्योतिबल-दीपितानां धीवृत्तीनां दिव्यगतिविधायिनः प्रवातप्रायप्रेरणाः देवविशेषाः । अत एव धीप्रकाशद्योतकस्य गव्यस्य ग्रहणाय ’गोपीथाय’ तैः सह अग्नेरागमनं प्रार्थ्यंत इत्यलं विस्तरेण।
नहि देवो न मो महस्तव क्रतुं परः। महस्तव क्रतुं परः। मरुद्भिरग्न आ गहि ॥२॥ नहि देवः न मर्त्यः महः तव ऋतुम् पर: मुरुत्ऽभिः अग्ने आ गृहि ॥
हे अग्ने, महः महतः, (तलोपश्छान्दसः) तव ऋतुं प्रज्ञां अध्यवसायात्मकं क्रियाबलं वा उल्लङ्घय परः अन्य: देवः न हि न भवति खलु । तथा मर्त्यः न भवति । महतस्तव ऋतुमत्येतुं देवो वा मर्यो वा न प्रभुरित्यर्थः। मरुद्भिरित्यादि पूर्ववत् ।
ये महो रजसो विदुर्विश्वे देवासो अद्रुहः। मुरुद्भिग्न आ गहि ॥३॥ ये महः रजसः विदुः विश्वे देवासः अद्रुहः मरुत्ऽभिः अग्ने आ गृहि ॥
हे अग्न, ये अद्रुहः अद्रोग्धारः, स्तोतारमाश्रितं ये न वञ्चयन्ति ते विश्वे देवासः सर्वे देवा: सप्तविधमरुद्गणाः महः महतः (तलोपः) रजसः लोकस्य (द्वितीयार्थे षष्ठी) महदन्तरिक्षं, रजश्शब्दो लोकवचनः अन्तरिक्षे प्रसिद्धः विदुः जानन्ति । मध्यमस्थानाः मध्यमं लोकं सर्व विदन्ति। तैः मरुद्भिरित्यादि पूर्ववत् ।
य उग्रा अर्कमानृचुरनाधृष्टास ओजसा। मरुद्भिरग्न आ गहि ॥४॥ ये उग्राः अर्कम् आनृचुः अनाधृष्टासः ओजसा मुरुत्ऽभिः अग्ने आ गहि ॥
ये मरुतः उग्राः शूराः ओजसा बलेन परकीयेन अनाधृष्टास: अप्रघर्षिताः अनभिभूता इत्यर्थः, अर्क अर्चनं ऋगात्मकं स्तोत्रं आनृचुः अर्चन्ति (ऋच गति-पूजनयोः इत्यस्य रूपम् , गीतं गायन्तीतिवत् , लडथै लिट्)। अर्कम् उदकमिति सायणः, इन्द्रमिति स्कन्दस्वामी। उभयत्र श्रुत्युदाहरणेन समर्थितम् । स्तोत्रं वीर्यवत्तरं विधातुं सर्वसम्पद्वर्षिणमिन्द्रं प्रापयितुं अप्छब्दलक्षितदिव्यशक्तिवाहिनी: प्रेरयितुं वा प्रभवन्ति शूरा इन्द्रभातरो मरुतः। तै: मरुद्भिरित्यादि पूर्ववत् ।
ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः। मरुद्भिरग्न आ गृहि ॥५॥ ये शुभ्राः धोरऽवर्षसः सुऽक्षत्रास: रशादसः मुरुत्ऽभिः अग्ने आ गृहि ॥
ये शुभ्राः शोभनाः घोरवर्पस: भीषणरूपाः (वर्पः रूपनाम) सुक्षत्रासः सुबलाः रिशादस: हिंसितॄणां अत्तार: तैः मरुद्भिः पूर्ववत् । मरुतां घोररूपादि-मत्त्वेऽपि शोभनफ़लकर्मत्वद्योतनाय शुभत्वविशेषणं प्रयुक्तं लक्षणीयम् ।
इति प्रथमस्य प्रथमे षटू त्रिंशो वर्ग:
ये नाकस्याधि रोचने दिवि देवास आसते। मरुद्भिरग्न आ गहि ॥६॥ ये नाकस्य अधि रोचने ढिवि देवासः आसते। मरुत्ऽभिः अग्ने आ गहि॥
अपरार्धत्रिलोक्यां तृतीयं स्थानं नाक उच्यते । न अकं असुखं यस्मिन् स नाक इति नसमास इति कृत्वा विग्रहमाचक्षते। तस्य त्रिलोक्यामवस्थितस्य स्वर्गाख्यस्य नाकस्य अधि उपरि रोचने दीप्ते दिवि द्युलोकस्यैकदेशे स्थाने ’सप्तमे वायुस्थाने’ इति स्कन्दस्वामी (सप्त मारुतस्कन्धा: प्रोक्ताः) ये देवासः आसते तै: मरुद्भिः प्राग्वत् । मध्यमस्थानाः स्वभावतः प्राणमयप्रभावा अपि इन्द्रसम्बन्धित्वात् तदावासद्युलोकावधि ऐन्द्रेण विभवेन व्याप्रियन्ते । अत एवेमे ’स्वतवस: कवयः सूर्यत्वचः’ इत्यन्यत्र मन्त्रवर्णेषु वणिताः ।
य ईखयन्ति पर्वतान् तिरस्समुद्रमर्णवम् । मरुद्भिरग्न आ गहि ॥ ७ ॥ ये ईखयन्ति पर्वतान् तिरः समुद्रम् अर्णवम् मरुत्ऽभिः अग्ने आ गृहि ॥
ये देवाः मरुतः पर्वतान् अचलान् ईडयन्ति चालयन्ति अर्णवं उदकवन्तम् समुद्रं तिरः तिरस्कुर्वन्ति, अपारस्य समुद्रस्य तरणमेव तिरस्करणम् । तै: मरुद्भिरित्यादि पूर्ववत् ।
अत्र अचलानां पर्वतानां चालनं, दुस्तरस्य अपां राशेः समुद्रस्य तरणं च मरुतां प्रचण्डबलत्वमावेदयत आपाततः। निस्तरङ्गस्य समुद्रस्य तरङ्गाद्युत्पत्तये चालनं तिरस्कार इति व्याख्यातारः । अत्र गम्योऽर्थोऽस्माकं सङ्केतार्थस्मरणेन ग्राह्यो भवति। प्राणपराक्रमविसारिताः दिव्यधीवृत्तिशक्तिभूताः मरुतः । ते स्वान्तर्निहित-ज्ञानबलादिसत्त्वं पर्वतशब्दसङ्केतितं तमोघनं जडं शरीरं जडीभूतं स्थूलज्ञानं वा चालयन्ति। तेन ज्ञानबलादेर्विकासो भवति । सर्वशक्तिसम्पन्नस्य अनन्तसत्त्वस्य समुद्रशब्दलक्षितस्य अखण्डवस्तुनो दुस्तरस्य निश्चलस्य चालनेन तरङ्गभूतानां तदंशानां प्रादुर्भावः सम्पाद्यते । तत्तादृशचण्डविक्रमैमरुद्भिः सह अग्नेरागमनं प्रार्थ्यते। इंजयन्ति-उख-णख इत्यादौ ईंखिर्गत्यर्थः ।
आ ये तन्वन्ति रश्मिभिस्तिर: समुद्रमोजसा। मुरुद्भिरग्न आ गहि ॥८॥ आ ये तन्वन्ति रश्मिऽभिः तिर: समुद्रम् ओजसा मुरुत्ऽभिः अग्ने आ गहि ॥
ये देवाः रश्मिभिः प्रज्ञाविसारिभिः सौरैः किरणैः आतन्वन्ति व्याप्नुवन्ति (तनु विस्तारे) अनन्तं अन्तरिक्षं पूर्वोक्तलक्षणं समुद्रं वा, ओजसा स्वेन बलेन समुद्रम् [ उक्तम् ] तिरः तिरस्कुर्वन्ति, तरणमेव तिरस्कारः, इह आतानो वा व्याप्त्यर्थः। तैः, शिष्टं प्राग्वत् ।
अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु। मरुद्भिरग्न आ गहि ॥ ९॥ अभि त्वा पूर्वऽपीतये सृजामि सोम्यम् मधु मरुत्ऽभिः अग्ने आ गृहि ॥
हे अग्ने, त्वा अभि त्वामभिलक्ष्य पूर्वपीतये पूर्वपानाय सोम्यं सोममयं [ सोममर्हति यत् ] मधु मधुरं रसं सृजामि उत्सृजामि । शिष्टं प्राग्वत् ॥
इति प्रथमस्य प्रथमे सप्तत्रिंशो वर्ग:
प्रथमाष्टके प्रथमोऽध्याय: सम्पूर्ण:
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.