Volume 4 contains the Bhūmika, Introduction to Rig Bhashya, followed by the text and the commentary of Suktas 1 - 19 in Sanskrit & English
On Veda
Volume 4 includes Rig Veda Bhashya - Siddhanjana, Rig-Bhashya Bhumika, Rig Veda Samihita - First Ashtaka (Text of Suktas 1-19 with Padapatha), Detailed word for word commentary in Sanskrit and its English translation.
THEME/S
वेद-रहस्यमधिकृत्य प्रतिपत्तव्योऽस्मत्पक्ष: सविस्तरमुपन्यस्तः। गूढार्थविवृतौ सङकेतरूप-पदार्थानां स्थानं सप्रमाणमुपपादितम् । वसिष्ठवामदेवादीनां मन्त्रदृष्ट्य एवांद्यं प्रधानं प्रमाणं वेदगूढार्थ-सिद्धान्तस्येति निरूपितम्। इतः परं वेदमन्त्र-वर्णेभ्योऽन्यत्र वेदगुप्तार्थसिद्धान्तं गूढमगूढ वा सूचयन्ति प्रोद्वलयन्ति वा प्रमाणान्य-स्मिन् खण्डे परीक्षेमहि। अत्र प्रथमं तावत् नैरुक्तानां मतमावेदयतो यास्कस्य कान्यपि वचनानि निरीक्षितव्यानि भवन्ति, प्रसङ्गतस्तस्याशयाः क्वचिदुल्लिखिता पूर्वम् । अत्र तस्याभिप्रायान् सामान्यतो देवान् मन्त्रान् ऋषीन् मन्त्रार्थ-विवरणं चाधिकृन्य सारतो व्याचक्ष्महे। वेदार्थावगमाय मुख्यमङ्गं निरुक्तमिति प्रसिद्धम् । निरुक्तं च निर्वचनं वैदिक-पदानां इति बोध्यम् । कानि तानि वैदिक-पदानि भवन्ति एषां निर्वचनाय प्रवृत्तो यास्क इति चेदुच्यते। छन्दोभ्यः समाहृतानि स्वाध्यायात्परमार्थ-विचारायोपयुक्तानि निघण्टुपद-वेदनीयानि चिरन्तनसम्प्रदाया ध्ययन-क्रमागतान्येव निर्वचन-विषयभूतानीति ज्ञेयम् । अत एव समाम्नायः समाम्नातः स ’व्याख्यातव्यः’ इति पदानां आम्नानात् समाहारं द्योतयितुं समाम्नाय-पदेनोपक्रान्तं निरुक्तम्। पद-समुदायो निघण्टुः पद-निर्वचनं निरुक्त-मित्युभयोर्विशेषो बोध्यः। तस्मान्नाम-लिङ्गानुशासनस्यामरसिंह इव न यास्को निघण्टुकारः, किं तु निरुक्त-कार इत्यवधेयम्। तत्रापि बहूनां पूर्वेषां निरुक्त-काराणां मतं आश्रित्य तदुक्तीरुल्लिखन् यथामति व्यरचयनिरुक्तग्रन्थम् । यद्यपि नैरुक्त-पक्षः प्रायः स्थूलो बहिर्मुख इत्यसंशयं, तथाऽपि यास्कोक्तिषु केचनांशाः संलक्ष्यन्ते, ये च भवेयुः अवधानभाजनं वेदरहस्य-जिज्ञासूनाम् । यद्यपि यास्कोक्तानि पदानां निर्वचनानि सर्वत्र उपपन्नानीति न शक्यं वदितुं, यद्यपि बहुषु स्थलेषु तन्निर्वचनानि निरङकुशकल्पना-साधितान्ये वेति वाच्यं, तथाऽपि तत्प्रतिपादित वेदपदानां यौगिकत्वं नैरुक्त-मतं गूढार्थचिन्तकानाममूल्यं रहस्योद्घाटन-द्वारं भवति । वेदपद-यौगिकत्व-प्रतिपादक नरुक्त-पक्षमवलम्ब्य वैदिक-धर्मस्य पुनरुद्धाराय दयानन्द-स्वामिभिः प्रवृत्तमिति स्मार्यम् । वेदगुप्तार्थ-विचारे वैदिक-पदानां यौगिकत्वं मुख्य आधार-स्तम्भ इत्ययं प्रथमोऽशोऽवधेयः। अन्यश्च भवति। वेदे वृत्तान्तान्वाख्याने देवतानां बन्धुत्वादि-वादे वा, न मुख्योऽर्थो ग्राह्यः। गौणी वृत्तिरेवाश्रयणीयेति नैरुक्तः पक्षः। इदं च गौणार्थाश्रयणमवश्यमभिमतं च अस्माकं वेदरहस्यार्थ-प्रकाशने। परं तु तात्पर्योपपादन सूक्ष्मोऽन्तरर्थो गृह्यतेऽस्माभिः, न तु बाह्यः स्थूलश्च नरुक्तैरिव। मीमांसकानामपि स्व-मतानुसारेण गौणाः शब्दा इति प्रसङ्गवशादुदाहृतं पूर्वं, इह तत् स्मार्यम् । ’स्वसुर्जारः शृणोतु नः’ (ऋग्वेद-६-५५-५) इत्यत्र व्याख्यान यास्क आह--" उषसमस्य स्वसारमाह साहचर्या-द्रसहरणाद्वा” (नि. ३-१६) अन्यत्र इन्द्रशत्रुर्व त्र इति वदन् आह-“तत् को वृत्रः ? मेघ इति नैरुक्ताः, त्वाष्ट्रोऽसुर इत्यै तिहासिकाः। अपां च ज्योतिषश्च मिश्रीभाव-कर्मणो वर्ष-कर्म जायते। तत्र उपमार्थेन युद्ध-वर्णा भवन्ति” (२-१६)। यद्यपि बाह्यः स्थूल एव भावः परिगृह्यते निरुक्त-कारेण, तथाऽपि वेदार्थ-विचारे गौणार्थाश्रयणस्याभिज्ञाः पूर्वे श्रुतर्षय इत्ययमंशोऽस्माकं मार्गदर्शीत्यनर्घमिदं तत्त्वम्॥
एवं स्थूलमर्थ मन्त्राणां ब्रुवाणोऽपि दुरूहो दैवत-निर्णयः, दुरूहो वेदार्थबोध इति मन्त्र-वर्णानुदाहरन् दृष्टान्तेन प्रतिपादयति “शाकपूणिः सङकल्पयाञ्चक्रे सर्वा देवता जानामीति। तस्मै देवतोभय-लिङ्गा प्रादुर्बभूव। तां न जज्ञे। तां पप्रच्छ विविदिषाणि त्वेति। सास्मा एतामृचादिदेशैषा मद्देवतेति" इति (नि. २-८) । अत्र यास्केनोदाहृता ऋक्-‘य ईं चकार’ इति दीर्घतमसः अस्यवांमीय-सूक्तस्था (१-१६४-३२) बहु प्रजाः कृच्छ्रमापद्यत इति परिव्राजकाः, वर्ष-कर्मेति नैरुक्ताः" इति ऋचो विवरणमारभ्य पक्षान्तर-गतं परिव्राजकीयं तात्पर्य-मुल्लिखन् नैरुक्तं स्थूलमेव पक्षमुदाहरति। कर्मपर-व्याख्यानाचार्यः सायणोऽपि अस्यवामीय-सूक्तं सर्वं अध्यात्म-परतया व्याख्येयमिति अभ्युपगच्छन् इमां ऋच-मात्मवादि-मतानुसारेण व्याख्यातवान् । यत्किमपि वा भवतु अस्या ऋचस्तात्पर्य, यास्कोक्तित इदमवगम्यते यद् देवता-स्वरूपावगमो दुर्लभः, देवता-प्रसादादेव सम्पाद्यः। शाकपूणेः प्रत्यक्षतां गतायामपि देवतायां, सा स्वरूपं न व्यवारीत्, एवं किल सा प्रोवाच--" देवताः सर्वाश्च जिज्ञासितवानसि, अहमेव सर्वदेवता, मम यथार्थं स्वरूपं ‘य ईं चकार’ इत्यस्यामृचि प्रतिपादितम् । त्वं मन्त्रवर्णपद-निर्वचनप्रवीणोऽसि, तस्मादेतस्या ऋचः सकाशान्मामवेत्यावधारय" इति। दुरूहो वेदार्थबोध इत्युक्तं इतश्च रहस्यमस्ति वेद इति स्पष्टम् ।।
तथैव यास्को वेदार्थ-निर्णयोपयोगाय बहूनां तदानींतन-पक्षान्तराणां प्रामाणि-कानां वादानखण्डयन्नुदाहरति। याज्ञिकाः, पूर्वे याज्ञिकाः, एके नैरुक्ताः नैदानाः, , परिव्राजकाः, ऐतिहासिका इत्येवमादीन् पक्षान् तत्र तत्र शंसति। अतो बहु-प्रकारो मन्त्रार्थ-व्याहारस्तत्र अध्यात्मादि-गूढार्थपक्षश्च विस्मृत-प्राय एव यास्क-निरुक्त-प्रणयनसमय इति गम्यते। यद्यप्येवं तथाऽपि ऋषीणां ऋषित्वमधिकृत्य मन्त्रप्रादुर्भाव-प्रकारं च “तदेनान् ’तदेनान् तपस्यमानान् ब्रह्म-स्वयम्भु अभ्यनार्षत्’ इत्यवोचन्निरुक्त-कारः। अन्यत्र मन्त्रार्थ-दुरूहत्वं प्रतिपादयन् द्वे ऋचौ उदाहरति—" उत त्वः पश्यन्न ददर्श वाचं उत त्वः शृण्वन्न शृणोत्य नाम् । उतो त्वस्मै तन्वं विसस्र जाये व पत्य उशती सुवासाः” (१०-७१-४)। ’उत त्वं सख्ये स्थिर-पीतमाहुः नैनं हिन्वन्त्यपि वाजिनेषु। अधेन्वा चरति माययैष वाचं शुश्रुवां अफलामपुष्पाम् ।।
(१०-७१-५) । अत्र आद्ययर्चा मन्त्रार्थावगत्यै यत्नः कार्यः, अर्थावबोधशून्यः स्वाध्यायवान् स्थूलमेव मन्त्रार्थं पश्यन्नपि अन्ध इव भवति, तथा मन्त्रशब्दं शृण्वन्नपि मन्त्रशक्ति-प्रबोधनाक्षमः बधिर इव भवति। यस्तु विज्ञः दृष्टिश्रुति-सम्पन्नः मन्त्ररहस्यं साक्षात्कर्तुमधिकारी भवति, तस्मै ऋगात्मिका वाक् स्वयंप्रकाशा भवति, यथा जाया पत्ये स्वं वपुरर्पयति तथेति उपमयाः प्रतिपादयति। एवमर्थावगतिरवश्या, न चेत् ‘स्थाणुरयं भारहर’ इति अनर्थज्ञो निन्दास्पदं भवतीति उपपादयति। अन्ययर्चा इदमवगम्यते। अस्याः दुर्गाचार्य-व्याख्यानमनुसृत्य पदार्थान् अभिधाय तात्पर्य प्रदर्शयामः। ’उत त्वं सख्ये स्थिरपीतमाहुः’ इति। उत त्वं एकमपि सख्ये देव-सख्ये देवानां समान-ख्यानतायां देवसायुज्य इत्यर्थः। “यां यां देवतां निराह तस्यास्तस्यास्ताद्भाव्यमनुभवति’ इति उत्तरत्राह यास्कः। तदत्र अनुसन्धेयम् । कमिति आहुः ? स्थिर-पीतं इति । अप्रच्यवन-धर्माणं विज्ञातार्थं इत्यर्थः। क एवमाह ? इयमेव वाक् ऋक्संज्ञिका। ’नैनं हिन्वन्त्यपि वाजिनेषु’ एवं वागर्थज्ञं बलवत्स्वपि वाग्-ज्ञेयेष्वर्थेषु, दुर्जेयेषु दुरवघटनीयेषु समुद्रपिहित-रत्नसन्निभेषु देवतापरिज्ञानादिषु व्याकर्तव्येषु अन्ये अनुगन्तुं न शक्नुवन्ति। उत्तरेणार्धर्चेन अविद्वान् निन्द्यते। एष : अविद्वान् अधेन्वा मायया चरति, अस्मै एषा वाग्धेनुः कामान् न दुग्ध। यः अफलां अपुष्पां वाचं अन्य भ्यः सकाशात् श्रुतवान्, अध्ययनादृते नास्ति किमपि मृग्यमिति शब्द-मात्रं श्रुत्वा दृढग्रहेणावस्थितो भवति, तस्य अपुष्पा अफला च वाग्भवति ।।
अत्र यास्क: “याज्ञ-दैवते पुष्प-फले याज्ञ-दैवते पुष्प-फले देवताध्यात्मे वा” इत्याह। अत्र निरुक्त-व्याख्यातार आहुः-- यज्ञे भवं ज्ञानं, यानं, देवतासु भवं दैवतम् । आत्मन्यधि यद्वर्तते तदध्यात्मम् । यज्ञ-परिज्ञानं देवता-परिज्ञानं आत्म-परिज्ञानं च। एतदेव समस्त-वेदप्रतिपाद्यम्। तत्र यद्यभ्युदय-लक्षणो धर्मोऽभिप्रेयते तदा दैव-तार्थत्वाद्याज्ञं दैवतं फलम्। फलार्थं हि पुष्पं भवति पूर्वम् यदि पुननिःश्रेयस-लक्षणो धर्मोऽभिप्रेयते, तदोभे याज्ञ-दैवते पुष्पत्वमेव बिभृतः । दैवते हि तदर्थत्वा-द्याज्ञमन्तर्भूतमेवेति दैवतं पुष्पं अध्यात्मं फलम्’ ।।
सर्वथा त्रिविधं परिज्ञानं अधियज्ञ-अधिदैवत-अध्यात्माख्यं मन्त्रवर्णेभ्यो लब्धव्यं इति यास्को मन्यते। अविस्पष्टार्थाश्च मन्त्रा इति चेन्नेष स्थाणोरपराधो यदेनमन्धो न पश्यतीत्याह। अन्यश्च स्व-कालिकमैतिचं स्मरति निरुक्त-कारः । ऋषयः साक्षात्कृत-धर्माण: अवरेभ्योऽसाक्षात्कृत-धर्मभ्यः उपदेशेन मन्त्रान् सम्प्रादु-रिति। उपदेशेनेत्याह। अत्र वेदरहस्य-निर्देशकं कमपि चिरन्तनं गूढसम्प्रदाय-मेवाभिप्रैतीति ज्ञायते। अत एव तस्यास्तपसा पारमीप्सितव्यमिति व्याहरति ग्रन्थस्यान्ते। इतश्चास्ति रहस्यं वेद इति असन्दिग्धम् ।।
अथ मन्त्र-रहस्य इव देवता-रहस्येऽपि श्रद्धा यास्कस्येति प्रागुदाहृताभिः तदुक्तिभिः अवगतं भवति। अन्ते च देवता अधिकृत्य तदुक्तयो वेद-गुप्तार्थ-सिद्धान्तस्यानुकूल्य-सम्पादिका इत्यवधेयम् । तथा चाह--" माहाभाग्याद्देवताया एक आत्मा बहुधा स्तूयते, एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति। इतरेतर-जन्मानो भवन्तीतरेतर-प्रकृतयः कर्म-जन्मान आत्म-जन्मान आत्मैवैषां रथो भवति, आत्मा अश्वाः, आत्मा आयुधं, आत्मेषवः, आत्मा सर्वं देवस्य देवस्य” इति (७-४)। एवं यास्कः पक्षान्तराणि प्रामाणिकत्वेन यथावसरमुदाहरन्नपि मन्त्रेभ्य-स्त्रिविधपरिज्ञानं प्रतिपाद्य अध्यात्मपक्ष-पारम्यं अभ्युपगच्छतीत्यवधेयम्। इदं च प्रोद्वलयति वेदरहस्यार्थ-सिद्धान्तम् ।।
अथ च साध्वेवेदं यत्प्रामाणिकतया शंसति पूर्वेषां नैरुक्तेतरपक्षाणां वा वचनानि यास्कः, तथाऽपि नासौ सतृणाभ्यवहारी। यत्र माननीयेष्वपि पूर्वेषां वचनेषु असाधु पश्यति, तत्र निःशकं दोषं दर्शयति । अत्रैकमिदं निदर्शनं भवति--"वनेन वायो न्यधायि" (ऋ-१०-२६-१) अस्यामृचि ‘वायः’ इति एकं पदं द्विधा कृतं पदपाठ-कारेण तदसाध्विति आह--"वेति च य इति च चकार शाकल्यः। उदात्तं त्वेवमाख्यातं अभविष्यत्, असुसमाप्तश्चार्थः (नि. ६-२८) इति। ऋक्संहिता-पदपाठकारः शाकल्यः। यद्यप्येवं वेद-पदपाठकारेऽपि दोष-दर्शनं प्रयुज्यते, तथाऽपि विशृङ्खलत्वं नेष्यते, यन्मन्त्राणां परमं प्रामाण्यमभिमन्यते परं तु यथा मन्त्रान् प्रमाणदृष्ट्या पश्यति, तथा ब्राह्मणानि तत्र तत्रोदाहरन्नपि नाद्रियते। तथा च दैवतकाण्डे वैश्वानर-प्रस्तावे “बहुभक्ति-वादीनि हि ब्राह्म-णानि भवन्ति इत्याह (नि. ७-२४)। भक्तिर्नाम गुण-कल्पना येन केनचित् गुणेन ब्राह्मणं सर्वं सर्वथा ब्रवीति तत्र तत्त्वमन्वेष्यमेव भवतीति यास्क-व्याख्या-तारः। तस्मात् सविचारमेव पूर्वेषां वचनानि परीक्ष्य परिग्राह्याणीत्येवमर्थकानि निरुक्तकारवाक्यानि स्मर्तव्यान्यस्माकं वेदरहस्यार्थ-विवरणप्रसङ्ग। इयानुपकारको ऽस्माकं यास्क इति प्रदर्शितम् । इतश्चास्ति रहस्यं वेदे मागितव्यं, प्रकाशयितव्यम् ।।
बहूनां ब्राह्मण-वचनानां चाटुकार-वचनत्वेनाप्रामाण्यं यथा यास्क: पश्यति तथा शौनकीय-बृहद्देवता यास्कोक्तिषु दोषं दर्शयति --" पदमेकं समादाय द्विधा कृत्वा निरुक्तवान् । पुरुषादपदं यास्को वृक्षे वृक्ष इति त्वृचि ॥” इत्यादिभिः । (बृहद्दे वता-२.१११-११६)। यास्क इव बृहद्देवताऽपि मन्त्रार्थविवरणे मत-भेदानाह। तत्राप्यात्मवादि-पक्षमुदाहरति । निदर्शनाय पञ्चजन-चर्चा अत्रोदाहरामः-(७. ६७-७२)
शालामुख्यः प्रणीतश्च पुत्रो गृहपतेश्च सः । उत्तरो दक्षिणश्चाग्निरेते पञ्चजनाः स्मृताः ।।
मनुष्याः पितरो देवा गन्धर्वोरगराक्षसाः । गन्धर्वाः पितरो देवा असुरा यक्ष-राक्षसाः ।।
यास्कोपमन्यवावेतान् आहतुः पञ्च वै जनान् । निषाद-पञ्चमान् वर्णान् मन्यते शाकटायनः ।।
ऋत्विजो यजमानश्च शाकपूणिस्तु मन्यते । होताध्वर्युस्तथोद्गाता ब्रह्मा चेति वदन्ति तान् ।।
चक्षुः श्रोत्रं मनो वाक् च प्राणश्चेत्यात्मवादिनः । गन्धर्वाप्सरसो देवा मनुष्याः पितरस्तथा ।।
सर्पाश्च ब्राह्मणे चैव श्रूयन्ते तिरेयके । ये चान्ये पृथिवीजाता देवाश्चान्येऽथ यज्ञियाः ।।
एवं षड्भिः श्लोकः पञ्चजनशब्दतात्पर्य-विकल्पानुपन्यस्यति । अनेन निरुक्तबृहद्देवतादिभ्यः पूर्वं अध्यात्मादि-रहस्यवादिनां मन्त्रार्थविवरणं पक्षान्तर-विवरणेभ्यो विभिन्नं विदितचरमिति गम्यते। इतश्चास्ति वेदे रहस्य, यस्याधिगमः सङ्केतगुप्तार्थ-पक्षावलम्बनेन सिद्धो भवतीति वयम् ।।
प्रागुक्तं ब्राह्मणान्येव यज्ञस्य सङ्केत-रूपतां प्रतिपादयन्तीति। इतश्च वेदे रहस्यं अस्तीति प्रत्ययो ब्राह्मणेषु स्पष्टं दृश्यते। न चेत् “यजमानो वै यूपः" इत्याद्याः सङ्कताः नाभविष्यन्। अत्र दीक्षिष्यमाणस्य यजमानस्य अञ्जनेन समर्धनं ततः प्राचीनवंशप्रवेशनं चाधिकृत्य शरीरस्थस्यैव दीक्षितस्य यजमानस्य नव्यजन्मसम्पत्तिः भवति इत्येवमर्थकानि वाक्यानि ब्राह्मणान्याहुः। तथा च ऐतरेयिणः “पुनर्वा एतं ऋत्विजो गर्भं कुर्वन्ति यं दीक्षयन्त्यद्भिरभिषिञ्चन्ति" इति प्रकृत्य “शुद्धमेवैनं तत्पूतं दीक्षयन्ति दीक्षित-विमितं प्रपादयन्ति। योनिर्वा एषा दीक्षितस्य यद्दीक्षित-विमितं योनिमेवैनं तत्स्व प्रपादयन्ति” (१-३) इत्या-मनन्ति । दीक्षित-विमितमित्यत्र प्राचीनवंशप्रवेशन स्वकीय-योनिप्रवेश इति सायण-भाष्यम् । अन्यत्र “आहुतिभ्यः सम्भूय हिरण्यशरीरः स्वर्गं गच्छति’ इत्युक्तम् । अग्निरेव देवयोनिरिति च। अन्यच्चेदं प्रसक्ति-वशादुदाहर्तव्यम्। याज्ञिकपक्ष-परमाधारभूतानि ब्राह्मणान्येव अध्यात्मादि-रहस्यविज्ञानं विना नैव सिध्यति देवता-सायुज्यं स्वर्गारोहो वेत्युपदिशन्ति। तथा च शतपथब्राह्मणम् --" तदेष श्लोको भवति । विद्यया तदारोहन्ति यत्र कामाः परागताः। न तत्र दक्षिणा यान्ति नाविद्वांसस्तपस्विन इति न हैव तं लोकं दक्षिणाभिर्न तपसाऽनेवंविद् अश्नुत एवंविदां हैव स लोक: (१०. ५. ४-२)। प्रथितेषु कर्मकाण्ड-ग्रन्थे-वैवमध्यात्मविद्या-रहस्यानि तत्र तत्र घोषयत्सु, किमु वक्तव्यं ज्ञानकाण्डमुद्रया प्रथिता आरण्यकोपनिषदः वैदिकाध्वरस्य परमार्थं अन्तर्यजनपरमेव व्याचक्षत इति ? “तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्मं” इत्या-दीन्यारण्यक-वचनान्यत्र द्रष्टव्यानि भवन्ति ।।
अथ चेदं वक्तव्यमुपनिषद्-ग्रन्थानधिकृत्य। यद्यपि औपनिषदर्षयस्तपोनिष्ठाः सत्य-जिज्ञासया ब्रह्मावगतये स्वतन्त्रतया प्रवृत्ता इति निरूढः प्रत्ययः प्रायो न्याय्य इति अभ्युपगच्छामः, तथाऽपि मन्त्र-वर्णा अध्यात्मविद्यादि-रहस्यगभिता इति विदितं तेषाम् । अत एव स्वीयानि दर्शनानि तदाधारेण प्रतिपादितानि तत्त्वानि तत्र तत्र ऋग्भिः, पुरातनर्षि-दृष्टिभिः दृढीकुर्वन्ति। तदृचाऽभ्युक्तम्’ ’तदुक्त-मृषिणा’ इत्यादीनामौपनिषद-वाक्यानामिदमेव तात्पर्यम्। क्वचिदुपनिषदुपदिष्टा-नामर्थानां साक्षादृङ-मूलकत्वं स्पष्टं लक्ष्यते। वेदरहस्य-दशिभिररविन्द-श्रीचरण-रत्रकं निदर्शनं दर्शितम्। तदिदमाचक्ष्महे-“हिरण्मयेन पात्रेण’ इत्यादीनां ईशावास्योपनिषत्-पङक्तीनां ’ऋतेन ऋतं अपिहितं’ (ऋग्वेद-५-६२-१) इति आत्रेयस्य श्रुतविदो मन्त्र-दृष्टश्च समानोऽर्थ इत्यत्रोपपाद्यते। प्रथमं ऋचं पदपाठ-क्रमेणोदाहृत्य व्याख्यास्यामः। ततः परं उपनिषद्वाक्येन ऋगर्थ-सङ्गति प्रदर्श-यिष्यामः-
ऋतेन ऋतं अपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्ति अश्वान्। दश शता सह तस्थुः तदेकं देवानां श्रेष्ठं वपुषां अपश्यम् ।। पदार्थ विवरणम्-सूर्यस्य’ सर्व-प्रेरकस्य परमस्य देवस्य सवितुरिति यावत्। ’ऋतं’ स्वरूप-भूतं ऋतेन’ विश्वात्मकतयाऽवस्थितेन अपरार्धपदवाच्य-त्रैलोक्यरूपेण अवरेण सत्येन ‘अपिहितं’ आच्छादितं अपश्यं इति सम्बन्धः ’यत्र’ यस्मिन् परमे सत्ये ’वां’ युवयोः मित्रावरुणयोः स्थानं ’ध्रुवं’ स्थिरं नित्यं वा भवति तदित्यर्थः, यत्र ’अश्वान् विमुचन्ति’ किरणान् व्यूहीकृत्य व्यवस्थापयन्ति । यत्र च ’दश-शता’ सहस्र-संख्याकाः रश्मयः, सह तस्थुः सम्भूय एकत्र स्थिताः। ‘देवानां वपुषां श्रेष्ठं तद् एकम्’ देवता-तनुबन्धानां वपुष्मतां देवानां वा वरेण्यं कल्याण-तमं रूपं विश्वाध्यक्षं विश्वातीतं च ’तत्’ ऋषिषु प्रसिद्धं तत्पद-वाच्यं ’एकम्’ अद्वितीयं जाज्वल्यमानं दुर्दर्श सत्य-स्वरूपं अपश्यं इति --" परमं सत्यम्। सम्बन्धः॥
अत्रेदमवधेयम्-- वां’ युवाभ्यां स्थितं इति सायणः । ‘वां’ युवयोः स्थानमिति वयम् । उभयथाऽपि अध्याहार इष्यते। मित्रावरुणयोः स्थानं सूर्य-मण्डलमित्यपि निर्विवादम्। ’ऋतेन’ उदकेन आच्छादितं ’ऋतं’ सूर्यबिम्बं ऋषिरहमपश्यमिति ब्रूत इति सायणः। परमे व्योमनि अक्षरपादवाच्ये चिद्-घने भ्राजमानं सूर्यपद-सङ्केतितं तत्पद-वाच्यं अद्वितीयं परं सत्यं वरेण्यं भर्ग:’ ’तद्विष्णोः परमं पदम्’ ’सर्वधातमम् श्रेष्ठम्’ इति मन्त्रदृष्टिषु महितं ज्योति-रपश्यमित्याह ऋषिरिति वयम्। ’अश्वाः’ दश शतानि रश्मय इति सायणः अभिमतमेवेदमस्माकम् । परं तु सूर्याश्वान् मन्देहादिभिरसुरैः निरुद्धान् स्तोतारः स्तुतिभिविमोचयन्तीति गाथा-वादस्तात्पर्यमाह सायणः। रश्मिपदोपलक्षित-सत्य-ज्योतिष्प्रभाणां व्यूहनं समूहनं च विमोचन-सहस्थान-आख्यानाद् अवगन्तव्ये इति वयम् । ’देवानां वपुषां’ इत्यत्र वपुष्मतां इति मत्वर्थ-लक्षणा सायणस्य अपि अभिमता। ’ऋतेन ऋतम्’ इत्यत्र कथमिदं ऋतद्वयमुच्यते ? ब्रूमः । ऋत-सत्य-पदयोरविशेषेण लोके प्रयोगः वेदेऽपि क्वचिद् दृश्यते । वस्तुतस्तु विशेषो ग्राह्यः । यद् ध्रुवं परं सत्स्वरूपं तत् सत्यपदवाच्यं भवति। यत् प्रत्यक्षं सत्यादाविष्कृतं सत्यानुरुद्धं सत्यानुरोधेन प्राप्तसत्ताकं सत्य-प्रतिनिधीभूतं वा तद् ऋतपदवाच्यं भवति। अस्यामृचि ऋत-पदं सत्यपरमेव व्याख्यातम्। उभयमपि ऋतं सत्यमेव भवति। एकं परं सत्यं परार्ध-गतं परमव्योमशब्दव्यवहार्यं ध्रुवम्। तच्च सत्यं अवरेण सत्येन अपरार्ध-गतेन अपिहितमित्युक्तम् । अत्र मेघ एव पिधानं भवति सूर्यस्य, तदपाये सूर्यमपश्यदृषिरिति सायणः। मेघापाय सूर्य-दर्शनस्य ऋषित्वं नापेक्षितं, सामान्यचक्षुष्मत्त्वमेवेष्यते। एवंविध-व्याख्यानबलादेव साधवो वेदर्षयः सर्वसाधारण-सूर्यदर्शनेऽपि किमपि विचित्रं पश्यन्तो मुह्यन्ति देवानां प्रिया इति आधुनिक-प्रवादश्चेत्, किमत्र चित्रम् ?
ऋतस्य सृष्टि-गतेन अवरेण सत्येन इतः परस्तात् स्थितं उत्तमं ध्रुवं सत्यं आवृतं, अस्य अपावरणे तस्य परस्य साक्षात्कार इति स्पष्ट एव भवति भावः। मित्रा-वरुणयोः स्थानं सूर्य-मण्डलं इति स्थूल व्याख्यानं सायणस्य। उभयोः सत्य-रक्षकत्वं सत्य-धर्मत्वं परमव्योमवर्तित्वं च उद्घोषयन्ति मन्त्रवर्णाः । गोपावधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि’ (ऋग्वेद-५-६३-१) इत्येवं-जातीयकर्मन्त्रमित्रा-वरुणयोनित्य-सत्यसूर्यात्मत्वं अवगन्तव्यम् । ऋतेनेति ऋगियं व्याख्याता। सायणीया व्याख्या-धोरणी किञ्चित् प्रदर्शिता अस्मदीया च । ऋचोऽस्यास्तात्पर्यमवबुध्य औपनिषदर्षिः अगूढया भाषया स्पष्टमाह-हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।। पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजो यत्ते रूपं कल्याणतमं तत् ते पश्यामि । योऽसाबसौ पुरुषः सोऽहमस्मि ॥’ इतीशोपनिषद्वाक्यपङक्तयः । बढ्च-मन्त्रेण उपनिषन्मन्त्रस्य सङ्गतिरिह दर्शयिष्यते ।
ऋतेन’ (अवरेण ) वेदे, ’हिरण्मयेन पात्रेण’ उपनिषदि। अवरत्वेन पिधायकत्वेऽपि सत्यत्वात् भास्वर-हिरण्मयत्वं पिधानपात्रस्यत्यवधेयम् ।।
’ऋतं अपिहितम्’ वेदे, ‘सत्यस्य मुखं अपिहितम्’ उपनिषदि ‘वपुषां श्रेष्ठं’ वेदे, ’कल्याण-तमं रूपं’ उपनिषदि । तच्च तेजः परं ज्योतिरस्मात् परस्ताद् ध्रुवं ज्ञेयम् ।।
’तद् एकम्’ वेदे, ’सोऽहमस्मि’ उपनिषदि ।।
’दश शता’ रश्मय इति वेदे, (सायणोऽपि तथा व्याचष्टे) ’रश्मीन् इत्युपनिषदि विस्पष्टमुक्तम् । ’विमुचन्ति’ वेदे, ‘व्यूह’ इत्युपनिषदि ‘सह तस्थुः वेदे, ’समूह’ इत्युपनिषदि। चिद्घनसत्य-ज्योतिर्मयः परमः पुरुषः सूर्यशब्द-सङ्कतितः सर्वदा वेदे, प्रायशस्तथैवोपनिषत्स्वपीति बोद्धव्यम्। तदलमिदमेकं निदर्शनं इदानीम् । एतादृशानि अन्यानि च निदर्शनानि सन्ति, यैरुपनिषत्सु प्रतिपादितानां तत्त्वानां ऋग्वेद-मन्त्रः साक्षात्सम्बन्धः शक्यो निरूपयितुम् । वेद-मन्त्रानधिकृत्य कर्मपर-व्याख्यातुर्याज्ञिक-धौरेयस्य सायणस्य यादृशं ज्ञानं तद्व्या-ख्याने लक्ष्यते, तादृशादपि सूक्ष्मतरं महीयो यथार्थं च ज्ञानं उपनिषत्तत्त्व-दर्शिन ऋषेर्लक्ष्यत इति स्पष्टम्। किमु वक्तव्यं अधुनातन-पाश्चात्यपण्डितानां तदनु-सारिणां वा ज्ञानात् विशेषतः प्रशस्यतरं च ज्ञानमौपनिषदर्षीणां इति ?
इतश्चास्ति रहस्यं वेद इत्यसन्दिग्धम् ।।
अथ पुराणान्यपि वेद-प्रशंसापराणि सर्वाणि वेदार्थस्योपबृहणानि इति । ’इतिहास-पुराणाभ्यां वेदं समुपबृहयेत्’ ’पुराणं नष्ट-शाखस्य वेदार्थस्योप-बृहणम्’ ’आख्यानं कथितं भूप पुराणं वेद-सम्मितम्’ इत्येवं-जातीयकर्महा-भारत-पुराणेतिहास-वाक्यैरवगम्यते। वेदेषु श्रूयमाणानां वृत्तान्तान्वाख्यानानां गूढार्थमेव स्पष्टमाह महाभारतम् । क्वचिदाख्यानस्य वैदिकस्य गूढार्थो विस्पष्टो लक्ष्यते महाभारते। पूर्वेभ्य ऋषिभ्यः यथा-श्रुतं वृत्रवध-रहस्यं युधिष्ठिराय व्यासः प्राह। इमाश्च पङक्तयोऽश्वमेध-पर्वणि लक्ष्यन्ते--(अ. ११ श्लो. ७-२०) ’ततो वृत्रं शरीरस्थं जघान भरतर्षभ। शतक्रतुरदृश्येन वज्रणेतीह नः श्रुतम् ।। तत्रैव ‘इदं धर्म्य रहस्यं च शक्रेणोक्तं महर्षिषु। ऋषिभिश्च मम प्रोक्तं तन्निबोध जनाधिप ।’ इति। वज्रं विवेक इति व्याख्याता नीलकण्ठः, तम एव वृत्र इति चाह-’रथन्तरेण साम्ना तं वसिष्ठः प्रत्यबोधयत्।’ (श्लो १९-)। रथं मायाख्यं विग्रहं तरतीति रथन्तर-पदार्थं व्याचष्ट नीलकण्ठः। रथन्तरेण साम्ना वसिष्ठः प्रत्यबोधयदित्युक्तम् । यः को वा भवतु रथस्य सङ्केतार्थः । स नेह विचार्यते। सङ्केत एवेति तु यन्मन्यते व्याख्याता तदेवावधेयम्। महा-भारतमपि इदं सर्वं वृत्र-चरितं रहस्यमित्याह। तदपि लक्षणीयम् । अन्यत्रानु-शासन-पर्वणि (अ. ८४ श्लो. ४७-४८) मेषादीनां सङ्केतार्थत्वं प्रतिपाद्यते--’अजोऽग्निवरुणो मेषः सूर्योऽश्व इति दर्शनम् । कुञ्जराश्च मृगा नागा महिषा-श्चासुरा इति ॥ कुक्कुटाश्च वराहाश्च राक्षसा भृगुनन्दन।’ इत्येवंव्यक्तीनि वाक्यानि वेदगुप्तार्थसङ्केतरहस्यावगतये महाभारतकार-कृतपरिश्रमस्य फल-भूता-नीत्यलं परमुक्तेन ॥
अध्यात्मविद्यादि-रहस्यमस्ति वेद इति सप्रमाणमैतिह्यं निरूपितम्। सारतः स्थाली-पुलाकन्यायेन पुराणेतिहासेभ्यः निरुक्तादि-ग्रन्थेभ्यस्तथा आरण्यक-सहित-ब्राह्मणेभ्यः मन्त्र-वर्णेभ्यश्च प्रमाण-प्रपञ्चः प्रदर्शितः। अत्रान्यो मुख्यः प्रश्न: परीक्षामपेक्षमाणोऽवशिष्यते। वेदर्षिभ्यः परं अस्माकं प्राक् च अन्तरे द्राघीयसि काले अपि न कोऽपि वेदरहस्यविज्ञः रहस्याविष्काराय वेद-व्याख्यानं न्यबध्नात् ? सरलमस्योत्तरं वचो भवति। तथाविधं गुप्तार्थ-प्रकाशकं व्याख्यानं न दृश्यत इत्यसंशयम्। तावता नैवास्ति रहस्यं, अस्ति चेत् तद्विवरणं वर्तेत वेति नैवं चोद्यम् । सायणात्पूर्वं सम्पूर्ण वेद-व्याख्यानं नैव अलक्षीति हेतोः वेदानां कर्म-परत्वमैतिह्यं नैवासीदिति को वा ब्रूयात् ? एवं वेदरहस्य-विवरणमध्यात्म-परं व्याख्यानं नाभूदिति हेतोः रहस्यार्थपरमैतिचं नासीदिति न वक्तुं युक्तम्। अपि तु, रहस्यार्थपरव्याख्यानस्य प्रातिकूल्यं कर्मपारम्य-प्रसिद्धौ द्रष्टव्यम् । अत्र सायण-व्याख्यानैकप्रत्ययनेय-बुद्धितैव वेदगुप्तार्थ-विचारप्रतिकूलत्यवगन्तव्यम् । रहस्यार्थ-पक्षे चिरन्तने विस्मृतेऽपि तन्निर्देशकं ऐतिह्यं तु जाग्रदसन्दिग्धमिति प्रमाण-पूर्वक प्राक् प्रदर्शितम्। तन्न पुनर्वक्तव्यम्। एवमपि न कोऽप्यासीद्वेदानामध्यात्मपरत्व-पक्षस्योज्जीवनाय प्रवृत्त इति न शक्यं वदितुं आचार्यमध्व-ग्रन्थेषु जाग्रत्सु, यत् सायणात् किञ्चित्पूर्वं आनन्दतीर्थ आचार्य ऋङमन्त्र-तात्पर्य-परिग्रहस्य प्रकारोप-प्रदर्शनाय ऋक्संहितायाः प्रथममण्डलीयानि चत्वारिंशत्सूक्तानि व्याचख्यौ । वैदिक-धर्माचरणे कर्मानुष्ठानस्यावश्यकतया कर्मपर-व्याख्यानं मन्त्राणां साध्विति, कर्मकरणमेव मन्त्राणां मुख्यं तात्पर्यमिति मतमसाध्विति च मध्व आचार्यो मन्यते। मन्त्राणामध्यात्मपरोऽर्थो मुख्यः, सर्वेषां वेदानां विष्णुपदप्राप्तिरूपपरम-पुरुषार्थे तात्पर्यमिति च प्रतिपादयति आचार्यः । लघु-विस्तरं माध्वमृग्भाष्यम् । विरलान् मध्वसम्प्रदायपण्डितानन्तरा प्रायशो वेद-विचारिणामविदितमेव तादृशं असमग्रमपि अस्त्येव वेद-भाष्यमिति। तदनुसारिणा महानुभावेन श्रीराघवेन्द्र-स्वामिना योगीन्द्रेण आचार्यस्य भाष्यमनुसृत्याशयान् विशदयन्ती मन्त्रार्थमञ्जरी नाम व्याख्या निबद्धा। अग्न्यादिदेवता-परतया तदन्तर्गतपरदेवताभूत-विष्णुपरतया अध्यात्मपरतया च ऋचो व्याख्येयाः किल । यद्यपि तदुक्त-त्रिविधार्थप्रकार-परीक्षाय न वयं प्रवृत्ताः स्मः, तथाऽपि कथमर्थ-त्रयं ऋचां सिध्यति अस्मिन्नर्था-विष्कार-नय इति समासतो ब्रूमः । आवश्यक-स्थलेषु मन्त्रार्थमञ्जरी-वाक्यान्येव उद्धृत्योदाहरिष्यामः –
" द्विविधा मग्न्यादि-शब्दाः। नीरसंवलित-क्षीरवत्, अय:पिण्ड-समारूढ-वह्निवच्च। अग्न्यादि-जीवचिता संवलितं यद् भगवच्चिद्रूपं विशिष्टं सपिण्डम् तद्वाचिनः केचित्। केवलशुद्ध-चिद्वाचिनः केचित् । शुद्ध-चिद्वाचिनोऽपि क्वचित् भगवच्चिद्वाचिनो जीव-चिद्वाचिनश्च इति द्वेधा। तत्राद्याः ‘अग्निमीळे’ इत्यादौ प्रसिद्धाग्न्यादि-देवं विष्णुं च परममुख्य-मुख्यवृत्तिभ्यां, ’गङ्गायां मीनघोषौ’ इत्यत्र मुख्यामुख्य-वृत्तिभ्यां प्रवाहतीर-रूपार्थद्वयं गङ्गा-पदमिव, ’राजा कुवलयोल्लासी इत्यादौ रूढि-योगाभ्यां कुमुदभूवलयरूपार्थद्वयं कुवलय-पदमिव युगपदेव व्युत्पत्ति-मतः प्रत्याययन्ति ।” एवं ऋक्सूक्तमन्त्राणां कर्मसु विनियोगार्थं मन्त्रप्रतिपादिता-ग्न्यादिदेवतापरं अग्न्यायधिष्ठानभूत-विष्ण्वाख्य-परदैवतपरं च तात्पर्यं परिग्राह्यमिति श्रुतिस्मृति-पुराणेतिहास-वचनरुपपादितम् । एवं सति, विष्ण्वर्थत्वेन एवालं, किं अग्न्यादिदेवता-परत्वेनापीति चेन्नेत्याह- तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः । प्रयोजन-बहुत्वेन तस्य तस्याविरोधतः । उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते। इत्यत्र अग्न्यादि-देवतास्वरूपसिद्धयादिबहुप्रयोजनाय तत्तद्देवतार्थकस्य आवश्यकत्वोक्तेः, निगम-निघण्टुव्याकरणादि-सिद्धव्युत्पत्ति-लभ्याग्न्यादि-देवतार्थ-कत्वस्य त्यागायोगाच्च।’ एवं अग्न्यादि-देवतायां मुख्यत्वं परम-देवे विष्णौ परम-मुख्यत्वं च प्रतिपादयत्याचार्यः, आह च-" न चैवमुभयत्र तात्पर्ये तात्पर्यभेदात् तन्निबन्धन-वाक्यभेदः शङक्यः। महातात्पर्यार्थस्यै कत्वात्। ’सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम् । अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोऽतः’ इति पैङ्गि-श्रुतिमुदाहृत्य पुराणवाक्यैश्च प्रोद्वलयत्येवम्--सर्वज्ञं सर्व-कर्तारं नारायणमनामयम् । सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि। सर्वेषामपि वेदानामितिहास-पुराणयोः । प्रमाणानां च सर्वेषां तदर्थं चान्यदुच्यते। इति। तस्मान्महातात्पर्यअवान्तर-तात्पर्यभेदेन अनेकार्थकत्वमुपपाद्य अग्निवाय्वादि-सूक्तानां अग्न्यादिदेवतापरं तद्दधिष्ठान-विष्णुपरमात्मपरं अन्तरर्थं अध्यात्मपरं च त्रेधा मन्त्रा व्याख्येया इति मन्त्रार्थविवरण-प्रकारश्च चत्वारिंशत्सूक्तैर्व्याख्यातैः निरूपितः । अग्न्यादि-सूक्तैर्भगवदुपासकानां अग्न्याद्यधिष्ठानेषु एव भगवतोऽनुस्मत-व्यत्वं अभिव्यज्यमानत्वं प्राप्यत्वं इति निमित्त-त्रयेण इदं अग्नि-सूक्तं इदं वायु-सूक्तमिति देवताभेद-सूक्तव्यवस्थोपपत्तिरवगन्तव्या। अथ ऋग्व्याख्याप्रकारप्रदर्श-नाय मन्त्रार्थमञ्जरी-वाक्यान्युपयुज्य ‘अग्निमीळे’ इति ऋचोऽर्थं सङक्षेपेणो-दाहराम:—
’अग्निमीळे’ इति आग्नेयं सूक्तम् । अस्य ऋषिः मधुच्छन्दाः । विनियोगो विष्णुप्रीति-द्वारा मोक्षे, अवान्तर-विनियोगः कर्मणि। अत्र विस्तर-भयाद् व्याकरण-प्रक्रिया-विस्तरान् प्रायशोऽनुक्त्वा सारत एव राघवेन्द्रस्वामिभिः प्रतिपादितानन् आचक्ष्महे-’अग्नि’ अग्रे भवं प्रथमपूज्यं प्रथम-प्रवर्तकं वा अग्नि-नामकं विष्णुं तदधिष्ठानं प्रसिद्धाग्नि वा ’ईळे’ स्तौमि। अग्निविशेषणान्येवं व्याख्यायन्ते। पुरोहितम्’ अनादितः सर्वप्राणिनामनुकूलं ’यज्ञस्य ऋत्विजम्’ जातावेकवचनं, यज्ञानां ज्योतिष्टोमादीनां कर्त तया ऋत्विङनामकेषु अध्वर्युहोतृ-उद्गातृ-प्रभृतिषु नियामकतया स्थिततया ‘तदधीनत्वात् तदर्थवत्’ इत्युक्त-न्यायेन ऋत्विङनामकं, ’होतारम्’ होतृनियामकतया विशिष्य तत्र सान्निध्यात् तदधीनत्व-न्यायेनैव होतृ-नामकं ऋत्विजं होतारं। कुरुपाण्डव-न्यायेन सामान्य-विशेष-भावादपुनरुक्तिः । ’रत्नधातमम्’ रमेः औणादिक-क्न-प्रत्यय ‘लशक्वतद्धिते’ इति ककार-लोपे अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि ङिति’ इति धातोर्मकार-लोपे ’रत्न’ इति रूपत्वात् रत्नं सुखं धत्ते इति रत्न-धाः अतिशयन रत्नधातं रत्न-धातमम् । ‘देवम्’ स्तुत्यर्थाद् दीव्यतेनिष्पन्नत्वात् स्तुत्यम् । गुणानां निरवाधिकत्वं विष्णौ, तदधिष्ठाने अग्नौ तु यथा-योग्यम् । एवमग्रेऽपि ।।
अध्यात्म-परत्वे त्वयमर्थः । ’पुरोहितम्’ सर्वानुकूलम् । यज्ञस्य ज्ञानयज्ञस्य ’ऋत्विजम्’ ऋन्विग्भूतेन्द्रियामिमानि-नियामकतया तत्र स्थितत्वेन ऋत्विङ-नामकम् । ‘होतारम्’ इन्द्रियाख्याग्निषु विषयलक्षणहविषां दातारं, विषयभोग-प्रदम् । ’अग्नि’ अङ्गं शरीरं नयति प्रेरयति--सर्वशरीर-प्रवर्तकम्। ’ईळे’ इति सम्बन्धः। अत्र अध्यात्म सर्वत्र मोक्षसाधको यः कश्चिद्यजमानो ज्ञेयः। शिष्टं प्राग्वव्याख्येयम् ॥
श्रीमन्मध्वाचार्य-ऋगर्थविवरणानुसारेणेदं पर्यवसन्नम् । अध्यात्म अधिदैवतं च मन्त्राणां तात्पर्य योजनीयम्। अध्यात्ममन्तरर्थः। आधिदैवतपरत्वे यज्ञ-परत्व-मन्तर्गतम् । अतश्च कर्मस्ववान्तर-विनियोगो मन्त्राणामुपपद्यते मुख्य-वृत्त्या । आधिदैवत-परत्वे पुनः परममुख्यवृत्त्या परमदैवतभूतविष्णौ महातात्पर्यमवगन्तव्यम् । एवमपि यास्कोक्तानि त्रीणि यज्ञ-देवता-आत्मपरिज्ञानानि वेदाल्लभ्यानीति द्वैता-चार्यप्रतिपादितेन मन्त्राणां अर्थ-त्रयेण सामान्यतः सङ्गच्छते। सर्वथा मन्त्राणां कर्मसु विनियोगः अवान्तर-प्रयोजनमात्रम्। तदनुरोधेनैव वेद! व्याख्येयाः । अध्यात्मपरव्याख्याने याज्ञदैवत-कर्मपरव्याख्यानेऽपि महा-तात्पर्य विष्णावेव पर्य-वस्यति इति श्रुति-स्मृति-पुराण-इतिहासेभ्यः सप्रमाणं सयुक्तिकं उपपादयामास पदवाक्य-प्रमाणज्ञ आर्षचक्षुःसम्पन्न आनन्दतीर्थ आचार्यः। इदमस्माभिरवधेयम् । ऋचां अध्यात्म-परदेवता-परत्वस्य प्राधान्यं केवलकर्म-परत्वस्य जघन्यत्वं च चिरन्तनार्ष-सम्प्रदायसिद्धं वेदरहस्य-निर्देशक ऐतिह्यं मध्वऋग्भाष्य मन्त्रार्थ-मञ्जर्यां च सोपपत्तिकं दृढीकृतम्। इतश्चास्ति रहस्यं वेदे, यद्वेदगुप्ताथ-पक्षा-श्रयणेन भेत्तुं शक्यमित्यलं विस्तरेण ।।
अथास्य रहस्यार्थ-पक्षस्य स्वीकारे नव्यपाण्डित्य-सम्पन्नानां इदानींतनानां पाश्चात्य-पद्यां प्रविश्य वेद-विचाराय प्रवृत्तानां परिश्रमः सर्वोऽपि विफल एवेति वक्तव्यमिति चेन्ने ति ब्रूमः। स्थूलं बाह्यार्थमाश्रित्य प्रवर्तमानस्य तेषां विचारस्य फलितं यदि समीचीनं न्याय्यं च भवेत्, तदा वेदमन्त्र-दर्शिनां देश-काल-स्थिति-स्वरूपादि-निर्णयाय प्रभवेदिति न तत्परिश्रमोऽन्तरर्थमाश्रित्य प्रवृत्तस्यास्मदीय-गुप्तार्थ-सिद्धान्तस्य प्रतिकूल इति मन्यामहे । यतो मन्त्राणां बाह्यार्थ-स्थूलतात्पर्य-सत्तामभिज्ञायैव प्रवर्तते सङ्केत-गुप्तार्थपक्षः। बाह्यार्थ एक एव मन्त्राणामिति वादे तु प्रत्यवतिष्ठामहे। इदं च सविस्तरं प्रागेव प्रपञ्चितमिति न पुनरिहोच्यते । तस्मात् प्रायः तटस्था वयं बाह्यार्थ आश्रित्य प्रवृत्तस्य परिश्रमस्य। प्राचीन-वेदर्षि-देशकालदशा-विशेषनिर्णयाय वा ऐतिहासिकवृत्तान्त-द्योतनाय वा बाह्य-पक्षं ऋजु-व्याख्यानमुपयुक्तं भवेदित्यसंशयम् । तथा च, तिलकमहाशय-निर्दिष्ट: ऋषीणां उत्तर-ध्रुवमण्डलवासः तत्कालो वा निर्णतुं शक्यः स्यात्, परम-शिवमहोदयोत्प्रेक्षितः अहि-वृत्र-स्वरूपनिर्णयो वा ।।
अथ वैदिकदेवतास्वरूप-निर्णयायत्तं वैदिकसमय-धर्ममधिकृत्य पाश्चात्य-विद्वत्सु विप्रतिपत्तयो लक्ष्यन्ते। वेदर्षयो बहू न् देवानाराधयामासुस्तस्मान्नाना-देवतोपास्तिपरा वेदर्षय इत्ये के। एकैकस्यामपि देवतायामुपासनसमये पारम्य-बुद्धिरासीदुपासकानां ऋषीणामिति तात्कालिकोपास्य-देवताविशेषपारम्यवादिन ऋषय इत्यपरे। केवलं नामभेद एव देवताभेदः, एक एव परो देव इति वेदर्षय एकेश्वर-वादिन इत्यन्ये। विश्वस्मिन् पाञ्चभौतिके जगति तत्र तत्र पदार्थेषु अभिमानि-देवताबुद्धिरासीदृषीणाम्, अत एव द्यावा-पृथिव्यौ अग्निर्वायुरादित्यः पर्जन्यो मरुत इत्येवमादयः सृष्ट्य एव देवता-धिया स्तूयन्ते, तस्मात् प्रकृति पूजका: प्रकृतिसार्वात्म्य-देवतावादिनो वेदर्षय इति केचन। एवमद्यतन-मेधाविनो वेदविमर्शका बहुधा विप्रतिपन्नाः संलक्ष्यन्ते। अत्रेदं ब्रूमः । एषां विविधानां वादानां प्रत्येकनामाधारो न विद्यत इति नोपपद्यते वदितुम् । मूलपुरुषा वेदर्षयो नैवं-विधानां मतानां अभिज्ञा इति स्मर्तव्यम्। यथा औपनिषदर्षयोऽवर-कालिक-द्वैताद्वैतविशिष्टाद्वैतादि-सिद्धान्तवादेभ्यो दविष्ठाः स्वीयानि दर्शनानि साक्षात्-कृतानि तत्त्वानि यथादृष्टं यथाश्रुतं वा प्रत्यपादयन्, तथा मन्त्र-द्रष्टार ऋषयो विशेषतोऽस्मत्कालिकैकेश्वरवादादिभ्यो दविष्ठतमा यथादृष्टं यथाश्रुतं मन्त्राना-विष्कृत्य यथावसरं देवताराधनतत्पराः पर-दैवतमाराधयामासुरित्यसंशयम् । तस्मा-ज्जगज्जीवेश्वरानधिकृत्य वेदर्षीणां मतं मतानि वा यदि परीक्षितुं प्रवर्तेमहि, तदा नैवोपसंहारः स्याद्वादानाम्। यथा वा औपनिषदसिद्धान्तमधिकृत्यावर-कालिकानां आचार्याणां तदनुसारिणां च द्वैताद्वैतादि-वादविशेषाः अद्यापि अधि तिष्ठन्ति पण्डित-लोक-विवादपाण्डित्यभद्रपीठं, तथैव स्याद्वेदानधिकृत्य ईदृशो वादः । अत्रेदं कारणं भवति। न्यायवैशेषिकादि-दार्शनिक-चिन्तकानां तत्त्व-निर्णयो लक्षण-प्रमाण-परीक्षायत्त इति निर्विवादम्। पूर्वेषामृषीणां तत्रापि वेदर्षीणामाद्यानां विलक्षणस्तत्त्वावगति-पन्थाः । तस्मात् तपोनिष्ठानां तेषां ईदृक्षया परीक्षया नाभवत् कार्यम् । यतस्तेषां साक्षात्साधनं दर्शनं श्रवणं च गुरुपरम्पराप्राप्त-दीक्षाबलात्सिद्धमभवत् । मन्त्र-वर्णानां ऋजुतात्पर्य-ग्रहणे बक्ष्यमाणाः सर्वेऽपि अर्था अवभासेरन्नित्यसंशयम् ।।
एक एव परो देवः बहुदेवात्मकतया बहूनि नामानि बिभ्रदवतिष्ठत इति मन्त्रवर्णेभ्यः सिद्धं भवति। बह्वीनां देवतानां पृथगात्मतयाऽवस्थानादेव तत्त-देवतालिङ्ग-द्वारा अमुक-दैवत्यं अमुकसूक्तं इति निर्णीयत इति हेतोः देवता-नानात्वं मन्त्र-वर्णैरेवावगम्यत इत्यसंशयम् । ऋषि-दृष्टौ एकैकोऽपि देवः परम एव नान्यः परस्माद् देवादित्यपि बहुभिः सूक्तैरुपपादयितुं शक्यम् । अध्यण्डमधि-पिण्ड वा विश्व-व्यापारेऽधिकृतानां नानादेवानां इतरेतर-प्रकृतित्वं इतरेतरजन्मत्वं वा मन्त्र-दशिभिर्दष्टं, दर्शितं चेति सूक्त-पाठेभ्योऽवबुध्यते। एक एव महानात्मा सूर्यपद-वाच्यः, यस्यैव मूर्तिभेदाः व्यक्तिविशेषा अङ्ग-प्रत्यङ्ग-भूताः तत्तगुण-क्रियोचितानि नामानि बिभ्रतो देवाः प्रतिपादिता वेदेष्विति आदिवेद-संहितायां तत्र तत्र स्पष्टमवगम्यते। तस्मादस्माकं परमं प्रयोजनं वेदाल्लब्धव्यं चेत्, तत्तन्मन्त्र-दृष्टयो यथासन्दर्भमार्ष-सम्प्रदायमवलम्ब्य शब्दतोऽर्थतश्च परमप्रमाण-बुद्धया परिग्राह्याः। यद्यपि पूर्वोक्तानां बहूनां मन्त्र-प्रतिपादितानां मतानां नास्तीतरेतर-विरोधः, तथाऽपि तेषां सामरस्य-प्रतिपादनाय नैवावश्यकी परीक्षेति ब्रूमः। का वा क्षतिर्यदि विरोध-परिहारः सामरस्य-प्रतिपादनं वा न प्रवर्तेत ? अयं ब्रह्म-कोशः, भक्त्या ज्ञानेन तपसा उपगम्याराधनीयः। नायं सूत्रग्रन्थ-तद्भाष्य-जातीयको ग्रन्थ इव पूर्वपक्षसिद्धान्त-युक्तिप्रतियुक्तिवाद-युद्धक्षेत्रं भवति । अत्यन्तपुरातनार्षदर्शन-शेवधिरयं बढचानां अध्यात्मविद्या-देवतातत्त्वादि-बहुरहस्य-रत्नानामन? निक्षेपः। असाधारण-साधन-सम्पादितानां अतीन्द्रियाणां अर्थानां चर्मचक्षुरगोचराणां विपुलानां लोकानां तद्गतानां आधिकारिक-पुरुषाणां तच्छक्तीनां स्वतः शक्ति-भूतानां व्यक्तीनां रहस्यानि अधिगम्य रहस्याध्वनि योगनिष्ठामास्थाय अधिगतवतां नः पूर्वेषां वसिष्ठ-वामदेवादीनां दिव्य-दर्शनश्रवणात्मकस्य अनितर-सामान्यस्य साक्षात्कारस्य वाङमयावतारोऽयं वेदग्रन्थः, कानि वा अन्यान्यन्तनिहितानि अस्यामत्यन्त-चिरन्तन्यां दाशतय्यां संहितायां, को वेद ? ’तस्यास्तपसा पारमीप्सितव्यम्, तस्यास्तपसा पारमीप्सितव्यम् ॥
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.