ABOUT

Volume 4 contains the Bhūmika, Introduction to Rig Bhashya, followed by the text and the commentary of Suktas 1 - 19 in Sanskrit & English

THEME

CWTVKS Volume 4


ऋग्भाष्यभूमिका




भूमिका-विषयानुक्रमणिका

प्रथमः खण्डः (पुट १-२६)

पुट विषय

१-५ भूमिकास्थ-विषयप्रतिपादनार्थाः संग्रह-श्लोकाः ।।

१-२ ग्रन्थारम्भ जय-वादः सर्वेश्वरस्य तमसःपरस्तादेकस्य आत्मनः, तस्यैव शब्द-मूर्तिधरस्योत्तमस्य पुरुषस्य, तस्यैव पुनर्वेदमूलस्य ऋचां धाम्नः परम-व्योम्नश्चेति एवं त्रेधा जयवादेन नमस्काराक्षेपः। वेदरहस्य-प्रदर्शिन आचार्य-श्रीमद्अरविन्द-पद-महसोऽनुस्मृतिपूर्वकं वेदमर्म-विभेदनार्थक-ग्रन्थकरणप्रतिज्ञा ।।

वेद-प्रतिपादित-विषयानधिकृत्य मतभेदोपन्यासः, सामयाचारिकैः प्रतिपन्न-काण्डद्वयात्मिका वेद-व्यवस्था, व्याख्यातृणां सायणमाधवा-चार्यस्य आदरातिशयः ।।

२-३ नव्यानां भारतीयेतिहासान्वेषिणां पाश्चात्यानां वेदार्थ-निर्णयाय प्रवृत्तानां सायणीयं भाष्यं महानाधारः। वेदान् ऋषीन् तत्समया-चारादीन् अधिकृत्य तेषां मतम् ।।

३-५ अत्र अरविन्द-श्रीचरणानां वेदरहस्यार्थ-दर्शनम्-तच्च गोप्यं भाषा-विशेषण सङ्केतात्मतया स्थितम्-ऋषि-मन्त्र-देवतायजनफलानां यथार्थ-स्वरूपोपन्यासः ॥

६-७ गूढार्थ-पक्षमस्मदीयं अस्वीकार्यमित्ये केषां अधुनातनानां आक्षेपोपन्यासः ।।

७-८ विपक्षोक्तिसारांश-विमर्शनारम्भः । विमतोद्भावितास्रयो दोषाः, आक्षेप-हेतवः ।।

८-१० मानुषवर्गीय-इतिहाससंशोधनात् पाश्चात्य-पण्डितैः साधितस्य ऐति-हासिक-सिद्धान्तस्य विरुद्धोऽस्मदीय-गूढार्थसिद्धान्त इति प्रथम आक्षेपः । तस्य सविचारं प्रत्युत्तरम् श्रीमदरविन्दपादैः प्रतिपादितस्य भारतीय-आध्यात्मिकेतिहासतत्त्वस्य उदाहरणम् ।।

१०-१२ कथं ऋजु-मार्गमिच्छन्तोऽपि प्राज्ञाः पाश्चात्या ऋग्वेद-ऋषीणां प्राकृतावस्थां निश्चिन्वन्तीति विचारः। तदनुयायिनां भारताभि-जनानां पाश्चात्य-क्षुण्ण-वर्त्मनि एतावताऽपि कालेन व्यामोहो न न्याय्यः । प्राचीनार्षरहस्य-जिज्ञासया गूढार्थविवरण-पक्ष-परीक्षायां प्रवृत्तिरावश्यकी धीमतां तेषाम्, न चेद् दुर्विपाकः एव भवेत् तद्विमर्श-वैदुष्यस्येति मन्त्रतात्पर्योदाहरणपूर्वकं कथनम् ।।

१३-१४ द्वितीयाक्षेपोपन्यास:--सायणीयसम्प्रदाय-भाष्यस्य विरुद्धो वेदरहस्य-वादः इत्युक्त विमर्शनम् । त्रिविधं परिज्ञानं इति यास्कोक्तिमुदाहृत्य सायणीये व्याख्याने दृश्यमानं असामञ्जस्यादिकं निरीक्षितम् ।।

१५ पूर्वमीमांसक-सिद्धान्तविरोधी वेद-रहस्यार्थवाद इति तृतीयो जघन्य आक्षेपः--तस्योपन्यास-परिहारौ ।।

१५ सायण-भाष्यस्य अपरिहार्यत्वं वेदार्थ-विचारे इति प्रतिपादनम् । गुणदोष-स्मरणपूर्वकं भाष्यस्य प्रशंसा ।।

१६ कमैकपरत्व-पक्ष तु दोषः, गीता-वाक्यस्य न्याय्यता च ।।

१६-१७ स्वपक्षोपन्यास:--ऋग्वेदोऽत्र विचार-विषय:-बहिरा अन्तरर्थाश्चेति द्वयर्था मन्त्राः ।।

१७-१९ अर्थद्वयवच्छब्द-प्रयोगव्यवस्था, भाषा-स्वरूपम्, शब्दानां प्रवृत्तिः, शब्दः प्राधान्येन यौगिकः, शब्दार्थ-सङ्कतस्वरूपम् ।।

१९-२० अस्माभिरत्र विशिष्टऽर्थे सङ्केतपद-प्रयोगः, आयुर्घ तमित्यादाविव अश्वादीनां बलादि-लक्षकत्वं प्रतिपाद्य, बाह्योऽर्थः अन्तरर्थस्य सङ्केत-भूत इति प्रतिपादनम् ।।

२०-२२ बहिर्यागोऽपि सङ्केत-भूतोऽन्तर्यजनस्य । ऋत्विग्-यजमानयजनतत्फलानां स्वरूप-विचारः। होत्रादीनां ऋत्विजां घृतादिद्रव्याणां गवाश्वादि-फलानां च अन्तरर्थोपपादनम् ।।

२२ भूरादि-सप्तव्याहृत्युपन्यासः। तत्र भूमिरन्तरिक्षं द्यौरिति त्रैलोक्य-विभाग आर्ष इति प्रतिपाद्य, आन्तरस्य त्रिकस्य सङ्केतभूतं बाह्य त्रिकमिति प्रतिपादनम् ।।

२३-२४ ब्रह्माण्डाधिकारिकाणां देवानां तत्त्वं (स्थूल-पक्षे बाह्ये, आन्तरे सूक्ष्म-पक्षे च) उपन्यस्तम्। अग्निस्वरूप-वर्णनम्-तथा इन्द्रादीनां स्वरूपस्य विवरणम् ॥

२४-२५ सोमादीनां तत्त्वम् ।।

२५-२६ रहस्यार्थदशि-श्रीचरणानां वाक्यानुवादेन प्रथम-खण्डोपसंहारः ।।

द्वितीयः खण्डः (२७-४५)

२७ "आधुनिक-नव्यविद्याविचार-संस्कारायत्त-विपक्षाक्षेप-समाध्युपन्यासमुखंन वेदगूढार्थ-सिद्धान्तपक्षः प्रतिपादितः प्रथमे खण्डे । अत्र स्व-पक्षस्य परीक्षा चिरन्तनभारतीय-पाण्डित्यदृष्ट्या प्रवर्तत” इति प्रतिज्ञा ।।

२७ कुत ऋग्वेद एव विचार्यते ?

२७ -२८ ऋग्वेदः ।।

२८-२९ ब्राह्मणानां उद्देशः, कृष्णयजुः-संहिता, याज्ञवल्क्यस्य नाभिमत संहितायां ब्राह्मणान्तर्भावः ।।

२९-३० ऋग्वेदमात्र-विचारस्यावश्यकता।।

३१ त्रयीपदार्थ-विचारपूर्वकं त्रयी-देवानां ऋत्विग्भूतानां अग्न्यादीना-मुल्लेखनं, तेन, अन्तर्यजनार्थोपपादनम् ।।

३१ धर्म-मीमांसा ।।

३१-३२ धर्म-स्वरूपम् । यज्ञो बाह्यः एकदेशीयः, गीतोक्त-लक्षणो यागः सार्व-लौकिकः॥

३३-३४ गीतोपदेशात्प्राक् परं च प्रमाण-ग्रन्थेभ्यः यागस्य रहस्यार्थपरत्वं उपपादितम् ॥

३४-३५ “पूर्व-तन्त्रविदां सूक्ष्मविचार-विवादवैदग्ध्यं सर्वपण्डितमण्डली-सम्मा-नितमिति नात्युक्तिः’ इति प्रारभ्य ‘बबरः प्रावाहणिः’ इत्यादौ मीमांसकैः गौणवृत्त्याश्रयणं साधु, अपि तु तेषां प्रह्माण्डनिर्माणप्रायेण प्रयासेन ’पर्वतो रन्ध्रितः मूषको लब्धः’ इति लोकोक्तेः निदर्शन-भूतं अल्पमरसं वा फलं सप्पादितमिति निरूपणम् ।।

३५-३७ मन्त्रः, तत्स्वरूपं तत्प्रतिपादितो विषयः, तत्प्रयोजनानि-तदुत्पत्त्यनुत्पत्ति विचार:—वेदस्य नित्यत्व-कृतकत्वयोविरोध-परिहारः, पातञ्जलमहा-भाष्य-पङक्त्यर्थविमर्शः

३७-३८ तपस ऋते दुरवगाहो मन्त्र इति प्रमाणपूर्वकं उपपादनम् । निरुक्त-बृहद्देवता-काराणां वचनोदाहरणम्। श्रद्धया ज्ञानपूर्वकमनुष्ठितस्यैव कर्मणः फलम्, नान्यथेत्युपपादनम् ।।

३८ बाह्य-पक्षे, उच्चावचैरभिप्राय: ऋषीणां मन्त्र-दृष्टयो भवन्तीत्युक्ति-युक्ताऽपि, नैव अन्तरर्थ-बाधिका भवतीति प्रतिपादनम् ।।

३८-३९ ऋचः प्रमाणं वेदरहस्य-विषये-- :।।

३९-४० तपोनिष्ठानां ऋषीणां देवताभिः सह व्यवहारे तदर्थ-प्रकाशने च रहस्यभाषा व्यवस्थापितेति निर्णयाय मन्त्र-दृष्टिष्वेव प्रमाणं द्रष्टव्यं इति प्रारभ्य ऋग्वेद-संहितायां रहस्यपदार्थ-प्रसक्तिपरीक्षा-पुरस्सर ’निण्य’ पदार्थ-प्रतिपादनम् ।।

४०-४१ सर्वाणि निण्यपद-प्रयोगस्थलानि परीक्ष्य ऋचामुदाहरणेन वेदभाषायां

४१-४३ ’निण्यं’ रहस्यं प्रतिपादितम् । गुहा, अपीच्यं, प्रतीच्यं इत्यादीनि रहस्यपदार्थत्वेन स्तोत्रपर्याय-नामपदविशेषणतया प्रयुक्तानीति मन्त्रो-दाहरणपूर्वकं प्रदर्शितम् ।।

४३ कैनोपायेन रहस्यमाच्छादितमिति प्रश्नमुत्थाप्य, बाह्याभ्यन्तरार्थ-द्वयवता शब्देन घृतादिना, सङ्केत-रूपेण गवाश्वादिना चेति निरूपणम् ॥

४३ ऋतु-केतु-क्रतु-घृतादिपदानां अर्थ-निर्णयः एक-रीत्या सर्वत्र तेषां अर्थावगतिः गूढार्थ-पक्षानुसारस्य सौलभ्यमावहतीति प्रतिपादनम् ।।

४४-४५ वेदे सङ्केत-रूपाणां प्रयोगस्य निदान-विचारपूर्वकं सङ्केतार्थ-समालम्बः वेद-गुप्तार्थ-सिद्धान्त इति प्रतिपादनम् ।।

४५ नेकविधानां सङ्केतानां स्वरूपोल्लेखनम् ।।

तृतीयः खण्डः (४६-५८)

४६ वसिष्ठ-वामदेवादीनां मन्त्र-दृष्टय एव वेदगूढार्थ-सिद्धान्तस्य प्रधानं प्रमाणमिति द्वितीये खण्डे निरूपितम् । मन्त्र-वर्णेभ्योऽन्यत्र वेदगूढार्थ सिद्धान्तं सूचयन्ति प्रोद्वलयन्ति वा प्रमाणानि प्रदर्शितानि। तत्र प्रथमं वैदिक-पदानां यौगिकत्वं प्रतिपादयतो यास्कस्य ऋषिमन्त्र-देवतादीन्यधिकृत्या भिप्राया उपन्यस्ताः ।।

४६-४७ गौण-वृत्त्याश्रयणमवश्यमिति यास्कीयाशयस्य विचारः, तत्फलं च। दुरूहो वेदार्थ-बोधः तथा दैवत-निर्णयश्चेति तदीय-मतम्, तस्य विमर्शः। वेदार्थ-निर्णयोपयोगाय तदानींतन-पक्षान्तरीयवादोदाहरणेन बहु-प्रकारो मन्त्रार्थ-व्यवहार आसीदेकदेति कथनम् ।।

४८ मन्त्रार्थ-दुरूहत्वप्रतिपादनाय यास्कोदाहृत-ऋग्द्वयम् । तस्य व्याख्यानम् । तेन त्रिविधं वेदार्थ-परिज्ञानंयास्काभिमतमित्युपपादनम् ।।

४८-४९ उपदेशेन साक्षात्कृत-धर्माण ऋषयोऽवरेभ्यः पुरा मन्त्रान् सम्प्रादुरिति यास्कोक्ति-निरीक्षणम् । स्थूलमर्थं व्याचक्षाणोऽपि यास्को मन्त्रार्थ-विचारे अध्यात्मपक्ष-पारम्यमभ्युपगच्छतीत्युपपादनम् ।।

४९ नासौ सतृणाभ्यवहारी न वा विशृंखल इति यास्कमधिकृत्य निरूप्य वेदे रहस्यमस्तीति तस्यासीन्मतिरिति प्रतिपादनम् ।।

५० पञ्चजन-चर्चायां बृहद्देवता-श्लोकोदाहरणेन निरुक्तकारवद् बृहद्देवता ऽपि अध्यात्मादि-रहस्यमस्ति वेद इत्याहेति कथनम् ।।

५०-५१ ब्राह्मणान्यपि ’यजमानो वै यूपः’ इत्यादि-वाक्यैः यज्ञस्य सङ्केतरूपतां प्रतिपादयन्तीति स्मारयित्वा, ऐतरेय-शतपथब्राह्मण-वाक्योदाहरणेन कर्मकाण्ड-ग्रन्थेष्वपि वेदरहस्य-प्रतिपत्तिरसन्दिग्धेति स्वमत-दृढीकरणम् । उपनिषत्सु ‘तदृचाऽभ्युक्तम्’ इत्यादिवाक्यस्य तात्पर्य-विचारः। क्वचिन्मन्त्रवर्ण-मूलकानि उपनिषद्वाक्यानीति प्रतिपादनाय निदर्शनं दत्तम् ।।

५१-५३ ’हिरण्मयेन पात्रेण’ इत्यादीशावास्योपनिषत्पङक्तीनां ’ऋतेन ऋतमपिहितम्’ इति पञ्चममण्डलीय-मन्त्रदृष्टश्च समानोऽर्थ इति व्याख्यानपूर्वकं उपपादनम् । इतश्च वेदे रहस्यमस्तीति निरूपितम् ।।

५३-५४ महाभारतमपि वेदगुप्तार्थ-सङ्केतरहस्यमतं प्रोद्वलयतीति प्रमाणं दत्तम् ।।

५४-५७ सायण-भाष्यात् प्रागपि आचार्य-श्रीमदानन्दतीर्थीयं चत्वारिंशत्सूक्त-भाष्यं परमपुरुषार्थभूत-विष्णुपदप्राप्तिरूप-वेदप्रयोजनप्रतिपादकं आसी-दित्युपन्यस्तम् । ’द्विविधा ह्यग्न्यादिशब्दाः’ इत्यारभ्य मन्त्रार्थमञ्जरी-वाक्यान्युदाहृत्य श्रीमद्-राघवेन्द्रस्वामिनां ’अग्निमीळे’ सूक्त-व्याख्यानं प्रकारोपप्रदर्शनाय दत्तम् ।।

५७-५८ वैदिक-समयधर्मादि-विषयेषु पाश्चात्यानां मत-भेदानुपन्यस्य अस्माक-मुपादेयं सारमुक्त्वा, ‘तपसा पारमीप्सितव्यम्’ इत्युपसंहारः ।।

चतुर्थः खण्डः (५६--७४)

५९ देवता-मीमांसा तत्र पाश्चात्य-विदुषां प्राच्य-विदुषां गूढार्थसिद्धान्तिनां च मत-विवेकः। अन्तर्बहिश्च देवानामधिकारं पश्यतो गूढार्थ-सिद्धान्तस्य अर्थाविष्कार-नये सर्वत्र अन्तरर्थस्य प्राधान्यं प्रतिपाद्य, चेतना एव देवा न जडा इति बहुदैवतमन्त्रवर्णोदाहरणेन निरूपणम् ।

५९-६० स्थूलार्थ-पक्षे पर्यवसन्नोऽर्थः सर्वत्र नीपपद्यत इति निरूपणाय सौरमन्त्रार्थ-विचारः ।।

६०-६१ ऐन्द्र-मन्त्रोदाहरणम् ।।

६१-६२ मरुतः सोमं चाधिकृत्य अन्तरर्थोपपत्तिः, बाह्यार्थासंगतिश्च ।।

६२-६३ उषसमधिकृत्य विचारः। एकस्यैव परस्य देवस्य सर्वे देवाः नामानि इत्यादि तत्त्वं बहुभ्यो मण्डलेभ्यो मन्त्रोदाहरणेन प्रतिपादितम् ।।

६३-६४ एकं सदेव सर्वेऽपि देवाः, येषामेकैकोऽपि स्वसदृशं साहाय्यं विनियुज्य यजमानं तदेकं परं ज्योतिरमृतं प्रापयतीति प्रतिपादनाय बहुदैवत्य-मन्त्रोदाहरणम् । अथ देवानामेक-मूलत्वं एकात्मत्वं एक-लक्ष्यत्वं चेति उपन्यस्य, तेषां पृथक्त्वं नामतो व्यापारतो व्यक्तितश्चेति प्रतिपादनम् ॥

६५ देवानां द्वि-जन्मत्वोपपादनम् ।।

६५-७२ अग्निस्वरूप-विचारः ।।

६५-६७ सप्तक-पदार्थः, अग्नर्व्यपदेशाः, गुहा हितः’ मन्त्र-वर्णोदाहरणेन तात्पर्य-कथनम्, ’मर्येष्वमर्त्यः, अमृतः’ मन्त्रोदाहरणेन सारांश-कथनम्, अग्नेः हृदयान्तर्निवासः-मन्त्रोदाहरणम्, पराशर-विश्वामित्र-वामदेवानां वाग्भिः प्रमाणीकरणम् ।।

६७ अग्नः सप्तक-सम्बन्धित्वोपपादनम् ।।

६८-६९ वैश्वामित्रस्य आग्नेय-सूक्तस्य विमर्श-द्वारा अबादीनां सङ्केतरूपस्य दृढीकरणम् ॥

७०-७२ यो वेदेऽग्निः कुमारः कीर्तितः स एवाग्निज स्कन्दः पुराणे, अद्-भुताख्योऽग्निः महाभारते, इत्युपपादनाय ऋक्संहितायां अद्भुतपद-प्रयोगस्थलानि परीक्ष्य, अग्निरेवाद्भुतो वेदे इति निरूपितम् ।।

७२ प्रसक्तस्याग्निस्वरूप-विचारस्य अनुप्रसक्त्या पौराणिकस्कन्दकथा मूल-परीक्षणेन वेद-भाषायाः सङ्केतरूप-गूढार्थत्वं दृढीकृतम् ।।

७२-७४ गूढार्थ-प्राधान्येऽपि कर्मोपयोगितया व्यवस्थितानां ऋचा पदार्थ-विचारे गवाश्वादीनि साङ्केतिक-पदानि अपरिहार्यैव अन्तरर्थानुसारि-तात्पर्यपरिग्रहे व्यवसाय: कार्य इत्युपपाद्य, अयं रहस्यार्थ-विचारो जिज्ञासूनां कर्मबद्ध-श्रद्धानामप्युपकारक: स्यादित्याशंसयोपसंहारः ।।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates