Volume 4 contains the Bhūmika, Introduction to Rig Bhashya, followed by the text and the commentary of Suktas 1 - 19 in Sanskrit & English
On Veda
Volume 4 includes Rig Veda Bhashya - Siddhanjana, Rig-Bhashya Bhumika, Rig Veda Samihita - First Ashtaka (Text of Suktas 1-19 with Padapatha), Detailed word for word commentary in Sanskrit and its English translation.
THEME/S
आदिमे शतर्चिनां मण्डले चतुर्विशत्यनुवाकाः । तत्र आद्यानुवाकत्रयस्य अन्तिमं द्वादशं सूक्तमन्तरा वैश्वामित्रो मधुच्छन्दा ऋषिः । द्वादशस्य सूक्तस्य तु माधुच्छन्दसो जेता । ’अग्निमीळे’ इत्यारभ्य ’गायन्ति त्वा’ इत्यतः प्राक् सूक्तनवकं गायत्रीच्छन्दस्कं, सूक्तत्रयात्मकस्य प्रथमानुवाकस्य आदिमं अग्निदेवताकं ’अग्निमीळे’ इति नवर्च सूक्तम् । तत्र नवानामृचामियं प्रथमा भवति-
ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥१॥ अग्निं ईळे पुर:ऽहितं यज्ञस्य देवम् ऋत्विजम् । होतारम् रत्नऽधातमम् ॥
अग्निं अग्निनामकं (देव) ईळे अध्येषणीयत्वेन स्तौमि। कीदृशम् ? पुरोहितं पुरस्तात् निहित कार्यनिर्वाहाय, पुनः कीदृशम् ? यज्ञस्य देवं ऋत्विज देवतासम्भावनार्थ अनुष्ठीयमानस्य यागस्य निर्वर्तने यो देव एव ऋत्विग्भूतः तम् । पुनश्च कीदृशम् ? होतारम् ह्वातारं सामर्थ्याद्देवानाम् । पुनरपि कथंभूतम् ? रत्नधातमम् रमणीयानां रतीनां अतिशयेन धारकम् ।
अग्निपदं बहुधा निळवते नैरुक्ताः। तेषां निर्वचनानां परीक्षणे स्पष्टमिदमव-गम्यते, यत् ब्राह्मणवाक्यबलात्कयाचिद्विधया अग्निखरूपमाकलय्य निर्वचनानि विकल्पतो दत्तानीति । ’स वा एषोऽग्रे देवतानामजायत तस्मादग्निर्नाम’ इत्यादि ब्राह्मणवाक्यानि ’अग्रणी:’ इत्यादि निर्वचनस्य मूलमिति ज्ञायते । वैयाकरणपक्षे अङ्गतेांतोनिष्पन्नं अग्निपदम् । ’अङ्गेलोपश्च’ इत्युणादिसूत्रमुदाहरन्ति । अङ्गति गच्छति ऊवं, हविः स्वर्ग नेतुमिति वा व्युत्पत्तिमाचक्षते । प्राचीन-आर्य-भाषाशाखीयानां अग्न्यर्थकधातूनां परीक्षणे बलवद्दीप्तिमद्गतिरवयवार्थो भवति । एवं च सङ्गच्छन्ते अग्निधर्मप्रतिपादका: शब्दा इति बोध्यम् ।
ईळे-स्तौमीति सायणः, याचामीति यास्क: । धातूनां बह्वर्थत्वे न विवाद: । ईळतिर्याच्ञाकर्मा अध्यषणाकर्मा पूजाकर्मा वेति यास्क: । अग्निस्वरूप-तदधिकार-तन्निवाहापेक्षया अध्येषणाकर्मेत्युपपन्नतमम् । अध्येषणा अधिका एषणा प्रेरणा भवति । पूज्यस्य पुरोहितस्य अग्नेर्देवस्य वा सत्कारपूर्वकं कर्तव्यविशेषेषु नियोजनं अध्येषणेति उच्यते। ईळे अध्येषे ।
पुरोहितम्-यजनकर्म-निर्वाहाय यजमानस्य पुरस्तादग्रे निहितः अग्नि: । अत एव तं ऋषिरन्ताँगे, यजमानो बहिर्यागे अध्येषते। एवं चोपपद्यते ईतिरध्ये-षणार्थः । पुरोहितम् - ’पुर एनं दधते’ इत्याम्नायश्च सङ्गच्छते । ’यज्ञस्य पुरोहितम् ’ ’होतारं देवम् ऋत्विजम्’ ’रत्नधातमम्’ इति व्याख्यातॄणामन्वय: नावश्यक: न च समीचीन इति द्रष्टव्यम् । पादश: अन्वयस्य सम्भवे सति, पादान्तरस्थपदैः पादान्तरस्थपदानां योजना न ऋज्वी । तस्माद् ’यज्ञस्य देव ऋत्विज’ इति पादो व्याख्यातः ॥
होतारम्-स्वयं देव: सन् अन्यान् यज्ञे समुपस्थितान् कर्तृ आह्वयति । एवं आह्वानप्रभुरग्निः ॥
रत्नधातमम्-रमेर्धातो: औणा दिक-क-प्रत्ययान्तं रत्नपदमिति सर्वेषामभिमतम् । ’रत्न सुखं धत्त इति रत्नधा अतिशयेन रत्नधास्तम् इति मन्त्रार्थमञ्जरीनिवचन अन्त-गिपराणां न: सम्मतम् । अन्तर्यजने प्रवृत्तस्य ऋषेयजमानस्य अर्पणानां फलभूताः रत्नपदवाच्या या रतय: तासां धारक: प्रतिष्ठापकः अग्निरेव भवती-त्यन्तरर्थ:। बहिर्यागात् नान्यदस्तीति वा दिनां पक्षे, रत्नं धनं यागफलभूतं गवाश्वादिकं तस्यातिशयेन दाता अग्निः तं, इति ॥
इदं च ऋचस्तात्पर्य भवति-’यो यज्ञस्य निर्वोढा अग्रणी: पुरोहितः, यश्च काले कर्तव्यस्य यज्ञस्य कतो कारयिता च ऋत्विग्भूतो देवः, यो देवान् यज्ञे सन्निधापयितुं प्रभवन् तेषामाह्वाता, य: पुनर्यजमाने प्रहातिशयानां आधायक: तमग्निं अध्येषणीयं अभिकाङ्क्षामि’ इति ।
अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स दे॒वाँ एह वक्षति ॥ २॥ अग्निः पूर्वेभिः ऋषिभिः ईड्य: नूतनैः उत । सःदे॒वान् आ इह वक्षति ॥
अग्निः पूर्वोक्त: पुरोहितत्वादियोग्यताविशिष्ट: देवः, पूर्वभिः पुरातनै: ऋषिभिः मन्त्रद्रष्टुभिः भृग्वङ्गिरःप्रभृतिभिः ईड्यः स्तुत्यः पूज्य: अभिकाङ्क्षणीय इति यावत् , नूतनैः उत नवैः ऋषिभिरपि ईड्य: । सः य एवमीड्य उक्तः स देवः देवान् इतरान् इन्द्रादीन् , इह अस्मिन् यज्ञ आवक्षति आवहति । अस्मिन् जगतीति वा इति स्कन्दस्वामी । द्युस्थानान् देवान् पृथिवी स्थान-मान यति पृथिवी स्थानोऽग्निरिति भावः। अन्तर्यजने अन्तर्यजने सुगमो भावः । अशक्यः कालनिर्णय: पूर्वेषां अङ्गिरःप्रभृतीनाम् । मधुच्छन्दा इव तत्समकालिकाः सूक्तकृत ऋषयोऽन्ये च आसन् इति गम्यते ’नूतनैरुत’ इत्युक्ते: । अतिचिरन्तना दृष्टफलका रूढमूला च अग्नेरुपास्तिः इत्याचारबलं च द्योत्यते ।
अग्निना रयिमश्नवत् पोषमेव दिवे दिवे । यशसं वीरवत्तमम् ॥३॥ अग्निना रयिम् अश्नवत् पोषम् एव दिवे दिवे । यशसं वीरवत्तमम् ॥
अग्निना देवेन निमित्तभूतेन रयिम् धनं किमप्यान्तरं न केवलं बाह्यं अश्नवत् प्राप्नोति यजमान: । कीदृशम् रयिम् ? दिवे दिवे अनुदिनं पोषमेव पोषोपेतमेव पुष्यमाणं न कदाऽपि क्षीयमाणम् । पुनः कीदृशम् ? यशसम् यशो युक्तं वैभवसम्पन्नम् । वीरवत्तमम् अतिशयेन वीरबलोपेतं च रयिं अश्नवदिति सम्बन्धः॥
अत्र पोषशब्दस्य घञन्तत्वाद्रयिविशेषणत्वेन न ग्राह्यमित्येकेषामाक्षेपः । पोषं पुष्टिं रयिं (धनं) च ’अश्नवत्’ इत्याहुः । एवं चेत् समुच्चयार्थकश्चकारोऽध्याहार्यः । ’पोषमेव’ इत्यत्र एवकारस्य प्रयोजनं अलक्षितं स्यात् । ’पोषं’ ’यशसं’ इत्युभयमपि मत्वर्थलक्षणया रयिविशेषणमिति बोध्यम् । एतादृशः प्रयोगः साधारणो वेदे । ‘वपुषामिदेकम्’ (४. ७. ९.), ‘वपुषामपश्यम्’ (५. ६२. १.) इत्यादिस्थलेषु वपुषां वपुष्मतां देवानां इति मत्वर्थलक्षणया व्याचक्षते पदार्थ व्याख्यातारः । साध्वेतत् । एवमिहापि लक्षणाश्रयणं साधु । वैभवद्योतनाय ’यशसं’ इति रयिविशेषणम् । ’अश्नवत्’ इति लेटि रूपं, तस्माल्लोडर्थो वक्तव्य इत्येके नव्याः । लडर्थ एवोपपन्नतरः, पूर्वेषां व्याख्यातॄणामभिमतश्च ।
पूर्वोक्तलक्षणेन देवानामाह्वात्रा अग्निना तत्प्रसादमहिम्ना वैभवशालिनी वीर्यातिशयसम्पन्नां रयिपदवाच्यां अन्तस्समृद्धि प्राप्नोति यजमान इति भावः ।
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि। स इद्देवेषु गच्छति ॥४॥ अग्ने यं यज्ञं अध्वरम् विश्वतः परिऽभूः असि । सः इत् देवेषु गच्छति ॥
अग्ने त्वं यं अध्वरं अध्वगमनशीलं यज्ञं यागं विश्वतः सर्वतः परिभूः परिवृत्य भवन् असि स इत् स एव यज्ञः देवेषु देवानां मध्ये गच्छति गन्तव्यं स्थानम् ।
अध्वरो हिंसारहित इति कर्मपराणां व्याख्यासरणिः । ’न हिंस्यात्सर्वभूतानि’ इति धर्मशास्त्रस्य अपवाद: पश्वालम्भो यज्ञे। ततोऽत्र हिंसा न दोषायेत्युप-पादयितुं न ध्वरो हिंसा अस्मिन्निति अध्वरपदं निष्पादयन्ति बाह्यार्थपक्षीयाः । यज्ञः पुरुषाकारतया वय॑ते वेदें। स च द्रव्यत्यागापरपर्याय: सर्वस्वापणरूपो यजमानस्यान्तराविर्भूय प्रतिष्ठत ऊर्ध्व खर्लोकं प्रति देवानधिगन्तुम् । तस्मात् स प्रयाणं करोति, अध्वानं राति ददाति यजमानस्योवंगत्यै । तथाविधस्य यज्ञस्य यात्रायां सर्वत: पापेभ्यो राक्षसादिभ्यो रक्षणं अग्नेरेव सम्भवति । तस्माद् यो यज्ञोऽग्निना परिरक्षितः स एव देवान् प्राप्नोतीत्युक्तम् ।।
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः। देवो देवेभिरागमत् ॥५॥ अग्निः होता कविऽक्रतुः सत्यः चित्रश्रवःऽतमः। देवः देवेभिः आ गमत् ॥
अग्निः खयं देवः देवेभिः अन्यैर्देवैः सह आगमत् आगच्छतु। अग्नेः चत्वारि विशेषणानि । होता आह्वाता देवानाम्, कविक्रतुः कविर्मेधाविनाम् , कान्तदर्शी अतीन्द्रियार्थदर्शी कविरिति वेदे। एवमेव सायणव्याख्या बहुत्र । क्रतु: प्रज्ञा कर्म वा यथासन्दर्भ व्याख्यायते कर्मठैः । कर्मकरणसामर्थ्यवत् अध्यवसायात्मकं प्राज्ञं बलं निष्प्रकम्पसङ्कल्पो वा क्रतुरिति ज्ञेयम् । एवं कविक्रतुः अतीन्द्रियार्थदर्शी प्राज्ञसङ्कल्प इच्छाबलं वेति वेद्यम् । सत्यः दर्शने प्राज्ञकर्मणि खरूपतोऽपि सत्यः अनृतैरभिघात: सम्पर्को वा नास्त्यस्य, अतो न व्यभिचरति दर्शनादिकर्तव्येषु । चित्रश्रवस्तमः श्रव इति कीर्तिनाम, तथा बाह्यार्थपक्षे ग्रहणं नासाधु । श्रव:-श्रवणश्रुतिशब्दाः शृणोतेर्निष्पन्नाः समानमेवार्थ स्मारयन्ति। सर्वतः श्रूयमाणत्वा-देव श्रवः कीर्तिरुच्यते । तस्मादत्र चित्रं अद्भुतं विविधं चायनीयं वा, श्रवः श्रवणं अस्य अग्नेरतिशयेनास्तीति पदार्थ: । अतीन्द्रियार्थविचित्रश्रवणशाली भगवानग्निः खयं श्रुतिमान् उपासकं अद्भुताः श्रुती: श्रावयितुं प्रभुरिति बोध्यम् ॥
इति प्रथमस्य प्रथमे प्रथमो वर्ग: ।।
यदुङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तवेत्तत्सत्यमङ्गिरः ॥६॥ यत् अङ्ग दाशुषे त्वं अग्ने भद्रं करिष्यसि । तव इत् तत् सत्य अङ्गिरः॥
अङ्ग! अग्ने! हे अग्ने दाशुषे दत्तवते यजमानाय त्वं यद् भद्रं कल्याणं करिष्यसि तवेत् तवैव तत् सत्यं हे अङ्गिरः एतन्नामक अग्ने ॥
अत्रायं सायणीयोऽभिप्रायो भवति, हविर्दत्तवते यजमानाय पशुप्रजादिरूपं धनं अग्निर्ददाति। तदेव कल्याणं भद्रशब्देनोक्तम् । तथा लब्धेन धनेन साधनेन पुनरग्निं यजते यजमानः। तस्मादग्नेरेव तत् ’तवेत्तत्’ । सत्यं न विसंवादोऽत्र । रमणीयार्थे ऽस्मिन् मन्त्रे अग्नेः सत्यं किमपि खच्छमुक्तं लक्ष्यते, व्याख्यातृभिर्महाननर्थ: कृतः । ’दाशुषे’ दत्तवते ’यद्भद्रं करिष्यसि’ ’तत्सत्यं’ तवैव ‘तवेत्’ इति साधीयान् ऋजु : अन्वयः। तहिं अयमाशयः। अग्निना यजमानाय करिष्यमाणं भद्रं अग्नेरेव सत्यम् । किं तद्भद्रं यदग्नेरेव सत्यं उच्यते ? प्रजाः पशवो वित्तं गृहा इतीदं सर्व भद्रमिति ब्राह्मणवाक्यबलेन प्रतिपादयन्ति । भवतु प्रजापश्वादि कल्याणम् । मास्तु विवादः। - ऋग्वेदे भद्रपदं सत्यसम्बन्धि किमपि विशिष्टं कल्याणं द्योतयतीति न संशयः। ’विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न आसुव ।’ ’परा दुष्वप्न्यं सुव’ (५. ८२. ४, ५) इत्यादौ दुःष्वप्न्यदुरितप्रतिद्वन्द्वित्वेन भद्रपदं प्रयुज्यते । अनृतज्ञानजन्यदुर्गतानामन्तकं भद्रपदवाच्यं कल्याणमेव अग्नेः सत्यमिति तात्पर्यपरिग्रहे, पूर्वस्यां ऋचि अग्ने: सत्यविशेषणं, अत्र तथाविधं भद्रं अग्नेरेव सत्यं इति प्रतिपादनं च उपपद्यते । तस्मान्नेह कल्याणसामान्यं विवक्षितम् । अनृतप्रज्ञापरिपन्थिकल्याणं सत्यं अग्नेरेव तत्त्वं खभावो वेति बोध्यम् सर्वथा भद्रपदं अशुभ-अनृतज्ञानजन्य-दुरितप्रति-द्वन्द्वित्वेन प्रयुज्यते वेदे । दुःस्वप्ननसूक्ताच्च इदमवगम्यते, यत्र पापदेवताया नितेविरोधितया ’भद्रं वरं वृणते’ (१०. १६४.) इत्यादि गीयते। ये भद्रं दूषयन्ति ते निळतेरन्तिके क्षिप्यन्त इत्यर्थको मन्त्रश्च अन्यत्र श्रूयते-ये वा भद्रं दूषयन्ति खधामिः । अहये तान् प्रददातु सोमः आ वा दधातु निक्रतेरुपस्थे ।’ (७. १०४. ९.) अपि च, अग्नेः स्वावासभूत-ऋतपदवाच्यस्य बृहत: सत्यस्य विशेषणतया, मनस: क्रतोश्च प्राप्यत्वेन च ’भद्र कीर्त्यते । ’भद्रं मनः कृणुष्व (४. १९. २०.) ’भद्रं नो अपि वातय मनो दक्षमुतक्रतुम्’ (१०. २५. १.) ’आ भन्दिष्टस्य सुमतिं चिकिद्धि बृहत्ते अग्ने महि शर्म भद्रम् (५. १. १०.)- इत्येवं-जातीयको मन्त्रवर्ण: कल्याणपर्यायत्वेऽपि भद्रस्य वैशिष्ट व्यं द्योतयतीत्यवधार्यम् । आङ्गिरसस्य कुत्सस्य मन्त्रदृष्टिरपि ’यदङ्ग दाशुषे’ इत्यस्या ऋचोऽस्माभिरुक्तमर्थ दृढीकरोति। सेयं भवति- ’तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुता जरसे मृळयत्तमः । दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मारिषामा वयं तव (१. ९४. १४.)। पुरस्तात् ’राजन्त’ इति मन्त्रस्य अर्थावगाहने स्मरणीयेयं कुत्सस्य ऋक् ॥ ।
उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयम्। नमो भरन्त एमसि ॥ ७ ॥ उपत्वा अग्ने दिवेऽदिवे दोषाऽवस्तः धिया वयम् । नमःभरन्तः आ इमसि ॥
हे अग्ने त्वा त्वां दिवे दिवे प्रत्यहं दोषावस्तः नक्तं-दिवं वयं धिया धारणसमर्थया बुद्धया नमः प्रणतिं भरन्तः बिभ्रतः सन्तः उपेमसि उपगच्छामः उपास्मह इत्यर्थः। अत्रैके ’दोषावस्ता’ रात्रेराच्छादक: खप्रकाशेन अग्निः, तस्य सम्बोधनं ’दोषावस्तः’ इत्याहुः। वस्तुतस्तु दोषा रात्रिवाची तेन तमो लक्ष्यते, वस्तः दिनवाची तेन प्रकाशो लक्ष्यते । तमसि प्रकाशे वा सर्वाखवस्थासु प्रत्यहम-विरतं त्वामुपास्मह इति भावः । ’एवं नमो भरन्तो वयम्’ इत्युपपद्यते । प्रणतिभारधारणसामर्थ्य धियो वर्तते । तस्माद्धयानदृढा धीरेवात्र साधनं अनुदिनमविच्छेदं अन्तःप्रकाशे अप्रकाशे वा सर्वासु दशाखग्न्युपास्तेरिति बोध्यम् ॥
राजन्तमध्वराणां गोपामुतस्य दीदिविम्। वर्धमान स्वे दमे ॥ ८ ॥ राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम्। वर्धमानम् खे दमे ॥
पूर्वमन्त्रे अग्ने त्वां उपेम इत्युक्तम् । अत्र कीदृशं त्वामिति पादत्रयस्थविशेषणत्रयेणाह-अध्वराणाम् राजन्तम् अध्वरपदवाच्यानां यज्ञानां ईशानम् । ऋतस्य दीदिविम् गोपाम् सत्यस्य दीप्यमानं रक्षकम् । स्खे दमे वर्धमानम् स्वीये गृहे वृद्धिमाप्नुवन्तम् ॥
पादशोऽन्वयसम्भवे ’अध्वराणां गोपाम्’ इति योजना न युक्ता । ’ऋतस्य गोपाः’ स च ’दी दिवि:’, ’स्वे दमे’ वधते, इत्यस्य तात्पर्य पर्यालोचनीयम् । अत्रैव सूक्ते ‘सत्य:’ ’तवेत् तत् सत्यम्’ इति द्विरग्ने: सत्यधर्मत्वं प्रतिपादितम् । अस्यामृचि सत्यस्य रक्षिता इति तस्य खगृहे वर्धन मिति चोच्यते । किं अग्ने: स्वीयं गृहं भवितुमर्हति सत्यादन्यत्र ? ’सत्यं ऋतं बृहत् एव अग्नेरावासगृहं भवति । तच्च सत्यं परं धाम यजमानेन प्राप्यं, यज्ञस्तत्र साधनम् । निर्वोढा तु ‘कविक्रतुः’ ’सत्यः’ ’सत्यधर्मा सत्यरक्षक: सत्यावासभू: अग्निरेव भवति । ’यजा नो मित्रावरुणा यजा देवान् ऋतं बृहत् । अग्ने यक्षि स्वं दमम् । (१. ७५. ५.) ऋषिर्गोतमो राहूगणः अग्निं प्रार्थयते-’अस्मदर्थ मित्रावरुणौ यज, अन्यान् देवान् यज, ऋतं बृहत् स्वं दमं यज’ इति । अनया स्पष्ट भवति न केवलमग्नेयजमानार्थ यज्ञनिर्वाहित्वं, किं तु ऋतं बृहत्’ अग्ने: स्वीयं गृहं, तदेव परमं यष्टव्यमिति च। ‘गोपा ऋतस्य दी दिहि स्वे दमे’ (३. १०. २.) इत्यत्रापि श्रूयते ।
कर्मपरव्याख्यानेन कदर्थीकृतो गम्भीरार्थोऽयं मन्त्रः । यज्ञशालां अग्ने: ’स्वं दमं आहुः’। तत्र हविर्भोजनेन ‘वर्धमानं’ अग्निं सायं प्रातरुपासतेऽग्निहोत्रिणः !
स नः पितेव सूनवेऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥९॥ सः नः पिताऽइव सूनवे अग्ने सुऽउपायनः भव । सचस्व नः स्वस्तये ॥
अग्ने स त्वं सूनवे पुत्राय पितेव जनक इव नः अस्माकं सूपायन: सुखेन उपायनं समीपगमनं यस्य सः सुप्रापो भव । नः अस्मान् स्वस्तये कल्याणाय सचस्व सेवस्व, अस्मासु सक्तो भव, अस्मासु समवेतो भवेति यावत् ॥
व्याख्यातं माधुच्छन्दसमाग्नेयं सूक्तम् । दाशतय्यां अत्र प्रथमसूत एव वेदरहस्यं किञ्चिद्विस्पष्टं द्योतितम् । तथा व्याख्याने यावदपेक्षं सझेपतो मन्त्रपरमार्थपद्धतिः प्रदर्शिता, यद्यपि याज्ञिकपक्षानुसारेण सूक्तेऽस्मिन् कासाश्चि-दृचां यथाकथञ्चिदर्थाविष्कारः शक्यो भवति, तथाऽपि न सर्वत्र ऋजुर्भवति पन्थाः कर्मपरतया व्याख्यानाय । ’कविक्रतुः’ ’सत्यः’ ’चित्रश्रवस्तमः’ ’धिया नमो भरन्तः’ ’स्वे दमे (ऋते बृहति) वर्धमानम्’ इत्यादिस्थलेषु महता क्लेशेन जघन्योऽर्थ: सम्पादितः कर्मठव्याख्याने । ’यदङ्ग दाशुषे’ इति मन्त्रस्य व्याख्याने साधितस्य तात्पर्यस्योपहसनीयता परां काष्ठा गता। ऋज्वर्थस्तु, खात्मीयं ’खात्मानमेव वा योऽग्नयेऽर्पयति, तस्मै अनृतज्ञानतजन्यदुःखान्तकर भद्रपदवाच्यं कल्याणं करोत्यग्निः । यदिदं भद्रं तत् सत्यं अग्निनिष्ठमेव’ इति ।
एवं ऋजुना वेदरहस्यमुद्घाटयता द्वारेण सूक्तमन्त्रार्थोपपत्तिर्द्रष्टव्या । देवोऽग्निरेव पुरोहित ऋत्विग्भूतश्च यजमानस्य यज्ञनिर्वाहार्थमध्येष्यते प्रथमे मन्त्रे । सा चाग्नेरध्येषणारूपोपास्तिन नूतना मधुच्छन्दसाऽवलम्बिता, किं तु बहो: कालादृषिपरम्परागता, यया देवानां प्रमुखोऽग्निरितरान् देवानावहति इति द्वितीये प्रतिपादितम् । अग्नेः प्रसादालब्धा सम्पद् न लौकिकीव क्षयमयाभिमृष्टा, किं तु उत्तरोत्तराभिवृद्धिशालिनी इति तृतीये। न केवलं असहायेन पुरुषकारेण साधितो यज्ञो देवान् गच्छति, किं तु अग्निना सर्वथा पापेभ्यो रक्षोभ्योऽभिरक्षितं यजनमेव देवान् प्राप्नोतीति चतुर्थे । दृष्टि श्रुतिसम्पन्नः प्राज्ञदृढसङ्कल्पोऽग्निर्देवानां सहाय इति पञ्चमे । अनृतपरिपन्थि-सत्यज्ञानात्मक-भद्रप्रदत्वं अग्नेस्तत्वं इति षष्ठे । प्रत्यहं सर्वास्ववस्थासु ध्यानदृढा: प्रणतिभरोपेता ऋषयोऽग्निमुपासत इति सप्तमे । तस्याग्नेःऋतं (सत्यं बृहत् ) स्वीयं धाम, स यजमानाय तत्र वर्धते । तद् रक्षतीति अष्टमे। एवंविधमग्निं साक्षात्कृतं साक्षात्कर्तुं वा महता विस्रम्भेण ऋषिः “पिता तनुजन्मनीव सक्तः सन् नः सुगमो भव" इति प्रार्थनां करोति नवमे ।
नैतादृशोऽग्निर्बहिः सङ्केतमात्रतयाऽवस्थितो याज्ञिको भवितुमर्हति । केवलं भौतिकतेजस्तन्मात्राधिदैवतम्। किं तु अस्माभिः प्रदर्शितप्रभावः सूक्तप्रति-पादितलक्षणः सत्य एवायं भगवान् भद्रात्मा न: ‘कविक्रतु:’ ईडितोऽस्मिन् प्रथमे सूक्ते। तदिदं वेदरहस्यरसास्वादरसनाभूतं आग्नेयं, यतश्चेदं सूक्तसहस्राधिकवेद-पाठप्रत्याम्नायत्वेन लघुब्रह्मयज्ञ इति प्रतिपिपादयिषया “ ’अग्निमीळे’ जपेत् सूक्तं पापघ्नं श्रीकरं च यत् । पारायणफलं तस्य वेदानां चैव सर्वशः” इत्याहु: पूर्वे । अग्निष्टोम इति विख्याते सोमयागे प्रातरनुवाके सोमाभिषवात् प्रागिदं होत्रा शस्यते ।
इति प्रथमस्य प्रथमे द्वितीयो वर्ग: इति प्रथमं सूक्तम्
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.