ABOUT

Volume 4 contains the Bhūmika, Introduction to Rig Bhashya, followed by the text and the commentary of Suktas 1 - 19 in Sanskrit & English

THEME

CWTVKS Volume 4


ऋग्भाष्यभूमिका




प्रथमः खण्डः

जयति श्रीजुषामेको भुवनानामधीश्वरः ।
पुरुषाणामशेषाणामात्मा यस्तमसः परः ।।
जयत्युत्तमशब्दार्थः शब्दमूर्तिधरः पुमान् ।
निःश्वासेन सृजन्विश्वं प्राणवान् तपसा प्रभुः ।।
तदृचां जयति व्योम स्थानं परममक्षरम् ।
यतो विसृष्टं भुवनं सार्थकं परमेष्ठिना ।।

वरेण्यं वरणीयानां वेदगुप्तार्थवेदिनाम् ।
भावं भावं महाभागमरविन्दपदं महः ।।
तत्सम्मतमसम्बाधमबोधैः कर्मबन्धनैः।
कुर्मो गूढार्थबोधाय वेदमर्मविभेदनम् ।।
१०

वेदानां ऋग्यजुःसाम्नां साङ्गानां विवृतिः क्वचित् ।
कृता पूर्वैः पुराणानां गाथाभिरुपबृहिता ।।
१२

धर्मानाहुर्वेदमूलान् सामयाचारिकानपि ।
तदेव मतमेकेषां प्राचामाचारशासिनाम् ।।
दिव्यज्ञानतपोनिष्ठा-निधीन् वेदान् विदुर्बुधाः ।
एके क्रियाकलापानामालवालं प्रचक्षते ।।
तदत्र समयाचार्याः सर्वे भारतभूजुषः ।
काण्डद्वयात्मकं वेदं धर्ममूलं च मेनिरे ।।
आधारः कर्मणां काण्डं पूर्वं ज्ञानस्य तूत्तरम् ।
कीर्त्यते पूर्वतन्त्रस्य ब्राह्मणान्युपजीवनम् ।
तथोपनिषदो मूलं परज्ञानस्य चक्षते ।।
२१

ऋचो यजूंषि वा मन्त्राः प्रयोगसमवायिनः ।
क्रियासु विनियोगार्था यागार्था इति निर्णयः ।
तस्मादङ्गत्वमापन्ना मन्त्राः कर्मसु निश्चिताः ।।
२४

प्रसादनाय देवानामन्तरङ्गस्य शुद्धये ।
इष्टप्राप्तेरनिष्टस्य निवृत्तेरपि सिद्धये ।।
जपादिषु प्रयुज्यन्ते पावना इति यद्यपि।
तथाऽपि कर्म परमं मन्त्रास्तस्योपसर्जनम् ।।
मन्त्रब्राह्मणयोस्तस्माद् वेदांख्या धर्मशास्त्रतः ।
सूत्रकारैः समाख्याता कर्मधर्मपरैः पुरा ।।
३०

एतादृशं पुरस्कृत्य समयं साम्प्रदायिकम् ।
व्याख्यानं वेदमन्त्राणामकार्षुर्भागशः क्वचित् ।।
याजुषाणां तु मन्त्राणामुव्वटश्च महीधरः ।
ऋचामन्य तथा स्कन्दस्वामी वेङ्कटमाधवः ।।
सब्राह्मणानां सम्पूर्णाः संहितानां सविस्तरम् ।
व्याख्याश्चतसृणां चक्रे सुधीः सायणमाधवः ।।
यस्यैव भाष्यं सर्वत्र प्राप्तप्रसरणं परम् ।
बुधैराद्रियते प्राच्यैरपि पाश्चात्यपण्डितैः ।।
३८

नव्याः पश्चिमभूखण्डे वेदबाह्या अपि स्वयम् ।
नवाभ्युदयसम्पन्नाः सर्वतो ज्ञानमीप्सवः ।।
कौतुकाद् भारतीयानां विमृशन्तः पुराकथाः ।
प्राच्यपाण्डित्यसाहाय्याद् वेदान् केचन लेभिरे।
यथाप्रतीच्यसंस्कारं चक्रुर्वेदार्थनिर्णयम् ।।
४३

सायणोऽभवदेतेषां सुमहानुपकारकः ।
समादृत्याशयान् तस्य स्वेषां यावदपेक्षितम् ।।
एते वेदोक्तदेवानां मन्त्राणामपि सर्वशः ।
निरणषुः स्वरूपाणि तथा मन्त्रदृशां मतम् ।।
४७

प्राप्तं परिश्रमादेषां वैदुष्यस्याविशेषतः ।
समासेनोच्यते ज्ञेयमेतन्नव्यविचारिणाम् ।।
एक एव परो वेदः स ऋग्वेदः पुरातनः ।
ऋषयो मन्त्रकाव्यस्य कर्तारः कवयः स्मृताः ।।
सूक्तात्मकानि काव्यानि न्यबध्नन् यज्ञकर्मणे ।
मरुत्पर्जन्यभूताग्नि-भानवोऽन्याश्च देवताः ।।
ऋषिभिः प्राकृतैर्भीत्या प्रायः प्रीत्या च सन्नुताः ।
निसर्गसिद्धा अन्येऽपि भूतात्मानो जडा अपि।
देवाः प्रकल्पिताश्चान्ये स्तूयन्ते चेतना इव ।
रागिभिर्दृषिभिः पूर्वैः प्राकृतैरेव मानवैः ।
देवा अभिष्टुताः सूक्तै नाभीष्टार्थसिद्धये ।।
५८

यज्ञकर्मकलापेषु चीयमानेषु कालतः ।
यजुषामपि मन्त्राणां ब्राह्मणानां च कल्पना ।।
अयमूह्यश्च भूतार्थः ऋग्भ्योऽर्वाक्कालभाषया ।।
६१

अतीन्द्रियार्थविज्ञानं आत्मज्ञानमथापि वा।
यदि सूक्तेषु दृश्यत तदकिञ्चित्करं भवेत् ।।
दशमे मण्डले ज्ञान-प्रशंसा दृश्यते स्फुटम् ।
भवत्यन्यत्र वेदे चेत् तदर्वाचीनसम्भवम् ।।
इदं तु सर्वथां ज्ञेयं ऋषयः प्राकृता जनाः ।
ज्ञानस्यारण्यकग्रन्थाः शरणं न तु संहिताः ।
तस्मान्मन्त्रेषु न ज्ञानं न रहस्यं न वा तपः ।।
जडानां भूततन्मात्र-देवानां वा नभस्सदाम् ।
सृष्टानां ऋषिभिः सोम-मदवैभवतोऽपि वा ।।
अदृश्यानां च दृश्यानां असतां वा सतामिव ।
स्तुतयः परिदृश्यन्ते प्रणीतास्तु पृथग्जनैः ।।
७२

एतादृशैरभिप्रायैः पाश्चात्येभ्यः समाहृतः ।
आक्रान्ता बहवोऽस्मासु बुद्धिमन्तोऽपि भारते।
अनुयान्ति नवं मार्ग नव्यविद्यावशंगताः ।

1

अविमर्शनपाण्डित्यैः प्राचीनैरपि नादृताः ।।
७६

एवं स्थितेऽत्र भगवानरविन्दो विदां वरः ।
अप्रतीक्षितमध्वानमपश्यत् तपसि स्थितः ।।
प्रकाशमभवत्तस्य रहस्यं वेदगूहितम् ।
मन्त्रार्थमार्गणायास्य न कदाऽप्यभवन्मतिः ।।
तथाऽपि योगनिष्ठायां तिष्ठतोऽन्तरचक्षुषः ।
प्रत्यक्षतां गताः ख्याता वेदे काश्चन देवताः ।।
तदाप्रभृति वेदार्थ-विचारेऽभिरुचिः स्थिता।
वेदे रहस्यं विज्ञाय किञ्चिद्वा ज्ञापयन्मुनिः ।।
ऋचां ऋषीणां देवानां तत्त्वानि गहनान्यपि।
यथादृष्ठं समाचख्यौ जिज्ञासूनां प्रबुद्धये ॥
दर्शनान्मतिमुत्पन्नां निर्विकल्पां महामनाः ।
प्रत्यायनार्थमन्येषां युक्तिभिः प्रत्यपादयत् ।।
तद्दर्शनमुपाश्रित्य तदुक्तीः परिभाव्य च ।
ऐतिह्यमपि चावेक्ष्य सम्प्रदायान् पुरातनान् ।।
अपि प्राचीनतन्त्राणां सुदूरपरिशीलनः ।
रहस्यं वेदभाषायां भिद्यतेऽत्र चिरन्तनम् ।।
९२

ब्राह्मणेष्वपि मन्त्रेषु तथा चोपनिषत्स्वपि ।
नैरुक्तेष्वपि वाक्येषु प्राक्तनेष्वितरेष्वपि ।।
पुराणेष्वितिहासेषु तथा शास्त्रान्तरेष्वपि ।
वेदे रहस्यमस्तीति भावः सर्वत्र दृश्यते ।।
९६

ऋक्संहितायां तत्रादौ गोप्यं द्रष्टव्यमुल्बणम् ।
तत्तु भाषाविशेषेण सङ्केतात्मतया स्थितम् ।।
सङ्केतार्थे तु विज्ञाते गच्छेद् गोप्यं प्रकाशताम् ।
ऋषिदृष्टिषु मन्त्रेषु तस्योद्घाटनसाधनम् ।
अस्ति चेच्चक्षुरस्माकं लभ्यते निर्विकल्पतः ।।
निरूपिते तद्रहस्य मन्त्रान् मन्त्रदृशः प्रति ।
पलायिता स्याद् दुर्भ्रान्तिरधिकृत्यापि देवताः ।।
यच्चिरन्तनमार्षं च तदस्मन्मतमिष्यते।
मन्त्रो मूलं ततः शाखा ब्राह्मणोपनिषत्ततिः ।।
१०५

मधुच्छन्दःप्रभृतयः सूरयो मन्त्रर्शिनः ।
येषां चक्षुष्मतां प्राचां देवाः प्रत्यक्षतां गताः ।।
१०७

न पाण्डित्यप्रकर्षेण चमत्कारेण वा गिराम् ।
काव्यशोभरता एते सूक्तकाव्यानि निर्ममुः ।।
अन्तरद्भुतशक्तीनां समुल्लासादनर्गलम् ।
सम्प्रसादाच्च देवानां श्रवणादीक्षणादपि ।
मन्त्राह्वयं स्वयं ब्रह्म साक्षाच्चक्रुर्महर्षयः ।।
श्रुत्या च दृष्टिसम्पत्त्या दिव्यया वाऽथ सूक्ष्मया।
सिद्धया देवताभक्त्या मन्त्रान् प्रापुस्तपोधनाः ।।
तस्मादेतानि सूक्तानि गीयन्ते मन्त्रदृष्टयः ।
अन्तर्दर्शनसम्पन्ना ऋषयः कवयः श्रुताः ।।
देवास्तु बहवः स्तुत्याः पृथङनामानि बिभ्रतः ।
एक एव परो देवः सूर्यात्मा परमः पुमान् ।।
यस्यैव बहुधावृत्तिर्नानादेवात्मतास्थितिः ।
सत्यं बहूनि नामानि परस्यैकस्य देवताः ।
शक्तयो मूर्तयोऽप्यता नामान्येव न केवलम् ।।
तस्मादेकः परो नाना-मूर्तिनामस्वरूपभृत् ।।
पृथक्त्वेऽप्यपृथग्भूतं देवताभ्यः परं महः ।
मुखतो देवताभेदः पृष्ठतः सर्वदेवताः ।।
एकैकोऽपि ततो देवो व्यापारस्य विशेषतः ।
पृथङमूर्तः पृथङनामा सर्वदेवमयः परः ।।
भवत्यङ्गिन एकस्य बहून्यङ्गानि वा यथा ।
भिन्नप्रवृत्तयो देवाः परस्य ज्योतिषस्तथा ।।
सन्नुता ऋषिभिस्तस्मात् पृथक्छन्दसि देवताः ।
न केवलं नामभिदा व्यक्तिवृत्तिभिदा अपि ।
विज्ञेयाः परमस्यैता एकस्यैवेह देवताः ।।
१३१

आभ्यन्तरे वा बाह्य वा विश्वस्मिन् बहुभूमिके।
नियुक्ता अधिकारेषु बहवो लोकपालकाः ।।
अधीनं देवतास्वेव जगदन्तर्वहिस्तथा ।
इदं रहस्यं विदितं पूर्वेषां मन्त्रदर्शिनाम् ।।
१३५

तस्मात्प्राणेन मानसा गात्रेणापि महर्षयः ।
सर्वात्मना च यजनं देवेभ्यो निरवर्तयन् ।।
अन्तर्यागसमर्थानां विरलानां महात्मनाम् ।
गोप्यान्यप्रभवो वेत्तुं पामारास्तु सहस्रशः ।।
देवान् बाह्येन यागेनाराधयन् मन्त्रपूर्वकम् ।
मन्त्रस्तु भाषाविच्छित्या द्विधाऽप्यभवदर्पकम् ।।
ऋषिदृष्टस्य मन्त्रस्य देवस्याराधितस्य च ।
यज्ञस्य यजमानस्य होनादेश्च फलस्य च।
स्वरूपं पुरतः स्पष्टं विचारेऽत्र भविष्यति । ।।
१४४

सोऽयमस्माकं पक्षः सङग्रह-श्लोकरादौ सङक्षेपेणोपन्यस्तः । तमिमं यावदपेक्षं विस्तरशस्तत्र तत्र पुरस्तादुपपादयिष्यामः। सेयं वेदगुप्तार्थगामिनी श्रीमदरविन्दपादैः प्रदर्शिता। सैवेयमस्यां प्रवर्तमानायां ऋग्भाष्य-भूमिकाया-मवलम्ब्यते, येन निष्कण्टका स्यादनुसतव्या सरणिर्मन्त्रार्थमीमांसकानाम् । तदिह प्रथमं तावद्विपक्षोद्धारः कार्यः। को नामायं विपक्षः कुतः प्ररोहो वा, यस्योद्धारः प्रतिज्ञायते ? तमेव साम्प्रतं विमृशाम नाम ।।

पाश्चात्य-पण्डितैर्यथावसरं प्राच्यपाण्डित्य-साहाय्यमुपादाय-साहाय्यमुपादाय वेदानधिकृत्य केचन प्रत्ययाः किल विक्षिप्ताः। प्राधान्येन तानेवोपाश्रित्य भारताभिजनानां बहवो नव्यविद्या-प्रपञ्चसञ्चारिणः प्रज्ञावादान् प्रभाषन्ते तथा चाहुः--पश्चिम-भूखण्डे यावज्जीवं वेदविद्या-विचारिणः प्रमुखाः पण्डिता एवं किल निरणैषु-र्वेदानुद्दिश्य-ऋग्वेदसूक्तेभ्यः प्राकृतानामार्याणां शैशव-दशा विस्पष्टा भवति । तेषां प्रार्थनानि सूक्तात्मकानि बालानामिव विनोदनिर्भर-निर्व्याज-वचनानि दरीदृश्यन्ते। यद्यप्यपरिष्कृता बालिशावस्था च तेषां समयधर्म-व्यवस्था, तथाऽपि प्राकृतदश एकेश्वर-वाद एवैषां मतमिति वक्तव्यम् । अस्मद्भारतीयेषु पुनरुज्जीवन-समयाचार्याः राममोहनो दयानन्दस्वामिनोऽपि केश्वरवादमेव वैदिकं समय-मभिप्रयन्ति स्म। एवमेषां मतं पाश्चात्यवैदिकसिद्धान्तेन सङ्गच्छते। यद्यपि, पाश्चात्यानामभिप्रायेषु विप्रतिपत्तयो लक्ष्यन्ते, तथाऽपि तत्र सुलभं संवादं अत एव विरोधपरिहारं पश्यामः । तथा चैक आहुः-- ’ऋग्वेद-कविभिः प्राकृतैर्यज्ञार्थं सूक्तानि प्रणीतानि इति, कर्मविधि-पारम्य बद्ध-श्रद्धा एते यथाजाता इति’, अन्ये पुनः वेदे वर्ण्यमानाः देवता-कथाः रूपकदृष्टान्तादिभिः गौण्या वृत्त्या वा जगन्निसर्ग-व्यापारान् वर्णयन्तीत्याहुः। सुप्रसिद्धः सायणो वेदभाष्यकारस्तत्र व्याख्याने वृत्रवधादि-वर्णनं प्रकृतिकार्य-विलसितं सूर्योदय-वर्षकर्मादिकं प्रदर्शयति । इदं च सङ्गच्छते पाश्चात्य-पण्डितानामभिमतेनाभिप्रायेण। अक्किालिक-ब्राह्मण-ग्रन्थानुरोधेन ऋगर्थान् विवृणोति सायणः। एवं विविधोक्तीनामवकाशो लभ्यते वेदे। एवमापाततो दृश्यमानानां विप्रतिपत्तीनां मूलम् न केवलं ग्रहीतृजन-बुद्धिस्थं, परं तु विविधाशयाधिकरणं वेदग्रन्थ एवेति ग्राह्यम् । उच्चावचाभिप्राय-गभितस्तथाविधः सूक्तानां सन्दर्भ ऋक्संहितायां लक्ष्यते ।।

एवं प्राज्ञ-कोटिमारूढानां नव्यानां वैदिकेतिहास-मार्गणपराणां मतमाश्रित्य स्थितानां भारतीयाभिजनानामग्रसरः कोऽपि विख्यात-वैदुष्य आह-’वेदरहस्य-वादी विबुधः श्रीमान् अरविन्दः यदाह वेदे रहस्यमस्तीति तन्नादरणीयम् । अत्यन्तप्राचीन-यवनेष्वपि रहस्यवेदिन आसन्, तथा वेदर्षयोऽपीत्याह, तदसत् । कुतः ? नव्यविद्या-विमर्शविरुद्धं हि तत् । वैदिकेतिहास-मन्त्रार्थ-देवतास्वरूपादि-विचारे यावज्जीवं कृत-परिश्रमाणां पाश्चात्य-पण्डितानां तन्नाभिमतं स्यात् । कथं नु खलु तत्तादृशमहाशयोल्लङघनजङघालो भवितुमर्हत्यरविन्दीयो वेदरहस्य-वादः ? यथाकथञ्चिदङ्गीकृते वेदगूढार्थ-सिद्धान्ते, न केवलं पूर्वोक्तानां वाणी तिरस्कृता स्यात्, अस्मत्प्रमाणभूत-सायणसम्प्रदाय-व्याख्याविरोधोऽप्यापद्यत। किञ्च, वेदार्थ-विचारे प्रमाण-भूतस्य मीमांसक-सिद्धान्तस्यापि रहस्यार्थ-वाद: परिपन्थी भवति । तस्मादेष नूतनो वादः श्रीमतोऽरविन्दस्य दुरापास्तः स्यात्, आपात-रमणीयश्चतुरो लक्ष्यमाणोऽपि न परीक्षणक्षम-कोटिं प्रवेष्टुमीष्टे। अथ यदि कोऽपि चिरन्तन-आर्षाभिमान-प्रेरणया ऋग्वेदर्षयो महान्तो गुप्तविद्या-सम्पन्ना इति प्रतीयात्, सोऽनृतमेव सेवितवान् भवेत्, अभूतार्थे अतथ्य-कल्पने रमतां नाम। यदि पुन-दर्षयस्तादृशीमध्यात्ममहोन्नति देवताप्रसाद-सम्पत्ति वा अलप्स्यन्त, कथं तर्हि तल्लक्षणानि कान्यपि उत्तरत्र ग्रन्थेषु सम्प्रदायेषु वा नोपालप्स्यन्त ? अपि च भूखण्डवासिनामितरेषां प्राकृत-वर्गाणाम् इतिहास-संशोधनादिदं किलावगम्यते, यत् क्रमशः सर्वेषाम् अभिवृद्धिः, न पुनः पुरातनानामादिम-दशायामेव महोन्नतिः समपद्यत, ततः परं क्रमेणाधोगमनमिति। तस्मात्परं सत्यं अध्यात्म-रहस्यं सर्वं वैदिक-प्राकृतदशामतिक्रम्य परिणत-धियामौपनिषदर्षीणां वाक्येष्वेव द्रष्टव्यम् । ऋग्वेदसंहितायां तु क्वचित्तद्वीजं लक्षितमपि तदल्पं अकिञ्चित्करं अर्वाचीनं अस्थानसन्दृब्धं वेति बोध्यम् । एवं सर्वथा अनुपपन्नो वेदरहस्यार्थ-सिद्धान्तो निरसनीयः’।

एष सारांशो विपक्षस्य। एवं कथयतां अधुनातनपाश्चात्य विद्यासंस्कार-पारम्यवादिनानां उद्घोष उपेक्षां न क्षमते। यदि एतादृशं वचनं अबुद्धादश्रुताद्वा निर्गतं स्यात्, किमपि वदति वैधेय इत्यलक्षयित्वा न्यक्कारार्हमिदं नास्मद्-दृष्टिपथमारोढुमर्हतीति मन्येमहि। अत्र तु प्रकृतः पुरुषो बहुश्रुतः, पाश्चात्याभिज्ञ-संघेषु विश्रुतमस्य कूलङ्कर्ष पाण्डित्यं, सर्वजनीना अस्य विविधजनमनःसमावर्जन-धुरन्धरा सरस्वती। यद्यपि पूर्वोक्तभङ्गी आलम्ब्य भाषमाणोऽयं न स्वयं वेदविद्याविमर्शी, नापि वेदार्थविज्ञंमन्यः, तथाऽपि नांस्य वांचोयुक्तेरवीर्यता फलह्रासापत्तिर्वा। यतो न हि सर्वः सर्व जानातीति न्यायन सत्य-जिज्ञासया भूतार्थान्वेषणश्रद्धया पाश्चात्याननुगच्छन् तत्र वेदविचार-भूमिषु प्रामाणिकवाणी-माश्रयते, वेदार्थविचार-चतुरधियां वैशिष्ट्य-विख्यातिमुद्वहतां पश्चिम -भूखण्ड-पण्डितानां मतं स्वयं स्वीकृत्य अन्यांश्च तथा ग्राहयतीति नात्र दोषं पश्यामः । दोषस्त्वन्यविधो भवति, यस्यैव परीक्षामुपक्रमामहे। अवश्या फलवती च भवेदिह दोष-निरीक्षा। यतोऽसौ प्राज्ञो यन्मन्यते वेदानधिकृत्य, तत् प्रायशः सर्वेषां नव्यमार्ग अवलम्ब्य वेदाविचार-प्रसक्तानां भारतीयानामधुनातनं मतम् । तदिह प्रधानमल्ल-निबर्हण-न्यायोऽवलम्ब्यते, अस्यवोक्ति प्रतिनिधीकृत्य पाण्डित्यपल्लव-ग्राहितां उत्सार्थ निर्मत्सर-दृष्टीनां वेदरहस्य-जिज्ञासाय प्रकल्पतां नाम सैषा तद्दोषपरीक्षा॥

तत्र वेदगूढार्थ-वादे सारतस्त्रयः किल दोषा उद्भाविताः। तत्र आद्यःपाश्चात्ये तिहासविदां निर्णयः अस्मदीय-वेदगुप्तार्थ-सिद्धान्तस्य प्रत्यर्थी इति । द्वितीयः सायणीयसम्प्रदाय-वेदव्याख्या-प्रत्यवस्थानम् । तृतीयः मीमांसकसिद्धान्तस्य प्रतिद्वन्द्वी भवत्यस्मत्पक्ष इति । तदत्र क्रमश इमान् निर्धूलितान् विधाय एकैकशः सारांशग्राहं निस्सारयिष्यामः ।।

तत्र प्रथमं तावद्यदुक्तं, सर्वत्र भूमण्डले बहूनां मानुष-वर्गाणां इतिहास-संशोधनेन, यदवगम्यते, तस्य विरुद्धमिदं कथनं यदृग्वेदर्षिकालात्प्रभृति क्रमशः अधःपतनमेव भारतीय-मानववर्गस्य, मानवानां व्यष्टेरिव समष्टेरपि क्रमाभि-वृद्धेरिति, अनेदं वक्तव्यम् । अस्मदुक्ति अन्यथा सम्भाव्य प्राज्ञेनेयं चतुरोक्ति-रुपस्थाप्यते। न वयं वेदर्षयः सर्वेऽपि तत्समकालिकाः सामान्या जनाश्च सर्वतोमुखी समृद्धिमध्यात्ममधिलोकं च सम्पादयाञ्चक्रुरित्यवोचाम। अस्मदुक्तिरन्या, प्रति-पक्षिणाऽन्यथाग्रहणादारोपितोक्तिरन्या। मन्त्र-द्रष्टार ऋषयोऽध्यात्म-निष्ठा अतीन्द्रिय-गोचरान् मार्गान् तपोबलेनाधिगम्य बहुधाऽऽभ्यन्तराभिवृद्धि प्रापुः, बहु-रहस्यविदस्ते गोप्यानि गूढ-भाषया मन्त्र-दृष्टिषु निचिक्षिपुरिति ब्रूमहे। अनेन सर्वे जनाः पूर्वं महोन्नति प्राप्ता इति न मन्यामहे, न हि तथोक्तम् । न वा वेदर्षयः सर्वविधं ज्ञानं समग्रं अधिजग्मुरित्यभिहितमस्माभिः ।।

इदं त्ववधेयम् । तदादिमं ऋग्वेद-युगं योगविदां अध्यण्डमधिपिण्डं च देवताव्यापारस्वरूप-बोधवतां गोप्याध्व-दशिनां महर्षीणां युगम् । न तावतोक्तेन सर्वेऽपि जनास्तदानीन्तनाः आभ्यन्तर-गोप्य-मार्गविदो नैष्ठिकाः सर्वथा दिव्यसत्त्व-सम्पन्ना इति वक्तुं युक्तम्। नैवं ऋषिदृष्टानां रहस्यानां देवतासाक्षात्कार-पद्यानां अन्येषां वा तपोनिष्ठा-लभ्यानां सत्यानां अभिज्ञोऽभूत् सर्वोपि तत्सम-कालिको लोक इत्युक्तं स्यात्। साम्प्रतं अस्मत्कालिकं एक निदर्शनं उदाहरामः । विश्वजनीनमेतद् यदद्यतने युगे भौतिकप्रकृति-विज्ञानस्यैव साम्राज्यमिति। बहु-रहस्यान्तर्वत्नी चेयं प्रकृतिरनुदिनमनुमुहूर्तमचिन्त्यान्यद्भुतानि आविर्भावयतीति प्रत्यक्षं पश्यामः । तादृशे बुद्धि-प्रधानेऽस्मिन् काले कति वा बुद्धिमद्वर्याः ? न खल बहवः, विरला एवेति वक्तव्यम् । विरलानामपि तेषां बुद्धिमतां कति वा सन्ति प्रकृतिविज्ञानधाटीं अनुगम्य तद्गोप्यानि साक्षादधिगन्तुं अधिकारिणः ? तादृशाधि-कारिणां मध्ये कति वा पुनः प्रभवन्ति प्रवेष्टुं भौतिकप्रकृतिगूढव्यापारविधि-प्रपञ्चम्, यस्मात् अणुगर्भसुप्ताः पृथुलब्रह्माण्डशक्तिविसराः प्रबोध्य विप्रमोक्ष्यन्ते ? विरला अत्यन्तविरला अङगुलि-पारिगणनीया एवेति वक्तव्यम् ।।

यस्मिन् कस्मिंश्चिद्युगे किमप्यस्तु प्रबलाधिकार-स्वरूपम्, भवतु तत् अध्यात्म-विद्याद्यधिभूतविज्ञानान्तं धी-विलसितं, साम्राज्यशासन-विक्रमसचिवं बाहुबलं वा, द्रव्योत्पादन-विभजन-विनिमयाद्यर्थनयानुशिष्टं वाणिज्य-वैभवं वा, समुदायजीवन-व्यवस्थापन-क्रियादाक्ष्यं वा, सर्वदा तत् परिमितसङख्याकैर्मनुष्यभरैव स्वयं आविर्भूय सर्वं समुदायमनुशास्तीति नेदमास्पदं विचिकित्सायाः। तस्मात्, ज्ञानबलैश्वर्य-क्रियादाक्ष्यादीनामन्यतमेनैकेन वा नैकेन वा जनसामान्यसमुदाये विनीयमाने, नेतारः सत्त्ववृद्धाः अत्यल्पगणना एवेत्यवधार्यम् ।।

एवमेव वेदर्षीणां अध्यात्मविद्या-रहस्यज्ञानादिकं नाभूत् सर्वजनसाधारणं अपि तु जन-सामान्यस्य बहिर्यागाद्यनुष्ठान-द्वारा देवताराधनसामग्री सम्पादिता। तस्मात् सर्वेऽपि जना वेद-कालिका अध्यात्ममहोन्नति गुप्त-विद्याध्वनश्च अधि-जग्मुरिति नैतत्तथ्यं अस्मदुक्तिष्वारोपितं भवति। अपरं च वेदकालिक-विज्ञान-महोन्नतेरधः पतनपद्यायां प्रादुर्भूतानि दार्शनिकशास्त्राणीति न कदाऽप्यवोचाम । वेदविज्ञानाधिगम-पद्धतिरन्या, दार्शनिक-शास्त्र-विचारसरणिरन्या। आद्या साक्षा-दर्शनश्रवण-जन्या, बाह्य-साधन-रशिक्षिता सहजबोध-विशेषा, अपरा तु बुद्धि-बलात् प्रत्यक्षानुमानादि-प्रयुक्ताभिस्तर्क-युक्तिभिः साधितैः विचारैलब्धा निश्चय-विशेषात्मिका सिद्धान्तभावना। उभयोरपि मार्गयोः युगयोरिव बृहदन्तरं वर्तते । न हि अध्यात्मानुभूतिः कामपि तत्त्वकल्पना-विचार-जन्यां बुद्धिमाश्रित्य सम्भवति, नापि सा शरीरयात्रासाधनोपचय-वैभवद्रव्यसमृद्धयादिकं अपेक्षते। न वा गुप्त-विद्या-वैचक्षण्यं बाह्य-बुद्धयुत्कर्षायत्तं भवति। यां वयं इतिहासविन्मतानुरोधेन प्राकृतदशां मन्यामहे तस्यामेव बहवः पुरातनाः अधुनातनानां आश्चर्यजनकानि गहनानि प्रकृतेस्तत्वान्यवजग्मुरिति ज्ञायते। न ह्यन्तश्चक्षुरधुनातनत्वायत्तम् ।।

ननु अध्यात्म-समृद्धिर्वेदर्षीणां वस्तुतश्चेदासीत् तत्कथं न तल्लक्षणं तदुत्तर-युगेषु लक्षणीयतया. विसृष्टमिति चेद् ब्रूमः। वेदर्षिप्रभाव-लक्षणानि उत्तरत्र दृश्यन्ते न वेति, दृष्टानि चेत् केन प्रकारेणेति च, प्रचलत्यस्मिन् विचारे पुरस्तात् प्राधान्येन प्रसक्तो भविष्यति। अत्र त्विदं वक्तव्यम् । वेदयुगभाषा-बुद्धिविलासः बहुतरां विपरिणति प्राप्त इति प्रत्यक्षमिदं उत्तरकालिक-ग्रन्थावलोकनेन। यद्यपि महदन्तरं वेद-युगस्य ब्राह्मणारण्यक-कालस्य चाभवत् तथाऽपि वैदिकं ऐतिह्यं देवतादि-रहस्यं वा ब्राह्यणेष्वारण्यकेषु च किञ्चिद्वा रक्षितं रिरक्षिषितं इत्यद्भुत-मेवेदं पश्यामः । आस्तां तावदेतत्, ननु कथं पुनः तादृशं पावनं पुरातनं वैदिकं युगं अकृतार्थमेव नष्टमिति चेन्नैतच्चोद्यम् । प्राचीन-यवनेषु रहस्यवेदिनां युगमिव, वेदर्षीणां युगमप्यस्तमितम् । यः कोऽपि भवतु अदर्शन-प्रकारः, सर्वथा कालस्य पर्यय एवेति वक्तव्यम् । प्राचीन-यवनादिषु रहस्यवेत्तृ-युगं आसीदिति प्रतियन्ति ऐतिहासिकाः। तदत्ययादधुना नैवासीत्तादृशं युगमिति न कोऽप्याह । एवं वैदिक-युगात्यय नासीदाएं रहस्य-युगमिति शक्यं वदितुम् । अथवा सम्भावयामस्तावदिदं, यत् साम्प्रतिकी भुवनोत्तरप्रकृतिविज्ञानविद्या-विजृम्भिता मानव-जातीया सभ्यता संस्कृतिर्वा केनाप्युत्पातेन प्रायः प्रध्वंसमापादिता भवेत्, भूमण्डल-विध्वंसावहेन घोरास्त्रविसर्जनधुरीणेन अणुगर्भ-भेदनेन वेति । कथमस्मदुत्तरकालिकै वासीत् प्रकृतिविज्ञान-साम्राज्यधुरन्धरं युगमिति वक्तुं शक्यम् ?

रन्ध्र-बहुलोऽयं पाश्चात्यैतिहासिकानां वादः, यत्पुरातनेषु युगेषु सर्वत्र मानुषाणामतिबालिशा बुद्धिरिति। स्याद्वा, प्राकृत-भूतसर्गादौ अत्यन्तमपरिपक्वा यथाजातावस्था मानुषवर्गस्य । न तु सा प्राचीनयवनादिषु वेदर्षिषु वा अर्पणीया भवति। तावान् दृश्यते तेषु परिपाकः, यावता महर्षीणां मन्त्र-दृष्टिषु धी-प्रसादः अन्तर्द ष्टिश्रवणादिगोप्यसम्पत्ति-सचिवः प्रकाशो भवति चक्षुष्मताम् ।।

इदं चेह स्मारयामः यदरविन्द आचार्य आह-" भारतवर्षे, अन्यत्र भू-खण्डेष्विव, मनुष्य-सामान्यस्य अभिवृद्धिरतिमन्द-क्रमा, विरलानां केषाञ्चिदेव अध्यात्म-सम्पद् रहस्यविद्या-कौशलं च सिद्धे अभूताम् । अत्र प्रथमं अन्तर्द ष्टि-प्रधानं वैदिक-युगमागतम्। तत्त्वकल्पनाविचारजन्य-धीविशेष-प्रधानं शास्त्रीय-युगं ततः परमनुगतम् । वैदिके युगे ऋषीणां अन्तर्दर्शनमेव मुख्यं साधनं, शास्त्रीये तु प्रत्यक्षादिप्रमाणैर्विचारः साधनम् यत् साक्षात्-माधन-जन्येन अन्तरेण केनापि साधितं महर्षिभिः, तदेव विचार-बुद्धयादि-द्वारेण साधयितुं प्रवृत्ताः तत्परं योगाध्वानः । एवं कालान्तरेषु उत्तरत्र अन्तःकरणेन प्राणेन शरीरेणापि क्वचित् तं परमं पुरुषार्थ साधयितुं उद्यताः अर्वाचीनाः (वेदयुगापेक्षया) पन्थानः । एवं तान्त्रिक-साधनानि राजयोग-हठयोगादयश्चेति बोध्यम्। न चैतानि वैदिक-गुप्तमार्गादधःपतन-क्रमेण यदृच्छ्या वा समुद्भूतानि साधनानि, किं तु वैदि-कादैतिह्याद्रूढं परमप्रयोजनमुद्दिश्य, स्वतन्त्रतया अन्तःकरणादिशोधनरुपायः प्रवृत्ता-नीति ग्राह्यम् । इदमेव भारतीयमध्यात्मचरित्रम् । यत्र प्रथमं वेद-युगे अध्यात्म-शिखरं प्राप्ता प्रज्ञा ततः परं पदे पदे कालान्तरेषु अन्तःकरण-प्राणादीन्य-वराण्यङ्गानि उद्धृत्य यावदाविष्कृतां प्रज्ञां उत्तमसिद्धिशृङ्गमुन्नेतुं प्रतिष्ठन्ते” इति ।।

कथं पुनः पाश्चात्येषु प्राज्ञा ऋजु-मार्गमिच्छन्तोऽपि बहवृचार्ष-समयस्य प्राकृतावस्थां निश्चिन्वन्तीति चेदस्त्यत्र कारणम् । भूमण्डले मानवजन्मिनः प्रादुर्भावः कतिपयसहस्र-वार्षिक: न तु बहुशतयुगकालिक इति कञ्चन काल्पनिक पाश्चात्यं ऐतिहासिक-सिद्धान्तमवलम्ब्य वेदर्षीणां कालं निरणेषुः । अत एव द्वित्रः सहस्रवर्षेः परिमितशतव; आर्यजनोदयाभ्यदयादिकथास्तैः परिसमापिताः। इयं च पूर्व-कथा तेषाम् । भूगोलेतिहास-गवेषणारम्भे शैशवावस्थायां तथाविधा मतिरासीत्तेषाम् । साम्प्रतं वर्धमाने चेतिहास-विज्ञाने तादृशी प्रतीतिः प्रायेण विपर्यस्ता। अपरं च, भौतिकविज्ञानाभ्युदय-समये लोकायतिक-सिद्धान्ते पाश्चात्य-बुध-मण्डले साम्राज्य शासति, वेदार्थविचारद्वारेण पूर्वेषां भारत-भूजुषां साङघिक-समयधर्मादि-व्यवस्था जिज्ञासन्ते स्म । तत्र नानामानुष-वर्गाणां पुरावृत्त-समयधर्म-भाषा-तत्त्वादि-पर्यालोचनया यावद्विदितं उपादाय यावदभिमतं भावनाबल-साहाय्येन च भारतीय-वेदेतिहासधर्म-व्यवस्थामकल्पयन्। तथा सति तेषां संस्कारे सामर्थ्य च, नेदमाश्चर्यं यदभिहितं तैर्वेदर्षयः प्रायेण पामरा पृथग्जना वा, तेषां कवित्वानि बालभाव-सुलभानि, तेषां देवताः प्रकृतिव्यापारावेक्षण-विस्मयसम्भावनादि-सञ्जाता-श्चेत्यादि। वेदविचारप्रारम्भे तल्लब्धा सामग्री न पुष्कलेति तथ्यम् । मानुष-प्रादुर्भावाभिवृद्धि-सङघनय-धर्मस्थापनादिषु तेषामुक्तपूर्वं मतमधुना भूयिष्ठभागशो गतरसं च। तस्माद्वेदानधिकृत्य सावधानं पुनर्विचारः करणीय इति तथ्यान्येषण-पराणां धीरुत्साहश्चात्यन्तमपेक्षितावित्यलं विस्तरेण ।।

तावता भवतु विसर्जनं तावत् पश्चिमखण्ड-पाण्डित्यविलसितस्य। तदनु-सारिणां भारतीयानां नव्यसंस्कारोपस्कृतधियां वेदार्थ-विचारसरणिरद्यापि सारतो न परिवृत्तेति चेन्नेदमपलपितं स्यात्। यद्यपि बहवोऽस्मासु मेधाविनः प्रतिभा-शालिनः ऋजुमार्ग-गामिनः विविध-विद्याप्रस्थानेषु प्राच्येषु प्रतीच्येषु वा पुरातनेषु नूतनेषु वा व्यवसायिनो जेजीयन्ते, तथाऽपि वेदविद्या-विचारे तथाविधाः सन्तीति नालं स्मो वदितुम् । सन्तोऽपि विरलाः पाश्चात्यपुराण-सिद्धान्तेषु पूर्वोक्तविधेषु बद्धश्रद्धाः चालयन्ति परिश्रमं, यस्य फलितेषु तु न लक्ष्यते वैशिष्टयम्। अथ सन्ति चेद्विशेषाः ते च विषय-विस्तरेष्वप्रधान-तथ्योपलब्धिषु वा दृश्यन्ते । सारांशेषु तु सैव पाश्चात्यानां दृष्टिः, तैः प्रकल्पित एवाध्वा, तैर्विभाक्ति एव वेदर्षि-धर्मसमय-सिद्धान्तः, तेभ्यः समुद्भूतमैतिह्यमेव शिष्ट-सम्मतम्। इदं सर्व-मवलम्ब्य वेदमन्त्र-पद-पदार्थ-चरित्रविचारः क्रियतेऽस्मदीयैर्नव्यैः विद्वद्भिः। तैः प्रतिपादिताः बर्बरप्राया एव वेदर्षयः, प्राकृतेषु अग्नि-वाय्वादित्य-पर्जन्यादिषु देवताभिमान-जडबुद्धयः, शिशुजनता-कल्पनाकल्पानि कवित्वानि। अहरहरुदयत्यप्य-रुणे अहरहराश्चर्य-चकिता उषोदर्शने, रात्रिस्मरण-मात्रेण साध्वसावेशः तेषा-मृषीणाम् । एवमादयोऽभिप्रायाः सामान्यनाद्यापि न जहति वेदविचार-प्रवृत्तिम् । अत्रैकं निदर्शनं उदाहरामः । अयं च अधुना शिष्टाचारप्राप्तः सम्प्रदायः सञ्जातः, यत् सर्वैरपि नव्य-मार्गेण वेदार्थ-विचारे क्रियमाणे वेदकवित्वस्य रामणीयकं कीर्तनीयमिति। तत्रापि उषस्यसूक्तानि पाश्चात्यैः दर्शितपूर्वाण्यपि श्रेयोविषये शतशोऽपि वक्तव्यमिति उदाहृतानि भवन्ति। सन्त्येव बहूनि सूक्तानि काव्य-शोभाबहानि वेदे, तत्रापि विशेषतः उषस्यसूक्तेषु। नात्र विवदामहे। परं तु तथा वर्ण्यमानानां चारुकविता-सूक्तानां तैः प्रतिपाद्यमानं तदभिमतं तात्पर्य क्वचित् सायणभाष्यानुरोधनसाधितं तथाविध-सङ्कीर्तनानुगुणं समुत्कर्षं नावहति, प्रत्युत, ते च कवयः बालिशबुद्धयः, सर्वसाधारण-व्यतिकरेषु लब्धाल्पतुष्टयः, क्वचिदुन्मत्त-प्रलापालङकृतवदना इति च निरूपयेदित्यसंशयम् ।।

“अतारिष्म तमसः पारमस्य” (१-६२-६) ऋषौ राहूगणे गोतम एवं कृतज्ञतया सम्मदेन च देवतास्तवमातन्वति, एषां वेदार्थ-विमशिनामा-विष्कार-नये केवलमभिधा-वृत्त्यैव भावो ग्राह्यः, न पुनस्तमसस्पारस्य तरणेन अज्ञानस्यान्तो लक्ष्यते, व्यतीतायां रात्रौ अहरहःसुप्तोत्थानमेव कीर्त्यते। ऋषिपदेन विश्रुतानामेषां तपस्विनां सन्तमसान्धा रात्रिः प्रतिभय-जननी किल भूतप्रेतपिशाच-भूयिष्ठा। अन्यदस्ति चित्रम् । ऋषिषु यजनायो-पविष्टेषु, उदित एव सूर्ये पुनरुदयाय प्रार्थयन्ते। एषां प्रार्थनाबलेन वेदपारायणमहिम्नैव सूर्यः उदेत्य दिवमारूढ इति तेषां प्रत्ययः किल ! स्यान्नाम तादृशो जन-सामान्यस्याप्यचिन्त्यो मूढ-विश्वासः, किं ते नाज्ञासिषुरिदं यद्रात्रेरपाये प्रभातं तच्च परिणतं दिनं, दिनस्यान्ते रात्नरागम इति ? नाविदितं तेषामिति शक्यं वदितुम्, “न दैव्यानि प्रमिनती व्रतानि ऋतस्य पन्थामन्वेति साधु” (१-१२४-२, ३) एवमादिमन्त्रदृष्टिषु जाग्रतीषु । एवञ्जातीयकान्यसङ्गतजल्पितानि मन्त्र-द्रष्टुष्वारोपितानि भवन्ति पाश्चात्यवैदुष्य-विनीतानां नव्यभारतीय-वेदविद्याविचारिणां मन्त्रार्थग्रहण-सरणि चेदनुगच्छेम ।।

अथ यदि वयं वेद-मन्त्रान् मन्त्र-दशिनो महर्षीश्चाधिकृत्य बहोः कालादागतं चिरन्तनमैतिचं अविस्मरन्तो विवेक-सनाथया विचार-दृष्ट्या वेदान् पश्येम, सद्य: प्रध्वंसो भवेद् भ्रमस्य, वेदसूक्तानि न बालकल्पनादेश्यानि बालिश-कवित्वानीति स्पष्टतामीयुः, मन्त्र-द्रष्टारः ‘सत्यश्रुतः’ कवय इति च। यदि च श्रीमदरविन्द-चरणैः प्रदर्शितमध्वानं प्रविशेम, द्वेधा भवति लाभ इति ध्रुवम् । मन्त्रेष्वारो-पितानि अनुपपत्ति-प्रचुराणि प्रलपितानि पलायितानि स्युः। दुरवगाहानि दुनिर्णे-यानि बहूनि स्थलानि मन्त्रेषु सुगमानि भवेयुः। अयं व्यतिरेकतो लाभः, अन्वय-तस्तु अयम्। मन्त्र-दर्शिनामध्यात्मसमुन्नतिः, सूक्त-मन्त्रेषु निक्षिप्तं गहनं तत्त्वं, देवतानां स्वरूपं, इत्यादीन्यधिकृत्य लभ्यते ज्ञानम् । उपनिषत्सु क्वचिल्लक्ष्यमाणाः दुरवगमांशाः स्पष्टा भवन्ति । अन्ते चेदम्, पुराणेतिहास-तन्त्रशास्त्रादीनां वेद-मूलत्व-कीर्तनं, वेद-सारांशोपब्रह्मणमेव मुख्यं प्रयोजनं इति च उद्घोषयन्ति तत्तद्ग्रन्थ-प्रमाणवाक्यान्युपपन्नानीति निश्चयश्च लभ्यते। तस्मादसन्मूलानां बहुधा अनृतप्राय-कल्पनाविद्धानां पाश्चात्यमतावलम्बि-वेदवादानां निरासो न्याय्यः। वेद-विचारे यावज्जीवं कृत-विद्यानां सिद्धान्तस्य मूलतो विरोधादरविन्दपादीयो वेद-गुप्तार्थवाद उपेक्षा-क्षम इति वादः प्रत्युक्तः ।।

अथ द्वितीय आक्षेपो विचार्य समाधीयते । सायणीयसम्प्रदाय-व्याख्या-विरोधात् परिहरणीयो वेद-रहस्यवाद इति ह्युक्तम् । किमियं अनादेः कालादागतं कमपि सम्प्रदायमवलम्ब्य मन्त्राणां सायणीयव्याख्या प्रवृत्ता, उत, व्याख्याता सायण आचार्यः स्वयमेव वेदभाष्यविरचनेन मन्त्रार्थविचार-सम्प्रदायं नव्यं नवीकृतं वा प्रारेभे? सम्प्रदायपद-श्रवणादुद्गतो भवत्ययं प्रश्नः। यतो मन्त्रव्याख्यानेष्वयं व्याख्याता वेदानां कर्मपरत्वं उद्घोषयतां सम्प्रदायमवलम्बते प्रायशः। क्वचित् पौराणिकं ऐतिहासिकं वेदान्त-शास्त्रीयमन्यं वा सम्प्रदायमाश्रयते। मन्त्र-व्याख्यानेन वेदानां कर्मैकपरत्वं निरूपयितुं परिकरबन्धः कृतः सायणेने ति निर्विवादम् । तस्माद्यत्र आरादपि कर्मसम्पर्कराहित्यं ज्ञानमोक्षाक्षरप्रशंसा च दृश्यते, तत्र कर्म-परत्व-वादिनां प्रयोजनाभावमालक्ष्य तदनुरोधेन अर्थ-विवृति साध्नोति। यत्र पूर्वैर्यास्कादिभिः ज्ञान-प्रशंसापरं किमपि सूक्तमुदाहृतं तत् परिहर्तुमक्षमः तादृश-मन्त्राणां अस्फुटार्थेषु स्वरसत्वाभावमुपदिशन् स्फुटेषु शब्दार्थेषु गत्यन्तर-विरहाद् अध्यात्म-परतया व्याख्याय कथञ्चित् कृतकृत्यो निर्गच्छति। अत्रेदं दृष्टान्तेन प्रदर्शयामः, सर्वेषां वेदानां आम्नायपदवाच्यानां यज्ञादि-कर्मैव प्रयोजनम् । ये च न क्रियास्तेि निरर्थका इति प्रतिपादयति जैमिनेराचार्यस्य आम्नायस्य क्रियार्थ-त्वात् आनर्थक्यं अतदर्थानाम् . . इति सूत्रम्। ज्ञान-मोक्षाक्षरप्रशंसा-विश्रुता-नामपि मन्त्राणां कर्मसु विनियोगमामनन्ति सूत्रकाराः। तथा च सुप्रसिद्धस्य दैर्घतमसस्य ‘अस्य वामस्य’ इति सूक्तस्य विनियोग उक्तः । वैश्वदेवशस्त्रे वैश्वदेवं निविद्धानं द्विप्रतीकम्। तत्र ‘अस्य वामस्ये’ त्यादिकं एकचत्वारिंशदृचं प्रथमं प्रतीकम्” इति सूत्रितम् । कर्मप्रधाने सायणीयभाष्ये अस्य सूक्तस्य प्रथमर्ची व्याख्यानस्यान्ते एता: पङक्ती: पश्यामः । एवं उत्तरत्रापि अध्यात्म-परतया योजयितुं शक्यम् । तथाऽपि स्वरसत्वाभावात् ग्रन्थविस्तर-भयाच्य न लिख्यते। यत्र ’द्वा सुपर्णा’ इत्यादौ स्फुटमाध्यामिको ह्यर्थः प्रतीयते तत्र प्रतिपादयामः। अयं मन्त्रो यास्केन व्याख्यातः (नि. ४-२६)" इति । ’अस्य वामस्य’ इत्यस्या ऋच: अध्यात्म-परता अस्फुटार्था किल, ’द्वा सुपर्णा’ इत्यादिस्तु अन्यथा शरणं नास्तीति अध्यात्म-परतयैव व्याख्यायते। ऋक्षु कर्म-परतयैव व्याख्यातव्यासु एतादृशाध्यात्मिकार्थो न स्वरसतां आवहतीत्यभिप्रायः सायणीयः स्पष्टः। एवमादिषु स्थलेषु वेदान्तिनां तत्रापि अद्वैत्येकदेशिनां साम्प्र-दायिकं मतमवलब्य व्याचष्टे, क्वचित् पुराण-कथाः क्वचित् पुरावृत्तान्यवलम्ब्य च। एवं बहुशः कृतेन प्रयासेनापि वैदिककर्मपारम्यवादिनां वेदवाद-रतानां पक्षः न समग्रतः समवलम्ब्यते। निजोक्तिषु पूर्वापरविरोधानलक्षयन् पूर्वतन्त्र-सिद्धान्त-विरोधं चादर्शयन्नपश्यन् वा मन्त्राणां ऐतिहासिक-पक्षाश्रयणेन करोति व्याख्यानम् । कथं वेदमन्त्रवर्ण-नित्यत्व-स्थापनपरेषु जैमिनीयेषु सूत्रेषु जाग्रत्सु गौणी वृत्ति-मनाश्रित्य पुरावृत्तपक्षः शक्योऽबलम्बितुम् ? सायणस्तु राजर्षिवृत्तानि युद्ध-कथा अन्यानि च पुरावृत्तानि मन्त्रेष्वङ्गीकृत्यैव तात्पर्यमाचष्टे। विश्रुताश्च वासिष्ठ-वैश्वामित्रमण्डलीय-शपथाभिशाप-सूक्त!ऽत्र निदर्शनम्। अथवा शतशः स्थलेषु दृश्यमानेषु स्थालीपुलाक-न्यायेन एकां सायणभाष्यपङक्ति उदाहरामः। “अवोचाम रहूगणाः अग्नये मधुमद्वचः। द्युम्नेरभि प्रणोनुमः (१-७८-५) ॥ अस्या ऋचो व्याख्याने सायण आह-" ऋषिः कृतं स्तोत्रं अनया उपसंहरति । रहूगणस्य पुत्राः वयं गोतमाः” इति। अत्र वेदापौरुषेयत्ववाद-पक्षोच्छेदः कृतः। अयमेव व्याख्याता वेदनित्यता-सिद्धान्तिनां पूर्वतन्त्राचार्याणां मतमभिमान्य वेदार्थस्य प्रकाशिका व्याख्यां निबद्धवान् ।।

तदिह परीक्षितव्यम्। को वा सम्प्रदायः सायणेनावलम्बितः ? संकीर्ण एवेति वक्तव्यम्। सायणाद्वहोः कालात्प्रागेव कर्मपारम्यवादिनां सम्प्रदायो विदितचर इति नात्र संशयः। परं तु अन्येऽपि वेदार्थविचार-सम्प्रदाया अत्यन्त-प्राचीना आसन्निति सन्देहगन्धोऽपि न भवति। यास्केन उल्लिखिताः सन्ति बहवः पक्षाः। अधिभूताधि-दैवताध्यात्मवादिनः, ऐतिहासिकाः, याज्ञिकाः नैरुक्ता-श्चेत्येवमादयः। अधियज्ञ-अधिदैवत-अध्यात्मांख्यं त्रिविधं ज्ञानं वेदाल्लभ्यत इति यास्क-निरुक्तादवगम्यते। न केवलं यज्ञ-परमेव भवति मन्त्राणां व्याख्यानमिति मन्यते यास्कः। सप्रमाणमेतं पुरस्ताद् उपपादयिष्यामः। इदममत्रावधेयम् । निरुक्त-बृहद्देवतादिग्रन्थान् अवलोक्यैव सायणीयं वेदभाष्यं विरचितम् इति निर्विवादम् । निरुक्तकारमुदाहरता भाष्यकृता नातपस्काय मन्त्र-रहस्यं देवतारहस्यं वा प्रत्यक्षं भवतीति यास्कोक्तं न लक्षितं, नोल्लिखितं, कर्मपरव्याख्यानाय तदङ्गीकारो नापेक्षित इति विशदं भवति। तस्मात् सायणीयवेदभाष्येण अध्यात्म-देवतातत्त्वादिरहस्यानां निक्षेपो वेद इति चिरन्तनमैतिचं तिरस्कृतम्। सायण-भाष्यादेवोद्गतो नूतनः सम्प्रदायः, येन ऋचः सर्वाश्च यज्ञकमक-परा इति प्रत्ययः सर्वजनीनः सञ्जातः। यद्यपि यज्ञपरत्व-वादो मन्त्राणां ब्राह्मणेभ्यः समुद्भूतः, तथाऽपि अध्यात्म-रहस्यादिपरतया मन्त्राणां ग्रहणं आसीत्पुरेति विश्वासो विदित-चरः प्राचां विदुषाम् अत एव मन्त्राणां वेदपुरुषात्मतया पावनत्व-वीर्यवत्त्व-पूजनीयत्वादिकमैतिह्यं पुरातन-भारताभिजनेषु पुराणे तिहासेषु साक्षात्कृत-पर-तत्त्वानां महामनसां निबन्धेषु निरूढमभवत्। प्राक् सायणीय-वेदभाष्यात् न केनापि वेदानां सम्पूर्ण व्याख्यानं प्रणीतम्। प्रणीतमिति न श्रूयते, सर्वथा नोपलभ्यते। यत्र क्वचिन्निबद्धमपि, भागशः उपलभ्यते, भागश एव निबद्धं वा स्यात्। चतसृणां सब्राह्मणारण्यकानां वेदसंहितानां व्याख्यानं ब्रह्माण्ड-प्रयासेनाबध्य कर्मैक-परतां वेदानां समर्थयामास व्याख्याता सायणाचार्यः। तस्मादस्य चतुर्वेद-भाष्यं समस्तपण्डितमण्डलमावर्जयतीति नात्र चित्रम् । किं तु सायणीयः सम्प्रदाय एक एव चिरन्तनो वेदार्थविचार-सम्प्रदाय इतीदं अपलपितं प्रतिपक्षधूर्वहेणेत्यलम् ।।

अथ जघन्योऽयं तृतीय आक्षेपः। यद्वेदार्थ-विचारे प्रामाणिकानां पूर्व-मीमांसकानां सिद्धान्तस्य विरुद्धत्वादनादरणीयो वेदगुप्तार्थ-पक्ष इति। क्यमादि-वेदसंहितासूक्त-तात्पर्यावगाहे प्रवृत्ताः, तस्मात् मन्त्रार्थविचारोऽत्र विषयोऽस्माकम्, न ब्राह्मण-वाक्यार्थविचारः यत्र तु पूर्वतन्त्र-विचक्षणाः प्रामाणिका भवन्तु नाम । ब्राह्मणानि मन्त्रार्थ-विवरणानि तत्र तत्र यज्ञोपयोगीनि भवन्तीति हेतोरेव सायण: प्रथमं ब्राह्मणं व्याख्याय ततः परं तदनुसारेण ऋचां व्याख्यानमारेभे। आह च भाष्यारम्भ--" ब्राह्मणस्य मन्त्रव्याख्यानोपयोगित्वात् आदौ ब्राह्मणं आरण्य-काण्डसहितं व्याख्यातम्, अथ तत्र तत्र ब्राह्मणोदाहरणेन मन्त्रात्मक: संहिताग्रन्थो व्याख्यातव्यः” इति। तदत्र अस्मत्सिद्धान्तः सायणीयसम्प्रदाय-विरुद्धः इति वादः सुबोधः। मीमांसकास्तु न क्वापि मन्त्र-संहितानां व्याख्यां चक्रुरिति श्रूयते, वाऽस्त्यवसरः। ब्राह्मण-वाक्यान्यादाय तदनुसारीणि स्मृतिवाक्यानि वा क्वचि-दालोच्य वाक्यार्थ-निष्कर्षाय समीचीनः पन्थाः परिकल्पितो मीमांसकैः। तेषां धर्म-जिज्ञासा मुख्या, न मन्त्रार्थमीमांसा। अत एव न कश्चिदपि पूर्वतन्त्राचार्यैः वेदसंहिता व्याक्याता, व्याचिख्यासिता वा। सूत्रकारो जैमिनिर्न प्रवृत्तो मन्त्रार्थ-मीमांसायाम्। न वा शबरस्वामी तद्भाष्यकारः। नापि भट्टपादाः। किमु वक्तव्यं अर्वाचीनैर्मीमांसकैर्न चिन्तितमिति। उत्तरत्र प्रसक्तौ मीमांसक-सिद्धान्त-मधिकृत्यास्ति वक्तव्यमित्येतावतैव विरमामः । धर्म-मीमांसकानां मन्त्रार्थ-मीमांसायां आदरोऽधिकारो वा शशविषाणसोदरतां भजत इत्यत्र संक्षेपः ।परिहृतोऽविचारित-रमणीयः कनिष्ठ आक्षेपः ।।

अथ सायणीयभाष्यगत-गुणदोषस्मरणपुरस्सरं वेदार्थविचार-प्रवृत्तानां सायणो न केवलमत्यन्तमुपयुक्तः, अपि त्वनिवार्य एवेत्युपपाद्य सिद्धान्तपक्षमाचक्ष्महे । भरतखण्डगत-नानाविषयवास्तव्य-विद्वन्मण्डलीपाण्डित्यनिर्मथितं वेदार्थसारमुपादाय वेदान् व्याचरव्यौ सायणः। महानयमुपकार उत्तरकालिक-वेदविद्या-विचारिणां इत्यसंशयम्। पदपाठ-सहितानां संहितास्थ-मन्त्राणां व्याख्यानावसरे बहवोऽनर्घा विषया उल्लिख्यन्ते-प्राचीन-प्रमाण-ग्रन्थवाक्यानां उदाहरणं, विविधान्यैतिहानि, निघण्टुः, सूक्तमन्त्र-पदत-त्समुदायानां अर्थः, क्वचिदर्थान्तराणां सम्भवः, ऋचां छन्दोव्याकरणस्वरप्रक्रिया-इत्येवमादिषु सायणीय-भाष्यानुगृहीतेषु सत्स्वेव, तत्परं तात्पर्यं-गुणदोष-विचारस्यावकाशः सम्भवति । अर्थ-विचार-शून्यैरपि वैदिक-रध्ययनपारायणपरैः पदपाठ-युक्ताः संहिताः कण्ठस्थाः कृत्वा न चेदरक्षिष्यन्त सायण-भाष्यस्यैव नाभविष्यदवकाशः। एवमेव सायणीय-भाष्यं न चेद् अभविष्यत्, अन्धकारबन्धुरो दुरवगाह एवाभविष्यत् वेदशब्द-समुदायोऽस्माकम्, वेदगुप्तार्थ-पक्ष-परीक्षाऽपि दुर्घटाऽभविष्यत्। तस्मात् प्रशंसनीयः कृतज्ञतया प्रयोजन-गरिमा सामान्यतः मन्त्रपदपाठ-शब्दरूपावतार-वाक्यान्वयप्रसंगेष्वित्यलं विस्तरेण। परं तु याज्ञिक-पारम्यं द्रढयितुं प्रवृत्तेऽस्मिन् व्याख्याने छिद्र-बहुलः स्वप्रयोजनस्यापि अनावश्यक: अनृजुः पन्थाः स्फुटास्फुट-रहस्थार्थमन्त्रेषु कर्म-परतया व्याख्यानाय अवलम्बित इति पुरस्तात्तत्र तत्र मन्त्रार्थ-विचारेषु स्पष्टीभविष्यति। अयमप्य-किञ्चित्करो लोप: सायणीय-भगीरथप्रयत्नसाधित-वेदमन्त्रतात्पर्यापेक्षया। कीदृशं मन्त्र-तात्पर्यं साधितम् ? सर्वेषां मन्त्राणां प्राधान्येन कर्मसु विनियोज्यत्वं अर्थात् कर्माङ्गत्वं अत एव कर्मैकपरत्वं साधितम्। अथ किं फलितम् ? वेदानधिकृत्य यत्पुरातनमैतिह्यं तदसत् वेदपावनतायाः प्रतिष्ठेव निर्मूलिता, अध्यात्मतत्त्व-देवतास्वरूपसाक्षात्कारादि-बहुरहस्यनिक्षेपो वेदराशिरिति विश्वजनीन-विश्वासस्य निराधारता। निगमागम-पुराणेतिहासोद्धोषिता वेदमूलकातिगहन-तपोज्ञाननिष्ठा-रहस्यादिकथा सर्वाऽपि ब्रह्माण्ड-परिमाणकल्पा काल्पनिकी केवलं गाथा। अध्यात्मनिःश्रेयसादिकं द्रष्टव्यम्, तत्तु वेदान्ताख्यासु उपनिषत्सु। मन्त्रात्मके मूल-वेदे कर्मसाधनमेव लक्षणीयम्, येन विविधं धनं बलं प्रजाः पशवः गवा-श्वादयः पुष्टि: तुष्टि: हिरण्यं भृत्याः विजयः अरातेर्वधः तद्धनहरणं प्रतिस्पर्धिनां निन्दकानां विनष्टि:-एवमादि-फलावाप्तिः सिद्धयति । एतादृशफल-प्राप्त्युपायभूतो यागो वेदे विधीयत इति सायणीय-मन्त्रव्याख्या-बलाबलम्बनेन नव्याः प्राचीनर्षीणां पृथग्जनतां निर्णेतुं प्रवृत्ता इति कथमिदं अन्याय्यं भवितुमर्हति ? यद्यपि स्वल्पशः सायणेनाङ्गीकृता अध्यात्मतत्त्व-सत्ता मन्त्रेषु, यद्यपि तस्य महर्षिषु पूज्यताबुद्धिः, देवतासु अस्तित्व-प्रत्ययः, मन्त्रेषु पावनत्व-वीर्यवत्वादिविश्वासश्चासन् तथापि प्रतीच्याः वेदबाह्यास्तदनुयायिनो नव्याः भारतीयाश्च, भारतीयाश्च, सायणो व्याख्याता स्वीयकालिक-मूढविश्वासभागस्वामीति पूर्वोक्त-परप्रत्ययनेयताविशिष्ट-मनीषारूप-स्तस्यापराधः क्षन्तव्य इति औदार्यं प्रदर्शयन्तीति नेदमाश्चर्यम् । तेन हि महा-नुपकारः कृतः सम्पूर्णवेदव्याख्यानदानेन। यतो यावदपेक्षं स्वकल्पना-सिद्धान्तस्य सामग्री सम्पादिता। परं तु पशुप्रायजीवन-सुख-भोगैश्वर्यं-प्रसक्तानि अहङ्कार-ममकारमूलक-ईषणपोषणादिमहाफलानि याज्ञिककर्माण्येव वेदतात्पर्यहृदयमिति सहस्राधिक-सूक्ते अयुताधिक-मन्त्रे ब्रह्मकोशे निर्लज्जं निर्विचारं निर्भयं च प्रतिपादयन्त्यैवैके पूर्वेषाम् । तथा सति, तेषां मतं पूर्वतन्त्र-सिद्धान्तं वा ईश्वरगीता " सर्वैश्च वेदैरहमेव वेद्यः वेदान्तकृद्वेदविदेव चाहम्” इति वेद-पारम्यमुद्घोषयन्त्यपि ईदृशान् वेदवादरतानविपश्चितो निन्दतीति किमत्र चित्रम् ?

अथास्मत्पक्षस्सारत उपन्यस्यते। ऋग्वेद एवात्र विचार-विषयः। अन्येषां वेदानां स्थानं अन्यत्र विचिन्त्यते। मन्त्राणां रहस्यार्थो वर्तते। स एव वेदसूक्तानां वैदिक-यजनस्य च आन्तरः परमार्थश्च भवति। अनेन सायण-प्रतिपादितो वेदानां बाह्यार्थोऽस्माकमभिमत इति प्रतीतं भवति, सायण-व्याख्या क्वचित्पदस्य वाक्यस्य ऋचो वा स्वीयकर्मपरता-साधनायापि नोपयुक्ता भवतु, नावश्या वा भवतु, कतिपयेषु स्थलेषु तेन निष्पीडिता अर्था असङ्गता वा भवन्तु। तथाविधानि स्थलानि यथावसरं दर्शयिष्यामः। परं तु इदं सर्वमस्माकमुपेक्ष्यम् । विस्तरश-स्तत्र तत्र अर्थानुपपत्तयो दृश्यमाना अपि समासेन बहिर्याग-तदनुरुद्ध-देवतादिपक्ष समर्थकं तदीयं मन्त्र-व्याख्यानमतमभ्युपगच्छामः । मन्त्राणां आन्तरार्थस्तु गुप्तः, यस्य बाह्यार्थः कञ्चुकवदवतिष्ठते। आरण्यकसंहितानां ब्राह्मणानां युगादत्यन्तप्राचीनं मन्त्रद्रष्टणां युगम् । तेषां गहनतत्त्वविदां गूढ-भाषया गोपितानां गोप्यानां कोश ऋग्वेदः। तेषां ऋक्सूक्तानां समुदायमेव ऋग्वेद-संहितामाचक्ष्महे। तानि पुनः सूक्तानि नास्मत्परिचितानीव कवित्वानीति बोध्यम्। प्रत्युत, साक्षात्कृत-धर्माणां ऋषीणां श्रवणाद्दर्शनाच्च निर्गता ऋचो मन्त्र-दृष्टय इति चिरन्तनं व्यपदेशं भजन्ते। प्रादुर्भावप्रभावतः शब्दतोऽर्थतः नाद-परिष्पन्दविशेषतश्च मन्त्राणां वीर्य-वत्त्वं दृष्टफलकत्वं च सुप्रसिद्धे। ऋषेमन्त्र-द्रष्टुरन्येषां च पुरुषार्थसाधनाय अलौकिकोपाय-भूतो मन्त्र इति प्राचामाचार्याणां मतं अस्मदभिमतम् । एषां मन्त्राणां द्वावौं भवतः इति प्रागुक्तम्। तत्र अन्तरर्थ आन्तरङगिक आध्यात्मिको वा परमार्थ-सत्यः। इदं च रहस्यमृषीणां विदितं, तच्छिष्याणां च, ये च गुरुभ्यो महर्षिम्यो दीक्षां लब्ध्वा अन्तरङ्गशोधनसाधनादिभिः अन्तर्यजनाय शिक्षिताः, देवेभ्यः स्वीयं सर्वस्वं समर्प्य तैः प्रतिपदत्तमादाय आध्यात्माभ्युन्नत्या अधिलोकाधि-दैवतसम्पत्ति प्रापुः ॥

अन्योऽर्थो बाह्यः स्थूलश्च जनसामान्योपयोगायावस्थितः, देवताराधनार्थ-मनुष्ठीयमानेषु यागेषु प्रयोजनवान् भवति। एवं अर्थ-द्वयवान् प्रयुक्तः शब्दो मन्त्रेषु। स चोपाय आवश्यकोऽभूत्, येन वेदरहस्यज्ञानादिकं अनधिकारिभ्यो रक्षितम् । अपक्वः संस्कार-शून्यः साधारणो जनः अज्ञानाद् दुर्विनियोगाद्वा विपत्ति-शरव्यतां मा गमदिति रहस्यार्थस्तस्मात् संवृत्य गोपितः । कथं नु खलु अपरिपक्वं दुर्बलं जनसामान्यं अध्यात्म-निर्व्यवसायं आत्मार्थ-जीवनाय देवार्थशरीर-यात्रायै वा साधिकारं भवेत् ?

एवं अर्थद्वयवच्छब्द-प्रयोगव्यवस्था विचारपूर्वकं साधिताऽपि अनायासेन स्वभावतो निष्पादितेति बोध्यम्। विचारपूर्विका प्रयोग-व्यवस्थेति चेत् कथं स्वभावतः श्रम-विरहं साधिता स्यादिति वक्तुं युक्तमिति विरोध-शङ्का मा भूत् । अत्र आदिकालिकभाषा-स्वरूपोदयोपचयान् विमृशेम। यद्यपि चतुष्टयी शब्दानां प्रवृत्तिरिति महाभाष्य-वाक्यानुसारेण जाति-क्रिया-गुणद्रव्येषु वा जातौ वा शब्दः सङ्केतितो भवति, तथाऽपि आदि-काले मानुषाणां भाषा न यदृच्छया सङ्केत-मूला अर्थ-प्रत्यायिकाऽभूदिति मन्तव्यम् । च सङ्केतः नियतशब्दार्थ-सम्बन्धरूपः ईश्वरेच्छेत्येके। अस्य शब्दस्य अयमेव नियतोऽर्थः इत्यस्य सारांशाभिप्रायः ।

यद्यपि शब्दार्थ-सम्बन्धो नियत इति व्यवहारः-सिद्धः सर्वसम्मतोऽङ्गीकर्तव्यः, तथाऽपि महाजनैः तेषां प्रमुखैर्वा सम्भूय अस्य शब्दस्य अयमर्थ इति सङ्केतो निर्णीतो बहोः कालादागतः इति नोपपन्नम्। वृद्धपरम्परागतः सङ्केत ईश्वरेच्छा वा भवतु, महाजन-निर्णीतो वा भवतु, उभयथाऽप्यनुपपत्तिर्द श्यते निरङकुशस्य यदृच्छा-निर्णयस्य नियुक्तिकस्यासम्भवात् । नियतस्य शब्दार्थ-सम्बन्धस्य रूढत्वादेव सङ्केत-सिद्धिर्द्रष्टव्या। सास्नालाङगूलखुर-ककुद-विषाणार्थरूपे गोशब्दः सङ्केत्यते । अस्मिन्नर्थे इदं गोपदं प्रयोक्तव्यमिति न केनापि नियमो विहितः, यदनुसारेण सिद्धः सङ्केत इति शक्यं वदितुम् । रूढत्वात् सिद्धः सङ्केत इत्यत्र न कस्यापि स्यादाक्षेपः। कथं पुनर्नियतेष्वर्येषु रूढाः शब्दा इति न्याय्यः प्रश्नः। रूढिर्नाम नियता प्रसिद्धिः। क्षुण्णे वर्त्मन्यभ्यासबलात् प्रसिद्धौ सत्यां, नियतत्वं प्रयोग-बाहुल्यादनन्तरं भवतीति बोध्यम् ।।

कथं तर्हि नियतः प्रयोग-विशेषः लब्ध-प्रचारो भवति, किं वा मूलं निर्दिष्टस्य नियत-प्रयोगस्य ? अस्योत्तरं शब्दमूल-स्वरूपज्ञानायत्तं वक्तव्यम् । बाह्याभ्यन्तरेन्द्रियार्थाद्यनुभवानां शारीराग्निवायुसंयोगजनिर्माथेन नाडीप्रत्युद्वोधस्या-विष्कृतिरेव मानुषी वाक् श्रोत्र-ग्राह्या अर्थोद्वोधाय प्रभवति। आदौ पुरायुगेषु मानुषी भाषा न सङ्केत-पदं आरूढा। सामान्य-जनानां बहिर्भुवन-प्रत्यक्षानुभवानां तथा महर्षीणां आभ्यन्तरसाक्षात्कार-दर्शनश्रवणाद्यनुभवानां च शारीरकनाडी-प्रत्युद्वोधस्य कण्ठ-ध्वन्यात्मना निर्गमनमेव पुराकालिक-मानुष्यकभाषितमिति ग्राह्यम् । बहिरन्तर्वा कस्मिन्नप्यर्थेऽनुभूते, तद्ग्राहिण्या हृदयस्थया बुद्धया (अप्राकृतानां) केवलनाडीमयान्तःशरीरस्थया कयाऽपि प्रज्ञया (प्राकृतानां वा), प्रेरिता प्रति-बोधाविष्कृतिः अकारादि-वर्णात्मिका वागिति कीर्त्यते । नानन्तर-कालेष्विव अस्मिन्नर्थे अयं शब्दो वर्तत इति बुद्धिस्थः संकेतः परिनिष्पन्न आद्येषु युगेषु । प्राणिनां यथा जायते अस्ति” इत्यादिषड्भाव-विकारो लोक-सिद्धः, तथा भाषायाश्च उद्भवाभ्युदयादिषु प्रवृत्तेषु शब्दार्थसम्बन्धनियमजन्या रूढिः सिद्धा भवति। सूक्ष्मविचार-सापेक्षोऽयं विषयः भाषातत्त्वविदां सुगमः। अन्यत्रास्माभिः "स्फोटसिद्धिप्रकाशे” विचार्यत इत्यत्र यावदवश्यं सारांशमेव ब्रूमहे। वेद-युगे प्राणवीर्य-सम्पन्नः शब्दः धात्वार्थमजहत् स्वजाति-गुणादिकं प्रत्याययन् एव प्रवृत्तः । एकस्मिन्नर्थे बहवः शब्दाः एकस्य शब्दस्य बहवोऽर्थाश्च पदानां यौगिकत्वादेव प्रयोग-वशात् परिनिष्ठिताः। अस्मादेव हेतोर्धातूनां बह्वर्थत्वं भणन्ति । “संयोगो विप्रयोगश्च साहचर्यं विरोधिता...प्रकरणम् इत्यादिभिर्वाचकत्वे नियन्त्रिते व्यवहार-सौकर्य सम्पादितम्, अस्यालङ्कारिक-शासनस्य मूलं वेदे द्वष्टव्यम् । यद्यपि वैदिक-पदानां प्रयोगवशात् काचन रूढिश्च निष्पन्ना, तथाऽपि यौगिकत्वं न केवलं न व्याहतम्, किं तु तदेव शब्दस्य प्राणवदवस्थितम् । अपरं च, गत्यर्थादिषु धातुषु शतशो वर्तमानेषु वस्तुतः गति-विशेषादिष्वर्थेष्वेव ते वर्तन्ते । यथा वा सम्प्रति संस्कृतभाषायां व्यवहारे “ब्राह्मणं भोजय, गां चारय” इति वक्तव्य, चरण-भोजने समान-धात्वर्थे इति कृत्वा ‘ब्राह्मणं चारय गां भोजय’ इति अविशेषेण न प्रयुज्महे, एवं विशेषतः पदप्रयोग-वैशिष्टयं द्रष्टव्यम् । वैदिक-पदानां समानधात्वर्थानां सूक्ष्मो भेदः प्रायेण विनष्ट: इत्यद्धा। तथा बहुस्थलकुशलपरीक्षणेन यावल्लब्धानि ग्राह्याणि। एवं व्यवहारसौलभ्य-सम्पादिकां काञ्चन रूढिं प्राप्तान्यपि वैदिकानि पदानि प्राधान्येन यौगिकान्ये वेति अत्र भवति रहस्यांशः। अग्नीन्द्रादीनि पदानि देवता-विशेषेषु रूढान्यपि बहुषु स्थलेषु गुण-वाचकानीव प्रयुज्यन्ते। ’अङ्गिरस्तमा’ ‘इन्द्रतमा’ इत्यादयः इन्द्रतमा’ इत्यादयः शब्दाः पदानां यौगिकत्वं द्योतयन्ति। यानि संज्ञा-पदानि रूढानि, तान्यपि गुणवैशिष्ट्यं व्यञ्ज-यन्ति। एतादृशी वेदभाषा-दशैव अनन्तर-कालेषु संस्कृतभाषायाः श्लेष-बाहुल्याय अकल्पिष्ट । वेदे अयत्नसिद्धः क्वचिद् द्वयर्थो बह्वर्थो वा प्रायः शब्दः। संस्कृत-भाषायां तु प्रायो बुद्धिपूर्वकं निष्पाद्यन्ते श्लिष्टाः शब्दाः। एवं ऋग्वेदसंहिता-भाषाया आद्या दशा ऋचां द्वयर्थता-समर्थनाय अनुकूलाऽभूदिति बोध्यम् ।।

सैषा किल तेषां ऋषीणां ऋग्भाषायाः प्रक्रिया, यथा मन्त्राणां अन्त-बहिश्चार्थः शक्योऽभवदुपपादयितुम् । यथा स्थूलो बाह्यश्चार्थः प्राकृतान् पदार्थान् आवेदयति, तथा आन्तरः सूक्ष्मोऽर्थः आन्तरङ्गिकान् आध्यात्मिकान् प्रकृति-गतोत्तमांश-सम्बद्धान् गूढ-भावान् लक्षयति। यतो बाह्या सर्वाऽपि सत्ता आन्तर-सत्तायाः सङ्केत-भूतेति प्राचां आसीद् दृष्टिरिति पूर्वोक्तमवधेयम् । नेयं केवल वेदर्षीणामेव बहिर्भुवने संकेत-बुद्धिः आसीत्, अपि तु अन्यत्रापि भूमण्डले मानुष्य-कस्य आदिमायां दशायां परिदृश्यमाने स्थूले जगति संकेतदृष्टिरासीद् इत्यव-गन्तव्यम्। यदि पुरावृत्तसंशोधन-मतबलेन पर्यालोचयेम तदा निस्संशयमिद-मवगतं स्यात् । अधुनातन-विज्ञानाभ्युदयावस्थापेक्षया अपक्वा प्राकृत-दशा भवतु नाम सा आद्यानां मानुषाणां, भवन्तु वा ते यथाजातावस्थायां निष्ठिताः, भवन्तु वा पुनस्ते वाणिज्य-व्यवसायादिवार्तं प्राप्ता अप्राप्ता वा-इदं तु सर्वत्र तेषु पश्यामः। तस्यां आदिमावस्थायां मानवस्य संघस्य गाढा दैवचिन्ता, सामयिके धर्मे भावना-बलं अतुल्यं, देवतास्तिक्य-व्यापारेषु कश्चन अशिक्षितः सहज-बोधः भावनावैशाल्य-सनाथं अन्तस्संवेदनं वा परिदृश्यते । यदा काल-परिपाकवशान्मानुष्यके तर्क-निविष्टा मतिः विचारशीलता धी-व्यवसायश्च पदं लभन्ते, तदा बौद्धं व्यक्तिस्वातन्त्र्ययुगं प्रवर्तते, निवर्तते च अन्तस्संवेदन-अशिक्षितबोधभावना-प्रधानं साङ्केतिकं युगम्। तच्च निवृत्तमाद्यं प्राकृतं वा युगं साङ्केतिकं ब्रूमः। यतः समस्तं बाह्यं भुवनं पृथक् कृत्स्नशश्च अन्तरस्य प्रपञ्चस्य सङ्केत-भूतं विलोकितम् । नेह सङ्केत-पदं शास्त्रमर्यादानुसारेण शब्दार्थ-साक्षात्सम्बन्धरूप-वृत्तिपदवेदनीयं ईश्वरेच्छा-परं वा प्रयुज्यते। सामान्यार्थे लोक-व्यवहारसिद्ध प्रायशो गौण्या वृत्त्या लभ्य लक्ष्यलक्षण-सम्बन्धे प्रयुज्यते। यथा आयुर्घ तमित्यादौ घृतं बल्यमिति विवक्षा पूर्वेषाम्, तथा अश्वादयः बलादीनां लक्षका भवन्तीति संकेतार्थ-विवरण स्पष्टीभविष्यति। तस्मात् आदि-पुरुषाणां सर्वाणि वस्तूनि सर्वं च जगत् (सव तेषामाचाराः सामायिक-धर्मः, सामुदायिकोत्सवाश्च) सङ्केत-भूतानीत्युक्तेरययमाशयः । यो यः पदार्थः स्थूल-रूपतया बहिरवस्थितः तस्य तस्य सदृशः प्रतिरूपकोऽन्तरर्थो वर्तते, यस्यैव सूक्ष्मस्य बाह्यं स्थूलं सङ्केतपदवाच्यं ब्रूमः। संकेतार्थ-निर्णयस्तु भूयो वैदिक-पदानां यौगिकत्वादेव लभ्यते। क्वचिद् गौण्या वृत्त्या, क्वचिन्मन्त्रेषु मन्त्रकृतां देवतादिदर्शनविधा-निवर्णनाद् अवगतबिम्बविशेषैश्चेत्यलम् । सङ्कत-व्यवस्था अधिकृत्य पुरस्ताद् द्वितीय-खण्डे विचार: प्रसंक्ष्यते ॥

बहिः सर्वमन्तरर्थस्य सङ्केत-भूतमित्युक्तम्। तस्माद् बहिर्यागोऽपि सङ्केतो भवति अन्तर्यजनस्य । तर्हि प्रथमं यागस्य सङ्केतार्थं प्रतिपाद्य ततः परं सांकेतिक-समयानुसारेण के वा लोकाः स्वरूपाणि देवानां व्यापाराश्च इत्यादीनि विचार-यामः । चत्वारो भवन्ति यागस्य मुख्यांशाः यजमानः, ऋत्विजः, द्रव्य-त्यागः, फलानि यजनस्य चेति। तत्र यजमानो यजनाय प्रवृत्तः मूर्तिमान् जीव आत्मा। ऋत्विजो याज्ञिकानि कर्माणि यथास्थानं यथाकालं निर्वहन्तो यज्ञस्य प्रारम्भात् समाप्ति यावत् यजमानं उपकुर्वन्ति । ऋतौ काले यजन्ते यष्टारः इत्यवयवार्थ उपपद्यते। होत्रध्वर्युद्गातृब्रह्माख्याः चत्वार एषां गणाः सोम-यागे। एकैकस्मिन् चत्वार ऋत्विजस्तस्मात् ते षोडश भवन्ति सर्वेऽप्याहृत्य। अस्य विस्तरस्य इह अनुपयोगात्तेषां प्रधानत्विङनाम्नां पदार्थोल्लेखन-द्वारेण तद्व्यापारान् गूढार्थ-पक्षे व्याहरिष्यामः । चतुर्णा गणानामाद्यो होतृगणः । ऋचः शंसति होता। ऋग्भिराह्वानं देवानां अनेन निर्वर्त्यते। तस्मादाह्वाता होतेत्यनर्थान्तरम् । दैवीं वाचं आवि-एकुर्वाणानां ऋचा उच्चारणात् देवानुपस्थापयति सः । अन्तर्यजने सुगमोऽयं भावः । तादृशो होता देव एव न मानुषः पुरोहितः। देवमेव यथार्थं पुरोहितं मन्यन्ते ब्राह्मणानि। त्रीन् भूरादि-लोकान् पुरोधातन् अग्निवाय्वादित्यान् पुरोहितांश्च याज्ञिकाः पठन्ति। तथा च ऐतरेयिणः समामनन्ति-“यो ह वै त्रीन् पुरोहितान् त्रीन् पुरोधातन् वेद स ब्राह्मणः पुरोहितः” (ऐ. ब्रा. ८-२७), देवानामेव वस्तुतः पौरोहित्यमिति यो जानाति तस्यैव मानुषस्य पौरोहित्याधिकार इति भावः । एवं कर्मतन्त्र-परेषु ब्राह्मणेषु तत्र तत्र ज्ञानैकगम्यानि रहस्यानि निक्षिप्ता-नीति निदर्शनमात्रमत्र प्रसक्तिवशात् सूचितम् । अत एव अग्नि “पुरोहितं देवं ऋत्विजं होतारम्” गायति आदि-वेदस्यादिमा माधुच्छन्दसी मन्त्र-दृष्टिः। स ह्यग्निर्देवानां दूतः मर्येष्वमर्त्य इति शतकृत्वो वेदे गीतः ।।

अध्वर्युद्वितीयः यजुर्वेदाधारः, स हि यजुभिर्याजयति यज्ञतन्त्रानुसारेणान्यान् ऋत्विजो नयति, यजन-क्रियानिर्वाही क्रिया-दक्षः तदधीनमेव सर्वथा यज्ञनिर्वर्तनम् । अयमपि देवो मातरिश्वा वायुर्येन जगत्प्राणेन सर्व-क्रियाणां सम्भवः । अन्तरर्थः सुगमः प्राणदेव-परः, सर्वदेवताकार्यानुकूलक्रियां अन्तर्यजने साधयत्यन्तरध्वर्युर्वायुः । यद्यपि अध्वर-शब्दो यज्ञ-पर्यायत्वेन प्रसिद्धः, तथाऽपि अवयार्थमजहत् अध्वानं राति दत्ते इति यात्रा-रूपतयाऽध्वरो वर्ण्यते वेदे। तथाविधमध्वरं गच्छति कामयते वा अध्वर्युः क्रिया-दक्षः। सर्वेषु देवेषु ऋत्विग्रूपेष्वयमेव अध्वरपद-वाच्ययात्रायां सर्वकार्य-निर्वाहकः ।।

उद्गाता--साम गायति । अयं देवान् आनन्दयति साम्नां गानेन। गूढार्थ-पक्षे, अयं आदित्यो देवः उद्गीथेन सर्वदेव-प्रीणनेन गानेन स्वरन् यजमानस्य विविध-संकटापायदोषादीन् निवारयन् तं स्वस्थं विधाय समुन्नयत्यमृतं सत्य आनन्दम् । अन्ते ब्रह्मा-स साक्षी सर्वस्यापि यज्ञकर्म-कलापस्य, ददात्यनुज्ञां कर्मणां प्रवर्तने, यथाकालं अनुज्ञाक्षरं उच्चरति स्थाने, न स्थानाच्चलति, मौनमास्थाय आकर्मपरिसमाप्ति मन्त्रतन्त्र-क्रियालोपन्यूनातिरिक्तेभ्यो रक्षति याज्ञिकं कर्मेति ब्रह्मात्विज्यसंक्षेपः। आन्तरस्तु भावः सुघटः। निरावरणः स्पष्टश्च सङ्केतार्थः । अयं च देवो मन्त्राणां अभिमानी, मन्त्राश्च वेदे ब्रह्माणीति प्रसिद्धिः । अत एव ब्रह्मणस्पतिर्मन्त्राधिदेवता। छन्दसां मन्त्राणां मूलप्रकृतिः प्रणवः अनुज्ञाक्षरपद-वेदनीयः ओंकारपदवाच्यः स एव सर्वमन्त्रप्रादुर्भाव-मूलस्थानभूतां आद्यां वाचं आविष्करोति । तस्मात्तदायत्त-समस्तदैवतमन्त्राधिदेवता ब्रह्मणस्पतिरेव आदौ अन्ते च सर्वत्र परमेण मौनेन यजमानस्यान्तर्यजनं एकेन अक्षरेणानुगृह्णातीत्यव-गन्तव्यम् ।।

अथ द्रव्याण्यपि संकेत-भूतानि ग्राह्याणि। यथा ऋत्विङनामनिर्वचनादिभिः तेषामन्तर्यजने देवतादि-संकेतार्थो ज्ञायते, तथा कर्मणि देवेभ्योऽर्ण्यमाणानि द्रव्याणि यजमान-स्वभूतानि घृतादीन्यपि संकेतात्मकानि अवयवार्थानुगमाद् अन्वेतव्यानि । गौः इति धेनुः रश्मि-नाम च भवति। तस्माद् गव्यं कान्तिमत् प्रकाशं ज्ञानलक्षणं बोध्यम् । गव्यघृत-हविरादय एवमेव देवार्थं दीयमानाः यजमान-स्वभूताः ग्राह्याः । ऊष्म-दीप्त्यर्थात्समान-धातोनिष्पन्नानि घृत-धर्म-घृणि-पदानि । घृतम् प्रसाद-रूपः प्रकाशः। दाने अदने च वर्तते जुहोतिर्धातुः। यद्दीयते यजमानेन देवेभ्यः, यच्च देवानां आस्यभूतेन मर्येष्वस्मासु प्रथमजेनाम]न अग्निना अद्यते, तद्धविः स हवः । एवमन्यानि द्रव्याणि बाह्यानि यजमानोपार्जित-ज्ञान-क्रिया-सुख-भोग-साधनानां संकेत-भूतानि देवेभ्यो दीयन्ते ।

एवं फलान्यपि सङ्केतार्थ-वेदनीयानि भवन्ति। कर्म-फलात्मक: गवाश्वलाभः शश्वत् कीर्त्यते। गौः प्रकाश-लक्षणं ज्ञानं, अश्वश्च बलोपलक्षणं क्रियाशक्ति सामर्थ्य सङ्केतयतः। अन्यानि वैदिकपदानि सङ्केतार्थेषु वर्तन्ते। यज्ञः सर्वोऽपि साङ्गः सङ्केतार्थेषु ग्राह्य इत्यावेदयितुं उक्तान्युदाहरणान्यलम्। सूक्तमन्त्रस्थ-पदानां यौगिकत्वं चैतन्मतं पोषयतीत्यवधेयम् । अन्यानि कानिचित्पदानि अन्तःकरण सम्बन्धीन्येव प्रथन्ते। कर्म-परतया मन्त्राणां व्याख्याने बहुत्र बाह्य-स्थूलार्थोप-पत्तिर्दुर्घटा। अन्तरर्थे तु सर्वत्र सुतरां उपपत्तिरिति पुरस्तादन्यत्रोदाहरष्यिामः ।।

वेदसङ्केतार्थ-पक्षोपन्यासः समासेन अधियज्ञं समाप्तः । अथाधिलोकं पश्यामः । तत्र प्रथमं त्रयो लोकाः भूर्भुवस्सुवरिति व्याहृतित्रयेणाभिहिताः। भूरिति पृथ्वी भुव इत्यन्तरिक्षम्, सुव इति द्यौः स्वर्गापरपर्याया। तदूर्ध्वं मह इति चतुर्थी व्याहृति बृहद्दिवमामनन्ति । ततः परमपि जन-तपः-सत्याख्यास्तिस्रो व्याहृतीरकृतक-लोकत्रयाभिधायिनीः कीर्तयन्ति । यद्यपि वेदे सप्ततत्त्वात्मकं सत्त्वं सद्वस्तु वा, सप्ततत्त्वात्मिका ब्रह्माण्ड-व्यवस्थेति सप्तधा सत्तां चित्ति शक्ति चिच्छक्ति वा लोकान् लोकाध्यक्षान् वा सप्त-सानवः सप्त-सिन्धवः सप्त-स्वसारः सप्त-रश्मय: सप्तर्षय इत्यामनन्ति, तथाऽपि प्रथमं भूरादि-व्याहृतित्रयलक्षितं लोकत्रयं तत्सम्ब-धिनीर्देवताश्च शश्वत् कीर्तयन्ति । यतस्त्रय इमे लोकाः पृथिव्यादय एव प्राधान्य-नास्माकं सम्बन्धिनः, ऊर्ध्वलोकापेक्षया सन्निकृष्टाश्च भवन्ति। इदं च त्रैलोक्यं अपरार्धमिति व्यपदेशं भजते। अत एव नेदिष्ठं भुवोऽधिष्ठातारं अग्नि भूयस्य ऋचः स्तुवन्ति। सर्वेषामस्य त्रैलोक्यस्य देवानां राजानमिन्द्रं भूयिष्ठा ऋचः कीर्तयन्ति। एतेभ्यो लोकेभ्यो देवेभ्यश्च परस्तात् परमे परार्धे भ्राजमानः सूर्य एक एव सर्वेषां देवानां लोकानां च देवः वेदे प्रतिपादितः, यमधिगन्तुं सर्वाणि तपांसि तप्यन्ते, यज्ञाश्च इज्यन्ते। तत्तादृशं भगवन्तं सवितारं स्तुवन्त्य ऋचः स्वल्प-सङख्याका एव भवन्ति। अस्मदीय-त्रैलोक्यदेवा एव प्राधान्येन यज्ञभाग-स्वामिनो भवन्ति ॥

आर्षोऽयं त्रैलोक्य-विभागः भूमिरन्तरिक्षं द्यौरिति । इदं च बाह्यं भुवनत्रयं तत्सदृशस्य अन्तरस्य त्रिकस्य सङकेत-भूतं अवगन्तव्यम्। तत्र भूरित्ययं लोकः भौतिक इन्द्रियार्थः अन्नमयाख्यस्थूलजाग्रत्प्रज्ञाविशेषभूमेः सङकेतो भवति। बहि-र्भुवनानपेक्षस्य स्वतन्त्रतयाऽवस्थितस्य शुद्धमनस्तत्त्व-प्रधानस्य प्रज्ञा-विशेषस्य द्यौः सङ्केतो भवति। उभयोावापृथिव्योः उभयोावापृथिव्योः मध्यवर्ती उभयोरन्नमय-मनोमयप्रज्ञा-विशेषयोः सन्धि-भूतः, प्राणः प्रज्ञाभितशक्तिविशेषः भुव इत्यन्तरिक्षेण सङ्केतितो भवति। एवं अन्न-प्राणमनस्तत्त्वानां विलिसितान्येव अध्यण्डं अधिपिण्डं च भूर्भुवस्सुवरिति व्याहृतित्रय-प्रतिपादितं त्रैलोक्यं इति लोकसङ्केत-सारव्याहार इत्यलम् ॥

अथ देवानधिकृत्य, विश्वस्यां प्रकृतौ अस्मास्वन्तर्वा बहिर्ब्रह्माण्डे वा यानि शक्ति-विलसितानि सृष्ट्यादिकार्य-निर्वाहीणि लक्ष्यन्ते तानि सर्वाणि देवानां वर्तनानि भवन्ति। अर्थात् देवास्सर्गे शक्ति-विशेषा इत्युक्तं भवति। स्थूल-पक्ष इन्द्रः पर्जन्यात्मा देव:, मरुतो सूर्यस्तेजः-पिण्डमण्डलात्मा, उषः, अरुणोदय-स्वरूपिणी, अग्निरूष्म-तेजस्तत्त्वात्मको भूतेषु पञ्चसु तृतीय इति सामान्य-प्रत्ययः। अन्येषामपि देवानां स्वरूपाणि सन्दिग्धा-न्यपि क्वचित् कीर्त्यन्ते। यथा मित्रावरुणयोरहोरात्रात्मकत्वम् । अन्तरर्थ-स्वीकारे त्वेतेषां देवानां अध्यात्मवृत्तिविशेषप्रेरण-पोषण-प्रकाशनादयो व्यापारास्तत्तन्नाम-निर्वचनादवगन्तव्याः। अपि च तत्र तत्र सूक्तेषूल्लिखितानां तत्तवृत्तान्वाख्यानानां रूपकदृष्टान्तात्मकतया लाक्षणिके वर्णने परीक्षिते, तेषां यथार्थ-स्वरूपव्यापाराः स्पष्टाः स्युः। देवाः सर्वेऽपि परस्यैकस्य देवस्य नामानीति निर्विवादम्। अपि तु न ते केवलं नामानि, शक्तयो मूर्तयश्च भवन्ति परमस्य देवस्य। अग्निर्नाम जड-धियः सामान्य-जनस्य केवलं भूताग्निः, तेजस्तत्त्वात्मकं धर्म-धर्मं प्राकृतं द्रव्य स्यात् । अथवा याज्ञिकाग्निः अमानुषः पुरुषः कश्चन यजमानस्याभीष्टदायिनां एकः, यस्यानुग्रहाद् गावः, अश्वाः, प्रजाः, अन्नं, यशः, कान्ता कनकं एवमन्यानि च भोग्यानि लभ्यन्ते। अन्तर्यजन-दीक्षितस्य गूढार्थ-वेदिनस्तु अग्नेर्नामनिर्वचनानु-सारेण दीप्तिशक्त्यात्मिका देवतेति विदितं भवति। देवानां प्रथमोऽयमस्मासु प्रबुद्धः। तस्य व्यक्ति-स्वरूपं मन्त्र-वर्णेभ्योऽवगम्यते। सोऽग्रे तिष्ठन् नयत्यस्मान पुरस्तात् पुरोहितः। स दूतो देवानां येन पुरो गच्छता अध्वगामिना वयं देवान् यथास्थानमधिगच्छेम। स मुखं देवानाम् । मुखमेव प्रथमं दृश्यते अन्यानि पुनः परस्यैकस्याङ्गभूतानि देवतानि परस्तात् स्थितानि। तस्मादग्निमुखेनैव विश्वदैवत-सम्प्राप्तिर्भवति। स आस्यं भवति देवानां अस्माभिरर्यमाणं सर्वं तेन मुखेन देवाः स्वीकुर्वते। स कविक्रतुरस्मासु हृदये। साध्यवसाय-प्रज्ञारूपोऽयं हृदि स्थितोऽस्मासु स साक्षात् सर्वदैवत-प्रतिनिधिः हृद्गुहायां निहितः । यदा सुप्तोत्थितो ज्वलत्यूर्ध्व-रेताः तदा यजमानस्य कर्तव्यभार स्वयं परिगृह्य तस्य सर्वस्वं देवेभ्यो दीयमानं यथाभागं देवान् प्रापयति । इदं चावधेयम् । सर्वं अध्यण्डं अधिपिण्डं वा देवता-यत्तम्, देवता-स्वाम्यम्। अस्मासु प्रत्येकं सङ्कीर्णं च वर्तमान मनः-प्राण-अन्नाद्यास्तदवान्तर-भेदाश्चांशाः ब्रह्माण्डोपादानाः ब्रह्माण्डान्तर्भूताः ब्रह्माण्डाधि-कारिकेषु देवेष्वथीना इति स्मर्तव्यम्। तस्माद्यजमानेनार्ण्यमाणं सर्वं ज्ञान-क्रियादाक्ष्य-भोगसाधनादिकं वस्तुतो देव-स्वतयैव देवेभ्यो दीयते, यन्न कोऽप्यंशः यजमानस्य वस्तुतः स्वीयो भवति, विश्वस्यापि देवस्वत्वात्। तस्मादन्ते यजमानः स्वात्मानं एव अर्पयति। ब्राह्मणान्यपि क्वचिद्यूपं यजमानं आहुः। आलभ्यः पशुरपि यजमान-प्रत्याम्नाय इत्यामनन्ति। यजनेन सर्वाभ्यो देवताभ्य आत्मानमेव निष्क्रीणीते यजमान इत्येवमर्थानि वाक्यानि ब्राह्मणेषु द्रष्टव्यानि। तथा चाहु-रैतरेयिण: “यजमानो वै यूपः । यजमानः प्रस्तरः। अग्निर्वै देवयोनिः। सोऽग्ने-वयोन्या आहुतिभ्यः सम्भूय, हिरण्यशरीरः ऊर्ध्वः स्वर्ग लोकमेष्यति” (२-६-३)। कौषीतकिनश्चामनन्ति “अग्नीषोमयोर्वा एव आस्यमापद्यते यो दीक्षते तद्य-दुपवसथे अग्नीषोमीयं पशुमालभते आत्मनिष्क्रयणो हैवास्य तेन आत्मानं निष्क्रीया-नृणो भूत्वाऽथ यजते” (१०-३) इति। तथैव ऐतरेय-ब्राह्मणेऽपि “सर्वाभ्यो वा एष देवताभ्य आत्मानमालभते यो दीक्षते, अग्निः सर्वाः देवताः। स यदग्नीषो-मीयं पशुमालभते सर्वाभ्य एव देवताभ्यः यजमानः आत्मानं निष्क्रीणीते (२-६-३) इति पठ्यते॥

स एषोऽग्निविश्वेषां देवानां दूतो यथास्वं यज्ञभागान् गृह्णतां मुखं भवति । स यजमाने प्रथमं प्राप्त-जन्मा यज्ञे पुरोहितोऽग्रणीः, सर्वेश्वरस्य सनातन-कुमारः कामो हृच्छयः सर्वभूतानां ज्वलन्नूचं आरोहत्यारोहयति च यजमानम् । एवमिन्द्रो मित्रो वरुणः सोमोऽश्विनौ मरुत ऋभवः अन्ये च देवा यथास्थानं यथाधिकारं स्वानि कार्याणि निर्वहन्ति सवितुः परस्यैकस्य देवस्य, यस्यैतानि दैवतानि बहूनि नामानि व्यक्तान्यङ्ग-भूतानि मूर्तान्यमूर्तस्य । इह कानिचिदेषां निदर्शनार्थमुदाहरामः यदि हृदि कवि-क्रतुरस्मास्वग्निः सप्त-जिह्वः सप्त-धामाधिगामी मर्येष्वमर्त्यः सतत-गमनशील: अतिथिः अस्माद् भूधाम्नः प्रस्थाय दिवमारोहति, दिवस्पति-रिन्द्रोऽपि बृहद्बलं देवानां दिव्यमनोमयाधिराजः विद्युद्भिरवरोहन अभीष्ट-जीवनदान: पर्जन्यात्मना वर्षन् वृषा जीवन-प्रकाशावरण-प्रतिबन्धान् वृत्रादीनसुरान् निहत्य आवृतानि बन्धितानि च सत्यानि निरावरणानि निर्मुक्तानि विधाय परं सत्यं भगवन्तं सूर्यं साक्षात्कारयति ।।

सोमो रसादिदेवता अमृतस्यानन्दस्य अधिष्ठाता। सर्गे सर्वेषामपि भूतानां यः सारांशः रसः आनन्दमयः तं अमृतमादाय देवाः अमृतत्वं भजन्ते। तस्माद् अमृतान्धसां देवानां आहाराय स्वीयं सर्वज्ञान-क्रियाबल-भोगसाधनं सारांशं सोम-पद-सङ्केतितं रसं यजमानः सुनोत्यर्पयति। तच्चामृतमानन्दं सोमपद-वाच्यं अन्नं भवति देवानाम् । अन्नादस्तु सर्वदेवास्य-भूतोऽग्निरिति बोध्यम् । एवमुपपद्यते च ब्राह्मणम्- सोमो वा अन्नं अग्निरन्नाद’ इति । “अग्निः सर्वा देवताः सोमः सर्वा देवताः" इत्येवंजातीयकस्य वाक्यस्यापि तात्पर्य गूढार्थपक्षे सुगमम् । एव-मन्येऽपि देवाः। वरुणः सर्वावरणो विभुः समग्रपावनता-विधायकः पापापनोदनः मित्रः प्रेम-सौहार्दभरितया भ्राजमानया शक्त्या बाह्याभ्यन्तरानुभव-प्रेरणक्रियादि-वृत्तीनां संवादस्य निष्पादयिता, सम्मदस्य विधाता देवः । अन्यानि च तत्र तत्र यथावसरं देवानां स्वरूपाणि विचारयिष्यामः । न केवलं पुमांसो देवाः स्त्रियश्च देव्यो गीयन्ते वेदे। अग्नीन्द्र-वरुणादीनां शक्तयः अग्नायी इन्द्राणी वरुणा-नीत्यादयो देव्यः। स्वतन्त्रतया स्त्री-देवताश्च काश्चन गीयन्ते। यथा वा, अदितिः अखण्ड-स्वरूपिणी सर्वभूतप्रकृतिर्माता देवानां आद्या देवी। इळा मही सरस्वती सरमा इत्याद्याश्च लक्षणीयाः। पुंसां स्त्रीणां च देवतानामेष विशेषः अवधेयः । कार्याणां कारयितारश्चोदयितारो वा पुमांसो देवाः । कार्याणां निर्वाहिकाः स्त्रीदेवता इति सङग्रहः ।।

तदत्र अधियज्ञं अधिलोकं अधिदैवतं च सङ्केत-मर्यादावलम्बिनं वेद-गुप्तार्थसिद्धान्तं सङक्षेपेण व्याहार्म। यदिदमत्यल्पं दिङभात्रप्रदर्शनमेव भवति, तदपि न्यूनं स्याद्यदीह सारतो वा नोदाहरेम मुख्यानि वाक्यानि श्रीचरणानां वेदरहस्यार्थ-दर्शिनां इति तानि इमान्यनूदितानि भवन्ति –

अथ क इह वेदार्थ-सारांश: गुप्तार्थ-दर्शनाल्लभ्यते? उच्यते। अयं प्रथमो मुख्यश्च भवति। सत्यस्यामृतस्य ज्योतिषोऽधिगमायोद्यम एव मुख्योद्देशः, यस्यानु-रोधेनैव सर्वै वेदार्था उपलभ्यन्ते। अस्त्येकं सत्यं, तत् प्रत्यक्षभूतात् जगदात्मक-सत्यात् गहनतरं परतरम् । अस्त्येकं ज्योतिः, तच्च मानुषज्ञान-प्रकाशान्महीयो वरीयश्च असामान्याद् अमानुषाद् दर्शनश्रवण-विशेषाल्लभ्यम् । अस्ति च अमृतं, तदुद्दिश्यमानुषो जीव उद्गच्छेत् । तत्सम्प्राप्तये अध्वानं प्रविशेम, ऋतस्यामृतस्य सम्पर्क साधयेम। सत्ये नव्यं जन्म सम्प्राप्य वर्धमानाः सन्तः सत्यलोकं आत्मना अधिरुह्य तत्र जीवेम। तादृशी सिद्धरेव मर्त्यत्वादमृतत्वप्राप्तिः परदैवत-सायुज्यं च भवति ।।

अथ द्वितीयो गुप्त-वेदिनां सिद्धान्तः । अनृतस्य भूरेः सम्मिश्रणादिदं जगद् अवरं सत्यम् । अन्यदस्ति परं सत्यं ऋतस्य सदनं ’सत्यं ऋतं बृहत्’ इति मन्त्र-वर्णोपदिष्टम्। तत्र सत्यज्ञानं ’ऋतचित् इति कीर्यते। अन्ये च सन्ति लोकाः। परमो लोकस्तु सत्यज्योतिर्लोकः। अयमेव स्वराख्यः बृहद् द्यौरित्याम्नायते । तस्मादन्वेष्टव्यो बृहद्दिवः पन्था ।।

अथायं तृतीयः सिद्धान्त-सारः। लोक-यात्रायामस्माकं जीवितं देवासुरयो-युद्ध-रङ्गम्। देवाश्च सत्यस्य ज्योतिषोऽमृतस्य विभवाः, असुरास्तु तद्विरोधिनः तमसो विभवाः । इमे वृत्र-वल-पणिदस्यवः, तेषां राजानश्च भवन्ति । प्रकाशावर-काणां एतेषां अन्धकार-विभवानां विनाशाय साहाय्यं देवानां अपेक्षितव्यमस्माकम् । अन्तर्यजने मन्त्रवीर्यसम्पन्नया वाचा देवानामागमनं प्रार्थयमहि। तेभ्यः समर्पणीय-मस्मदीयं अर्पयित्वा तैः प्रतिदीयमानं सर्वं स्वीकृत्य गन्तव्यं धामाधिरोढुं शक्ताः साधिकाराः स्याम ॥

अन्ते चेदं वेदर्षीणामुत्तमं रहस्यम्। सर्वरहस्य-शिखरायमाणं ’एकं सत्’ तदेकम्’ इतीदमेवोत्तर-कालेषु औपनिषदर्षिभिर्मुख्यलक्ष्यतया विवृत्य विस्पष्ट-मुपदिष्टम् ॥

अयं गुप्तार्थ-वेदसारः भगवदरविन्दश्रीचरणैः प्रदर्शितां मन्त्रार्थविवरणपद्धति वृण्वतां उपयोगायात्र प्रतिपादितः । अयं अन? मार्गदर्शी स्यात् तेषां, ये च न पश्यन्त्युपपत्ति सायणीयवेदार्थनिर्णयप्रवचनेषु, ये वा न तृप्ति लभन्ते स्वकपोल-कल्पनासम्मिश्रपाश्चात्यपाण्डित्य-निर्णीत-वेदोक्तमन्त्रार्थ-देवतास्वरूपादि-सिद्धान्तेषु । ये पुनः सायण-साहाय्येनैव रहस्यार्थं सूक्तानां जिज्ञासन्ते, अध्यात्मदेवतादि-रहस्य-निक्षेप सङ्केत-रूपाच्छादितमधिगन्तुमध्वानं गवेषयन्ति, तेषां दिग्दर्शनाया-त्यन्तमुपयुक्तो भूयादयं सङक्षेप इति शिवम् ।।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates