ABOUT

Volume 6 : English translation of Rig Veda Samhita, Mandala I, Suktas 20 - 32 (with commentaries) by T. V. Kapali Sastry

CWTVKS Volume 6


सिद्धाञ्जनभाष्ये




अवधेयविषयांशानां सूचिका

१-३ आर्भवसूक्तार्थविवरणाय पीठिका, ऋभूणां स्वरूपम्, इन्द्राश्व-तक्षणनिष्पादनं मनुष्ये यजमाने तथा आश्विनरथतक्षणं, अमृतस्य दोग्ध्रयाः तक्षणं च

४ अखण्डप्रज्ञाया अमृतसुवो धेनोरदितेः स्वीयां वृत्ति रूपीभवन्ती मानुषे पुरुषे निष्पादयन्ति ऋभव इति संक्षेपेण प्रतिपादनम्

४ मातापित्रोः द्यावापृथिव्योः यौवनं संपादयन्ति ऋभव इत्यस्य तात्पर्यप्रतिपादनम्

५ ऋभुभिः सोमस्य सम्पादनं, तेषां इन्द्रादिभिः सङगमन-मित्यादेस्तत्त्वम्

५ देवाश्चतुर्दूहात्मके चमसे पानपात्रे सौम्यममृतरसं पिबन्ति इत्यस्याशयः, मनुष्याय चतुर्दूहात्मकसुखमयशरीरसम्पादनेन ऋभवस्तं सत्यचिन्मयधामाधिवासक्षमं व्यधुरिति प्रतिपादनम्

७ मानुष्यां सिद्धायां प्रज्ञायां सदानन्दप्रवाहान् धारयितुमृभवः प्रभवन्तीति प्रतिपाद्य तेषां देवभागपरिकल्पनदानदक्षत्वमपि वर्णितम्

९ ’प्रचेतुने पदे’ इत्यत्र विष्णोः परमं पदमेवोक्तमित्युपपादनम्, ज्वलितक्रतुभूतोऽग्निविभवः भास्वरचेतोभूत इन्द्रविभवः, उभाभ्यां सङ्गताभ्यां जागरूकाभ्यां लब्धव्यं तत्पदं नः शरणमिति ’तेन सत्येन’ इति मन्त्रस्य सारांशः प्रत्यपादि

१०-११ या वां कशा’ इत्यत्र कशा वागिति उपपादनं, कर्मठव्याख्या-निरीक्षणम्, ’न हि वामस्ति दूरके ’ अत्र तात्पर्य उपपत्तिश्च

१२ ’अपां नपातं सवितार’ मित्यत्र तात्पर्यविचारः उपपत्तिश्च

१४ भारती बृहज्ज्योतिष ऋतभा, होत्रा वख्त्री धिषणा इत्यादीनां विवरणम्

१५ ’तयोरित्’ अत्र विशिष्टा व्याख्या, ’गन्धर्वस्य ध्रुवे पदे’ अत्र, यत्र ऋतरश्मिर्दीप्तो लसति स्थिरः च तस्मिन् पदे

इति मन्त्रवर्णान्तरेणोपपादनम्

१६ ’सप्त धामभिः’ अत्र सप्ततत्त्वात्मिका विश्वसत्तेत्यादि-विवरणम्, षण्णां वैष्णवीनामृचां विषयसङग्रहः

१९ ’तद्विष्णोः परमं पदं’ अस्य भूमिकायां प्रसक्तिः स्मारिता

१९ ’तद्विप्रासः’ अत्र व्याख्यायां तदुक्तमृषिणेत्याद्यौपनिषद-वाक्यानां ईदृशा मन्त्रा बीजायन्त इति प्रतिपादनम्

२३ पृश्निश्चित्रवर्णा गौरित्युपन्यस्य मरुतः पृश्निमातर इत्यस्य तात्पर्योपपादनम्

२४ पौष्णतृचे ’आजा नष्टं यथा पशुम्’ इति दृष्टान्तविवरणेन गूढस्य सोमस्याहरणे दक्षः पूषेत्युपपादनम्

२५ ’उतो स मह्यं’ अत्र पूष्णो विभवः ‘गोभिर्यवं न चर्कषत् इति दृष्टान्तेन प्रतिपादितः, तामसवारिभिरपहृत्य रहसि

निहितं देवानामन्नं अमृतं सोममाहृत्य यजमानं पुष्णाती-त्यादिरहस्योद्घाटनम्

२७ ’अप्स्वन्तरमृतं’ अत्र सङकेतभूता आप इत्यादिकथनम् अप्सु मे सोमो अब्रवीत्’ व्याख्यायां विशेषोऽवधेयः

२८ ’आपः पृणीत’ निरन्तरं सूर्यदर्शनाय बलप्रदं भेषजं न लौकिक भवति, दिव्यवैभवं आप्यं भेषजमिति प्रतिपादनम्

२९ आप्यसारतादात्म्यानुभवसम्पन्न ऋषिरिति’ आपो अद्य’ इत्यस्य व्याख्यायां प्रतिपादितम्

३० ’सं माग्ने वर्चसा’ इत्यस्य विवृतौ ’ऋषयो मानुष्यस्योद्धारा-येन्द्रस्य सहकारिणः मनुष्या एव, देवभावं प्राप्ताः मानुष्याभि-मानिनो देवर्षयो वा’ इत्यादि प्रतिपादितम्

३१ ऋषिः शुनःशेपः पाशबद्धमात्मानमवबुद्धय विमोचनाय कं देवं आह्वयामि इत्यारभते, अत्र अदितेविश्वमातुर्लाभस्य

रहस्यं विवृतम्

३२ ’भागं ईमहे’ अत्र मन्त्रवर्णान्तरैः संगतिरुक्ता

३४ ’अबुध्ने राजा वरुणः’ अत्र गूढार्थवैशिष्ट्यमवधेयम्

३४ वनस्तूपः’ चिन्मयो भवति यस्मात् केतवः प्रसरन्ति, ’स्तूपः सङघातः’ इत्यादौ रहस्यानि विवियन्ते

३५ वरुणः सूर्यायाध्वानं करोती’ त्यत्रोपपादनम्

३५ ’हृदयाविधश्चित्’ अस्य विवरणे वरुणस्य कृत्यं प्रदर्शितम्

३६ निर्ऋतिः समष्टिगता जगद्व्यापारवर्तिनी मृत्युदेवता सर्वपापमूलभूतेत्यादि प्रतिपादितम्

३६ यद्यप्यध्यात्मं देवानां कर्माण्यव ऋषीणां प्राधान्येन लक्ष्याणि भवन्ति, तथापि जगद्व्यापारे देवानामधिकारोऽविचाल्य इत्यादिनिरूपणम्

३८ ’तदिन्नक्तं’ अचि ‘तदयं केतो हृद आ विचष्टे’ इत्यस्या-त्यन्तप्राधान्यमाविष्कृतम्

३८ ’शुनःशेपो ह्यह्वत्’ अस्य व्याख्यायां ‘त्रिषु द्रुपदेषु’ इत्यत्र रहस्यार्थविवरणम्

४० सूक्तस्यान्ते, पाशबन्धविमोचनविषये उपनिषदुपदिष्टग्रन्थि-भेदरहस्यं तान्त्रिकयोगमार्गोपदिष्टग्रन्थिबन्धनयभेदतात्पर्य च सामान्येन निर्दिष्ट

४०-४४ विप्रमोक्षोऽत्र वरुणदेवानुग्रहसाध्यो भवतीत्युक्तम्, टिप्पण्यां शुनःशेपशब्दार्थप्रतिपादनम्, ऐतरेयब्राह्मणोक्तशुनः- शेपकथाविस्तरः, तत्र सायणभाष्यपङक्तीरुदाहृत्य नरवधकथाया दूषणम्, पुरुषमेधस्य तत्त्वम्, उव्वटभाष्यनिरीक्षा, अतिष्ठा-कामशब्दनिर्वचनम्, अतिष्ठाकामस्य पुरुषमेधाधिकार इत्यादिबहुरहस्यविवरणम्

४४ ’परा हि मे वि मन्यवः’ इत्यत्र धीवृत्तीनां उत्पतनमधिकृत्य प्रसङगः

४५ ’तदित् समानं’ अत्र तच्छब्दवाच्यं ऋतं ज्योतिरित्युपपादनम्, टिप्पण्यां ’वेनन्ता मित्रावरुणा’ वित्युपपपादनम्

४६ ’वेदा यो वीनां पदं’ अत्र व्याख्यावैशिष्ट्यम्

४६ ’वेद मासो धृतव्रतः’ इत्यत्र सारांशकथनम्

४९ ’परि स्पशो निषेदिरे’ अत्र हिरण्मयपात्राच्छादितं सत्यं ज्ञापयितुं निषण्णा: ’स्पशाः’ प्रणिधय इव ज्ञापकाः रश्मयो दिव्या विभूतयो वेति विवरणम्

५० ’उत यो मानुषेष्वा’ अस्या ऋचस्तात्पर्यविचारः

५२ उदुत्तमं मुमुग्धि’ अत्र ‘जीवसे ’ जीवनाय पाशत्रय-विमोचनप्रार्थना

५४ ’आ नो बीं’ अत्र अन्तर्यागे मनुष्या इव देवाः प्रत्यक्षीभूय व्यवहारयोग्या इति तात्पर्यनिर्देशः

५६ अग्नियुक्तानां देवानामनुग्रहादेव अग्नि स्तोतुं ध्यातुं ज्ञातुं वा प्रभवन्ति मनुष्या इति ’स्वग्नयो हि वार्य’ इति ऋचस्तात्पर्य सूचनम्

५७ ’वारवन्तम्’ इत्यत्र विशेषणस्य प्रयोजनम्

५९-६० ’सिन्धोरूर्मा उपाक आ’ अस्य दृष्टान्तस्य तात्पर्योपपादनम्

६१ ’जराबोध’ अन मन्त्रार्थे विचार:

६२ ’धूमकेतुः’ निर्वचनम्, बलवेगभावस्पन्दनेनाग्निञ्जयत इति भावाविष्कारः

६३ नमो महद्भ्य इति मन्त्रे नमस्करण-यजन-शंसनानां आराध्यभेदेनोपपादनम्

६३-६४ यत्र ग्रावेति सूक्ते यज्ञसाधनाभिधायकाः उलूखलाधिषवणीयादयः प्रयुक्ताः, अन परीक्षा सूक्ष्मशः, प्रथमर्चस्तात्पर्ये बाह्यपक्षानुसारेणैव उपपादनम्

६४ ’द्वाविव जघना’ इत्यत्र विवक्षाप्रदर्शनम्

६५ उपच्यव-अपच्यवशब्दार्थः

६६ मन्थां’ इत्यत्र सामान्यार्थः

६९-७३ सूक्तों प्रत्येकं गूढार्थानुसारेण तात्पर्यकथनम्, टिप्पण्यां इदमञ्जःसवसूक्तं ऐतरेयब्राह्मणे समुपन्यस्तमिति तत्रस्थशुनः-शेपकथाप्रसक्तिः, परोक्षवचनानां सूक्तस्थानां विशदीकरणम्, तैत्तिरीयवाजसनेयादिश्रुतिवाक्योदाहरणेन सोमाभिषवादीनां रहस्योद्घाटनम्

७४-७६ ’यच्चिद्धि सोमपा’ इति ’मिथूदृशा’ ’गर्दभ’-’कृकदाश्वादि-परोक्षवचनानां अर्थाविष्कारः

७९ इन्द्रः अनायासेन सोमं स्वीकतुं गच्छतीत्यत्र दृष्टान्तस्वारस्यम् तथा ’समुद्रो न व्यचो दधे’ इत्यस्य भावविवरणम्

८० इन्द्रो यजमाने रमते अत्र ’कपोत इव गर्भधिम्’ इति दृष्टान्तस्य विवरणम्

८१ ऊर्ध्वस्तिष्ठ’ अत्र देवैः सह ऋषीणामन्तरङगव्यवहारो लक्षितः

८४ ’रेवतीः’ इत्यत्र व्याख्यातॄणां विप्रतिपत्तिः, तत्र निर्णयः

८५ ’ऋणोरक्षन्न चक्रयोः’ अस्य विवरणे विचारः

८६ ऋणोरक्षन्न शचीभिः’ दृष्टान्तेन विवक्षा प्रदर्शिता, ’शश्वदिन्द्र’ इति ऋचस्तात्पर्ये ज्योतिर्मयेन रथेन दिव्यं धाम गच्छन्ति देवकामा ऋषय इति प्रतिपादनम्

८८ ’न्यघ्न्यस्य मूर्धनि’ अत्र विशिष्टं तात्पर्योपपादनम्

८९ ’कस्त उषः कध प्रिये’ अत्र साधारण उषःकालो नाभिप्रेत इत्युपपादनम्, अन्यथा गृहीतश्चेत् असामञ्जस्यप्रदर्शनम्, ’वयं हि ते अमन्महि’ अत्र तात्पर्योपपत्तिरवधेया

९०-९१ ’विद्मनापसः भ्राजदृष्टयः’ मरुतः अग्नेरजायन्तेति कथनम्, अङगिरस्तमः द्विमाता इत्यादीनां निर्वचनं तात्पर्य च

९३ पुरूरवःशब्दार्थः

९४ बहुधा जीवन्नग्निरेकायुरिति प्रतिपादनम्

९६ ’उभयाय जन्मने’ अत्र विवरणम्

९७ ’त्वं नो अग्ने’ अत्र ’पित्रोरुपस्थे’ अस्य तात्पर्योपपादनम्, ’त्वमग्ने प्रमतिः’ अत्र ‘वयमुपासकास्तव बन्धवः’ इति अग्नि प्रति ऋषेरुक्तिरवधेया

९९ आयु-नहुष-मनुष्यशब्दानां वैशिष्ट्यप्रतिपादनम्, इळायाः प्रसक्तिः, सा पश्यन्ती वागिति प्रतिपादनम् ’त्वं नो अग्न’ अत्र ‘गवां तोकस्य तनय अनिमेषं रक्षमाणः’ इत्यस्य व्याख्यायां विचारः

१०० चतुरक्षः अग्निः कथमिति विचारः

१०२ जीवयाजम्’ इत्यादिप्रयोगस्य स्वरसताकथनम्

१०३ ’मानां ऋषिकृत ’ अत्र वैशिष्ट्यमवधेयम्, ’ मनुष्वत् ’ ’अङगिरस्वत्’ ’ययातिवत्’ अत्र विवरणम्, नाम्नां निर्वचनानि

१०४ ’एतेनाग्ने’ अस्यास्तात्पर्ये ’स्तूयमाना देवताः स्तोतरि वर्धन्ते’ इति प्रतिपादनम्

१०५ ’इन्द्रस्य नु वीर्याणि प्रवोच’ इति सूक्तारम्भः, अत्र ऋचां पदार्थदानं स्थूलरीत्या कृतम्, अन्ते गूढार्थविवरणं प्रतिज्ञातम्

१०६ वाश्रा इव धेनवः’ दृष्टान्तस्य प्रयोजनम्

१०७ ’त्रिकद्रुकेषु’ ज्योतिः-गौरायुरिति गूढार्थस्य द्वारं प्रदर्शितम्

११३ वृत्रहत्या गोलाभः सोमप्राप्तिः सप्तसिन्धुविमोचनमित्येतेषां सम्बन्धमधिकृत्व उत्तरत्र पश्याम इत्युक्तम्

११४ ’अहेर्यातारं’ अस्यामृचि व्याख्यायां सन्देहोत्थापनं समाधानं च

११५ ’इन्द्रो यातः’ अत्र ‘शमस्य’ ’शृङगिणः’ इत्यादेः वैशिष्ट्यम्, अथ हिरण्यस्तूपस्य सूक्तद्वयं रहस्यार्थानुसारेण तात्पर्यवत् क्रियते, तत्र प्रथमं अङगिरोविचारः

११५- सर्वथा आङगिरसं तत्त्वं अग्निवैभवसंबन्धीत्युपपादनम्,

११६ अङगिरसो देवाः मनुष्या ऋषयश्चेत्यत्र विचारः

११६- अङगिरसां सप्त-सङ्खचया कीर्तनेऽपि बृहस्पतिरूपेणैषा-

११८ मेकरूपत्वप्रतिपादनम्, अथ वृत्रकथा, आङगिरसकथाया गवां विमोचनं मुख्यो विषयः, वृत्रकथायास्तु अपां विमोचन-मित्यादीनां रहस्यविवरणम्

११९ दिव्यज्ञानरश्मिद्योतकगोलिप्सून् सखीन् प्रति ऋषेरुक्तिः पर्वतगुहाशब्दबोधिते जडगते तमसि निक्षिप्तानां गवां लाभाय परं ज्ञानमावश्यकमिति

१२० तेजोबलाद्यपहारिणां असुराणां प्रसक्तिः

१२१ ‘वधीहि दस्युं’ अत्र वृत्रो धनीत्युक्तेः तात्पर्यविचारः

१२३ नवग्वाः दशग्वाः इति अङ्गिरसां भेदस्य विवरणम्

१२५ ’परि यदिन्द्र’ अत्र सायणीयतात्पर्यस्यानुपपत्तिर्दर्शिता

१२६ न ये दिवः’ अत्र व्याख्या विशिष्टा, ‘गाव एव आपः’ इति सायणोक्तं विचित्रम्

१२७ ’नाव्यानां’ अस्य अपां विशेषणस्य प्रयोजनम्

१२८ इलीबिश-शुष्णौ वृतान्नान्याविति सायणीयम्, तत्र नाङगीकारः

१२९ कुत्स-दशद्युः-श्वैत्रे याणां प्रसक्तिः, तन्नाम्नां निर्वचनम्

१३० ’आवः शम’ अस्य व्याख्या विशेषतो मुख्या

१३१ तुग्रया’शब्दार्थविचारः, सायणोक्तेनिरीक्षणम्

१३१ हिरण्यस्तूपस्य ऐन्द्रसूक्तद्वयस्य रहस्यार्थविचारः, पर्वतः, आपः,

१३२ समुद्रः, गावः, उषः, सूर्यः, वृत्रवलपणयः--एवमादीनां बहिः- सङकेतरूपाणां अन्तगूढार्थानां विवरणम्

१३३-१३५ प्रत्यूचं इन्द्रसूक्तस्य तात्पर्यप्रतिपादनम्

१३५ ’नवेदसा’शब्दनिर्वचने कष्टं निर्दिष्टम्, ’नवेदाः ज्ञाता’ इति कथनम्

१३६ ’हिम्येव वाससः’ अत्र नव्यानामेकेषां आशयः, तत्र अयुक्तिप्रदर्शनम्

१३७ ’त्रयः पवयः’ ऋचो व्याख्यायां अविद्याच्छन्ना तमोव्याप्ता रात्रिः अधस्तनत्रैलोक्यावस्थानं लक्षयतीत्यादिविवरणम्

१३८ ’विरद्य यज्ञ’ मित्यत्र देहत्रयापेक्षयेति कथनम्

१४० अश्विनो र्या सूर्या तद्रथमारोहतीति प्रसिद्धः स्मरणम्

१४१ ’शंयुः’ ऐतिहासिकः, रहस्यार्थे, तोकतनयादिशब्दानां च तात्पर्यम्, त्रिधातुशब्दार्थविचारः, ’त्रिों अश्विना’ अत्र प्रार्थनासारांशकथनम्

१४३ ’त्रिरश्विना सिन्धुभिः’ अत्र सप्ततत्त्वात्मकचित्तेजोवाहिनी-भिरित्यारभ्य तद्रक्ष्यतामित्यन्तं सूक्ष्म तत्त्वं प्रतिपादितम्

१४५ आ नासत्या’ अत्र एकादश देवाः प्रस्तुताः के त इति विचारे मतभेदकथनम्

१४७ ’आ कृष्णेन रजसा’ अत्र मर्त्यस्य कार्यं यजनं अमृतस्य देवजातस्य कार्यं तु मोपकारकत्वमित्याद्युपपादनम्

१४९ ’वि जनान्’ अस्या ऋचस्तात्पर्य ये न लब्धप्रकाशाः तेषां असूर्या नाम ते लोका इति प्रतिपादनम्

१५० ’तिस्रो द्यावः’ ऋचि व्याख्याभेदः, यमस्य भुवने’ इत्यत्र विशेषतो विचारोऽवधातव्यः

१५१ ’वि सुपर्णः’ अत्र दिव्यं रहस्यं दुर्जेयं मनुष्यस्येति तात्पर्यकथनम्

१५२ ’अष्टौ व्यख्यत्’ अस्यां सायणव्याख्या अयुक्ता नाङगीकृता, तात्पर्य उपपादितम्

१५४ यातुधानशब्दनिर्वचनम्

१५९ ’तं घेमित्था’ स्तोतुर्वाग्भिः हृदयस्थोऽग्निर्वलत इति प्रतिपादनम्, अन्तर्यागे ‘सप्त होत्राः’ इत्यादेः रहस्यस्मरणम्,

’घ्नन्तो वृत्रं’ अत्र अग्निरश्व इति कथनस्योपपत्तिः, अत्र अवधेया व्याख्या

१६३ ’ऊर्ध्व ऊ षु णः’ अत्र व्याख्याने वैशिष्ट्यमवधेयम्, यूपस्थो-ऽग्निरिति याज्ञिकाः, यजमानशरीरस्थोऽग्निरिति प्रतिपादितम्

१६६ ’अग्निना तुर्वशं’ तुर्वशादिनाम्नां निर्वचनम्, नववास्त्व-

१६७ बृहद्रथ-तुर्वीतयो व्याख्याताः

१७० मरुद्गणतत्त्वग्रहणेन पृषत्यादीनां लाक्षणिकत्वं सुगम-मित्यारभ्य ’अञ्जिभिर्वाशीभिः साकं मरुतः ऋषेरन्तर्याग-प्रवृत्तस्यार्थे प्रादुर्भवन्ती’ त्युपपादितम्

१७० ’इहेव शृण्वे’ अत्र तात्पर्योपपत्तिः

१७१ ’प्र शंसा’ अत्र ऋचस्तात्पर्ये, अन्तर्यजने मरुद्गणस्य प्रादुर्भावात्परं तस्य सोमरसेन वृद्धिर्भवतीत्युपपादनम्

१७४ ’स्थिरं हि जानं’ अत्र व्याख्यायां सङकेतरहस्यानुसारेण मरुतः प्राणात्मकाः धीवृत्तिरूपतां प्राप्ता इत्यादिविवरणम्

१७६ ’यद्ध यान्ति’ अत्र मरुतां शब्दः न सर्वेषां श्रवणगोचरः, अन्तर्याजिनः कस्यचिदेवेत्युपपादनम्

१७८ क्व नूनं कद्वो’ अत्र तात्पर्योपपत्तिः

१८० मरुतां मानवे जन्मलाभः स्मारितः, मा वो मृगो न यवसे’ तात्पर्य अवधेयम्, सायणोऽन्यथा व्याचष्टे, ‘मो षु णः’ पूर्वयर्चा सङगतिर्जापिता, निर्ऋतिः पापदेवता मायात्मिका वेत्यादि व्याख्यायां प्रतिपादितम्

१८१ ’वाशेव विद्युत् ’ अत्र अन्तर्यागे चलति, दशाविशेषेषु मध्यमस्थाने ज्योतिर्दर्शनमित्यादि प्रोक्तम्

१८२ ’दिवा चित्तमः’ अत्र अन्तर्याग सत्यपि नित्य ज्योतिविलासे रसवर्षातिरेकात् क्वचित् विश्वं तमोवृतमिव भवतीत्यादि रहस्यमुक्तम्

१८३ अध स्वनात्’ अत्र सर्वं सद्म सर्वयजमानशरीरमित्यादि प्रोक्तम्

१८३ ’मरुतो वीळपाणिभिः’ अत्र कूलस्थानीयं शरीरं, नद्यः शक्तिधारावाहिन्य: प्राणस्थाना इति रहस्यं विवृतम्

१८४ अच्छा वदा’ अत्र ‘अग्नि होतृवाग्विशिष्टोऽपि सर्वस्याश्च

१८५ वाचो देवता’ इत्यादिकं, स ब्रह्मणस्पतिश्च भवतीति चोक्तम्

१८५ ’मिमीहि’ अत्र वाचा स्तोत्रोच्चारणस्य वैभवं देवताप्रीणनं भवतीत्युक्तम्

१८६ ’प्र यदित्था’ अत्र मरुतः पुण्यपुरुषं आविश्यानुगृह्णन्तीति तात्पर्योपपादनम्, ‘मानम्’ इत्यत्र विविधमाचक्षते चिन्तका इत्यादिपरीक्षणम्

१८७ ’स्थिरा वः सन्तु’ मारुतबलेनैव जयः संपाद्यत इत्युपपादनम्

१८८ ’परा ह यत्’ अत्र अन्नमयायूर्ध्वकक्ष्याः मरुद्भिः प्रवेश्या इति प्रतिपादनम्

१९० ’उपो रथेषु’ अत्र पृषतीनां त्रित्वं प्रति जिज्ञासा निर्णयश्चोक्तौ

१९१ ’युष्मेषितः’ अत्र अन्यव्याख्याया वैरस्यप्रदर्शनं अस्मत्तात्पर्योप-पत्तिश्च

१९३ ब्रह्मणस्पतिस्वरूपविचारः, ब्रह्मणस्पतिः बृहस्पतिः ब्रह्मा इति

१९४ त्रीणि नामानि एकां देवतां निर्दिशन्तीत्युपक्रम्य तत्र त्रयस्य वैशिष्ट्यं विचारितम्, त्रयाणां पृथक् अवस्थाभेदेन गुणभेदप्रतिपादनम्

१९५ प्राशूः’ शब्दार्थविचारे सायणमहीधरोव्वटानामुल्लेखनम्, अस्मदीयार्थोपपादनम्

१९७ ’यो वाघते’ अत्र यजमाने ब्रह्मणस्पतिरुत्थितः सन् तस्मै मन्त्रवाचमुच्चारयतीत्याधुपपादनम्

१९८ ’प्र नूनम्’ ब्रह्मणस्पतिना मन्त्रे उदीरिते देवाः पुरुषे स्वीयाधारस्थानानि कृत्वा तमनुग्रहीतुं प्रसन्ना भवन्तीति भाव आविष्कृतः, ’तमिद् वोचेम’ अत्र ‘इमां वाचं प्रतिहर्यथ’ व्याख्याऽवधेया

१९९ ’को देवयन्तं’ व्याख्यायां सूक्ष्मोऽर्थः सायणीयाद्भिद्यते

२०३ ’स’ रत्नं’ अत्र आदित्यानुग्रहपात्रभूतो यजमानः स्वप्रभावा-द्विस्तृतो भूत्वा स्वं तेजोऽन्यत्र सङक्रमय्य स्वसदृशं सृजतीति प्रतिपादितम्

२०४ ’कथा राधाम’ किं प्सरो रूपं उत भक्षणमिहेति विचारः, ’मा वो घ्नन्तं’ तात्पर्यमवधेयम्

२०५ ’चतुरश्चित्’ इत्यनया अर्थसङ्गतिः, मित्रादिदेवताचतुष्टयं व्यूहात्मकं वेदे प्रसिद्धमित्युपपादनम्

२०६ पूषा विचार्यते, पूषा पतिः पृथिव्याः, पूर्वज उषसः, भ्रातेन्द्रस्य, यजमानस्य पथस्पतिः, यजमानगवेषणपरायणः, यजनोद्यमप्रचोदनपर-श्चेत्यादिपूषगुणोपपादनम्

२०८ ’यो नः पूषन् ’ अत्र यागयात्रायां मार्गे बाधकं पापवर्ग अपसारयति पूषा

२१२ कद्रुद्राय’ अत्र — हृदयस्यार्थे सुखकरं, हृदयनिष्ठाय हृदयभूताय रुद्रायेति वा’ पङक्तिरवधेया

२१३ ’यथा नो मित्रो वरुणः’ अत्र मित्रादीनामस्मद्विषयकं ज्ञानं अनुग्रहार्थकं ज्ञेयमिति विवरणम्

२१४ ’गाथपति’ जलाषभेषजं-रुद्रसंबन्धि औषधं अलौकिक सुखरूपम्

२१७ रुद्रस्य तत्त्वमधिकृत्य सविस्तरविचारः, अन्ते मृत्युञ्जयरुद्र-

२१९ मन्त्रार्थचिन्तनम्, तत्रोपनिषद्वाक्यस्य मूलं प्रदर्शितम्

२२३ ’सुशंसो बोधि’ प्रस्कण्वस्यायुर्देवतार्थमेव विहितमिति प्रतिपादितम्

२२६ अग्ने पूर्वा’ महत ऋतस्य ज्योतिषः प्रादुर्भावात् पूर्वं बह्वय उषसो भवन्तीति स्मारितम्

२२९ ’त्वमग्ने’ न केवलं वस्वादीन् देवान् यज, अभ्यञ्जन्तं मानुषं जनमपीति अग्नेः प्रार्थनायां तादृशस्य मनुजन्मनः देवतुल्यत्वं देवार्थजीवित्वं च विवक्षिते इति प्रदर्शितम्

२३३ ’आ त्वा विप्राः’ अन्तर्यजनरहस्यविदो विप्राः सिद्धाः मानामुपकारिण इति दर्शितम्

२३५ तिरोअल्य-शब्दार्थः, अन्तर्यजने तात्पर्योपपादनम्

२३६ ’वच्यन्ते वां’ स्तुत्ये धुलोके यदा अश्विनोः रथो गच्छति तदा अश्विनोरुत्कर्षाः स्पष्टाः लक्ष्यन्त इत्याद्युपपादनम्

२३७ हविषा जारो’ अत्र ‘कुटस्य चर्षणिः’ गृहस्य द्रष्टा पालको-ऽग्निरिति प्रतिपादनम्

२३८ या नः पीपरत्’ ’तमस्तिरः’ इत्यत्र सायणीयार्थस्यानादरः कार्य इति युक्तिः प्रदर्शिता

२४० ’दिवस्कण्वासः’ अत्र ’हे अश्विनौ, युवां किं वसुस्थाने समुद्रे, उत सोमजन्मस्थान दिवि स्वीयं रूपं शरीरं आविष्कृत्य प्रति-ष्ठापयथः’ इति प्रश्न ऋषिणा कृतः, अस्य विवक्षा तात्पर्ये प्रदर्शिता, ’कण्वासः’ इति अश्विनोरेव संबोधनमिति सूचनेन सायणीयक्लेशस्य क्षतिरित्युपपादितम्

२४३ युवोरुषा’ अत्र कथं ऋतवननं रात्रिभिर्भवतीति प्रश्नस्य समाधानम्

२४६ ’त्रिषधस्थ’शब्दार्थविचारः

२४८ ’सुदासे’ अत्र समुद्रात् सत्त्वसमृद्धादखण्डमूलस्थानादित्या-द्यवधेयम्, ’यन्नासत्या’ अत्र ‘अधि तुर्वशे’ इत्यत्र विशिष्य विचारः, स वीरः पुरुषः यो देवभावकामः यज्वा अदैव्यान् अरीन् हिंसित्वा जयति, देवप्रियश्च भवतीत्यादि प्रतिपादितम्

२५१ ’अश्वावतीर्गोमतीः’ अत्र राधसो लक्षणमधिकृत्योक्तम्

२५२ ’उवासोषा’ ’समुद्रे न श्रवस्यवः’ दृष्टान्तस्योपपत्तिर्विचारिता

२५३ उषो ये ते’ अत्र सूक्ष्मोऽर्थः, स्थूलश्च निर्दिष्टः

२५४ ’आ घा योषेव’ अत्र लोकान्तरगतिरत्रस्थस्यैव देहिनः सिध्यतीति रहस्योक्तिः, बाह्योऽर्थश्च दत्तः

२५४ ’वि या सृजति’ वयः ज्ञानांशव ऊवं गच्छन्तीत्यादि-प्रतिपादनम्

२५६ ’विश्वमस्या’ सूनरी, ज्योतिः कृणोतीत्यादीनां विशिष्टं विवरणम्

२५८ ’विश्वान् देवान्’ अश्वावत् गोमत् सुवीर्यं वाजमित्यादीनां विवरणम्

२६० उषो यदद्य’ अन्तर्यजन स्वर्लोकस्य बहिरिं अन्तरिमिति द्वारद्वयमुषसोद्घाटितं भवतीति प्रतिपादनम्

२६२ ’उषो भद्रेभिः’ अन्तर्याजिनः यज्ञगृहभूतं शरीरं इत्यादिनिर्देशः

२६३ ’वयश्चित्ते’ रहस्यपक्षे द्विपत्-चतुष्पच्छब्दार्थः प्रत्यपादि

२६५ उदु त्यं’ अत्र ‘सर्वेषां देवानामादिरन्तश्च सूर्यात्मना प्रतीकेने’- त्युपक्रम्य ’अत एव वैदिकयोगनिष्ठाबाह्या मुह्यन्ति साधारणसूर्योदयादिवर्णनमात्रपरा मन्त्रा इति’ प्रतिपादनम्

२६६ ’तरणिविश्व’ अत्रोपनिषद्वाक्यानां बीजं द्रष्टव्यमिति सूचनम्

२६७ येना पावक’ अत्र वरुणस्य पावकेति संबोधनं न लक्षितं सायणीये, ततः उत्तरर्चा संबन्धोऽपि नावेक्षितः

२६८ ’वि द्यामेषि’ बह्वयः अन्तःप्रकाशदशाः अन्तर्याजिन इति स्मारितम्

२६९ ’उद्वयं’ अत्र प्रतिपादितः सूर्यो न लौकिक इति सायण-व्याख्याबलेनैव निरूपितं भूमिकायाम्, नव्या अपि अलौकिक: सूर्योऽयमित्यनुगृह्णन्तीति विवरणम्

२७० ’उद्यन्नद्य’ बाह्यशरीरस्यापि काचन सिद्धिरावश्यकीति मन्त्रद्रष्टणां मतमित्यादि प्रदर्शितम्

२७१ ’शुकेषु मे हरिमाणं’ व्याख्याऽवधेया, ’उदगादयं ’ ’भगवानेव मह्यं कर्तव्यं करोतु द्विषद्विषये’ इत्युपपादनम्

२७२ ’अभि त्यं मेषं’ अत्र मेषशब्दार्थो विचारितः

२७३ ’अभीमवन्वन् ’ अत्र ऋभवो मरुत इति सायणीयोक्तिर्न युक्तेति दर्शितम्

२७४ अत्रि-विमद-गोत्रादयो निरुक्ताः रहस्यार्थं प्रतिपादयन्ति

२७६ त्वं मायाभिः’ व्याख्या विशिष्टा, पिप्रुः ऋजिश्वा च निरुक्तौ व्याख्यातौ

२७७ ’त्वं कुत्सं’ अतिथिग्वो व्याख्यातः, कुत्सशुष्णादयः निरुक्ताः स्मारिताः

२७९ अनुव्रताय’ अत्र वम्रः स्तोत्रोद्गारशीलः, तात्पर्यविचारे सायणीयं परीक्षितम्

२८१ ’मन्दिष्ट’ अत्र तात्पर्योपपादनं अवधेयम्

२८२ ’आ स्मा रथं’ शर्यातिप्रसङगः

२८३ ’अददा अर्भा’ तात्पर्योपपादनाय बहवो विषया उपन्यस्ताः, ’वृचया ’शब्दार्थविचारः, धर्मार्थं पत्नीति संप्रदायस्य मूलं प्रदर्शितम्

२८४ ’इन्द्रो अश्रायि’ इन्द्रो भगवानेव यजमानाय विविधानि धनानि संपादयतीत्युपपादनम्, ’दुर्यो यूपो न’ दृष्टान्तस्य विवरणम्

२८७ ’स पर्वतो न’ इन्द्रः वृत्रवधात्परं तेजोबलादिषु शक्तिषु मध्ये स्वयं अचलतयाऽवस्थित इति विवरणम्, ‘स हि द्वर :’ स्वयं रसभरितः अस्मानपि रसेन पूरयितुंप्रभुरिन्द्र इति प्रतिपादनम्

२८९ ’अभि स्ववृष्टि’ अपां पुत्रः आप्त्यः त्रितः त्रिवृत्कृतस्य जगतः जडीभूतांशे गुप्तां शक्ति उद्धर्तुं तत्रावतीर्ण इत्यादि- विवरणेन ‘परिधीनिव त्रितः’ इति दृष्टान्तो व्याख्यातः

२९२ ’जघन्वान् उ’ अत्र अन्वयोऽवधेयः, तथा सायणीयस्य च

२९४ ’ यदिन्न्विन्द्र’ ’पृथिवी दशभुजिः’ इत्यादीनां विवक्षा तात्पर्ये प्रतिपादिता

२९५ ’त्वं भुवः प्रतिमानं ’ ’ऋष्ववीरस्य’ अस्य विवरणभेदोऽवधेयः

२६८ ’न्यू षु वाचं’ अत्र ससतामिवेति दृष्टान्तस्योपपादनम्

३०० ’एभिर्युभिः’ यजमानकृतदानं इन्द्रस्य प्रतिदानमधिकृत्योक्तम्

३०१ समिन्द्र राया’ ’वीरशुष्मया गोअग्रया अश्वावत्या तात्पर्योपपादनम्, विचित्रं सायणीयं चावेक्षितम्

३०४ ’युधा युधं’ नमु चिशब्दार्थः

३०४ त्वमेतान् जनराज्ञः’ वेदे वृत्तान्तान्वाख्यानस्य रहस्यार्थो लक्षणीय इत्युक्त्वा सुश्रवःशब्दार्थं प्रतिपाद्य ऋचस्तात्प-र्योपपादनम्

३०६ ’य उदृचीन्द्र’ अन्तर्यागावसाने तत्परमपि देवरक्षिताः देवसखाः कल्याणतमाश्च सन्तो वयं तव भजकाः स्यामेति ऋषेरुक्तिः प्रतिपादिता

३०७ मा नो अस्मिन् ’ एवजातीयको वेदमन्त्रः ‘भीषास्माद्वातः पवते’ इत्याद्युपनिषद्वाक्यानां मूलमिति प्रतिपादनम्

३१० ’नि यत् वृणक्षि’ प्राणवायोरूर्ध्वमूलस्थाने रसावर्जनेन दिव्यभोगक्रियादिशक्तिसंपन्नो भवति प्राणवान् यजमानलोकः, तथा शुष्णस्यावर्जनात् स शुष्णत्वमेवोज्झतीत्यादिविवरणम्

३१२ स घा राजा’ इन्द्रशासनानुष्ठानफलं इन्द्रस्तुतिफलं चोक्ते, उपराशब्दार्थे विशेषोऽवधेयः

३१२ ’असम क्षत्रं’ ’नेमे ये ते’ इत्यत्र सायणोक्तिः, अस्मदर्थोपपत्तिश्च

३१३ ’तुभ्येदेते’ अद्रिः चमूषदः इत्यादेविवरणम्

३१४ ’अपामतिष्ठत् ’ अपां सङकेतरूपत्वानभ्युपगमे तात्पर्यानुप-पत्तिरित्यादि प्रतिपादितम्

३१६ ’सो अर्णवः’ अपां परिग्रहीता अपां राशिरिवेन्द्रस्ताः शक्तीवर्षति यजमानाय सोमकाम इत्युपपादनम्, ’ओजसा पनस्यते’ बलेन महत्कर्म कर्तुमिच्छतीति विवृतम्, पनधातोरर्थे विचारः

३१८ ’स इद्वने’ नैष्ठिकानामन्तर्यागपराणां पूर्वेषां देवताभिः सह रहसि व्यवहार इत्याद्युपपादनम्, यदा इन्द्र एव वाचं स्तुतिलक्षणां प्रेरयति तदा स प्रीणयिता भवतीत्युपपादने सायणीयार्थस्य निरीक्षणम्

३१९ ’ स इन्महानि’ ’श्रदस्मै धत्त स जनास इन्द्र’ इति मन्त्रान्तरो-दाहरणपूर्वकं श्रद्धारहस्योपपादनम्

३२० ‘स हि श्रवस्युः’ अवृकाणीत्यत्र विशिष्टोऽर्थः

३२२ ’अप्रक्षितं’ ’आवृतासो अवतासो न’ इति दृष्टान्तस्य प्रयोजनम्

३२३ ’एष प्र पूर्वीः’ इन्द्रः स्वस्थानादवतीर्य यजमानस्वभूतान्न-मयादिशरीरेषु चमसपदवेदनीयेषु अवस्थितः ’इषः प्रेरणाशक्तीरूध्वं नयतीत्यादिविवरणम्, चम्रिषः’ अस्य व्युत्पादन ’सोमलक्षणा इषः अन्नानी ’ति बाह्यार्थोपपत्तिर्दशिता

३२४ ’तं गूर्तयः’ इन्द्रपदप्राप्तिः पर्वताधिरोहेणोपमितेत्यादि- विवरणम्

३२५ ’देवी यदि’ ’अर्हरिष्वणिः’ अस्य निर्वचनं अर्थश्च

३२७ ’त्वं दिवो धरुणं’ ’पृथिव्याः सदनेषु’ तात्पर्यकथनम्

३२८ ’प्र मंहिष्ठाय’ ’प्रवणे अपामिव’ इति दृष्टान्तेन प्रतिपादितं तत्त्वमुक्तम्

३२९ ’अस्मै भीमाय’ अत्र ’हरितो न अयसे’ दृष्टान्तेन विवक्षितं विचारितम्

३३१ ’भूरि त इन्द्र’ इन्द्रस्य माहात्म्यं द्युलोकस्य प्रतिमानं इत्युपपादितम्

३३२ ’नू चित्सहोजाः’ पूर्वं ब्रह्माण्डे वर्तमानमपि प्राणायतनं अपां निधानस्थानं यजमानाय पिण्डाण्डे पुनरुत्पादयति तदग्निरित्या-दिरहस्यविवरणम्

३३३ ’आ स्वमद्म’ अग्निः शुष्केषु काष्ठेषु आरोहतीत्यत्र रहस्यमुक्तम्

३३५ ’वि वातजूतः’ अग्नर्गमनमार्गः कृष्णः कथमिति विचारितम्

३३५ तपुर्जम्भः’ स्वस्याल्पबलत्वं अग्नेः प्रबलत्वं च वीक्ष्य कम्पते उभयविधापि सृष्टिः

३३६ दधुष्ट्वा’ अङगिरसामिव भृगूणामपि देवत्वं मानुषत्वं च निर्दिष्ट

३३७ होतारं सप्त’ सप्त होतारः सप्ततत्त्वाभिमानिनः सप्तलोकाधिष्ठाना देवा इत्यादिप्रतिपादनम्

३४१ ’बृहती इव सूनवे’ वैश्वानरस्याग्नावापृथिव्योः प्रादुर्भाव-मधिकृत्य रहस्यं विवृतम्

३४२ ’दिवश्चित्ते’ असुरैराक्रान्ते लोके, तान् जित्वा देवेभ्यो ददात्यग्निरित्यत्रोपपत्तिः, सायणीयतात्पर्यस्य परीक्षा

३४३ ’वैश्वानरो महिम्ना’ अत्र ‘भरद्वाजेषु पौष्टिकसमृद्धियुक्तेषु’ इत्याद्यवधेयम्, तथा शतवनि-पुरुणीथशब्दार्थविवरणम्

३४४ ’वह्नि यशसं’ अत्र मातरिश्वा अग्नि भृगवे प्रादादित्यु-क्तेगूढमर्थं प्रतिपाद्य सायणव्याख्या निरीक्षिता,

३४४ ’अस्य शासुः’ त्रैलोक्यादुपरि अग्नेः स्वगृहमित्यादि प्रदर्शितम्

३४५ ’तं नव्यसी’ अत्र हृदयादन्तःकरणमूलस्थानात् अन्तरात्म-निलयभूतात् जायमानोऽग्निः प्रतिपादितः

३४६ उशिक् पावकः’ अत्र ’दमूनाः गृहसुहृत्’ इत्यादि उपपादितम्, यास्कानुसारेण दानमनस्क इति सायणः, ’तं त्वा वयं’ वाजम्भरं मर्जयन्त इत्यत्र दृष्टान्तोदाहरणेन अग्नेर्वहनप्रदेशं यजनस्थानं शोधयाम इत्यादि

३४७ ’अस्मा इदु प्र तवसे’ ऋषयः तेषां पूर्वैऋषिभिः प्रयुक्तान् मन्त्रानपि इन्द्राय ब्रुवत इत्यादि

३४८ ’अस्मा इदु प्रयः’ ’आङगूषं’ स्तोत्रात्मकं आघोषं हृदयन मनसा मनीषया संस्कुर्वन्ति ऋषय इत्यादि

३४९ ’अस्मा इदु स्तोमं’ तत्सिनाय इत्यत्र पातञ्जलमहाभाष्य-निर्णीतः सिनशब्दार्थ उक्तः

३५० अस्मा इदु सप्तिमिव’ यथा रथयुक्तोऽश्वः अभीष्टस्थानं प्राप्नोति प्रापयति च तथा वाग्युक्तो मन्त्रो दिव्यं श्रवणं सम्पादयतीत्यादि

३५१-३५२ ’अस्येदु मातुः’ अत्र त्रीणि वाक्यखण्डानी’ त्यारभ्य सायणीयार्थपरीक्षापूर्वकं ’यजमाने चिन्मयज्योतिर्बलादि- वृष्टिक्षेत्रभूते अभीष्टं सर्वं दिव्यममृतमादधाती’त्यन्तं तात्पर्योपपादनं निरीक्षणीयम्

३५४ ’अस्य देव’ यजमानस्य चेतसा स्वचेतः संयोज्य एकीकृत्य दिव्यश्रवणावेशं तस्मिन् दधाति भगवानिन्द्र इत्युपपादनम्

३५५ अस्येदु त्वेषसा’ तुर्वोतय गाधं धिष्ण्यं अकार्षीदित्यस्य तात्पर्यम्

३५७ ’अस्येदु भिया’ स्तुतिधारणसम्पत्तेनिदर्शनभूतो नोधाः

३५८ ’अस्मा इदु त्यत्’ एतशः सूर्येण सह स्पर्धत इत्यस्य विचारः तात्पर्योपपत्तिश्च

३६१ ’इन्द्रस्याङगिरसां’ अत्र अङगिरः-सरमा-बृहस्पतयः प्रसक्ताः, तत्र सरमावृत्तान्तस्य रहस्यम्

३६१ सहजावबोधदृष्टः सरमायाः सन्ततिः जागरितस्थाने ’धार्सि’ धारकं प्रतिष्ठाभूतं पदं अलभतेत्यादितत्त्वप्रतिपादनम्

३६२ ’स’ सुष्टुभा’ अत्र अद्रि-फलिग-वलानां प्रसक्तिविचारिता

३६३ ’तमु प्रत्यक्षतमं’ अत्र चतस्रो नद्यः प्रस्तुताः, तत्र विचारः सायणीयार्थस्योल्लेखनम्

३६४ द्विता वि वव्र’ अन अयास्यशब्दार्थं औपनिषदबलादाचख्यौ सायणः, तस्यैव अन्यथा पक्षान्तरनिर्वचनं साधीय इत्यभ्युपगम्य तात्पर्य प्रतिपादितम्

३६४ इन्द्रप्रसादादेव लभ्य इन्द्रः इति रहस्योपपादनं, ईदृश्य ऋचः बीजं भवति ’नायमात्मा प्रवचनेन लभ्य’ इत्याद्यौपनिषद-वाक्यानामिति विवरणम्, ऊर्ध्वाधरचित्कक्ष्ययोः द्यावापृथिव्यो-रभिव्यक्तिर्यजमान भवतीति रहस्यविवृतिः

३६५ ’सनाद्दिवं’ अन्तर्यागाध्वनि सर्वदा चित्प्रकाशस्थितिरेकरूपा न भवति, ’अहोरात्र विरूपे’ इत्यादिरहस्यविवरणम्

३६६ ‘सनेमि सख्यं’ अस्यामृचि परोक्षवचनेनावेदितं किमपि रहस्यमधिकृत्य विचारितम्

३६७ सनात्सनीळाः’ चिरकालादारभ्य अपामिव स्वसृणां सनाभित्वम्, ताः स्वसारः यजमानायेन्द्रेण कृतानि रक्षन्तीत्यादि

३७० ’त्वं महानिन्द्र’ इन्द्रः प्रादुर्भावमात्रेण यजमाने ऊर्ध्वाधर-चित्कक्ष्य सुप्रतिष्ठे विधत्ते इत्यादि

३७५ ’त्वं ह त्यदिन्द्र’ एकैकस्मिन् लोके सप्त उपकक्ष्या भवन्ति, यद्यपि त्रैलोक्याक्रमणपटवो वृत्रादयः तथापि तेषां वृत्ति-वैशिष्ट्यं मध्यमस्थाने इत्यादिविवरणम्

३७६ ’त्वं त्यां न इन्द्र’ एषणाबलेनास्माकं जीवमात्मानं इन्द्रो धत्त इति दृष्टान्तेनोपपादनम्

३७७ ’वृष्ण शर्धाय’ वाग्रूपाविष्कारे स्तोतुधियः पूर्णतां यान्ति इति प्रतिपादनम्

३७८ ’ते जज्ञिरे’ मरुतो रुद्रसूनवः ‘ऋष्वासः’ ’असुराः’ इत्यादीनां वैशिष्ट्यप्रतिपादनम्

३७९ ’चिरञ्जिभिः’ अत्र मरुतां रहस्यमधिकृत्य विचारः

३८१ ’पिबन्त्यपो मरुतः’ विदथः ज्ञानागमो ज्ञानगम्यस्थानं यजनमित्याद्युपन्यासः, ‘घुतवत् दीप्तिमत्’ ‘पयो मधुमत्’ इत्यादि सायणीयव्याख्योदाहरणम्

३८२ ’सिंहा इव’ कथं मरुतो रात्रीरुल्लासयन्तीति विचारः

३८४ ’विश्ववेदसः’ ’अत्र विरप्शिनः’ इत्यादिशब्दार्थविचारः सायणीयोक्तिश्च

३८८ ’नू ष्ठिरं मरुतः’ किमपि दिव्यं मारुतं धनमिति विशेषणरुपपादितम्

३८९ ’पश्वा न तायुं’ ऋचोऽस्या विवरणे दृष्टान्तोपपादनम्, अत्र केचन शब्दाः साङकेतिका इत्यादिसूचनम्

३९० ऋतस्य देवाः’ सर्वेऽपि देवा अग्निमन्विष्य’ यदा प्राप्नुवन्ति तदा स प्रवृद्धो भुवमाक्रामन् दीप्यत इत्याद्यवधेयम्

३९५ ’सेनेव सृष्टा’ अर्थाविष्कारे, भूतं भव्यं च सर्व द्वन्द्वं अग्निः, स एवानभिव्यक्तभावानां व्यञ्जयिता ’जारः कनीनां’, उत्पादयित्रीणां शक्तीनां पतिः ’पतिर्जनीनां’ इत्याद्युपपादनम्

३९८ ’हस्ते दधानः’ सर्वदेवबलभृतोऽग्नेर्बलं सर्वधारकमित्यादि विवृतम्, अत्र मन्त्रदृष्टिरहस्यं सूचितमवधेयम्, तथा अग्ने-रस्मदन्तर्निगूढवासः प्रत्यपादि, ‘अजो न क्षां’ ब्रह्माण्डे पिण्डाण्डे च रोदस्योः पूर्वमेव वर्तमानयोरपि तल्लक्षित-चित्कक्ष्याद्वयस्य स्तम्भनं धारणं च रहोयागरते मनुष्य साध-यितव्य, तत्कर्तव्यमग्नेरिति प्रतिपादनम्

३९९ ’य ई चिकेत’ भगवतोऽग्नेः अन्तर्याजिनश्च आत्य-न्तिकसंबन्धसम्पादनसाधनं रहस्यमुपदिष्टम्

४०१ ’श्रीणन्नुपस्थात् ’ आत्मना सर्वदेवमहत्त्वान्यावृण्वन् ज्वलत्यग्निरित्यादि, ’आदित्ते’ नीरसप्राये जडे शरीरे रसवानग्निर्यदा प्रादुर्भवति तदा विश्वे देवत्वं नाम भजन्ते’ इत्यादि

४०३ ’होता निषत्तः’ अन्तर्याजिनामेकैकस्मिन्नपि आग्नेयं बीजमुप्तं भवतीत्यादि गहनं रहस्यं संक्षिप्योक्तम्

४०४ शुक्रः’ सर्वदेवप्रतिनिधिर्भगवानग्निर्यजमाने जातः तस्य पुत्र उच्यते इत्यादि

४०६ पुत्रो न जातः’ अग्नेः सर्वदेवात्मकत्मात् देवतासहवासिनि वृन्दे आहूते अग्निः स्वीयं सर्वदेवमयत्वं प्रकटयतीत्यादि

४०७ ’उषो न जारः’ उपासकाय जनाय प्रदर्शितस्वरूपोऽग्निः स्वयं तस्य ज्ञाने प्रादुर्भवति, स्वर्गद्वारापावरणेन ज्योतिर्दर्शने गतिः संभवति-इत्यादि तात्पर्यमवधेयम्

४०८ ’वनेम पूर्वीः’ मानुषोत्पत्तिरहस्यविज्ञोऽग्निरित्यादि, ’गर्भो यो अपां’ अत्र ’आपः वनं’ इति सङकेतशब्दौ क्रमशः शक्तीनां पुत्रः आनन्दानां पुत्र इति च प्रतिपादयतः, तथापि सर्वान्तर्यामी भगवाग्निः चराचरात्मकाज्जगतः यथाकालं यथाविधि यथास्वीयदैवरहस्यं प्रादुर्भवतीति प्रतिपादनम्

४०६ स हि क्षपावान्’ अग्निर्देववृन्दप्रादुर्भावं तथा मानां जन्मरहस्यं च जानातीति कथनम्

४१० ’वर्धान्यं’ अत्र ’ऋतप्रवीतं’ सत्यात्प्रादुर्भूयागतमिति तात्पर्यार्थोऽवधेयः, ’गोषु प्रशस्ति’ यजमानस्यर्षेः ज्ञानप्रकाशवृत्तिषु सुखानु-भूतिषु च अग्निप्रशंसा प्रतिष्ठिता भवतीत्यादि कथितम्, ’भरन्त विश्वे बलिं स्वर्णः’ अस्य वाक्यस्य प्रतिध्वनि-स्तैत्तिरीयश्रुतौ ‘सर्वेऽस्मं देवा बलिमावहन्ति’ इति प्रतिपादितम्

४१२ ’उप प्र जिन्वन् ’ अत्र ’उषसं न गावः’ इति नेदमुपमामात्र-मित्युपन्यस्य सङकेतार्थविवरणम्

४१३ वीळ चित्’ अस्मत्पितरः मन्त्रध्वनिना बहु अद्भुतं चक्रुरिति प्रतिपादनम्, अत्र सङकेतशब्दाः स्पष्टाः कृताः

४१३ ’दधन्नृतं’ शक्तयः क्रियापराः देवान् प्रति गच्छन्ति, तेन नव्यस्य दिव्यस्य जन्मन आनन्देन वर्धनं भवतीत्यादि-तात्पर्यविवरणम्

४१४ ’मथीद्यदी’ अन्तर्धारितः पूरितो व्याप्तः प्राणः योगाग्नि मथित्वा प्रकटयतीत्यधुनातनयोगविद्यातत्त्वं चिरन्तनार्ष-रहस्यैकदेशभूतं बोध्यम्, ’भृगवाणः’ इत्यादेवैशिष्ट्यमुक्तम्

४१५ ’महे यत्पित्रे’ दुर्बोधमृचस्तात्पर्य विस्पष्टं विचारितमवधेयम्

४१७ ’अग्नि विश्वा’ देवेषु विषयेऽस्माकं ज्ञानं सम्पादयेत्यादिकम्

४१८ ’मनोन’ अग्निना नीयमानस्य यजमानस्य यजनं यात्रा वा उत्तमे सौरे पदे पर्यवस्यतीति सूर्यो वर्णितः

४१९ ’मा नो अग्न’ ऋषीणामाद्यानां अतिचिरन्तनमविच्छिन्नं किमपि रहस्यं अग्निसख्यम्, नेदं भौतिकाग्निसंबन्धीत्युपपादनम्, ’नि काव्या’ कविकर्माणि द्रष्ट्रप्रज्ञात्मकानि मन्त्ररूपस्तोत्राणि अस्मास्वन्तः प्रादुर्भावयत्यग्निरिति प्रतिपादनम्

४२१ ’तिस्रो यदग्न’ यज्ञियनामधारणं अग्निपरध्यानलक्षणम्, ’तिस्रः’ इति त्रैलोक्यापेक्षयेत्याधुक्तिः, ‘आ रोदसी’ नेमधिता-शब्दार्थविचारः

४२२ ‘संजानानाः’ देवाः सर्वेऽपि प्रत्येकं सख्युरग्नेर्दृष्टौ रक्षिताः इत्यादि प्रतिपादितम्

४२४ स्वाध्यो दिव आ’ सरमासाधित-गोसमूह-गूढदृढ-स्थानाधिगमेन हेतुना मानुषो जन्मी सुखमद्यानुभवतीत्यादि-रहस्यप्रतिपादनम्

४२५ ’आ ये विश्वा’ अमृतत्वाय मार्ग कुर्वद्भिर्देवैः सह अदितिः पृथिवीं भर्तुं आगतेत्यादि प्रत्यपादि

४२६ ’अधि श्रियं तेजः सौन्दर्यं च दिव्यमक्षिद्वयं अग्नौ निक्षिप्तम्, तं अश्वाः महत्यो भोगसमर्थाः क्रियाशक्तयः नीचैः क्षरन्त्यः सिन्धव इव जानन्त्य उपासते इत्यादिसारांशप्रतिपादनम्

४२८ ’देवो न यः’ एकोऽपि भगवानग्निर्वीरगण इव लक्ष्यते

४२९ ’वि पृक्षो’ असुरैरपहृतं दिव्यं धनम्, तज्जयाय देवेषु भागो धारयितव्यः

४३० ऋतस्य हि’ अत्र ’अद्रिः”ऋतस्य धेनवः”आपः’ इत्यादयः सङकेताः अवधेयाः

४३१ यान् राये’ विश्वस्मिन् भुवने छायेव सक्तो भवत्यग्निः

४३३ ’उपप्रयन्तः’ दूरादपि शृणोत्यग्निरस्मद्वाचम्, ’यः स्नीहितीषु’ गयशब्दार्थो विचारितः

४३४ ’उत ब्रुवन्तु’ अग्निरन्तर्मथितस्तपसा हृदयादुद्गतः प्रादुर्भूतः प्रत्यपादि

४३६ ’त्वोतो वाजी’ अग्नये स्वीयं सर्वमर्पितवान् पुरुषोऽन्यादृशो लक्ष्यते ’पूर्वस्मादपरः’, अत्र सायणीयं निरीक्षितम्

४३७ ’उत धुमत् ’ उत्तमं ज्योतिरेव महद्धनम्, अन्यथा भवति सायणीय

४३८ ’कस्ते जामिः’ अत्र चतुभिः प्रश्नः अग्निबन्धुत्वं न सुलभ-मित्यादि प्रतिपादितम्, अन्यथा प्रश्नस्य न भवेत्प्रयोजनमिति विवृतम्

४३९ ’यजा नो’ अग्नेः सहजसिद्धमावासस्थानं ’सत्यं ऋतं बृहत् उक्तम्

४४० ’का त उपेतिः’ अत्र विवक्षितमन्यत् सायणविवरणमन्यत्, ऋजु तात्पर्य प्रतिपादितम्

४४४ कथा दाशेम’ अग्निमुद्दिश्य या वागुच्यते सा इतरेषां देवानां सेवनीया स्यादित्युपपादनम्

४४५ ’यो अध्वरेषु’ म] प्रबुद्धोऽमोऽग्निः तस्य जागरितप्रज्ञायां देवान् निर्मातीत्यादिकम्, ’स हि क्रतुः’ नित्ययोगिनो मर्त्याः प्रथममग्निमुपासत इत्यादिकम्

४४७ ’अग्निना आप्यायितं द्युम्नं’ अग्नये समर्प्य बहुशः स्तौति मन्त्रद्रष्टा इत्यादि प्रतिपादितम्

४५० ’हिरण्यकेश’ अत्र सायणीयस्य दुर्घटत्वात् अस्माभिरेव स्थूलार्थदानपूर्वकं रहस्यं विवृतमवधेयम्

४५२ ’आ ते सुपर्णा’ अत्र स्थूलार्थोपपादनपूर्वकं रहस्यार्थ-विवरणम्

४५३ ’यदीमृतस्य’ अत्र ’उपरस्य योनौ’ व्याख्याऽवधेया

४५८ ’इत्था हि सोमा’ अन्नमयात् शरीरात्, जगतः, जागरित-स्थानात्, वृत्रं निर्गमितवानित्यत्र रहस्यमवधेयम्

४५८ ’स त्वां’ सोमहरणं प्रति कर्मठानां कथा, रहस्योपपादनम्

४६८ ’इन्द्रो मदाय’ यज्ञयात्राध्वनि विघ्नकरा राक्षसप्रभृतयः संग्रामे जेतव्याः, तत्र नालं पुरुषकारः, देवसाहाय्यमपेक्ष्यत इत्याधुपपादितम्

४७१ ’यो अर्यो मर्त’ मानुषोपभोगक्षमो भागो लब्धव्य इन्द्रादित्याद्युक्तम्

४७२ ’मदे मदे’ गवां चिद्रश्मिरूपत्वं, वसुनश्च दिव्यसत्त्वात्म-कत्वमवधेयम्, नेह साधारणगोधनादि विवक्षितमित्यवधेयम्

४७३ ’एते त इन्द्र’ यजनमकुर्वतां अदैव्यानां ज्ञानं धनं वा कीदृशमिति इन्द्रो वेद, अत्र विवरणमवधेयम्

४७४ ’उपो षु मन्त्रवर्णस्य प्रादुर्भाव ऋषेः, इन्द्रस्य प्रार्थनीय-श्चेत्यादि

४७५ अक्षन्नमीमदन्त’ देवप्रीतिकरा ऋषयो दिव्यमन्नं भुक्त्वा तृप्ता अभवन्नित्यत्रोपपादन ‘ते स्वभानवः’ स्वप्रकाशा इति विप्रविशेषणमलं दिव्यान्नभोजनमिन्द्रदत्तमिति बोद्ध इत्याद्यवधेयम्

४७६ सुसन्दृशं’ अस्मादृशस्तुतिभिरभिवर्धितज्योतिर्बलादि-सम्पत्कः सन् त्वत्कामानन्याननुग्रहीतुं प्रभवसीति ऋषिरिन्द्र ब्रूत इत्युपपादनम्

४७७ ’स घा तं’ ’हारियोजनं’ ’गोविदं’ ’चिकेतति’ इत्यादे-विवरणमवधेयम्, अत्र सायणीयं परीक्ष्योदाहृतम्, ’युक्तस्ते अस्तु’ स्त्रीदेवता अधिकृत्योक्तम्

४७९ ’अश्वावति’ सङकेतार्थो दृष्टान्तशब्दानां नोपपद्यत इति सूचनम्, ’विचेतसः’ अत्र शब्दार्थविचारः

४८० ’आपो न देवीः’ देव्यः शक्तयोऽन्तर्याजिनः शरीरमुपयन्तीति प्रतिपादनम्

४८१ : ‘अधि द्वयोः’ अत्र ’सुक्’ यज्ञपात्रविशेषः दर्विवत्, मुहु-मुहुरुद्गता तीव्रा काङक्षा, उत्काङक्षा वा स्रुचा सङकेत्यते

४८२ आदङगिराः’ ’यज्ञैरथर्वा’ उभे ऋचौ अङगिरोवृत्तान्त-वृत्रवधादिकरहस्यार्थविषयिके, अत्र उशना भृगुरित्यादि-विवरणं च

४८४ ’बहिर्वा’ अत्र ग्रावाणमधिकृत्य प्रज्वलितवागात्मकः सर्वानुभूतिरसनिष्पादकः यजमानहृदयोद्गतो वाग्रूप उक्थ इत्यादि विवृतम्

४८६ ’इममिन्द्र’ ’ऋतस्य सदने अमर्त्य मदं’ अत्र व्याख्याऽवधेया

४८९ कदा मर्तमराधसं’ व्याख्यायां वैशिष्ट्यं, सायण उदाहृतः, क्षुम्पशब्दार्थस्वारस्यम्

४९१ ’ता अस्य’ चित्रवर्णाः ‘गावः’ परमज्योतिष आगत्य इन्द्रेण संपृक्ता अवस्थातुं प्रारभन्त इत्यादि, ‘ता अस्य नमसा’ आगामिविषय ऋषेः पूर्वदृष्टिरित्यादि

४९२ ’ इन्द्रो दधीचः’ दध्यङशब्दार्थः, ऋचो रहस्यम्

४९३ ’इच्छन्नश्वस्य’ शर्यणावद्विचारः विस्तरशः कृतः, अत्राह गोरमन्वत’ चन्द्रमसो गृहमधिकृत्य तत्त्वमुक्तम्

४९५ ‘क ईषते’ न कोऽपि परमार्थभक्तः अधिवचनं ब्रूयादित्यत्र विस्तरोऽवधेयः

४९६ को अग्नि’ अत्र ’हविघुतस्रुचः’ कर्मानुष्ठानसामग्रयः रहस्यपक्षे सङकेता इति प्रतिपादनम्

४९८ ’प्र ये शुम्भन्ते’ मरुतां स्वरूपविवरणम्

४९९ ’त उक्षितासः’ अत्रापि पूर्वोक्तलक्षणा मरुतः प्रोक्ताः

५०० ’गोमातरः’ ऐन्द्रतेजोबलदीपिता धीवृत्तयो मरुत इत्यादि विवृतम्

५०२ प्र यद्रथेषु’ आरोचमानस्येन्द्रात्मन: सौरज्योतिषः सकाशात् ज्योतिर्बलादिधारा विमुञ्चन्ति मरुत इत्यादि प्रतिपादितम्

५०३ ’तेऽवर्धन्त’ यथा रुद्रस्य मरुतां पितुर्व्हरव्यापारत्वेऽपि शिवरत्वं, तथा विष्णोः सर्वथा सौम्यस्यापि रुद्रकर्मत्वम्, विष्णुर्मरुतां रक्षक इत्यादि च प्रतिपादितम्

५०४ शूरा इव’ मरुतो न केवलं चण्डकर्माणः, अपि तु ‘त्वेषसंदृशः’ ज्ञानशक्तिप्रकाशकाश्चेत्यादि निरूपणम्

५०५ ’त्वष्टा यद्वज्र’ क्षीराब्धिरित्यादाविव अपामर्णव इत्यत्र समुद्रमात्रस्य विवक्षा, ’ऊर्ध्वं नुनुद्रे’ अत्र गोतमस्यर्षेरर्थे मरुद्भिः कूपोत्खननादेः गूढार्थः स्पष्टीकृतः

५०६ ’जिह्यं नुनुद्र’ अत्र सर्वाङगसेचनेन तिरश्चीनगत्या अपः प्रेरयामासुरिति प्रतिपादनम्

५०९ अस्य श्रोषन्’ मारुतबलप्रेरिता एषणाः ‘इषः’ इत्याद्यवधेयम्

५११ ’यूयं तत्’ महत् ज्योतिरित्युपपादनम्, ’गूहता गुह्यं’ ’तत् ज्योति ’राविष्कुरुतेति प्रार्थनाऽवधेया

५१२ ’प्र त्वक्षसः’ मरुतां आदौ दर्शनं वर्णितम्

५१३ ’विथुरा इव’ व्यथिता भयाच्चलितेवेत्यर्थः, सायणस्तु भर्ना वियुक्ता निरालम्बा जायेव’ इति व्याचष्ट इत्याद्यवधेयम्

५१५ ’पितुः प्रत्नस्य’ इन्द्रकार्यभागहरत्वादेव मरुतो यज्ञिया भवन्तीत्युपपादनम्

५१७ ’तेऽरुणेभिः’ जडस्य घनस्य शरीरस्य मार्दवापादनाय ऊर्ध्वतनशक्तिभिः कोऽपि प्रहारः प्रयुज्यते, तेन दिव्यतेजो-बलाद्यवतरणं सोढुं प्रभवति शरीरमिति रहस्यमुक्तम्

५१८ ’श्रिये कं वः’ सोमाभिषवणग्रावा ’इन्द्रवज्रलक्षितदिव्यवाग्रूप’ इत्यवधेयम्

५१९ ’अहानि गृध्रा’ उत्सधि : शरीरस्थप्राणशरीरमिति गूढार्थः प्रतिपादितः, एतत्त्यन्न’ अस्यास्तात्पर्य गहनम्, विचारितमुपपादितम्

५२० एषा स्या’ तात्पर्य वैशिष्ट्यमवधेयम्, पूर्वव्याख्यातॄणां क्लिष्टकल्पना निवारिता

५२४ स्वस्ति नः’ अरिष्टनेमि-तार्थ्यशब्दार्थो विचारितः

५२६ ’भद्रं कर्णेभिः’ भद्रशब्दार्थवैशिष्ट्यं स्मारितम्

५२६ ’शतमिन्नु’ मानुषायुर्मानं शरदः शतमिति सामान्योक्तिः परीक्षिता, तैत्तिरीयसंहितावाक्यं उदाहृतम्

५२७ ’अदितिधौं : ’ अन्नमयाद्यानन्दमयान्तेषु लोकेषु जाताः वर्तमानाः पञ्चजना इति रहस्यः पक्षः प्रत्यपादि

५२९ ’वि नः पथः’ सुवितं दुरितप्रतिद्वन्द्वि उत्तमकल्याणार्थकं भद्रं अवधेयम्, ’उत नो धियः’ ’धियः गोअग्राः कुरुते ’ति प्रार्थनायां चिद्रश्मिपुरस्सरा भवन्तु धीवृत्तय इत्यवदातम्

५३० मधु वाताः’ सर्वस्मादपि वस्तुजातात् मधु गृहीत्वा तत्सम्पन्नाः स्यामेत्यर्थका ईदृशीर्ऋच आधारीकृत्य औपनिषदं मधुब्राह्मणमुपदिष्टम्

५३४ ’या ते धामानि’ ’सोमस्य धामानि’ तेजांसि दिवि भुवि अन्यत्र चावस्थितानीत्यादि अवधेयम्

५३७ गयस्फानः’ शब्दार्थविचारः

५४१ ’सोमो धेनुं’ सोमः अमृतस्य दोग्ध्रीं गोलक्षणां चिन्मरीचिं प्रयच्छतीति विवृतम्, ’सदन्यम्’ ’सभेयम्’ अर्थाविष्कारो-ऽवधेयः

५४३ ’देवेन नो’ ’उभयेभ्यः गविष्टौ’ देवेभ्यो मनुष्येभ्यश्च हितार्थ गवेषणमित्यादि

५४४ ’एता उ त्याः’ यद्यपि सूक्तस्य स्थूलार्थः स्पष्टो लक्ष्यत एव तथापि रहस्यार्थमन्तरेण तत्र तत्र ऋजुतात्पर्य न शक्यते बोद्धम्, तथा विवरणम्, ’उदपप्तन् ’ अत्र गूढार्थोऽपि सूचितः

५४६ ’अर्चन्ति’ ’परावतः’ परस्तात् परस्मात् ज्योतिषः प्रेरणा-शक्तिमाहरन्त्युषस’ इत्यत्रापि गूढार्थः सूचितः, ’अधि पेशांसि’ व्याख्याऽवधेया, अत्र सायण: ‘पेशांसि कृष्णवर्णानि तमांसि’ इति व्याचष्टे, पेशो रूपमित्येव गृहीत्वोपपादितम्

५४७ ’प्रत्यचिः’ ’स्वरुं न’ दृष्टान्तोऽयं व्याख्यातोऽवधेयः

५४८ अतारिष्म’ एषा बाह्यार्थे गृहीता चेदुपहसनीयतां भजत इत्याद्युक्तम्

५४९ ’भास्वती’ अत्र ’अश्वबुध्यान्’ ’गोअग्रान्’ इति वाजविशे-षणद्वयं लक्षणीयं व्याख्यायाम्, उषस्तं’ पुनश्च अश्वबुध्यादिशब्दाः गूढार्थपरा उपपादिताः

५५० ’विश्वानि’ देवकामं पुरुषं बोधयत्युषा इत्यादि प्रतिपादितम्

५५१ पुनः पुनः’ मर्त्यस्यायुः कथमुषा ‘जरयन्ती’ इति विचारः, तत्रोपपत्तिरवधेया

५५५ ’अश्विना वतिः’ ’गोमत् हिरण्यवत् ’ चित्किरणयुक्तं सौरज्योतिर्योतकसुवर्णयुक्तं यथा भवति तथा रथमावर्तयतमिति अश्विनोः संबोधने प्रोक्तमवधेयम्, ’यावित्था’ ’आ चक्रथुः’ आकारयुक्तं निष्पादितवन्तौ इत्यवधेयम्

५५७ ’अग्नीषोमा यः’ ’गवां पोषं स्वश्व्यं’ अत्र गवाश्वः ज्ञानक्रियात्मकशक्तिद्वयं प्रतिपाद्यत इत्यवधेयम्

५५८ ’ अनीषोमा चेति’ अत्र ‘बृसयः’ वृत्र एवेत्युपपादितं, सायणस्तु पुराणकथारीतिमवलम्ब्य बृसयः त्वष्टा तस्य शेषः अपत्यं वृत्र इत्याहेति निर्देशः

५५९ आन्यं’ अत्र श्येनः पक्षी जीवभूतोऽन्तरात्मैव, तेनोच्चैः पतनेन सोमः सम्पाद्याहियत इत्याद्युपपादनम्

५६१ ’यो अग्नीषोमा’ अन्तर्लब्धप्रवेशस्य प्रभूतं शर्मत्यादिकं तात्पर्यमुपपादितम्

५६३ ’अग्नीषोमा’ प्राणबलानां परिपूरणं ज्ञानरश्मीनां प्रवर्धनं मघवत्सु देवेषु मनुष्येषु वा मध्य बलप्रतिष्ठापनं च प्रार्थितानीति प्रतिपादनम्

५६४ यस्मै त्वं’ अत्र अंहतिर्दारिद्रयमिति सायणोक्तिरयुक्तेति प्रदर्शितम्

५६५ ’भरामध्म’ अत्र ‘जीवातवे’ ’धियः साधय’ तात्पर्य अवधेयम्

५६६ ’विशां गोपाः’ ’द्विपत्, चतुष्पत्’ शब्दार्थविवृतिः, उषसोऽपि महत्तरोऽग्निरित्युपपादनम्

५६७ ’त्वमध्वर्युः’ अग्निर्जन्मना पुरोहित इत्यादिकं प्रोक्तम्

५६८ ’यो विश्वतः’ यजमानस्यान्तः अप्रकाशदशामति-घनामप्यतीत्य तमसः परस्तात् उज्ज्वलः पश्यत्यग्निः

५६६ यदयुक्थाः’ पृथ्वीरहाणां दहनं, अग्निप्रादुर्भावप्रभावात् अन्नमयशरीरगतानां हेयानां सर्वेषां विनष्टिं लक्षयतीति प्रतिपादनम्

५७० अध स्वनादूत’ अत्र तात्पर्योपपत्तिनिरीक्षणीया

५७४ ’द्वे विरूपे’ अग्नि अहश्च रात्रिश्च पोषयत इत्यत्र गूढार्था-नुसारेणोपपत्तिः प्रदर्शिता

५७५ दशेम’ एकत्र प्रादुर्भूतमग्नि स्वीयपोषणेन उक्तलक्षणा युवतयः परितः प्रभाभिः प्रसारयन्ति इत्यादि विवृतम्

५७६ ’त्रीणि जाना’ अग्नेस्त्रीणि जन्मानि सरहस्यं प्रतिपादितानि, ’पूर्वां प्र दिशम्’ इत्यत्र गूढार्थव्याख्या अवधेया

५७७ ‘क इमं वो निण्यं’ अग्निर्मातृर्जनयतीत्यत्रोपपत्तिः

५७८ ’उभे भद्रे’ ’दक्षाणां दक्षपति ’रित्यादौ ’दक्षिणतः अञ्जन्ति’ इत्यत्र च रहस्यार्थपक्षः

५७९ उद्यंयमीति’ सर्वत्र भूतजाते यो गुप्तोऽन्तहितो रसो वर्तते तं निर्गमय्य ऊर्ध्वगतिकं करोत्यग्निरिति प्रतिपादितम्

५८० त्वेषं रूपं’ अग्निर्यदा ऊर्ध्वं मूलस्थानं शुद्धं विधत्ते तदा तद्देवसमागमस्थानं भवतीत्यादि विवृतम्

५८१ धन्वन् स्रोतः’ जडेऽन्तर्हिता आपः इत्यादेः रहस्यं स्पष्ट कृतम्

५८३ स प्रत्नथा’ मानुषे जने प्रादुर्भावात्पूर्वं ईदृशं द्रविणोदां देवाः स्वेषु धारयामासुरित्यादिकमुक्तम्

५८४ ’स पूर्वया निविदां’ अत्र ’कव्यता स्तुति कुर्वते ति सायणीय-वचनमनङगीकृत्य ’कव्यता कव्यं कवनं सत्यदर्शनं तत्कुर्वते’- त्यादि प्रतिपादितम्

५८६ ’नक्तोषासा’ अहोरात्र परस्परं ’आमेम्याने’ हिंसन्त्यौ इत्यस्य रहस्यं, तथा अग्नि ’धापयेते’ इत्यत्र च तात्पर्यमुपपादितम्

५९२ ’वैश्वानरस्य’ वैश्वानरः उपासकात् प्रादुर्भूतः सर्वं जगत् पश्यन् सत्यज्योतिरात्मना सूर्येण सङ्गतो भवतीति प्रतिपादितम्

५९३ ’जातवेदसे’ अयं तान्त्रिकर्दुर्गामन्त्रत्वेनादृतः, एकचं सूक्तमिद-मेकमेव ऋग्वेदे गीतम्

५९५ स यो वृषा’ ’सतीनसत्वा’ अस्य व्युत्पत्तिः, सत्यसंबन्धिनः ज्योतिरासादयितेत्यर्थः

५९७ ’स सूनुभिः’ इन्द्रः शुद्धसत्त्वप्रधानभूतमनोभूमेर्दिवस्पतिः, तस्य भ्रातरः सखायः पुत्रा इव भवन्ति मरुत इत्यादिकमुक्तम्

५९८ ’स मन्युमीः’ सत्पतिः सतां व्याकृतानां वस्तूनां भूतजातानां पतिरित्यादिकमवधेयम्

५९९ ’तमप्सन्त’ तमसः परस्तात् ज्वलन्नुत्तमः सूर्यः सर्वेश्वरः सर्वान्तर्यामी च सन् अन्धे तमसि च गुप्तो भवति

६०० ’स सव्येन’ इन्द्रस्यातिबलत्वं वर्णितम्, अनुग्रहीता स्तोतृ-जनस्येत्यादिकम्

६०५ रोहित् श्यावा’ ऋज्राश्वशब्दार्थविचार:

६०६ ’दस्यून् शिम्यून्’ एते चासुरादयो न भूमिष्ठाः इत्यारभ्य तेषां विवरणम्

६०७ ’विश्वाहेन्द्रः’ अस्मद्वचनेऽपि इन्द्रस्यैव वचनं राजतामित्या-दिकमवधेयम्

६०९ ’यस्य द्यावा’ इन्द्रस्य महत् पौंस्यं पृथिवी द्यौश्चेति प्रतिपाद्य सायणीयस्याध्याहारोऽनावश्यक इत्युपपादितम्

६११ ’यः शूरेभिः’ विविधमवस्थितैः पुरुषैः तत्तदुपकाराय सेवनीयो विश्वसनीयश्चेन्द्र इत्यादिकमुक्तम्

६१२ ’रुद्राणामेति’ प्रथमं मरुतां क्षेत्रे इन्द्रदर्शनं इत्यादि तात्पर्यमुपपादितम्

६१७ ’वयं जयम’ एकैकमपि यजनं यजमानभागस्योत्कर्षकमित्या-दिकमुक्तम्

६१८ ’नाना हि’ असुरादीनपोद्धृत्य तैरपहृतं गवाश्वादिलक्षणं तेजोबलादिकं दिव्यस्वं जित्वा दातुं नः समर्थ इन्द्रस्य चित्तमिति तात्पर्यप्रतिपादनम्

६२० ’त्रिविष्टिधातु’ त्रिधा भूरादिस्थानत्रये इन्द्रबलस्य प्रवेशने-नास्य धारणमिति प्रतिपादनम्

६२३ ’तत्त इन्द्रियं’ महान् ऋतुरग्निरूध्वं प्रतिष्ठते, सौरं ज्योतिरधोऽवतरति, एवमुभयोः सङगमनं इन्द्रलिङगस्य द्योतकमित्युपपादितम् ’स धारयत्’ वृत्रस्य रोहितत्वप्राप्तिरुपपादिता

६२५ ’तदूचुषे’ स्तुवते जनायेन्द्रो मानुषाणि युगानि कृतत्रेतादीनि विधत्त इति सायणीयोक्तिरयुक्तेति प्रदर्शिता, अन्यथा वाक्यान्वय ऋजुर्भवतीति प्रदर्श्य तात्पर्यमुपपादितम्

६२८ ’योनिष्ट’ ’अश्वाः’ ’वयः’ इत्यत्र तात्पर्यमवधेयम्

६२६ ओ त्ये नरः’ अत्र वर्णशब्दार्थः सायणीयाद्भिन्नः प्रतिपादितः

६३० अव त्मना’ ऋतानृतयोमिश्रणाधिकारः कुयवनाम्नोऽसुरस्येति प्रतिपादितम्, परार्धापरार्धऋतानृतादिविचारः कृतः

६३१ कुयवभार्ययोः क्षीरस्नानादिविचारितः, शिफायाः स्वरूपमुक्तम्, युयोप नाभिः’ अत्र अञ्जसी-कुलिशी-वीरपत्नीनां विचारः

६३३ ’स त्वं नः’ उत्तमे ज्योतिष्यस्माकं भागं सम्पादयेति तात्पर्थमुपपादितम्

६३५ ’मा नो वधीः’ ’आण्डा’ ’सहजानुषाणि’ इत्यत्र तात्पर्यम्

६३६ "चन्द्रमाः’ इति सूक्तस्य ऋषिः आप्त्यस्त्रितः कुत्सो वेति विचारः, चन्द्रमा इति प्रथमर्को व्याख्यायां रहस्यं विस्पष्टं कृतम्

६३७ चन्द्रमा अप्सु’ अत्र हिरण्यनेमयः विद्युतः गूढार्थाः तथा चन्द्रमाश्च ‘गन्धर्वस्य ध्रुवे पदे’ ’इत्था चन्द्रमसो गृहे’ एवमादिवर्णनविषयभूतो हिरण्यवर्णः तमसस्परस्ताद्भासमानः परम इत्याद्युपपादितम्

६३८ ’अर्थमिद्वा’ ’परिदाय रसं दुहे.’ अत्र विशिष्टा व्याख्या, सायणव्याख्या नोपपन्नेति च निरूपितम्

६४३ अमी ये सप्त’ आप्त्यस्य त्रितस्य ऋषेर्नाभिरूमातता अस्य विवरणं सरहस्यमुक्तम्, ’अमी ये पञ्च’ ’पञ्चोक्षणः’ क इति विचारः

६४४ ’सुपर्णा एते’ जीवत एव त्रितस्यर्षेरूज़यात्रायां वृकस्या-सुरस्य प्रतिषेधः देवानुग्रहात् सिध्यतीत्यादि विवृतम्

६४६ ब्रह्मा कृणोति वरुणः’ ऋषेः स्तोतुः हृदयद्वारा मन्त्रं प्रकाशयति वरुण इत्याद्यवधेयम्

६४७ ’असौ यः’ अत्र नायं बाह्यः सूर्यः इति स्पष्टं प्रतिपाद्यते

६४८ ’त्रितः कूपे’ नायं बाह्यः कूप इत्याद्युपपादितम्, ’अरुणो मा’ जीवतामृषीणां ऊर्ध्वगमनं पुनरागमनमित्यादि स्पष्टम्

६५१ ’ अवन्तु नः’ द्यावापृथिव्योः पुत्रा देवा इत्युपपादनम्

६५३ ’इन्द्रं कुत्सः’ अत्र ‘निबाळ्हः’ कृतप्रयासः, न तु पातित इत्यादिविवरणम्

६५७ ’चक्राथे हि’ अग्निर्भुवि इन्द्रो दिवि, एवमुभौ द्यावापृथिव्यो-रध्यक्षौ नित्यसंयुक्तावित्यादिविवरणम्, ’समिद्धेष्वग्निषु’ कर्मपरार्थस्य स्पष्टावकाशे सत्यपि ऊर्ध्वं यजमानं गमयितुं इन्द्राग्नी एव तस्यान्तः सिद्धं कुरुत इत्यादि प्रतिपादितम्

६५९ ’यदब्रवं’ ’अयं नः सोमोऽसुरैविहव्यः’ इत्यत्र विशिष्टो-ऽर्थोऽवधेयः

६६० यदिन्द्राग्नी’ यदु-तुर्वश-द्रुह्य -अनु-पूरुशब्दानां सायणीया व्युत्पत्तिरन्तरर्थप्रतिपादनोपयोगिनीति निरूपणम्

६६४ मा छद्म रश्मीन् ’ देवबन्धुत्वद्योतकान् परम्परागतान् रश्मीन् विच्छिन्नान् मा कार्मेति ऋषः प्रार्थनाऽवधेया

६६८ कुत्सस्यार्भवसूक्ते द्वे व्याख्याते, रहस्यार्थो विवृतो मेधातिथे-राभवसूक्त (१-२०) व्याख्यानुरोधेन

६७९ ’ईळे द्यावापृथिवी’ अत्र ‘पूर्वचित्तये’ द्यावापृथिव्योरग्नेश्च प्रार्थनारहस्यं विवृतम्

६८० ’युवं तासां’ ’अस्वं धेनुं पिन्वथः’ अत्र गूढार्थो दत्तः

६८१ ’याभिः परिज्मा’ ’तनयस्य मज्मना’ ’द्विमाता’ ’त्रिमन्तुः इत्यादेविवरणमवधेयम्

६८२ ’याभी रेभं’ अत्र रेभवन्दनादयः अश्विनोरनुग्रहपानभूताः विवृताः

६८३ ’याभिरन्तकं’ अन्तक-भुज्यु-कर्कन्धुप्रभृतयोऽनुगृहीता अश्विभ्यां व्याख्याताः, ’याभिः शुचन्ति’ शुचन्तिः अत्रिः पृश्निगुः पुरुकुत्सः-एषां रहस्यार्थः

६८४ ’याभिः शचीभिः’ अन्धं श्रोणं परावृजं अधिकृत्य गूढार्थः, तथा वर्तिकाकथायाश्च सविस्तरो विचारः

६८६ ’याभिः विश्पलां’ विश्पला, वशः, अश्व्यः, प्रेणिः-एषां व्युत्पत्तिः, रहस्यं च

६८७ ’याभिः सुदानू’ अत्र ‘वणिजे’ ’दीर्वश्रवसे’ इत्यादीनां रहस्यम्, ’याभिः रसां’ अनश्वं रथमित्यत्र विवरणम्

६८८ ’याभिः सूर्य ’ अत्र ‘मन्धातारं ’’क्षेत्रपत्येषु’ इत्यादेविवरणम्

६८९ ’याभिर्महां’ अतिथिग्व-दिवोदासशब्दार्थः, ’याभिर्वनं’ वम्र-कलि-पृथिशब्दार्थाः

६९० ’याभिर्नरा’ शयुर्विवृतः

६९१ ’याभिः पठर्वा’ ऋषेस्तपोबलेन तेजोमयमभूत्तस्य शरीर-मित्याद्यवधेयम्, ’याभिरङगिरः’ ’गोअर्णसः’ ’विवरे’ इत्यत्र रहस्यम्

६९२ ’याभिः पत्नी:’ ’अरुणीः’ ’सुदेव्यं”अत्र विवरणमवधेयम्

६९३ ’याभिः शन्ताती’ अध्रिगु-ओम्यावती-ऋतस्तुभां निर्वचनम्, ’याभिः कृशानुं’ कृशानुः सोमपालोऽग्निः, ’सरड्भ्यः’ इत्यत्र विवरणम्

६६४ ’याभिर्नरं’ ’गोषुयुधं’ इत्यादेगूढार्थः

६९५ ’याभिः कुत्सं’ कुत्समार्जुनयमधिकृत्य विशेषः, ’अप्नस्वती’ वाचं क्रियायुक्तां वीर्यवतीं कुरुतमिति प्रार्थनायां वैशिष्ट्यम्

६९७ ’इदं श्रेष्ठं’ सङकेतार्थानुसारेण अहःसूर्यरात्युषसां स्वरूपाणि ग्राह्याणीति सूचितम्

६९८ रुशद्वत्सा वर्ण आमिनाने’ इत्यत्र विवरणं अवधेयम्, समानो अध्वा’ ’स्वस्रोः अध्वा’ अनन्त इत्यस्य विवरणम्

७०२ ’परायतीनां’ बह्वीनामुषसां प्रादुर्भावप्रसक्तिः

७०३ ’कियात्या यत्’ बहुषु चित्प्रभातेषु पूर्वापरविरोधवर्ज प्रभातानां सर्वत्र परस्परसद्योगमूलक: संवाद इति विवक्षा प्रदर्शिता

७०५ ’यावयद्वेषाः’ ’सुम्नावरी’ ‘सूनृताः ईरयन्ती’ इति विशेषणप्रयोजनं गूढार्थोपपादकं निर्दिष्टम्

७०७ ’व्यञ्जिभिः’ चिद्बोधं पक्वानां संपादयत्युषा इति सूचितम्, अरुणेभिः अश्वैः’ अत्र सङकेतो विवृतः

७०८ ’उदीध्वं जीवः’ जीवस्यान्तरात्मनः प्रबोधादहिरागमने ऋतस्य पन्थाः विविक्तः, अनृतात् पृथक्कृतो भवतीत्यादि रहस्यमुक्तम्

७०९ ’या गोमती’ प्रथमं गावः पश्चादश्वाः प्रोक्ताः, अनेन आदौ चित्प्रकाशं ततः परं तत्सदृशप्राणबलं यजमानाय प्रयच्छन्त्युषस इत्यादि विवृतम्

७११ ’इमा रुद्राय’ अत्र ‘द्विपदे चतुष्पदे’-अस्य रहस्यं स्मारितम्

७१७ ’आरे ते’ ’द्विबर्हाः’ मानुषे दैव्ये च स्थाने वर्धित इत्यादिरहस्यम्

७१८ ’चित्रं देवानां’ यद्यपि सूक्तमिदं आपाततो बाह्यसूर्यपरं लक्ष्यते, तथापि ऋतस्य ज्योतिषः परमात्मनो दर्शने ऋषेर्वागियं प्रवर्तत इत्यसंशयमिति प्रतिपादितम्

७२३ ’नासत्याभ्यां’ काक्षीवतेषु आश्विनसूक्तेषु आश्विनानुग्रह-पात्राणां विमदादीनां प्रस्तावः, कुत्ससूक्तेषु विवृतानि कथारहस्यानि स्मर्तव्यानीत्युक्तम्

७२४ ’तुग्रो ह भुज्युः’ तुग्रभुज्युकथारहस्यं प्रतिपादितम्

७३१ ’तद्वां नरा’ अत्र दध्यङङाथर्वणः प्रस्तुत:-तत्र प्रोक्तं मधुविद्यारहस्यं, औपनिषदमधुब्राह्मणसारांशो विवृतः

७४२ ’मध्वः सोमस्य’ अस्मिन्नपि सूक्ते प्रसक्तानां वृत्तान्तकथानां तत्र तत्र रहस्याविष्करणं संक्षिप्तम्

७६१ ’उद्वन्दनं’ प्रागुक्ताः च्यवन-भुज्यु-रेभादयः पुनः प्रस्तुताः

७६५ ’ऊर्ध्वा धीतिः’ दिशः सर्वाश्चैकीभूय ऋषेर्दृष्टिमूर्ध्वगतां द्रढयन्तीत्यादि विवृतम्

७६८ ’युवं वन्दनं’ ’विप्रं जनथ’ इत्यत्र गर्भस्थस्य वामदेवस्य प्रसक्तिः, तत्र रहस्यम्

७७८ अध स्वप्नस्य’ पारमार्थिकबुद्धिरावश्यकीति कक्षीवानृषिः सूक्तमुपसंहरति, ’कदित्था नृन्’ यजमाने देवतानुग्रहवैभवे विलसति सति, यजमानमाश्रिताः तदनुचराः शिष्याः पुत्रा वा तदनुग्रह-स्वीकरणाय प्रभवन्तीत्याद्युक्तम्

७७६ ’स्तम्भीत्’ गवां प्रसवित्री ’अश्वस्य मेना’ इत्यत्र गहनं रहस्यमुक्तम्

७८१ अस्य मदे ’ देवशत्रवः पणिवृत्रादयो देवकामानां मनुष्याणामेव द्रोहकारिणः, तैः पिहितानि द्वाराणि द्रोहकारीणीत्युपचर्यते इत्याद्यवधेयम्

७८३ ’अध प्रजज्ञे’ उत्तरोऽर्धर्चः सुदुर्बोध इत्युपक्रम्य रहस्यं तात्पर्यमुपपादितम्

७८८ ’त्वं सूरो’ एतशमुज्ज्वलं सूर्याश्वमधिकृत्य प्रागुक्तं स्मारितम्









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates