Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
(वसन्ततिलकाः)
संवत्सरादिमदिनस्तववन्दनानि भूमीजुषां परिगृहाण भुवः पते नः । सन्मङ्गलानि सदहानि जयोत्तराणि नाथ श्रियां तव यशः परितो भणन्तु ॥१॥
नामानि ते दशशतानि विदुः पुराणाः किं तेषु ते प्रियतमं भण नाम भव्यम् । किं शिष्टलोकनमनाय दधासि नाम किं नाम दुष्टदमनाय परं बिभर्षि ॥२॥
नामानि चेन्नमनसाधनमाश्रितानां धामानि ते भवनसाधनमद्भुतानाम् । केनाश्रिताश्रयविधि वितनोषि नाम्ना केनाद्भुतं जगदिदं प्रकरोषि धाम्ना ॥३॥
अध्यास्य धाम बहु भास्यतिधामभूमा निश्शब्द एव बहु नाम दधास्यनामा। किं वा कथं क च कुतश्च वयं प्रपन्ना-स्तत्ते पदं परम भोः पृथगुच्चरामः॥४॥
यत्र स्वयं चल इवाचलतुङ्ग भासि व्योमाभनीलकलयाऽन्तरितो विलासी। तां ते दशामदश सन्ततमुज्ज्वलन्ती पश्यन् पदं भजति कोऽपि जनः प्रियं ते ॥५॥
भात्येव शुन्यमिव खं वरसान्द्रसारं शान्तिः स्थिराऽपि चलतीव विचित्रगर्भा। मूकं निरुच्छ्वसितकल्पमिदं च विश्वं सा काऽपि वाग् विनयति प्रथमं विसृष्टा ॥६॥
तामादिनादविभबहुधा विमिन्ना ब्रह्माण्डजन्मभरणाभ्युदयप्रसक्ताम्। उच्चैः पदानि भजतामुरुकामदोग्ध्रीं वाचं परां भगवती समनुस्मरामः ॥७॥
विश्वप्रसूतिसुभगा यदि वाक् परस्य श्रद्धाकृतिर्भवति चिद् भुवनस्य धात्री। भव्ये भवत्यखिलवस्तुनि भूतजाने सर्वान्तरे जयति सा हृदयङ्गमा नः ॥८॥
श्रद्धेति काश्चिदमिधामभिदां दधाना वेषं विना यवनिकान्तरजस्रगाना। निर्धारणा भुवनरङ्गरताभिमाना मानोन्नता जयति चिन्नटनायकस्य ॥९॥
आधारभूमिरखिलदुहिणाण्डकोटि-रङ्गस्थलस्य निरुपाधिकनित्यनादा। नक्षत्रचित्रपरिधानवितानमूर्ध्नि भास्वत्पदा व्यजनि च स्वयमेव सेयम् ॥१०॥
सा नः पितेव परिपात्यमुतः परस्ताद् धामान्यनश्वरदिनान्यमृतक्षयाणि । सेदम्प्रमरिह च सन्तमसेन घोरे-ऽप्याशां दधाति शरणं भरणं च सा नः॥११॥
ध्वान्ते महत्यपि महः सहजं दधाना मत्ये किमप्यमृतवैभवमादधाना । नित्यान्तरौ नरसुराबपि सन्दधाना वामाकृतिर्जयति नो जगतोऽस्य माता ॥१२॥
मायेव लोचनतिरस्करिणी पुरस्ता-च्छायेव सा पुनरनुव्रजतीह पश्चात् । सा भाति नः पुनरितोऽम्बरभाविलासा चित्तेषु सा जयति नो जगदेकमाता॥१३॥
नक्तन्दिवं भजति नाम जगजनन्या यस्तत्र संपतति नाम कृपाकटाक्षः। इत्थं ब्रुवन्ति वयमत्र वदाम सत्यं सोऽयं भजेत् पतति यत्र कृपाकटाक्षः ॥१४॥
किं नाम नामभजने किमु वा नतिभ्यः सिक्तं न चित्तमथ चेदमृतेन नाम्ना। ध्यानेन किं यदि च दृष्टिरियं न नित्या सर्वात्मभावपरमा परमेश्वरीति ॥१५॥
ज्ञानं विचारसहकारि कदापि साध्यं शक्यं विनाभिलषितान्यपि कर्म कर्तुम् । भक्तिश्च दास्यविधया सुलभा कदाचित् प्रीतिः परा तु न कदापि विना कटाक्षम् ॥१६॥
सञ्चारयन् गहनगाहनदक्षभासः पात्राणि दिनु परिवीक्ष्य गवेषयन्तीः । किञ्चित् कदाचिदुपलभ्य सुधामयस्ते भूयः समुल्लसति नाथ कृपाकटाक्षः ॥१७॥
लब्धं च पात्रमुपधाय पदे निधाय काले कलामृतभरं च विधाय सिद्धम् । नाट्येऽत्र नाटयति नीलरुचिप्रसारः कोऽप्येष ते भुवनरङ्गपते कटाक्षः ॥१८॥
नेदं ममेति निखिलं धुतवानमायं नाथ त्वदीयचरणं शरणं गतोऽस्मि । एवं चिराय नमतोऽस्य ममाप्युदीक्षा-कालो भवेद्यदि कथं कुशला स्थितिः स्यात् ॥१९॥
भूयान् श्रमो विनयतस्तव मन्दमन्दा-मन्धां गतिं मम विभो विषमामसक्ताम् । एतां दशामपनयाशु विधाय नित्य-ज्वालामनन्तरदशामदशाविलोलाम् ॥२०॥
मूर्ते जगजननि भोः परदैवतस्य नारीवपुर्नरकुलोद्धरणाय धत्से। विवस्तरां तव विभूतिकलाविलासान् कस्तानिहापलपितुं प्रभवेत् कृतज्ञः ॥२१॥
मा नो जहातु जगतामधिराजि दैवी श्रद्धा धियः सहचरी सहजन्मबन्धुः। मा भूम कृत्रिमविचित्रवचोविशेष-दुर्युक्तिवेपनटनैरतिवाहिताः स्म ॥२२॥
सन्तारणाय विपदां नरजन्मभाजां निस्सारणाय धरणेरपि दुष्कृतानाम् । सत्यैकलक्ष्यहृदयहृदयेषु बद्धा श्रद्धामुपायसरणिं विदधे विधात्री ॥२३॥
अम्बेति लोकजननीति चितिः परति शक्तिः परस्य वरभूतिविलासिनीति । नाथेति नाथ जगतामिति सन्तमेकं निर्लिङ्गभेदमनवं नतवानहं त्वाम् ॥२४॥
अत्राह्निकस्तवविधावपरं परं च त्वामेकमेव पुरुषं स्त्रियमप्यवेत्य । आभिर्वसन्ततिलकाभिरकार्षमाशा-पूरस्य पादयुगलस्य तवोपहारम् ॥२५॥
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.