ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

SIDELIGHTS IN SANSKRIT LITERATURE




अलकारबोधः

१. सचमत्कारसादृश्यवर्णनामुपमा विदुः । मुखं चन्द्र इवेत्युक्तिलक्ष्यार्थं लक्ष्यते बुधैः ॥

२. उक्तिभङ्गिषु विच्छित्त्या चित्रवेषेव नर्तकी। अलङ्कारेषु सैवैका भजते बहुनामताम् ॥

३. मुखं चन्द्र इवाभाति चन्द्रो मुखमिवेति चेत् । उपमेयोपमां प्राहुरलङ्कारेषु तद्विदः ।।

४. मुखं मुखमिवेत्युक्तावलङ्कारस्त्वनन्वयः । चन्द्रो मुखमिवेत्युक्ते प्रतीपं परिचक्षते ।।

५. चन्द्रं दृष्ट्वा स्मराम्येव मुखं स्मरणमुच्यते । मुखमेव शरच्चन्द्र इति चेद्रूपकं मतम् ।।

६. परिणामः स यत् तापो मुखचन्द्रेण शाम्यति । मुखं किमेतदथवा चन्द्रः सन्देह उच्यते ॥

७. चन्द्र इत्यनुधावन्ति चकोरा वीक्ष्य ते मुखम् । इत्यादौ भ्रान्तिमानुक्तः काव्यालङ्कारवेदिभिः ।।

८ . चञ्चरीकाः पद्ममिति चकोराश्चन्द्र इत्यपि । मुखे तवानुरज्यन्तीत्युल्लेखं परिचक्षते ॥

९. अयं चन्द्रो न तु मुखमित्यपह्नव उच्यते । नूनं चन्द्र इति प्राहुरुत्प्रेक्षायामुदाहृतिम् ॥

१०. उक्तिः सातिशया प्रोक्ता चन्द्रोऽयमिति चेद्रुधैः । मुखेन चन्द्रकमले निजिते तुल्ययोगिता ।।

११. निशि चन्द्रस्त्वन्मुखं च हृष्यतीत्यत्र दीपकम् । चकोरो रज्यते चन्द्रे मुखे रज्याम्यहं तव ॥

१२. प्रतिवस्तूपमामेतामाहुः काव्यविचक्षणाः । दृष्टान्तो दिवि शुभ्रांशुस्त्वन्मुखं भुवि कीर्त्यते ।।

१३. मुखं चन्द्रश्रियं तन्वि बिभर्तीति निदर्शना। व्यतिरेको निष्कलङ्कं मुखं चन्द्रातिशायि ते॥

१४. त्वन्मुखेन समं चन्द्रो यामिनीषु प्रहृष्यति । सहोक्तिरेषा कथिता काव्यालङ्करणप्रियैः ।।

१५. मुखस्य पुरतश्चन्द्रो निष्प्रभः पूर्वसूरिभिः । अप्रस्तुतप्रशंसायामुदाहरणमुच्यते ॥

१६. गोतुल्यो गवयश्चेति वाक्ये का भाति हृद्यता ? चमत्कृतिरलङ्कार उपमा तां विना कुतः ?

१७. गौर्वाह्लीक इति प्रोक्ते कथं वा रूपकं भवेत् ? स्थाणुर्वा पुरुषो वेति सन्देहालङकृतिः कथम् ?

१८. इदं रजतमित्युक्ति र्धान्तिमान् न कथञ्चन । नायं सर्प इति प्रोक्ते नापह्नुतिरुदीर्यते ॥

१९. न सहोक्तिरियं तातस्तनयेन सहागतः ।।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates