ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

SIDELIGHTS IN SANSKRIT LITERATURE




भरतखण्डे जातिः

अथायमर्थो लघु विचार्यते, यदत्र भरतखण्डप्रचारा जातिरं भवति स्थितिपालनस्य सहकारप्रवणतया सहकारित्वविलसनस्य चेति ॥ तत्र प्रथम तावदयमर्थो विविच्य ग्राह्यः यत् किंस्वरूपा जातिव्यवस्था विशेषतश्चाधुनातनी किंप्रमाणका किंप्रयोजना चेयं या स्थितिरक्षणस्य द्वारमुच्यते, का नाम स्थिति-र्यस्याः पालनं सहकृत्वतया विशिष्य समर्थ्यते, को नाम सहकारो यो जाति-द्वारेण प्रकाशो भवतीति ।

तत्रादौ जातेः पूर्ववृत्तम् अद्यतनमवस्थानं च समासतः परामृशामः, यत एते प्रश्नाः प्रत्युक्ताः भवेयुः विषयविचारश्च फलितः स्यात् ॥ चातुर्वर्ण्य शाखोपशाखाभि: जातिबहुत्वरूपतया विपरिणतमिति चरित्रपरीक्षणाद्वेदशास्त्र-स्मृतिपुराणेतिहासेभ्यश्चावगम्यते ॥ चातुर्वर्ण्यव्यवस्थोदयात्पूर्वः कश्चन काल आसीदिति शान्तिपर्वणि युधिष्ठिरं प्रति भीष्मोक्तिः सुप्रसिद्धा । अयं च भारतश्लोको भवति ।

"न वै राज्यं न राजासीन्न च दण्डो न दाण्डिकः ।
धर्मेणैव प्रजाः सर्वा रक्षन्ति स्म परस्परम्" ॥इति ॥

बाह्यनियामकहेतुना विनैव सर्वाः प्रजाः स्वस्वभावप्रेरितेषु कर्मसु वर्तमानाः परस्पररक्षणक्षमेण धर्मेण युक्ताः बभूवुरिति कथा ॥ तादृशी स्थितिरासीन्ना-सीद्वेत्यस्तु सन्देहः ॥ इदं तु स्पष्टम् ॥ तादृशो मानुष्यकादर्शः प्रत्यभात् पूर्वेषां महाभारतकारादीनामिति ॥

काले गते, प्रजासु रागमोहाद्यविद्यासन्ततिप्रवेशात् स च धर्मो नष्ट: येन परस्परं प्रजाः रक्ष्यमाणा आसन् ॥ धर्मनाशान्मानुष्यकक्षेमोपहतिरभूत् ।। तस्मान्मानुष्यकपरिरक्षणाय धर्मः पुनः प्रतिष्ठापयितव्योऽभूत् ॥ स च धर्म: मानुष्यकस्य चातुर्वर्ण्यविभागेन साधित इत्यवगम्यते ॥ गुणकर्मविभागशश्चातु-वयं सुष्टमिति गीतासु स्मर्यते । अस्य मूलसूत्रतया ग्राह्यो "ब्राह्मणोऽस्य मुखमासी"दिति पुरुषसूक्तीयो ऋङमन्त्रः ॥ पुरुषसूक्तव्याख्याने “सहस्रशीर्षा पुरुष" इत्यत्र सायणभाष्यवचनमिदं भवति “सर्वप्राणिसमष्टिरूपः पुरुषो विराडाख्यायते” इति ॥ तस्मात् सर्वेश्वरस्य सर्वत्रावस्थानेऽपि विशेषतो मानु-ष्यकेऽभिव्यज्य विराजमानस्य विराट्त्वमुक्तं भवति ॥ अस्य मुखबाहूरुपादाः ज्ञानबलसम्यक्क्रियाद्युपलक्षणार्थाः ब्राह्मणादिचातुर्वर्ण्यप्रभवत्वेन प्रतिपादिताः भवन्ति ॥ यद्यपि स्वभाव एव उचितगुणकर्माविष्कारको मूलकारणं भवति चातुर्वर्ण्यविभागस्य, तथापि तस्य सूक्ष्मत्वादान्तरत्वाच्च बहिः परिदृश्यमानेन स्वाध्यायराज्यवाणिज्यसेवादिना लक्षणेन चातुर्वर्ण्यविभागे विशिष्य व्यवस्था-ततः कालक्रमेण वृत्तिरेव वर्णस्य लक्षणमभूत् ॥ वृत्तीनां बहुत्वात् समानवृत्तौ युक्ताः सङघीभूय सजातीयतां प्रापुः ॥ एवं बह्वयो जातयो निष्पन्नाः ॥ चतुर्णामपि वर्णानामनेकजातिरूपतया विपरिणामे जाते याव-त्कालं वृत्तिविशेषेण जातिरलक्ष्यत, तावत्कालं कोऽपि वर्णगन्धोऽभूद् जातेः ।। इदानीं तु सर्वासामपि जातीनां जातित्वसिद्धिः वृद्धिनियमविरहं जन्मनैव भवति न तु कर्मणा। गुणकर्मणोर्नियामकेन स्वभावेन तु जातिनिर्णयो न कर्तुं शक्यते, तस्य अबाह्यत्वाद् दुरूहत्वादित्यवोचाम॥ जन्मनो जातिनिर्णायकत्वे जातेः स्थैर्य सम्पाद्यते ॥ तच्च स्थैर्यं गृह्याचारकुलाचारसमयाचारादिरूपे बाह्यलक्षणे धर्मत्वेन गृह्यमाणे कस्मिंश्चिदभिमानविशेषे शक्यते द्रष्टुम् ।। साध्वसाधु वा विमर्शनिरपेक्षं बहोः कालात्पूर्वेभ्य आगतम् सजातीयैरभिमान-बलेन परिपाल्यते ॥ तस्मादद्य सजातीयपुरुषव्यक्तीनां परस्परविरोधवरस्यादेः सम्भवेऽपि तासां सर्वासां बन्धको धर्मः अभिमानप्रोद्वलको जातीयतायां श्रद्धा-विशेष इति वक्तव्यम् ॥ सोऽयमभिमानबन्धः सजातीयानेकीकृत्य तेषां स्थिति-रक्षणे सहकारितासम्पादनाय कल्पते ॥ यद्यपि सर्वासां जातीनां स्वस्वकर्मवृत्ति-विघातेन सङघर्षजं वृत्तिवैषम्यं रागद्वेषादि च सम्भवन्त्येव, तथापि स्वीयपूर्वा-चारप्राप्तं स्नानाशनवसनालङकारदेवोपास्त्यादिविषयकं विधानम् । धर्मबुद्धया परिपालने तेषां सहकारिता अस्त्येव ।। अत एव जातिर्नवाभ्युदयदूराऽपि न नष्टा भवति ॥ सेयं जातिः स्थितिरक्षणाय सहकारशीलतया द्वारं भवतीति शम्॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates