Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
’विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः" रसनिष्पत्तिः” इति भरतसूत्रम् । अस्य सूत्रस्य तात्पर्यपरिग्रहे मतभेदो वर्तते ॥ तत्र चत्वारि मतानि व्या-चख्युः मम्मटभट्टाः। तदुक्तिक्रमानुसारण प्रथमं भट्टलोल्लटप्रभृतीनां सिद्धान्तमाख्यास्यामः ।।
( विभाव-अनुभाव-व्यभिचारि-स्थायिनां स्वरूपं सुविज्ञाततया नेह विचार्यते। अन्यत्र विभावादीनां शब्दव्युत्पत्तिरवलोकनीया ॥)
१. ललनादयः आलम्बनविभावाः । उद्यानादयः उद्दीपनविभावाः । रत्यादेः स्थायिभावस्य ललनोद्यानादिविभावेन उत्पाद्य-उत्पादकभावः सम्बन्धः। कटाक्षभुजाक्षेपादिना अनुभावेन गम्य-गमकभावः सम्बन्धः । उत्कण्ठादिना व्यभिचारिणा पोष्यपोषकभावः सम्बन्धः॥ एवं त्रिविधात् सम्बन्धात् रसस्य निष्पत्ति: उत्पत्तिः अभिव्यक्तिः पुष्टिश्च भवति ।
प्रकारान्तरेण ब्रूमः-आलम्बनविभावैः रत्यादिक: स्थायी जनितः, उद्दीपनविभावैः उद्दीपितः अनुभावै: प्रतीतियोग्यः कृतः, व्यभिचारिभिः परि-पोषितश्च भवति । सोऽयं रसः रामादौ अनुकार्ये नाटयेन अभिनयक्षमे वर्तमानः नटे सामाजिकै: आरोप्यमाणः तेषां चमत्कारहेतुः भवति । रामादि: अनुकार्यः- (अनुकृते विषयभूतः), नट: अनुकर्ता, अनुकृतिश्च राम-सदृशवेषधारण-अभिनयादि-नटननैपुण्यसाध्या । यद्यपि रत्यादिः प्रथम रामादावेव तथाऽपि नटे तथाऽपि नटे रामादितुल्यरूपतानुसन्धानवशाद् रत्याद्यारोपः क्रियते सहृदयैः सामाजिकैः ॥ एवम् आरोपितो रत्यादिरेव रसपदवीमधि-रोहति। यथा सर्पाभावेऽपि सर्पबुद्ध्या अवलोकिता रज्जुः द्रष्टरि भयमु. त्पादयति, तथा रामाद्यभावेऽपि रामादिबुद्धया अवलोकितः नर्तकः ’रामो-ऽयं सीताविषयकरतिमान्’ इति सहृदये सामाजिके चमत्कृति करोति। इति अस्य मतस्य सारांशः ॥
अत्रेदं वक्तव्यम् । नैतद् युक्तम्। कुतः ? यदि सामाजिकेषु रस-निष्पत्तिर्न स्यात्, तदा चमत्कारानुभावो न संभवति । संभवति। केवलं तज्ज्ञान-मेव चमत्कारहेतुरिति न वाच्यम्। कुतः ? लोके (न तु नाटये काव्ये वा) शृङ्गारादिदर्शनेन चमत्कृतिः प्रसज्येत। कटाक्षभुजाक्षेपबलाद् आरोपः चमत्कारहेतुः न केवलं साक्षात्कार इति चेत्, न। सुखं न कदा-प्यारोपजन्यं, वस्तुतो विद्यमानमेव । यथा चन्दनलेपं विना चन्दनारोपेण सुखं न भवति, तद्वत् सामाजिके आरोपाच्चमत्कृतिर्न निष्पद्यते रसनिष्पत्ति सूत्रस्य अन्यथा व्याख्याने उपपत्तिर्दृश्यते ।।
२. द्वितीयं मतं शङकुकस्य
स्थायिनो रत्यादेः विभावादिभिः अनुमाप्य-अनुमापकभावः सम्बन्धः, तेन रसनिष्पत्तिः अनुमितिः इति । (अनुमाप्यः स्थायी इत्यादिः अनुमापक: विभा-वादिः) अयं अनुमानाकारः
रामोऽयं सीताविषयकरतिमान् (पक्षः), सीताद्यालम्बनविभावादिसम्बन्धत्वात् (हेतुः), यो यदात्मकविभावादिसम्बन्धवान् स तद्रतिमान् ।
अयं च तथा, तस्मात् तथेति (उदाहरणम्)। पूर्वोक्तमते नटे रामत्वम् आरोपितम्। अत्र नास्ति आरोपः, किंतु प्रत्यक्षं राममेव पश्यन्ति सामा-जिकाः । कथम् इति चेत् चित्रतुरगन्यायेनेत्याह। नटे रामत्वप्रतीतिः प्रतीति-चतुष्टयविलक्षणा॥
तत्र इमाश्चतस्रः बुद्धयो भवन्ति-
‘63
अयं क्रमः-उक्तप्रतीतिभ्यः विलक्षणया बुद्धया चित्रे "तुरगोऽयम्" इतिवत् ’रामोऽयम्’ इति प्रथमं नट: गोचरीक्रियते । ततः तत्र अविद्यमान-मपि विभावादित्रयं लिङ्गं कृत्रिमं नटस्य शिक्षाभ्यासबलात् प्रकाश्यते । सहृदयैः सामाजिकस्तेन लिङ्गेन कृत्रिमेण रत्यादिरनुमीयते। सा च अनुमितिः चमत्कारसनाथा प्रतीति: चर्वणा भवति । तया चर्वणया गोचरी-क्रियमाणः स्थायी रस: उच्यते । स च सामाजिकेष्विति व्यवहारः ।। नेदं - हृदयग्राहि। कुतः? प्रत्यक्षमेव ज्ञानं चमत्कारकम्, न अनुमित्यादिरिति लोकप्रसिद्धिमवधूय अन्यथा कल्पने मानाभावात् (प्रमाणं नास्ति)॥
सूत्रस्य अन्यथा योजना संभवति॥
३. भट्टनायक आह-
विभावादिभिः संयोगाद् भोज्यभोजकभावसम्बन्धात् रसस्य निष्पत्तिः भुक्तिरिति ॥ प्रथमे मते रसस्य निष्पत्तिः उत्पत्तिरभिव्यक्तिर्वा द्वितीये सा अनुमितिः तृतीये तु भुक्तिः। सोऽयं भोगपक्षः संक्षिप्यते ॥
ताटस्थ्येन (स्वसम्बन्धराहित्येन) रसप्रतीतिः नास्वाद्यते। नटगतत्वेन नानुमीयते। नाट्यकरणकाले रामाद्यभावेन तद्रत्यादेरप्यभावः असतः सत्त्वे-नानुमानं न संभवति। वस्तुतो रामादिगता रतिः नटगतत्वेन अनुमिताऽपि कथं सामाजिके असती चमत्कारं जनयेत् ? कथं तर्हि भोगपक्षे सामाजिके-ऽपि रंसस्य असिद्धत्वात् भोगः संभवति इति चेद् उच्यते ॥ अयं भोगः अलौकिकः । कथम् ? शब्दात्मनः काव्यस्य त्रयो व्यापाराः। अभिधा, भावना, भोगीकृतिरिति । तत्र अभिधा द्विविधा। निरन्तरार्थनिष्ठा ( व्यवधानरहिता) मुख्यार्थविषया, सान्तरार्थनिष्ठा लक्ष्यार्थविषया। भावना, भावकत्वं साधारणीकरणम् । एतदेव सीतादिविशेषाणां कामिनीत्वादि-सामान्येन उपस्थापनम्, अनेनैव भावकत्वव्यापारेण विभावादयः स्थायी च साधारणीक्रियन्ते। एवं काव्ये नाटये च भावकत्वव्यापारेण साधारणी-कृतविभावादिभिः तृतीयव्यापारभूत-भोजकत्वसाहित्येन रत्यादिः स्थायी भुज्यते ॥ को नामायं भोगः ? उच्यते तत्स्वरूपम्। सत्त्वरजस्तमोगुणानाम् उद्रेकेण क्रमेण सुखदुःखमोहाः प्रकाश्यन्ते । यदा रजोगुणं तमोगुणं च अभिभूय सत्त्वगुणोऽवतिष्ठते, तदा सत्त्वोद्रेकः । पूर्वोक्तरीत्या भावकत्व-व्यापारेण विभावादिरूपसीतादयः सीतादित्वसम्बन्धांशम् अपहाय सामान्येन कामिनीत्वेनैव उपस्थाप्यन्ते, तथा रामादिसम्बन्धिनी रतिश्च रामादित्व-सम्बन्धांशम् अपहाय सामान्यतः रतित्वेनैव उपस्थाप्यते ॥ एवं साधारणी-कृतविभावादिसहकृतेन भोजकत्वव्यापारेण रसनिष्पत्तिः रसास्वादः॥ भावकत्वव्यापारकल्पना न लक्षणाप्रयोजनव्यञ्जकतया अभि-धया सान्तरार्थनिष्ठया एव भावनाव्यापारस्य गतार्थता बोध्या भावना, भुक्तिरिति व्यापारद्वयकल्पनायाः मानाभावात् इति ॥ अस्मिन् मते भुज्य-मानो रत्यादिः रत्यादिभोगः उभयमेव वा रसः, स च ब्रह्मास्वादसमीप-वर्ती चर्वणानैपुण्यसम्पादक-वासनासम्पन्न-सहृदयः सामाजिकात्मगतः ।। तदा द्रष्टुः स्वरूपेऽवस्थानम् इति योगसरणिम् अवलम्ब्य सत्त्वोद्रेकाद् रसभुक्ति-रेव रसव्यक्तिरित्याहुः ॥
४. चतुर्थम् अभिनवगुप्तपादानाम्-
पूर्वस्मिन् मते यो भावनाख्यव्यापारः स्वीकृतः स नेष्यतेऽस्मिन् । तत्रो-क्ता भुक्तिरेव व्यक्तिः । अन्या सैव सरणिः॥
अयं संक्षेपो भवति-विभावाद्यैः व्यक्तः (व्यक्तिविषयीकृतः) स्थायी भावो (रत्यादिरेव) रसः । का नाम व्यक्तिः ? भग्नावरणा चित् (आत्मचैतन्यम्) एव व्यक्तिः। यथा शरावादिपिधानेन पिहितः दीपः पदार्थान् न प्रकाशयति, स्वयं च प्रकाश-मानः न दृश्यते, पिधाने अपावृते स्वयंप्रकाशो दृश्यते पदार्थान् अपि प्रका-शयति तथा व्यञ्जकानां विभावादीनां चर्वणा (सामाजिककृता) आवरणं भञ्जयति। एवं चर्वणामहिम्ना सहृदयस्य निजसहृदयताया उन्मेषेण रत्यादिः स्थायी रसपदवाच्य-आनन्दस्वरूपो भवति । स च आनन्दः न लोकसाधारणः । समाधौ योगिनश्चित्तवृत्तिः यथा स्वस्वरूपे तन्मयीभावेन अवतिष्ठते तथेति ।।
अयं सारांशः। यथा शमीतर्वादौ अग्निः वर्तमानोऽपि न प्रकाशो भवति, संघर्षमथनादिना तु निष्पाद्यते, तथा रत्यादिः स्थायी भावः सहृदया-त्मनि नित्यो वर्तमानः अनभिव्यक्तः सन् विभावादेः (पानकस्येव) चर्वणया व्यञ्जितः रसतां प्राप्नोति ॥
इदं च अवधेयम् ॥ आत्मा साक्षी भासकः (प्रकाशकः) । अन्त:-करणधर्माः तेन साक्षिणा भास्याः चितः आवरणभङ्गे, आत्मचैतन्यं विभा-वादिसंवलितान् रत्यादीन् प्रकाशयति, स्वयं च प्रकाशते ।
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.