Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
शब्दार्थों काब्यमित्युक्तं प्रथमोल्लासे। अनन्तरम् अस्मिन् उल्लासे शब्दार्थ-स्वरूपनिर्णयः क्रियते। तत्र प्रथमं त्रिविधः सब्द: त्रिविधोऽर्थश्चेत्याह ।
वाचकलाक्षणिकव्यञ्जकानां शब्दानां क्रमेण वाच्यलक्ष्यव्यङ्गयाः अर्थाः इति बोध्यम्। केचित् तात्पर्यार्थः इति चतुर्थमर्थं पदार्थव्यतिरिक्तमङ्गी-कुर्वन्ति। कोऽयं पदार्थव्यतिरिक्तः तात्पर्यार्थः ? कथं पदार्थेभ्यो व्यतिरि-क्तता तात्पर्यार्थस्य ? किं तस्य स्वरूपम् ? पश्यामस्तावत् ।
सः अर्थः परं प्रधानः यस्य सः तत्परः पदोच्चयः तत्परस्य भावः तात्प-र्यम्-तात्पर्याख्यः अर्थः तात्पर्यार्थः। वक्ष्यमाणलक्षणादीनाम् आकाङक्षादीनां प्रयोगात् यः पदार्थसमन्वयः प्रतीयते सः संकेतग्रहणमात्रप्रतीयमानात् पदार्थात् व्यतिरिक्तो भवति-कुतः पदार्थात् भिन्नस्वरूपः-अत एव आकाक्षादिकारण-त्रयेण प्रतीयमानो विशेषवपुः इत्युक्तम् । स एव वाक्यार्थोऽवभासते। सत्स्वपि पदार्थेषु आकाङक्षादिविरहे वाक्यार्थो न स्फुरति । आकाक्षादीनां प्रयोगतया तात्पर्यस्यांवभासेन योऽर्थः प्रतीयते स एव तात्पर्यार्थ:--पदार्थव्यति-रिक्तो वाक्यार्थः उच्यते।
मीमांसकानामेके भाट्टाः इमां तात्पर्यवृत्तिमाश्रित्य वाक्यार्थनिर्णये प्रव-र्तन्ते। अत एव तेऽभिहितान्वयवादिनः अभिहितानां पदानाम् अन्वयं वदन्तीति अर्थः । ’गामानय शुक्लं दण्डेन’ इत्यादौ पदानि स्वार्थमभिधाय अनन्तरम् अन्वि-तानि भवन्तीति ये वदन्ति तेऽभिहितान्वयवादिनः। अन्ये तु प्राभाकराः अन्विताभिधानवादिनः । अन्वितानां पदानामभिधानं वदन्तीति ते तथोक्ताः । पदानि प्रथममन्वितानि भूत्वा पश्चात् विशिष्टमर्थं वदन्तीति अन्विताभिधान-वादिनः। तस्मात् वाच्य एव वाक्यार्थः इति तेषाम् मतम्। वाच्ये अन्व-यांशस्य वर्तनात् तात्पर्यवृत्त्यङ्गीकारो नावश्यकस्तेषाम् ।
तात्पर्यवृत्त्या योऽर्थः प्रतीयते स तात्पर्यार्थः एव वाक्यार्थः। अथ वाक्या-र्थज्ञानक्रममुदाहरणपूर्वकं वक्ष्यामः । तत्र प्रथमं पदपदार्थान्वय आकाङक्षा- नाम दीनां स्वरूपज्ञाने सत्येव वाक्यार्थज्ञानक्रमः सुबोधो भवेदिति पदादीनां स्व-रूपम् उच्यते।
तत्र प्रथमं किं नाम पदम् ? वृत्तिमत्वं पदत्वम् अर्थवद्वर्णो वर्णसमूहो वा–यथा ‘गौः’। वृत्तिः शाब्दबोधहेतुपदार्थोपस्थित्यनुकूल: पदपदार्थयोः सम्बन्धः। शाब्दबोधो एकपदार्थेपरपदार्थसंसर्गविषयकं ज्ञानम् । पदार्थश्च-पदजन्यज्ञानविषयवाक्यं-आकाङक्षायोग्यतासन्निधिमत्पदोच्चयो वाक्यम्। वाक्यार्थश्च वाक्यतात्पर्यविषयः ।
अथ शाब्दबोधसहकार्याकाङक्षादित्रयस्वरूपं बोध्यम् । परस्परमर्थागमो-ऽन्वय उच्यते। येन पदेन विना यस्य पदस्य अन्वयबोधो न जायते तेन तस्य समभिव्याहारः ‘आकाङक्षा’। ’आनय’ इति पदेन विना ’गाम्’ इति पदस्य नान्वयबोध:-तस्मात् आनयेति पदेन गामिति पदस्य समभिव्याहारः । ’योग्यता’--बाधकप्रमाणविरहः–’वह्निना सिञ्चति’-दहनसेचनयोः पर-स्परविरोधात् एकत्र असम्भवः प्रत्यक्षसिद्धः । तथा वह्वेर्दाहकत्वं च प्रत्यक्ष -तस्मात् वह्निना सेचनं प्रत्यक्षेण प्रमाणेन बाध्यते। ईदृशं बाधकं प्रमाणं यत्र नास्ति सा योग्यता। सन्निधिः (आसत्तिः) येन पदार्थेन सह यस्य पदार्थस्य अन्वयः इष्यते तयोः पदयो: ’अव्यवधानम्’ । “गिरि(क्तं वह्निमान् देवदत्तेन" अत्र गिरिर्वह्निमानित्युभयोः नास्ति सन्निधिः। भुक्तमिति पदेन तौ व्यवहितौ। एवं ’भुक्तं देवदत्तेन’ इत्यत्र वह्निमानिति शब्दो व्यवधान-हेतुः।
अथ शाब्दबोधस्वरूपं निरूपयामः। एकपदार्थेऽपरपदार्थसंसर्गविषयकज्ञानं हि शाब्दबोधः इत्युक्तम् । ’गामानय त्वम्’ इत्यत्र गोपदार्थे आनयपदार्थस्य कीदृशः संसर्गः इति निर्णयः कार्यः । तथा तत्र त्वंपदार्थसंसर्गस्य स्वरूपञ्च बोध्यम् । गां-गोपदस्य गोत्वविशिष्टे पशुविशेषे शक्तिः द्वितीयाविभक्तेः कर्मत्वे शक्तिः–आङ-उपसर्गपूर्वक-नयपदस्य आनयने शक्तिः यकारोत्तर-अकारस्य कृतौ च शक्ति:-त्वंपदस्य सम्बोधनयोग्यचेतने शक्तिः, एवं पदा-र्थानां परस्परसम्बन्धज्ञानं शाब्दबोधो भवति ।
अथ वाक्यार्थज्ञानक्रम शास्त्रीयेण प्रकारेण दर्शयिष्यामः । गोपदार्थस्य द्वितीयार्थकर्मत्वे आधेयता सम्बन्धः-आधेयता च वृत्तित्वमुच्यते । पूर्वकनयतेर्धातोः आनयनार्थे कर्मत्वनिरूपकतासम्बन्धः । यकारोत्तर-अकारः कृतिप्रेरणार्थक:-कृतौ आनयनानुकूलतासम्बन्धः कृतेः त्वंपदार्थे आश्रयता- सम्बन्धः। प्रेरणायाः त्वंपदार्थे विषयतासम्बन्धः । तस्मादयं वाक्यार्थ-निष्कर्षः-गोवृत्तिकर्मतानिरूपकानयनानुकूलकृत्याश्रयः प्रेरणा-विषयः त्वंपदार्थः इति वाक्यार्थनिष्कर्षः।
अत्र तात्पर्यार्थः वाक्यार्थः शाब्दबोधश्च स्वरूपतः प्रतिपादिताः। इवं तु अवधेयम्। तत्प्रतीतिजननानुकूलवृत्तिमत्वं तात्पर्यम्। तात्पर्यार्थ एव वाक्यार्थः . संसर्गविषयकनिष्कृष्टज्ञानं शाब्दबोधः । आकाक्षादित्रयं तात्पर्यहेतुशाब्दबोधसहकारि ।
अर्थानां व्यञ्जकता
त्रयाणामपि वाच्यादीनां व्यञ्जकत्वं पद्योदाहरणेन ’ प्रतिपादितम् । तत्र वाच्यस्य व्यञ्जकत्वं “मातर्गृहोपकरणम्” इति पद्येन, लक्ष्यस्य “साधयन्ती" इत्यनेन, “पश्य निश्चल" इति पद्येन व्यङ्गयस्य च ।
वाचकादीनां स्वरूपप्रतिपादने प्रथमं वाचकमाह । अनेन शब्देनायमर्थो बोद्धव्य इति वृद्धपरम्परागतप्रत्ययरूपसंकेतः शब्दव्यापारः अर्थबोधजनको भवति । स वाचकः शब्द उच्यते-येन सङ्केतितोऽर्थो व्यवधानेन विना प्रतिपाद्यते।
अथ शब्दस्य कोऽर्थः ? न जातिः, गामानय, गां बधानेत्यादौ गोत्वजातिः आनेतुं बद्धं वा न शक्यते। तस्मात् जातेन प्रवृत्तिनिवृत्तियोग्यार्थो भवितु-मर्हति।
व्यक्तिरपि नार्थः शब्दस्य–अनन्ताः व्यक्तयः । सर्वाः अपि न ग्रहीतुं शक्यन्ते; उपस्थिते कस्मॅिश्चिद् गोपिण्डे सङ्केतः स्यादिति चेत् अन्यासु गो-जातिसम्बद्धासु व्यक्तिषु न भवेत् सङ्केतः, इदं चासङ्गतम् । यदि असङ्केतस्य अपि गोजातिसम्बद्धासु व्यक्तिषु अर्थग्रहः उच्यते, असङ्केतितेऽश्वेऽपि अर्थग्रहो भवेत्। अपि च व्यक्तौ एव सङ्केतश्चेत् शुक्लो गौः-चलो गौः इत्यादी शुक्लत्वादिर्न गृह्यते।
तस्मात्प्रायशः सर्वेषां जातिविशिष्ट-व्यक्ती सङ्केतस्य अङ्गीकारो बोध्यः ।
गौः शुक्लश्चलो डित्थ इति चतुष्टयी शब्दानां प्रकृतिरिति महाभाष्य-कारमतमनुसृत्य उपाधौ एव सङ्केत इत्युक्तम् । जात्यादिरेव उपाधिः विशेषणं, जातिः पदार्थस्य प्राणप्रदः सिद्धो वस्तुधर्मः यथा गोत्वादिजातिः। गुणस्तु विशेषाधानहेतुः सिद्धो वस्तुधर्मः शुक्लादि:-शुक्लो गौः। साध्यो वस्तु-धर्म:-क्रिया चलो गौः। डित्थादिः द्रव्यं-गोपिण्डं डित्थादि संज्ञा। इदमेव वक्तृयदृच्छासंनिवेशात्मकं पूर्वपूर्ववर्णानुभवजनित-संस्कारसहकृतया बुद्धया निःशे-षतो ग्राह्यं स्फोटाख्यं घटादिवत् वर्णक्रमशून्यं डित्यादिषु शब्देषु वक्त्रा यदृच्छया सन्निवेश्यते।
वैयाकरणानां स्फोटवादबोद्धव्याः केचनांशाः इह लक्ष्यन्ते। शब्दो द्वि-विधः-(१) वर्णात्मको ध्वनिः व्यञ्जकः, (२) स्फोटात्मकः शब्दो व्यङ्गयः । व्यञ्जकोऽनित्यः वर्णक्रमवान्, व्यङ्गयः स्फोट: नित्यं संहृतक्रमः। पूर्वपूर्व-वर्णश्रवणानुभवजनित-संस्कारसहितान्त्यवर्णेन क्षणिकेन ध्वनिना व्यञ्जकेन स्फोटाख्यः शब्दोऽखण्डो व्यज्यते। अनेन स्फोटेनार्थो ज्ञायते न तु ध्वन्या-त्मकवर्णेनानुलक्षणं नश्वरेण। ह्रस्वदीर्घमन्दोच्चादितारतम्यभेदो व्यञ्जकस्य वर्णस्य न तु अखण्डस्य व्यङ्गयस्य स्फोटस्य । स्फुटयतेऽर्थः अनेनेति स्फोट:-स्फुटत्यस्मादर्थः इति वा। स्फोट एव शब्द: न तु वर्णः । स तु केवलं व्यञ्जकध्वनिः ।
वाचकस्य शब्दस्य वाच्योऽर्थः जातिविशिष्टव्यक्तिरेवेति प्रायिकं बहुशास्त्र-सम्मतमुक्तम् । एवमस्मात्पदात् अयमर्थो बोद्धव्यः इति अनादिसङ्केत एव शक्तिवृत्तिः उच्यते। सेयं शब्दशक्तिः अभिधावृत्तिर्भवति-पदपदार्थयोः वाच्यवाचकसम्बन्धः इति वा।
शक्तं पदं अर्थप्रत्यायनरूप-कार्योत्पादनयोग्यम् ।
शक्योऽर्थः-पदनिष्ठशक्तिविषयः ।
शक्याख्यस्य अर्थस्य शब्दगतः सम्बन्धः शब्दस्यार्थगतः सम्बन्धो वा अभिधा -सा च शक्तिः त्रिविधा। केबलसमुदायशक्तिः केवलावयवशक्तिः समु-दायावयवशक्तिसङ्करः।
डित्थ इत्यादौ संज्ञाशब्दे अवयवशक्तिर्नास्ति, तस्मात्केवलसमुदायशक्ति-सद्भावाद् रूढः शब्दो डित्यादिः ।
पाचकः पाठकः इत्यावो केवलावयवशक्तिः । अत्र पचतेर्धातोः ण्वुल्-(अक्) प्रत्यये परे पाचक इति निष्पद्यते। अत्र धातुना प्रत्ययेन च यावर्थों बोध्येते तयोरवयेनैकोऽर्थः उल्लसति-स च पाककर्तृकरूपः-तस्मादृतेऽन्योऽर्थो मावभासते। अत्र समुदायशक्ति स्ति-केवलावयवशक्तिरेव। एवम् अव-यवश क्तियोगेनेच निष्पन्नः पाचकादिः यौगिकः शब्दः ।
पङ्कजादौ समुदायावयवशक्तिसङ्करः। अत्रावयवशक्तिवेद्यानां पङ्कजनन-कर्तृणाम् आकाङक्षादिवशादन्वयेन कश्चनार्थः प्रकाशते, स यौगिकार्थः पद्मा-दन्यत्र शैवलादावपि उपपद्यते, परंतु पद्मत्वविशिष्टे एव रूढो भवति। तदर्थं समुदायशक्तिकल्पनादुभयोः समुदायावयवशक्त्योः सङ्करः। ईदृशाः शब्दाः यौगिकमर्थमजहतः रूढाश्च भवन्ति इति योगरूढ इति व्यवहारः ।
यया वृत्त्या शब्दः सङ्केतितमर्थम् अव्यवधानेन प्रतिपादयति सा अभिधा कथिता ।
अथ लक्षणा
वाच्यार्थ एव मुख्यार्थः-तस्यासङ्गतिरूपे बाधे, तत्सम्बन्धे सति रूढे: प्रयोजनाद्वा लक्षणावृत्तिः शब्दव्यापारो भवति । लक्षणाप्रकारनिरूपणं बहुधा कृतं ग्रन्थकारैः। सविस्तरस्य तस्य काव्यशास्त्रेऽनुपयोगात् सोदाहरणं लक्षणानि षड्विधानि कारिकोक्तानि स्मारयिष्यामः । तत्र प्रथम, शुद्धा गौणीति द्विधा विभाज्या-शुद्धा चतुर्भेदा-गौणी द्विविधैव ।
शुद्धा-(१) उपादानलक्षणा-कुन्ताः प्रविशन्ति प्रविशन्ति (अजहत्-स्वार्था अजह-ल्लक्षणा वा शास्त्रान्तरेषु)
(२) लक्षणलक्षणा-गङ्गायां घोषः (जहत्स्वार्था जहल्लक्षणा वा शास्त्रान्तरेषु)
(३) सारोपा-आयुर्घतम्।
(४) साध्यवसाना-आयुरेवेदम् ।
गौणी-सारोपा-गौर्वाह्लीकः । साध्यवसाना-गौरयम् ।
अत्र गौणशुद्धभेदयोः ज्ञापकं लक्षणमवधेयम्। जाड्यमान्द्यादि-सादृश्या-तिशयमहिम्नोपचारमिश्रा गौणी गौर्वाह्लीक: इत्यादौ ।
शुद्धा तु बलप्रदत्वरूपकार्यकारित्वात् सम्बन्धात् आयुर्पुतमित्यादौ ॥ ताद-र्थ्यादयः सम्बन्धा बहवः इन्द्रार्था स्थूणा इन्द्रः इति उदाहरणेषु द्रष्टव्याः ।
अन्ते चेदं बोध्यम्। कर्मणि कुशल: इत्यादौ एव लक्षणा रूढिमूला चेत्सा व्यङ्गयरहिता भवति-प्रयोजनवती चेत् व्यङ्गयसहिता।
गूढागूढाख्यं द्विविधं लक्षणामूलं व्यङ्गयं क्रमेण "मुखं विकसितस्मितं", "श्रीपरिचयाच्च" इति पद्याभ्यां बोध्यम् ।
लक्षणायाः प्रयोजनं लक्षणावृत्त्या न गम्यते, नाप्यभिधया, व्यञ्जना-व्यापारेणैव गम्यते।
सर्वेषामर्थानां वाचकादीनां व्यञ्जकत्वमुक्तम्। तत्पुरस्तात् तृतीयोल्लासे विस्तरतः प्रपञ्चयिष्यते । अत्र अभिधामूलव्यञ्जनां प्रस्तुमः ।
यत्र “संयोगाद्यैः” इति कारिकोक्तहेतुभिः “सशंखचक्रो हरिः" इत्यादौ अनेकार्थस्य हर्यादिशब्दस्य विष्ण्वादिवाचकत्वं नियन्त्र्यते (नियम्यते)-तत्र व्यापारो व्यञ्जनैव । यत्र क्वचित्संयोगादिभिः अर्थान्तरे निवारि-तेऽपि अर्थान्तरप्रतिपादनं भवति तत्र व्यञ्जनैव वृत्तिः । यथा “भद्रा-त्मनः", "रागवानधर एष" इत्यादौ ॥
शब्दार्थों काव्यमित्युक्तं प्रथमोल्लासे । अनन्तरम् अस्मिन् उल्लासे शब्दार्थनिर्णयः क्रियते । तत्र प्रथमं त्रिविधः शब्दः त्रिविधोऽर्थश्चेत्याह । वाचकलाक्षणिकव्यञ्जकानां शब्दानां क्रमेण वाच्यलक्ष्यव्यङ्गया अर्थाः इति बोध्यम्।
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.