ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

SIDELIGHTS IN SANSKRIT LITERATURE




गीताशास्त्रसिद्धान्तः

१३. १०.४०

ततः पर-अथ गीताशास्त्रस्य सिद्धान्तः समासेन प्रस्तूयते । तत्र प्रथमं तावदिह प्रस्तावे महाभारतस्य भगवद्गीतास्थानं प्रकरणापेक्षया पर्यवेक्षितुं युक्तम् । पूर्वमासीदेकदा कुरुपाण्डवकथासन्दर्भ भारतं चतुर्विंशतिसाहस्रम् । मुच्चावचाभिप्रायैराख्यानोपाख्यानरुपबंहिता शतसाहस्री निष्पन्ना महा-भारतसंहिता। यत्र प्रायेण सर्वेषु पर्वसु, विशेषतः शान्तिवनपर्वादिषु अध्यायाः सन्ति कथारूपेण वेदार्थविवरणपराः अनेके, सामयाचारिकान् धर्मान् सना-तनानप्याख्यातुं प्रवृत्ताः । अपरे, कर्णपरम्परया बहोः कालादागताः सामान्य-नीत्यादिधर्मोपदेशपरा इतिहासाश्च केचन, अन्ये च पुनः परमार्थतत्त्वप्रकाशन-पराः, राजर्षिवंशचरितानि पुरावृत्तान्याचक्षाणाश्च इतरे ॥ तस्मादिद-मवदातम्॥

भारतसङग्रामसम्बन्धमन्तरेणैव इमान्याख्यानोपाख्यानानि पृथग्भूतानि प्रत्येकघट्टानि च भवन्ति । भगवद्गीताप्रस्तावे त्विदमवगन्तव्यम्। नेह गीतोपदेशरहस्यमुपाख्यानादिवत् कुरुपाण्डवकथासन्दर्भमन्तरा अवगन्तुं शक्यते । नैतां गीतामपवर्ण्य युद्धचरितकथनं यत्सत्यम् असमग्रं भवति । वा गीतोपदिष्टानि परमार्थतत्त्वानि युद्धप्रसक्तिविरहं न विदितानि भवन्ति । किंतु, कर्मोपदेष्टा श्रीकृष्णः प्रवृत्ते धर्मयुद्धे निवृत्तिकामाय शोकमोहाविष्टाय भगवानर्जुनाय यं भागवतं परमं धर्ममुपदिदेश, तस्य न स्यादवगतिर्यदि युद्ध-रङ्गं धर्मक्षेत्र धर्मक्षेत्रं न स्मृतावुपस्थापयेम ॥ तस्मात् सङग्रामभुव्येव धर्मक्षेत्रे धर्मसंमोहध्वंसरूपस्य भगवदुपदिष्टधर्मस्य स्वरूपं द्रष्टव्यम् ॥

अथ कुतश्चायं धर्मसंमोह इति पश्यामः। येन विचारितेन सहेतुकेन धर्मसंमोहस्वरूपेण, तन्निवृत्तिभितस्य धर्मस्य भगवदुपदिष्टस्य तत्त्वं सुगमं भवेत् ॥

तत्र प्रथमं तावत् अर्जुनः किमाह का तस्य दर्शति सूक्ष्मतः परामृशामः ।। युद्धरङ्गे भीष्मद्रोणादिस्वजनदर्शनात् कृपाविष्टो विषण्णोऽभूदर्जुनः। गुरु-पुत्रभ्रातृबान्धवान् स्वजनान् न योत्स्य इत्याह। तेषां स्वजनत्वाद् युद्धा-निवृत्तिमिच्छन्नपि स तैः सह युद्धमधयं मन्यते। न च पश्यति “अहमेतेषां ममते” इति साहङ्कारया ममतापूर्विकया कृपया आविष्ट एव युद्धाद् विजु-गुप्सते, न तु धर्माधर्मविवेकजन्येन ज्ञानेनेति। ब्रूते च धर्मतत्त्वज्ञंमन्यः वर्ण-सङ्करादिमहाननर्थसङ्घात आपद्येत घोरे सङग्रामे म्रियमाणेषु वीरेष्विति ॥

भगवांस्तु धर्मविप्रतिषेधमभिसंधायाह । यदि गुरुजनादिस्वजनहत्या गुरुहत्या कुलध्वंसादिरूपाय अधर्माय भवेत्, क्षत्रियस्य युद्धात्पलायनमप्य-धर्मायैव। सति विप्रतिषेधे को वा बलीयान् धर्मः येनानुष्ठितेन परं निः-श्रेयसम् अवाप्नुयात् पुरुष: ? अनेन भगवदुक्तेन “नाहं जानामि धर्म, धर्मसं-मूढचेताः पृच्छामि त्वां, शाधि मा"मिति शिष्यमर्जनं वाचयितुं बीजमुप्तम् ।। ॥

तथाहि दृश्यन्ते च लोके विसंवादाः पुरुषस्यानुष्ठातव्यानां धर्माणाम् । एकस्यैव पुरुषस्य सम्बन्धविशेषात् अवस्थावशाच्च पितृत्वपुत्रत्वशिष्यत्ववर्ण-विशेषित्वादयः उपपद्यन्ते । तं तं सम्बन्धमपेक्ष्य कर्तव्यानां कर्मणाम् परस्पर-विरोधापत्तेः सम्भवः सर्वेषां विदितः । तथा विषमे समुपस्थिते, अवरत्वेन त्याज्यं बलीयस्त्वेन ग्राह्यं च धर्म प्रति विप्रतिपत्तिलॊकसिद्धा॥

एवं सति, कर्म कर्तव्यमित्यादिशतो भगवतो वासुदेवस्य मत्यन्तविरुद्धार्थतया बहुभिर्गृह्यमाणत्वात् सारतस्तत्र प्रथमं पक्षमुपन्यस्य, ततः स्वीकार्य उत्तरः पक्षो निर्देष्टुमिष्यते ॥

भगवान्वासुदेवः स्रष्टा चातुर्वर्ण्यस्य तद्रक्षार्थम् अर्जुनं क्षत्रियं ’युद्ध्यस्वे’ति चोदयति-अनार्यजुष्टम् अस्वय॑म् अकीर्तिकरं क्लैब्यं मा स्म गमः, क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ, स्वधर्मे निधनं श्रेयः, कुरु कर्मैव तस्मात् त्वं, कर्मण्येवा-धिकारस्ते इत्यादिना-तदकरणे च “ततः स्वधर्म कीर्ति च हित्वा पापमवा-प्स्यसी"ति पापावाप्ति च कथयति ॥ तस्माद् यथा श्रौतं यागादि कर्म पश्वादिहिंसालक्षणमत्यन्तक्रूरमपि नाधर्माय, तथा स्मृतिविहितं क्षात्रं कर्म युद्धं हिंसालक्षणमपि क्षत्रस्य कर्तव्यम् न दोषाय, अननुष्ठाने धर्मस्य दोष आपद्यते ॥ तस्माद् यावज्जीवं श्रुतिचोदितानां अग्निहोत्रादीनां स्मृति-विहितानां च कर्मणां ब्रह्मक्षत्रादिभिः अनुष्ठेयत्वमेव गीताशास्त्रे प्रतिपादित-वाक्याना-मिति ॥

यद्येवम्, अत्यन्तसङकुचितं भवेत् गीताशास्त्रस्य तात्पर्यम् । परमार्थतत्त्वो-पदेशस्य नैव स्यादवसरः, यदि शास्त्रविहितकर्मानुष्ठानमेव परं निःश्रेयस-साधनं भवेत् ॥ तावतैव "धर्मशास्त्रोक्तं कर्म कर्तव्य” मिति ज्ञानेन अर्जुनस्य धर्मसंमूढत्वं विनिहन्येत। भूमण्डलैकदेशे वर्णाश्रमिष्वेव हि श्रौतस्मात-कर्मानुष्ठानस्य सम्भवः । एवं सङकुचितं वर्णाश्रमिणामेव कर्तव्यं कर्म लोके-श्वरेणोपदिष्टमिति प्रसज्येत ॥ एवमर्थे परिगृह्यमाणे प्राज्ञाः प्रत्यवतिष्ठन्ते॥

अथ य उपपन्नतरः स पक्षः संक्षेपणेह समाह्रियते ॥ अर्जुनं निमित्ती-कृत्य लोकानुजिघृक्षया लोकेश्वरः सर्वैरपि कर्तव्यं लोकसङग्रहार्थं कर्मोपदि-शति ॥ यद्यपीह शास्त्रे वर्णाश्रमिणां कर्म कर्तव्यम् अकरणे च दोषः पठ्यते, तथापि तादृश्येव कर्मणि सर्वा कर्मकथा परिसमाप्यत इति मन्वानानां नादरो दृश्यते, निन्दा तु वाचकेन व्यञ्जकेन च वाक्येन परिपठ्यते "नान्यदस्तीति वादिनः” “न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिना” मित्यादिना ॥ अथ कि-स्वरूपं कर्तव्यं कर्म को वा परमः स्वधर्म इति विचार्यमाणे, प्रेक्षावतामिद-मवदातं भवति॥

अहमिदं ममेदं नाहं करोम्यहं करोमीत्याद्यविद्यामूलकाहङ्कारेणैव प्रायशः कर्माणि कुर्वन्ति लोके। अविनाश्यात्मा सान्तःकरणाच्छरीराद् व्यतिरिक्तः प्रकृतेर्गुणैः क्रियमाणानां कर्मणाम् अनुमन्ता साक्षी भवति ॥ अनिच्छन्नपि पुरुषः प्रकृतिजैर्गुणैरवशः कार्यते कर्म ॥ लोके यावत्यः पुरुषव्यक्तयः तावन्तः सन्ति स्वभावविशेषाः ॥ लाघवार्थं व्यवहारोपयोगि तेषां चातुर्विध्यं, येन विशेषिता भवति चातुर्वर्ण्यव्यवस्था॥ स्वभावेन नियतानि कर्माणि कर्त-व्यानि ॥ गुणकर्मात्मकतया स्वभावस्याविष्करणम् अवगन्तव्यम् ॥ गुणकर्म-विभागश एव सृष्टत्वात् चातुर्वर्ण्यस्य प्राग्युगश्रुतिस्मृतिविहितचातुर्वर्ण्यकर्मानु-ष्ठानानि तत्तत्स्वभावानुरोधेन ब्रह्मक्षत्रादे धर्मसाधनीभूतान्यासन् ॥

इह त्वर्जुनो न केवलं क्षत्रबन्धुः, स्वभावेनापि क्षत्रियः । स च स्वभावो विदितः श्रीकृष्णस्य, अत एव प्रकृतिस्त्वां नियोक्ष्यतीत्याह, ननु क्षत्रियवंश-सञ्जातत्वाद्धेतोः ॥ तस्माद्युद्धं हिंसालक्षणमपि अर्जुनस्य स्वभावनियतं सहज कर्म स्वधर्महितं कर्तव्यमित्युपदिष्टम् ।।

अथ अकर्मसत्कर्मविपरीतकर्मणां रहस्यं पूर्वेषामृषीणामपि दुर्गमं “कवयो-ऽप्यत्र मुह्यन्ति” इति ब्रुवता भगवता कर्मकरणप्रकारोपदेशप्रसङ्गेन स्वाभि-मतो योग उपदिश्यते, यस्मिश्च योगे सर्वेषां योगानां भक्तिज्ञानादीनां समन्वयः स्फुटमवगम्यते ॥ यथा चायमर्थः भगवदुक्तीनां तथेह सङगृह्य प्रदर्श्यते ॥

अपरा परेति प्रकृतिद्विविधा सर्वेश्वरस्य । तत्राद्या त्रिगुणात्मिका यया सर्वं कर्म क्रियते। परा तु दैवी त्रिगुणातीता जीवभूता च, ययेदं जग-सचराचरस्य जगतः प्रसवित्र्याः प्रकृतेरध्यक्षो भगवान् पुरुषोत्तमः, यो ह्येकांशेन कृत्स्नं जगद् व्याप्य धारयमाणः स्थितः, स च सर्वेषां जीवाना-मात्मनामात्मत्वेनावस्थितः परम आत्मा भवति। एवं तेन सर्वेश्वरेण विश्वा-त्मना, विश्वान्तर्यामिना विश्वरूपेण च स्थीयते । स एव एकत्वेन पृथक्त्वेन च स्थितः भूतेषु हृदयस्थः सन्नीश्वरः स्वीययोगमायाबलविलसितप्रकृतियन्त्रा-रूढानि भूतानि चालयन्नास्ते ।।

तथा सति, यदिदं सर्वं तदीयं नास्मदाद्यन्यदीयं, तद् युज्यत एवास्मदीय-त्वेन प्रतीयमानम् उपभुज्यमानं च सर्वं वस्तुतस्तदीयत्वात् तस्मै एव समर्पणी-यम् । तथा ईश्वरार्पणबुद्धया उपपन्नया युक्तस्य कर्म कुर्वतः पुरुषस्य अवि-द्याग्रन्थिबन्धानां शैथिल्यं निष्पद्यते, ततोऽहन्तायाः दौर्बल्यं तन्मूलकैषणानां च पलायनं फलिते स्याताम् । एवमेव निष्कामकर्मोपदेशस्योपपत्तिर्भवति । अनेनाचरितेन परिपाकवशात् कालेन सत्त्वशुद्धिर्जायते। शुद्धसत्त्वस्य निर-हङ्कारतया परा शान्तिः सिद्धयति । शान्तिसिद्धस्य पुरुषस्येश्वरेण नित्य-युक्तत्वं सुप्रापम्। कर्म च साधकस्य साधनं योगारोहस्य, योगारूढस्ये-श्वरेण नित्ययुक्तत्वात् ईश्वरवल्लोकसङग्रहार्थं कर्म कुर्वतः परमा शान्तिः प्रतिष्ठेति च ॥ “आरुरुक्षोर्मुनर्योग" मित्यादिनाऽवगम्यते ॥

तस्माद् गीतासु भगवत्साधर्म्यप्राप्तिरूपो योग उपदिष्ट: शक्यते वदि-तुम्, यत्र हि भक्तिज्ञानकर्मयोगानां समन्वयः सुग्रहः । तथा च अन्ति-माध्यायान्ते श्लोकत्रयं अत्यन्तमुख्यत्वेन पूर्वैः सदनुष्ठानशीलैविज्ञैराधुनिकैश्च विज्ञातम्। तत्रैकेन “ईश्वरः सर्वविद्यानां हृदये” इति दहरविद्याच्छायया ज्ञानयोगस्य द्वारं निर्दिष्टम्। “सर्वधर्मान् परित्यज्ये"ति चरमेण श्लोकेन भक्तियोगस्य परा काष्ठा प्रपत्तिरुपदिष्टा। अनयोर्मध्ये “मन्मना भवे"ति श्लोकरत्नेन सर्वोऽपि योगः समाहृत्यावेदितः। तथा हि “मन्मना भवे"ति ज्ञानयोगसाधनं “मद्याजी" इति कर्मयोगसाधनं, “मद्भक्तो मां नमस्कु"विति भक्तियोगसाधनं च आदिष्टम् ॥ एवं ज्ञानयोगभक्तियोगकर्मयोगान् समु-च्चित्य अविरोधेन सामरस्यं समर्थयता भगवद्वाक्येन, सर्वेषां साधनानाम् अर्जु-नाय भगवतोपदिष्टे परमे स्वधर्मे पुरुषोत्तमस्य योगे तात्पर्यमवदातमित्यलम् ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates