ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

SIDELIGHTS IN SANSKRIT LITERATURE




काव्यखण्डस्य प्रथमोऽशः

१. गुर्वर्थगाढबन्धस्य महाकाव्यस्य भारवेः । आद्यसर्गकथाभागः काव्यबोधो विरच्यते ॥

२. अरातिपरिभूतेन नष्टराज्येन धीमता। राज्ञा सभ्रातृभार्येण विपिने वसता सता॥

३. सुयोधनप्रजाराष्ट्रनयोदन्तमवेयुषा। प्रणिधिः पाण्डुपुत्रेण प्रहितः पुनरागतः ॥

४. वणिवेषधरं वन्यं विदित्वा धर्मनन्दनः । परप्रवृत्तिवक्तारमनुजज्ञे रहस्सुधीः ।।

५. नराधीशं नमस्कृत्य वक्ष्यतो निर्जितां महीम् । व्यथितं न मनस्तस्य सुहृदो हितवादिनः ।। ॥

६. मृषाप्रियं न भाषन्ते प्रभूणामृद्धिमीप्सवः । प्रियं हितं च वचनं क्वचिद् जात्वेव जायते ॥

७. लब्धक्षणोऽथ जिज्ञासोर्वैरिवृत्तं युधिष्ठिरात् । अामुदारां निर्णीतां वार्तिको वाचमाददे ॥

८. चारैश्चक्षुष्मतां राज्ञां मादृशैरनुजीविभिः । वचांस्युदीर्यमाणानि क्षन्तव्यान्यप्रियाण्यपि ॥

९. हितं ब्रुवाणे सन्मित्रे दत्तकणे च पार्थिवे । प्रीतयोः स्निग्धमुभयोः रमन्ते सम्पदः स्वयम् ॥

१०. दुर्बोधं चरितं राज्ञां वयं त्वत्र वनेचराः । यन्मयात्तं द्विषां वृत्तं प्रभावोऽयं तव प्रभो॥

११. वनभूनिलयात्त्वत्तो राज्यस्थोऽपि विशङ्कते। अतः पृथ्वीं नयेनेष्टे लोकविश्वासनप्रभुः ॥

१२. धर्मेणेवार्जितं राज्यं द्यूतकैतवनिर्जितम् । लोकान् प्रत्याययत्राजा भवन्तं विजिगीषति ॥

१३. उत्कर्षयन्नाधिपत्यं वितन्वन् धवलं यशः । विरोधोऽपि वरं सद्भि मन्यते क्षुद्रसङ्गमात् ॥

१४. अन्तःशत्रुजयेनापि प्रपित्सुः पदवीं पराम् । उद्युक्ते विभजन्नेव दिवारात्रमतन्द्रितः ॥

१५. भृत्येषु मैत्री मित्रेषु बन्धुतामात्मनः प्रियाम् । बन्धुषु प्राभवं स्वस्य नयाद् दर्शयते कृतम् ॥

१६. अन्योन्यसख्यं प्राप्येव त्रिवर्गोऽस्य यथायथम् । पक्षपाताश्रयाद् दूरं व्यवस्थां भजते स्वयम् ॥

१७. निरत्ययं साम तस्य दानवर्ज न वर्तते । दानं न सक्रियावर्ज सत्क्रिया नान्तरा गुणम् ॥

१८. दण्डं प्रयुङक्ते विधिना कारणान्नार्थकामयोः । आत्मजन्मनि शत्रौ च समो धर्म प्रवर्तयन् ।।

१९.रक्षितो रक्षिभिर्गुढं निश्शङ्क इव लक्ष्यते । सम्पद्भिर्भृत्यवर्गस्य ज्ञायतेऽस्य कृतज्ञता ॥

२०. सङ्घर्षण इवोपायाः विनियोगविभागिनः । महीपालैरुपानीताः सुवते च स्थिराः श्रियः॥

२१. सुखलब्धानि सस्यानि भुञ्जतेऽस्य कृषीवलाः । अदेवमातृकान् धत्ते कुरून् स कुरुनन्दनः ।

२२. वसूनि दुग्धे पृथिवी शान्तबाधाभिरक्षया। गुणै वसूपमानस्य तस्य राज्ञो यशस्विनः ।

२३. मिथो विरोधविरहाः स्वार्थेषु न च संहताः । विख्यातकुलजा मानधनाः सम्पद्भिरचिताः ॥

२४. प्राणैस्तत्प्रियमाधातुं सर्वस्वेन च धन्विनः । जागरूका भवन्त्येते सङ्गरे लब्धकीर्तयः ।। ॥

२५. वेत्ति चारैस्स विश्वस्तैः प्रारम्भानन्यभूभृताम् । कर्म स्रष्टुरिव स्वस्य फलैरेव प्रतीयते ॥

२६. न वक्त्रं कोपकुटिलं सज्यं तस्य न वा धनुः । माल्यवच्छासनं तस्य गुणाद्राजभिरुह्यते ॥

२७. अभिषिच्योद्धतं यौवराज्ये दुश्शासनं प्रभुः । मखेषु निरतो हव्यै हव्यवाहं धिनोति सः॥

२८. निस्सपलं प्रशास्त्येष धात्री सागरमेखलाम् । तथाऽपि चिन्तयत्येव त्वत्तस्सम्भाविनीभियः ।।

२९. निगूढाकारचेष्टोऽपि प्रकाशो भवति क्वचित् । सभासद्भिः प्रसङ्गेन तव नामन्युदीरिते ॥

३०. नामादिग्रहणे तायवासुक्योरिव पन्नगः । नम्रास्यो व्यथते मानी संस्मृतार्जुनविक्रमः ॥

३१. आवेदितं कुरुकुलान्तकधूमकेतो-वृत्तं मयेदमखिलं तव किङ्करेण । यद्रोचते तदिह, ते क्रियतां विचार्य वार्ताहरोऽस्मि मम किं परमस्ति कृत्यम् ॥

३२. एवं वचांसि गुणदोषभराणि शत्रो-रुक्त्वा वरे वनचरे किल सन्निवृत्ते। कृष्णानिकाय्यमथ पाण्डुसुताग्रजन्मा गत्वाऽखिलं सपदि भीमसमक्षमूचे॥

३३. आकर्ण्य कृत्रिमनयाभ्युदयां प्रवृत्ति आर्ता नवाभिरिव शाठ्यपरम्पराभिः । उत्तेजयद्रुषमजातरिपोरपूर्वी पाञ्चालराजतनुजा निजगाद वाक्यम् ॥

३४. विदुषि प्रथिते भवादृशे वचनं यद्यपि साधु मादृशाम् । न वरं किल योषितां तथाऽप्यभिभाष्यं त्विदमाधिनिस्सृतम् ।।

३५. कुरुभिस्तव पूर्वधूता धरणिर्देवनिभैरखण्डिता। । तव हस्तगता च्युतिं गता प्रमदस्येव गजस्य मालिका ॥

३६. अमतेः शरणं पराभवः कुटिले यः कुटिलो न वर्तते । कितवः प्रविशन्नवर्मणो ननु मर्मस्वभिहन्ति सायकैः ।।

३७ कुलजां सुखसाधनः श्रियं गुणरक्तामपहारितां निजाम् । क इह क्षमते वधूमिव त्वदृते मानधनो मनोरमाम्॥

३८. विहिते मनस्विभिर्विवर्तसेऽध्वनि प्रभो कथं नु मन्युरुज्ज्वलंस्तमांसि ते न बाधते। अवन्ध्यरोषपूरुषस्य जन्तवो वशंवदा अमानिना तु साधुना जनस्य न द्विषादरः॥

३९. परन्तपो वृकोदरः परिभ्रमन् वनस्थली सुगन्धभूषितः पुरा रजोभिरद्य रूष्यते। अयच्छदुत्तरान् कुरून् विजित्य यो महद् धनं धनञ्जयः स जिष्णुरेष वल्कली विलोक्यताम् ॥

४०. असंस्तुतासुखौ यमावरण्यवारणोपमौ शिलातलाधिशायनोत्थधूलिधूसराविमौ । त्रिलोकमान्यविक्रमानिमांस्तवानुजन्मन-स्तिरोहितानवेक्ष्य किं न लज्जसे न दूयसे ।।

४१. अभीरधीरतां श्रिता नु गढसत्त्व तावकी विचित्रचित्तवृत्तिभिः प्रधूमिता नु शेमुषी। विपत्तिसन्ततिप्रसूनिवृत्तिरीदृशी तु नः सहस्रधा भनक्ति मां सपत्नशाठ्यतोऽधिकम् ॥

४२. श्लक्ष्णैर्मागधवन्दिगीतिवचनैर्माङ्गल्यपूर्णस्वरैः पर्यात् कमनीयरत्नखचितात् सुप्तोत्थितोऽभूः पुरा। अद्य त्वत्र शरैरिवार्तिजनकैः शैवेयरावैः खरैः आविद्धो विजहासि पर्णशयितो निद्रामभद्रादितः ॥

४३. प्रागासीद् दर्शनीयं वपुरिदमतुलं विप्रभुक्तावशेषैः वन्यैरन्नैस्तदेतत्तव सह यशसाऽकालिकेऽस्मिन् जृणाति । राज्ञामाज्ञाभृतां ते मणिमकुटलसत्कीतिभासां शिरोभि-नम्नैर्दीप्तं पुरा ते पदयुगमधुना सेव्यतेऽरण्यदर्भः ॥

४४. प्राप्ता दुःखपरम्परेह विहिता देवेन चेत्, तत्र नः क्षन्तव्या, रिपुणा त्वियं च हृदयं निर्मूलयत्येव मे। तत् क्षत्रप्रवरस्य ते रिपुजनोन्माथस्सखा स्वर्गते: न त्यागश्चिरसंभृतस्य यशसो राज्यस्य वा न श्रियः॥

४५. यद्युत्साहविभुत्वमन्त्रभरितं कालं समुद्रीक्षसे सन्धां नाथ जहीहि कैतवकृतां नाचैव किं नाथसे । क्षात्रं वः परमं धनं किमु बलं ब्राह्म किमालम्बसे धूर्ते वैरिणि धर्मनन्दन किमु शान्ति समातिष्ठसे ।।

४६. तस्मादस्मानपथपतितान् सम्यगामृश्य राज-नापत्कूपान्नृपकुलधनं मानमुद्धृत्य जीयाः । लक्ष्मीरुत्का जयतु च पुनः प्राप्य बाह्वोर्युगं ते। शक्तिस्त्रेधा सुहृदनुजवृतं त्वां समभ्येतु भूयः ।।

१. निर्मितोऽयं मितग्रन्थः काव्यखण्डः कपालिना। काव्यकण्ठमुनेरन्तेवासिना वाग्विलासिना॥

२. अहोबलकुलोत्तंसो नरसिंहः सतां मतः । महत्त्वकाङक्षी साहित्यसरणिं महतीं गतः ।।

  1. सादरं मम जिज्ञासुः कविताभाग्यधोरणीम् । सुधीरस्मदधीयानो भारवेः काव्यमुत्तमम् ॥

४. रमते जातु कविता शास्त्रोपस्कृतबुद्धिषु । इतीव मामुपागच्छद् गुणवान् साधकः सखा ।

५. भ्राता कनीयानिव मे युवैष प्रीयतामिति । अन्तश्चिराय शयितामाह्वयं कवितां मम ।।

६ . रुचिरः पदसन्दर्भः शुचिरर्थों दृढोज्ज्वलः । विदितं विदुषामेतन्महाकाव्यस्य भारवेः॥

७. तस्याचं बस्तुनो भागं समाहृत्य यथातथम्। प्रयुक्तं वृत्तमुचितं तत्र तत्र विवेकतः ॥

८. प्रायोऽलङ्कारबिरहं शब्दार्थगुणसुन्दरम् । औचित्यजीवनं काव्यमिदमल्पमुदाहरम् ॥

९. क्रीस्तुनाथशके नन्दमूर्तिनन्दधरामिते । एकादशे मासि दिने दशमे शुक्रवासरे।

१०. प्रमाथिन्यश्वयुग्दर्शे जातोऽयं हृदयङ्गमः । रसिकानामिवार्धेन्दुः प्रबन्ध: कल्पतां मुदे ॥

इति श्रीपूर्णयोगाचार्य-श्रीभगवदरविन्दानुध्यातस्य, श्रीमहर्षिरमण-भगवत्पादानुध्यातश्रीभगवद्वासिष्ठगणपतिमुनिप्रवरान्तेवासिनः, भारद्वाजस्य विश्वेश्वरसूनोः कपालिनः कृती काव्यखण्डस्य प्रथमोऽशः समाप्तः॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates