Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
(स्वागताः)
अन्तरङ्गरतिमन्तमसुप्तं निस्तरङ्गदहरान्तरगुप्तम् । आश्रये प्रणतिभिः सुकुमारं जन्मनाऽद्भुतमनन्तकुमारम् ॥१॥
आतिथेयपरमेष्वतिथि तं दुर्गमान्तरतटेषु विविक्तम् । वाञ्छनीयवसतिं भुवि धीराः कुर्वते गृहपति भगवन्तम् ॥२॥
इच्छयैव निजया हृदि बद्धा-मच्छवृत्तिकलनाय विबुद्धाम् । वाचमच्युतबलां विदधानः सोऽयमुल्लसति नित्यकुमारः॥३॥
ईश्वरात्मजनुषं जगदग्र्यं शक्तिजातमजमेव तमाघम् । मर्त्यजन्मनि जयन्तममयं जातवेदसमुरुप्रथमीडे ॥४॥
उद्यतोऽसि जडताजलराशे-रच्युतो भव तवोत्तमधाम्नः । खिद्यतां मुहुरिह स्मृतिलम्भे त्वं हि नः परमुषर्बुध भाग्यम् ॥५॥
ऊर्जितं तव महत् पितृवित्तं विश्वकार्यवहबोधनिधानम् । दुर्गमेन महसा परिगुप्त दुर्गपाल इव पालयसि त्वम् ॥६॥
ऋग्यजुर्निगदसामशरीरं पूर्वसरिभिरुपार्जितमर्थम् । त्वां परं निहितमत्र गुहाया-माह्वयामि भगवन् बहिरेहि ॥७॥
एष वेषविरहं विनतस्त्वां नाथ नम्रशिरसामधिदैवम् । काङ्क्षति व्रज सनातनसख्यं स्वीकुरुष्व जनमेनमनंशम् ॥८॥
ऐषमस्तमसि गूढ चिरात् त्वं निर्गतोऽसि बहिरङ्गविनिद्रः । जह्यराजकमिदं परितोऽन्तः कार्यधुर्य विजयस्व विराजे ॥९॥
ओदनो भवति विश्वमशेष विश्वपाकसुतसोमभुजस्ते । धत्स्व पाकमिह गात्रविशेष स्याच्च ते रसभरः सुखभोजिन् ॥१०॥
औरसैस्तनुभवैर्गुणवद्भिः पूजितो8 यदि पिता किमु चित्रम् । आत्मजेषु विहिता परिचर्या सा विधातुरतुला हि विचित्रम् ॥११॥
कञ्जबन्धुरिव यः कमलिन्या विश्वबन्धुरिह नो जनिभूमेः । सन्निधानरतिवेदनकालं वीक्षते स भगवानुपभोक्ता ॥१२॥
चित्रकर्मकुशलो वरहस्तो यन्महत्यणुनि वाऽऽहितचित्रः । तादृशस्य भण ते किमशक्यं चित्र्यतां हृदि च नस्तव रूपम् ॥१३॥
ज्योतिराहुरतुलं तव रूपं जन्मिनं नयसि येन सवर्णम् । अग्रिमक्रतुभुजां जनमेनं भाजनं तदिह किश्चिदवेहि ॥१४॥
क्षिप्यतां किमपि वीक्षितमत्र प्रार्थनाभरितपात्र विशेषे । विश्वकर्मनिपुणा तव वीक्षा किं न शक्यमखिलेश्वर तस्याः॥१५॥
गावमेतदवरं वरणीयां भोग्यतामुपनयीत कथं वा । लेशतोऽप्यसि मदन्तरवार्स लब्धवान् किमु ततः परमीहे ॥१६॥
चिन्मयं बहुलशक्तिनिधानं जन्मनाऽधिगतांस्तनुबन्धम् । चिचकञ्जमधुनित्यनिपायी सोऽमृतोऽन्तरमितः शरणं नः ॥१७॥
नित्यनिर्निमिषलोकनभासा कर्मणा सकलमर्मविभेदी । बाल एव भगवान् परमौजाः सार्वभौम इव शास्त्यखिलं नः॥१८॥
जागरूकमनसां तनुभाजा-मन्तरेषु विलसन्तमनन्तम् । भाग्यजातममृतं सुकृतानां पाकमेतमनिशं प्रणमामः ॥१९॥
ब्रह्मचर्यनियमी नियमीड्यः स्कन्द इत्यपि सनातनवालः । आगमैनिंगमगूढरहस्यै गीयते स शिवशक्तिकुमारः ॥२०॥
अग्निभूः शरवणाहितजन्मा स्वर्णदीविहितजीवनपोषः । गुप्तरोचिरुचितान्तरमोदो मानुषेषु तनुते निजसख्यम् ॥२१॥
उच्छ्वसनपि चराचरगेहे निःश्वसनपि जडाम्बुधिगर्ने । उन्नयञ्जयति मानवमुच्चै-नित्यमुज्ज्वलगतिभंगवान् नः ॥२२॥
विश्वजन्मनि जनुर्निजमाप्त्वा विश्वमेव कवचं परिधत्ते । विश्वनायकपदं च दधानो भूरिवेष इह भाति कुमारः ॥२३॥
सर्वतन्त्रकुशलाऽस्य निरीक्षा स्वांशुमिर्जडतमांस्यपहन्ति । कल्पयत्यमरभोग्यमनल्प-श्रीकमप्यमृतमत्र शरीरम् ॥२४॥
जाड्यसंहतिमिमां विनिहन्तुं तैजसेषु परधामसु रन्तुम् । गन्तुमप्यतिजगत् प्रभवेन्ना यस्य चित्तभुवि निर्णिमिषोऽमिः॥२५॥
सुस्थिरामपि भुवं चलयन्ती चञ्चलामपि धियं स्थिरयन्तीम् । मर्त्यमूर्ध्वममृतं च नयन्ती-माश्रये भगवतोऽस्य निरीक्षाम् ॥२६॥
निर्गतं निजगुहास्थलतोऽमुं मानवोपकृतये विलसन्तम् । विश्वरूपमपि विश्वगसारं को नु वारयितुमद्भुतमीष्टे ॥२७॥
न च्युतोऽपि परमानिजधाम्नः स्कन्द इत्यभिधया व्यवहारः । स्कममेव दनुजानपहन्तु देवकार्यकलितं स हि तेजः ॥२८॥
तारकाद्यसुरसूदनदक्षः शिक्षयन्नृजुपथे नरलोकम् । तस्य निर्वृतिकृते धृतजन्मा जन्मिनां हृदि विभाति शरण्यः ॥२९॥
ज्ञानशक्तिमयमन्तरवास कृत्तिकाभिरभितः परिगुप्तम् । मर्त्यजन्मनि विविक्तममर्त्य स्कन्दमग्निभुवमुज्ज्वलमीडे॥३०॥
मन्दमन्दममिवर्धितकीलो हार्दवाग्भिरिह नः कृतलीलः । कर्मणे नरवपुर्धतवेलः शर्मणे जयति शङ्करवालः ॥३१॥
शुरतारकनिबर्हणशरं बर्हिणप्रवरदुर्जयवाहम् । मानवे नवजनुःफलभूतं भूतजातसरसं मम दैवम् ॥३२॥
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.