Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
नवपल्ली, २४-८-४०
आय वत्स विट्ठल, चिरञ्जीविना माधवेन ह्यस्ते पत्रमेकं प्रेषितम्। तच्च प्रतिपत्रम् अस्य पञ्चदशेऽहनि त्वया प्रेषितस्य लेखस्य। पूर्वेद्यु सीन्मम पत्र-लेखनाय काललाभः । तस्मान्नोक्तानि द्वित्राणि वचांसि यानि वक्तव्यानीति अहममंसि ॥
अवधीयतां वत्स, तदिह वक्ष्ये। यद्यस्मन्निबन्धतस्त्वयि महत्याशा समु-त्तिष्ठेत्, ईषद्विहताशो वा स्या इति बिभेमि। किञ्च, विषयगौरवाद् भाव-गौरवं भवेदिति मन्ये। परंतु यथा स्यादेव लाघवं भाषायाः, तथा सन्दर्भ-शुद्धि विधाय सरलां रीतिमाश्रित्य यथामति यतिष्ये रचयितुम्। जाने तव साधुत्वं, यदितो विनिर्गतं लघ्वपि भूरि मन्यसे ॥
यन्मया रचयितव्यास्त्रयो निबन्धास्तवोपकारकाः स्युः परीक्षावसर इत्यवोचः, तन्मे तोषकरमभूत्, विषयाश्च दत्ताः। तन्नामानि च दत्तान्याङ्गल-भाषया, यदि तान्याङ्गलनामानि संस्कृतवाचा त्वयैवानूद्य दीयेरन्, तन्मे सुतरां सन्तोषाय प्रभवेत्, रचनोत्तेजकं च भवेदिति मन्ये ॥ अस्मत्त इष्यमाणानां त्रयाणामपि निबन्धानां संस्कृतनामदाने न स्यात्ते प्रयास इति विश्वसिमि ।।
अथ पश्यसि चेत्कष्टं, यत्तस्तन्नामकरणाय भवाम्यवाहम्। प्रतीक्षे तस्मा-तव प्रतिवचनं, यत्र स्यादेकैकस्यापि निबन्धस्य विषयनामधेयम् । त्वया दास्यमानं संस्कृतनाम न चेत्समीचीनं मे प्रतिभाति, तदाऽहं संस्कृत्यैव प्रयोक्ष्ये। विदितमेव ते मदुपयोज्यः कालो न सुलभव्ययक्षम इति । तथापि द्वावत्र हेतू रचनाय अपेक्षितं कालं लम्भयिष्यतः। तत्रैक: त्वयि अकारणः समुल्लसन् मम प्रेमविशेषः, अन्यस्तु मया बाल्यात्प्रभृत्युपास्यमानायां गैर्वाण्यां निरतिशयोऽभिमानः॥
SIDELIGHTS
नवमे मास्यागामिनि निबन्ध एक: प्रेषयिष्यते, यं त्रयाणां प्रथमतस्त्वं वरिष्यसे, अवशिष्टौ द्वौ तदनन्तरागामिनि मासि ॥सर्वथा सर्वथा त्वामुपगतं स्याद्रचयिष्यमाणं निबन्धत्रयं प्रागेव तव प्रयागं प्रति प्रस्थानादित्यसंशयम् ॥ एतावतैव विरमाम्यद्य॥ इति ते प्रेयान् हितैषी भारद्वाजः कपाली
उत्तरलिखितम् २५-८-४० पूज्यपादस्ते पितृव्यः सदारपुत्ररत्नः कुशली, एतावन्तं कालमत्रैवास्ते। इतः प्रयास्यत्यागामिनो मासस्तृतीये दिवसे। त्रिचतुरेभ्यो दिवसेभ्यः परं शिरसी प्रति यास्यति आवुत्तस्थानीयः पितृष्वसुस्ते पतिः स ते सनामा। अनामा चिरञ्जीवी बाल: कुशली। अद्य तस्य वार्षिकश्चतुर्थो जन्मदिवसः । तदर्थं तत्पितरौ अद्य सायं श्रीमातरं द्रक्ष्यतः। देव्याश्चरणावुपसंगृह्य शिव-ङ्करं तस्याः प्रसाद प्राप्स्यतः ।।
मान्या ते मातामही अत्तिका तव प्रियतरा सुन्दरी माधवस्ते प्रियबन्धुः सखा अन्ये च प्रेयांसस्ते हितैषिणः सर्वेऽत्र कुशलिनः। अलमिदानीम् । वर्धस्व वत्स, वर्धस्व भूयः॥ इति ते कपाली, प्रेमवशंवदः
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.