Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
(आर्याः)
आर्या मातरमाद्यां त्रिभुवनसन्तानयोगसौभाग्याम् । आदिपुरेश्वरमहिषीं ललितां श्रीत्रिपुरसुन्दरीं वन्दे ॥१॥
या शैशवात् प्रभृति नः सस्टबहुलेषु संशयपदेषु । अविदितमथवा विदितं पातात् पाति स्म गन्तुमिह गम्यम् ॥२॥
मूर्तिमपश्यममूर्ते-रपि यद्देव्याः पुरा शिलाशिल्पे । चेतन्त्यथ चेतयन्ती कृपा हि सेति स्मरामि सुन्दर्याः ॥३॥
अच्छलजीवनविधये तुच्छमनोवासकच्छतो हृत्वा । विच्छन्दकनिजपदभू-सेविनमेनं व्यधत्त या सदया॥४॥
जीवग्राहमुदग्रा निजपदजाले निधाय मां यस्याः । जागर्ति स्वीकर्तु दृष्टिः कालेऽत्र तन्तुनाभनिभा ॥५॥
अविचिन्वन् देवपथं यदयं नीतो यदृच्छयेव यया । जनमिममज्ञमवन्ती विज्ञा सा त्रिपुरसुन्दरी विद्या ॥६॥
दुर्गममन्तर्ध्वान्त-प्राकारं विहसितेन भिन्दन्ती । मुखमण्डलमा यस्याः कुरुते स्वच्छान्तरानिभानस्मान् ॥७॥
अद्भुतगगनशरीरा-मेकाक्षरनादसंयतसमीराम् । सकलान्तरनिर्णिमिषां निस्तिमिरामन्तरे परां वन्दे ॥८॥
परितो मां विसरन्ती-मूर्ध्व मूर्भोऽवतीर्य विलसन्तीम् । निध्यायन्नध्यात्म भासं पदयोः स्मरामि सुन्दर्याः ॥९॥
गुरुचरणैस्सङ्क्रमिता वर्णमयीमम्बिकामनुध्यायन् । गुरुवरसम्पदमलमे यदहं सा त्रिपुरसुन्दरीकरुणा ॥१०॥
क इति त्रिजगज्जननी-मादिकलां भुवनशिल्पनिर्मातुः । कमलोद्भवस्य कान्ता-मादौ विद्यारताः प्रभाषन्ते ॥११॥
ए मातरखिलबोधन-दक्षे रक्षेति नः समाहूय । स्वात्मानमर्पयन्ति प्राज्ञायै तन्त्रवेदिनो विबुधाः ॥१२॥
ईश्वरि मायिकमखिल प्रावरणं चक्षुषोऽपहर मातः । येनामायिकमखिलं प्रेक्षेय तवेति याचते विद्वान् ॥१३॥
ललिते भगवति भवती-मुपगच्छामस्तदत्र कुरु दयितम् । अन्तस्सन्तमसं नो हरेति देवीमुपासते विज्ञाः॥१४॥
हीमिति मातुस्त्रिजग-त्सङ्कोचविकासतन्त्रदीक्षायाः । अक्षरमेकं ध्यायन् जगदज्ञानस्य जयति ना जेता ॥१५॥
हसिताकुरस्य गर्ने विश्वोद्भवमूलसंमदं दधती । सर्वज्ञहृदयरमणी कामाक्षी जयति परमवामाक्षी॥१६॥
सङ्करमक्षममाणा धर्माणां सर्वलोकहितकामा । सारांशमुद्धरन्ती सर्वस्माज्जयति सर्वभूतसमा ॥१७॥
कमलभुवो भवकार्ये कमलाक्षस्यापि रक्षणे जगताम् । विलयेऽप्युभयोर्धात्री कामकला जयति सर्वदेवकला ॥१८॥
हरहृदयपीठनिष्ठा शिवपदसाम्राज्यसिद्धिभूयिष्ठा । भुवनत्रयनाथगुप्त-श्रीविद्याप्रथनलासिनी जयति ।।१९।।
लज्जाबीजाद्विश्वं विततं निर्लज्जमम्बरे दधती । कामकला ब्रह्माण्डे पिण्डाण्डे जयति सैव नित्यकला ॥२०॥
हीमिति हृदयाभ्युदयां रेखां वृहदूर्ध्वमूलकामकलाम् । हल्लेखां भुवनेश्वर-सम्पदमेकाग्रसंमदां चिनुमः॥२१॥
समये समया परमं साक्षादुपजीव्यमध्वनीक्षयते । चरिते तु कुलाचारे प्रथयति चित्राणि परमशक्तिकला ॥२२॥
कन्दर्पदर्पजीवन-सौन्दर्यबलाऽन्तरङ्गशक्तिकला । पदजलजातप्रभवा प्रभवति मत्र्येऽमरत्वमाधातुम् ॥२३॥
लभ्या वाणी विष्णो-दयितापि चरा स्थिरा च यत्लेन । परमार्थबद्धदीक्षैः परस्य शक्तिस्तु तत्प्रसादेन ॥२४॥
हीङ्कारत्रितयशिर-स्त्रिकूटमुखमध्यपादवर्णमयीम् । ज्ञानत्रयशक्तिगर्मी निर्भरसौभाग्यसुन्दरीं वन्दे ॥२५॥
पञ्चदशाक्षरवपुष गावविभागेन पङ्क्तिशखितयीम् । वन्दे ललितां विद्या मुनिजनसाम्राज्यमौनगुरुदृष्टाम् ॥२६॥
हाद्यां केचन काद्या-मन्ये प्रणमन्ति मन्त्रवर्णमयीम् । पञ्चाक्षर्यामिव सा सप्ताश च जयति नादकला ॥२७॥
वाग्भवमस्तकमाया जगदज्ञानान्तसिद्धये गेया । मुखपङ्कजाग्रकलया वाणीसिद्धिं बुधस्य कलयति या ॥२८॥
जगदीश्वरविज्ञानो-ल्लासनचुञ्चुं सदागमप्रणवम् । कामेशखण्डचूडा-लङ्कारं नौति तन्त्रविद् धन्यः ॥२९॥
जीवेशसर्गसकल-ज्ञाननिधानं पराधिजलजातम् । सर्वज्ञपदमुपास्ते कूटत्रयमुकुटमायया मन्त्री ॥३०॥
(पादाकुलके)
गुरुजनगुणशतशोधितचित्तं गुरुवरकरुणावीक्षितसिक्तम् । गुरुचरणाम्बुजनित्यभुजिष्यं गुर्वी सिद्धिर्गच्छति शिष्यम् ॥३१॥
मन्त्रगुरौ मनुशक्तिर्गुप्ता रोहति फलति च जप्तयुप्ता । पुस्तकमन्त्रैर्मस्तकभारं निवहनन्धो वेद न सारम् ॥३२॥
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.