ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

आहिकस्तवः




मुखबन्धः

महानुभावस्य तत्रभवतः श्रीमत्कपालिशास्त्रिभगवतो जीवयात्रायां क्री. श. १९४७ संवत्सरो विशिष्टः संवृत्तः, यस्मिन् अहन्यहनि निरर्गलं विलसिता कविता अयत्नसिद्धा तस्य हृदयान्तः उदियाय। एवं वर्षान्ते निष्पन्ना पञ्चषष्टयुत्तरपद्यत्रिशत्यात्मिका ’आह्निकस्तवमाला’ । ’भारतीस्तवः’ ’साधनसाम्राज्यम्’ इति स्तवौ प्रकाशितौ विख्यातचरौ । परिशिष्टाः स्तवाः इदानीं शिष्टलोकसंमदाय इह प्रकाश्यन्ते ॥

तत्र “आह्निकस्तवः" इति प्रथमः संवत्सरादिमदिन-स्तववन्दनानि भगवते निवेद्य तं सन्तमेकं निलिङगभेदं पुरुषं स्त्रियमप्यवेत्य स्तौति ॥

द्वितीयं वृत्तत्रयनिबद्धं "श्रीमदरविन्दत्रिपदास्तवत्रयम्"। अत्रेदमु-ल्लेखनीयम्। एकदा श्रीभगवानरविन्दो महर्षिः दिव्यचक्षुः स्वशिष्याणा-मेकस्य सूनोरुपनयनकाले ब्रह्मोपदेशार्थ नूतनं मन्त्रमेकं आश्रितवत्सलत्वात् अन्वग्रहीत किल। सोऽयं भवति गायत्रीच्छन्दोबद्धः-

"तत्सवितुर्वरं रूपं ज्योतिः परस्य धीमहि ।
यन्नः सत्येन दीपयेत् ॥"

इति। तदभिनवमार्षदर्शनं उद्घोषयन्ति इमे स्तवाः। ’तत्’ इत्यादि-’येत्’ अन्ताः चतुर्विंशतिवर्णाः क्रमशः पद्यानामाद्यवर्णा भवन्ति येषां गुम्फ-नेन मन्त्रमाला त्रिपदा लभ्यते। स्तवेषु प्रतिपादितानि श्रीमदरविन्दभग-वतः पूर्णयोगस्य मूलतत्त्वानि गहनान्यपि योगनिष्ठस्य कवेरस्य अतिललित-कविताविलसिताभिः स्वानुभवभरितसत्यावेशवाग्भिः नितरां सुगमानि भव-न्तीति विशदं स्यात् पाठकमहाशयानाम् ॥

तृतीयः "सूक्तस्तवः”। ऋग्वेदसंहितायां प्रथमे मण्डले द्वादशेऽनुवाके पराशरऋषिदृष्टानि यानि आग्नेयसूक्तानि नव सन्ति, श्रीमदरविन्ददर्शनं उपाश्रित्य अध्यात्मपरतया तेषां भावमुपद्व्हयन् प्रवृत्तः पद्यगुच्छः । कोशस्य ऋग्वेदस्य वेदगुप्तार्थसिद्धाञ्जनात्यभाष्यं कृतवतो भगवतः पावन-कीर्तेराचार्यस्य शास्त्रिवर्यस्य वेदमर्मविभेदनाय हृद्ये पद्येऽपि प्रवृत्तिरासीत् इत्यस्मद्भाग्यम्॥

यो वेदेऽग्निः अद्भुतः कीर्त्यते स एव पुराणेषु प्रथितः कुमारः स्कन्दो-ऽभवत् इति वेदगुप्तार्थ-सिद्धाञ्जनभाष्यावसरे निपुणं निरूपितमनेन । तद्भावभावितः चतुर्थः “कुमारस्तवः" हृद्गुहाशयं गुहं शक्तिकुमारं हृद-यस्थदैवज्वालादग्नेरव्यतिरिक्तं पश्यन् प्रस्तौति ॥

"महामनुस्तवः" इति पञ्चमः । अत्र तन्त्रशास्त्रपारदृश्वा मन्त्रकल्प-विदां वरेण्यः श्रीविद्यायाः चिरन्तनोपासकः कविः श्रीमातृतत्त्ववेत्ता स्वा-भिमतां ललितां श्रीत्रिपुरसुन्दरीं स्तौति । बाल्ये वयसि पितृपादतो लब्ध-दीक्षोऽयं 1

अन्ते च इयं स्तवमाला षष्ठेन “परमाष्टकेन" समापिता भवति । व्योमशरीरं परमपुरुषं तस्य शक्ति भुवनजननी च प्रणमति कविः तयो-निक्षिप्तकार्यभारः॥

अस्य पावनप्रबन्धस्य रचनकालः क्री. श. १९४७ संवत्सरः इत्यवो-चाम। स एव अस्मत्कवेः षष्टितमवयःपूर्तिवर्षः सञ्जातः । अतो ग्रन्थ-समाप्तिसमये

"सर्वजिद् धनुषि मासि समाप्त षष्टिवर्षपरिपूर्तिकलाभिः।

" इति गीतं योगनिष्ठेन। ओजःप्रसादमाधुर्यगुणोज्ज्वलं अस्य कवितावाङमयं निर्मत्सराणां सहृदयानां हृदयानि समावर्जयेदित्यसंशयम् । यद्यपि ग्रन्थ-कृतः अमानुषवाग्विलासो निसर्गसिद्धोऽभूत्, तथाऽपि तस्य काव्यरचनायां अधिका प्रसक्तिरासक्तिर्वा नाऽऽसीत्। योगसाधनमेव मुख्य कार्य-मभवत् तस्य सर्वदा तपोमयजीवितत्वात् । सदा हृदयेशवशंवदस्य तस्य महात्मनः पद्यरचनाः अपि दैवप्रेरणयव प्रादुरासन् । “हृदा यत्तष्टान् मन्त्रा-नशंसन्” इति वेदोक्तरीत्या हार्दवाग्भिनिमितानि कवेरस्य क्रान्तशिनः पद्यान्येतानि नूनं मन्त्रायन्ते। ग्रन्थश्चायं पावनः पारायणोपयोगी भवति भक्तानां श्रद्धालूनाम् ।
श्रीअरविन्दाश्रमः पाण्डिचेरी 3.9.55 मा. पु. पण्डितः









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates