ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

काव्यप्रकाशशिक्षोपयोगिन्यः टिप्पण्यः




मुखं विकसितस्मितमिति श्लोकस्य तात्पर्यम्

रसिकः कोऽपि युवा सुन्दरी काञ्चिधुपति निर्वर्ण्य, तस्यां यौवनोदयः समुत्कर्ष भजत इति पद्यमिदं गायति-

यथा माल्यसम्बन्धात् मालासूत्रस्यापि उत्कर्षों जायते, तथा उत्कृष्टयुवति-सम्बन्धाद्यौवनोदयस्यापि उत्कर्ष इति मुखाद्यनेकेषु स्थानेषु अनेकविधकार्य-जननरूपाणि उत्कर्ष-ज्ञापकानि चिह्नामि ‘मुखं विकसितस्मितम्’ इत्यादिना ब्रूते-

"बत"-खेदे विस्मये हर्षे वा। कुतः खेदः ? उच्यते। युवतिरियं इन्दुवदना स्वभावेनैव सुन्दरी, अस्यां पुनरेतादृशं यौवनं विजृम्भते। युवत्यां साधारणं चेत् सौन्दर्य, तत्र यौवनसङक्रान्तिश्च साधारणी स्यात् । तादृशे रूपे विदग्धयुवजनदृष्टिर्म पतेत्। असाधारणसौन्दर्यभाजनेऽस्मिन् युवतिजने तु बह्वयो विदग्धयुवदृष्टयः पतेयुः । तत्र कमपि पुण्यवन्तं समुचितं युवानं विहाय इतरेषां विदग्धयुवजनानां प्रार्थनासिद्धेविघातः स्यादेवेति महदिदं कष्ट-मापतितं तेषाम्। तस्मात् “बते"ति खेदे॥ अथ विस्मये वा॥ अति-शयोऽयं रमणीयताया इत्याश्चर्ये “बत" ॥ अथवा एतादृशदर्शनीयसन्दर्शनसौ-भाग्यं विदग्धयुवजननयनानाम् इति हर्षे "बत" ॥

अथ कथमयमुत्कर्षों ज्ञायते ? आह “मुखं विकसितस्मितम्”–विकसितं विस्तृतं स्मितं स्पन्दिताधररूपं मन्दहसितं यस्मिन् तत् । अत्र मुखे अस-म्भवता पुष्पधर्मेण विकासेन असङ्कुचितत्वसम्बन्धात् सातिशयत्वं (उच्छूनत्वं) लक्ष्यते। सौरभादि व्यज्यते ॥

"प्रेक्षितं वशितवक्रिम"-वशितः स्वायत्तीकृतः वक्रिमा वक्रता तिर्य-ग्गामित्वं येन तत्। प्रेक्षिते अचेतने असम्भवता वशीकरणेन चेतनधर्मेण स्वाभिमतविषयप्रवृत्तिसम्बन्धेन स्वाधीनता लक्ष्यते। उचितपुरुषानुरा-गित्वं व्यङ्गयम् ॥ “गतिः समुच्छलितविभ्रमा"-समुच्छलिताः सम्यगुद्गताः निरन्तरं सातिशयं प्रादुर्भूताः विभ्रमाः विलासाः यस्यां स।। समुच्छलित-त्वेन उद्गमरूपेण मूर्तधर्मेण कार्येण कारणं बाहुल्यं लक्ष्यते। समस्त विदग्ध-युवजनमनोहरत्वं व्यङ्गयम् ॥

"मतिः अपास्तसंस्था"-अपास्ता निर्धूता त्यक्ता संस्था मर्यादा यया सा। मर्यादात्यागेन चेतनधर्मेण कार्येण कारणम् अस्थैर्य लक्ष्यते । अनुरा-गाधिक्यं व्यङ्ग्यम्। यद्वा, संस्था एकविषयता, तत्परित्यागेन बहुविषयप्रवृत्ति-चतुरा परिच्छेदातीता बुद्धिरित्यर्थः। एवम् अत्यन्तनैपुण्यं लक्ष्यम्। तेन गुरुजनसन्निधाने अनुरागगोपनं व्यङ्गयम् ॥

"उरो मुकुलितस्तनम्”—मुकुलोऽस्य सञ्जात इति मुकुलितः मुकुल-तुल्यः स्तन: वक्षोजः यस्मिन् तत्। मुकुलितत्वेन पुष्पधर्मेण सान्द्रावयव-त्वसम्बन्धात् काठिन्यं लक्ष्यते काठिन्यं लक्ष्यते वृद्धिप्रवणता वा। तेन आश्लेषयोग्यता रूपातिशयो वा व्यज्यते ॥

"जघनम् अंसबन्धोधुरं"-असः भुजशिरः अन्येषामप्यङ्गानामुपलक्षणम् । अंसबन्धेन प्रत्यङ्गविभागलाभेन उद्धरं उत्तुङ्गम् जघनम् ऊरुमूलम्। उद्-धुरत्वं उत्क्रान्तधुरत्वं वृषभादिधर्मः। तेन पीनत्वसाम्यात् पुष्टत्वं लक्ष्यते । प्रत्यङ्गविभागात् मध्यकार्यसिद्धेः जघनस्य उत्तुङ्गत्वं लक्ष्यते । उपभोग-योग्यत्वं व्यङ्गयम्॥

"इन्दुवदनातनौ"-चन्द्रमुखीशरीरे। अत्र इन्दुर्वदनं यस्याः सा इति वदने इन्दुत्वम् आरोग्य उपचरितं चेत् सुवृत्तत्वशोभावहत्व-आह्लादकत्वानि लक्ष्यन्ते। विरहतापोपशमो व्यङ्गयः॥

"तरुणिमोद्गमः"-तरुणिम्नः तारुण्यस्य उद्गमः उदयः। स चाङकुर-धर्मः तरुणिमनि नोपपद्यते। नवोद्भेदसाम्यात् तारुण्यस्य नवत्वं लक्ष्यम् । सर्वजनाह्लादकत्वं व्यङ्गयम् ॥

"मोदते"- हृष्यति। हर्षश्चेतनधर्मः यौवनोदये नोपपद्यते। जन्य-जनकभावसम्बन्धेन उत्कर्षों लक्ष्यते। स्पृहणीयत्वं व्यङ्गयम् ॥

एवमत्यन्ततिरस्कृतवाच्यध्वनिरयं श्लोकोऽवगन्तव्यः॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates