ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

श्रीमातृमुक्तावली




प्रार्थना

अक्टोबर २३, १९३७

विजयस्व दधन्नाथ विघातानां पराजयम् ।
कार्यस्य ते विघाताय मा भूदस्मासु किञ्चन ।
मा भूद् विलम्बनं किञ्चित् प्रादुर्भावस्य वा तव ।।

अपि सर्वेषु कालेषु तथा सर्वेषु वस्तुषु ।
भूयात् कृतार्थों भगवान् सङ्कल्पो जित्वरस्तव ॥

आदेहसूक्ष्मकुहरं आ समुत्तुङ्गभागतः ।
अस्मदंशेषु सर्वेषु सर्वास्वस्मत्प्रवृत्तिषु ।
इच्छा ते पूरिता स्यादित्यास्महे सन्निधौ तव ।

वतॆमहि समासक्ताः कृत्लशो नित्यशस्त्वयि ।
अनन्यवशगाः स्याम त्वत्प्रभावैकवर्तिनः ॥
परमादरमत्यन्तं कृतविज्ञतया त्वयि ।
वर्तित विस्मृतिर्मा भू दस्माकं भोः कदाचन ॥

अद्भुताननुगृह्णासि यानर्थान् नः क्षणे क्षणे ।
कदापि मा वृथा कार्म तान् वयं भगवन् विभो ।
कार्य ते सर्वमस्मासु सहकारि त्वयाऽस्तु भोः ।
अस्तु सर्वं च सन्नद्धं साक्षात्कारकृते च ते ॥
वरेण्य सिद्धिकृन्नाथ विजयस्व जयोऽस्तु ते ।
अनन्यवृत्तिमक्षोभ्या मुज्ज्वलां व्यवसायिनीम् ।
प्रतिपादय तां श्रद्धा मस्मभ्यं विजये तव ।।

उपयोगाय युक्तानां दैवसेवाभिलाषिणाम् ।
निरर्गलं निर्गताना हार्दानां प्रार्थनात्मनाम् ।।
सत्यार्थमन्त्रवपुषां गिरां मातुर्महौजसाम् ।
वाण्या जयतु गैर्वाण्या मवतारोऽयमर्थवान् ।।

१९३३

अस्तु जन्म नवाब्दस्य नवं जन्मापि न श्चितेः। मुक्त्वा दूरं गतं याम भावि सत्वरमुज्ज्वलम् ॥

१९३४

वर्षों गच्छति नाथ त्वां कृतज्ञा धीनता च नः । पुन विभो भवत्यब्द स्त्वां प्रति प्रार्थना च नः । प्रभो भवतु सोऽस्माकं नव-जीवन-जन्मने ॥

१९३५

अनृतं कृत्रिम सर्व कपटं च विडम्बनम् । अस्मिन् सायन्तने तुभ्यं भगवन्नर्पयामहे ।। अस्तं गच्छतु तत् सर्व वर्षण सह गच्छता ॥
अवक्रमृजु यत् सत्यं अमिश्रं शुचि केवलम् । अस्मात् संवत्सरारम्भात् तत् सर्व ध्रियतां विभो ॥

१९३६

अयं संवत्सरो नाथ जयसंवत्सरोऽस्तु ते । यया तदर्हा भोः स्याम तां भक्ति प्रार्थयामहे ।।

१९३७

विजयस्व विभो बिभ्रद् विघातानां पराजयम् । त्वत्कार्यप्रतिबन्धाय मा भूदस्मासु किञ्चन ॥

१९३८

सर्वमस्मासु सन्नद्धं साक्षात्काराय तेऽस्तु भोः । वरेण्य सिद्धिकृत् तुभ्यं वर्षादौ प्रणता वयम् ।।

१९३९

अयं संवत्सरोऽस्माकं भविता परिशुद्धये । अनुत्तमात् पारिशुद्ध्या दधिकारादहंधियः । विमुक्तये प्रार्थयन्ते ते सबै त्वां जगत्प्रभो । देवकार्ये निजं भाग ये भजन्तेऽधुना मुवि ।।

१९४०

प्रतिसन्धानवर्षोऽयं वर्षों मौनभरः प्रमो। तव प्रसादे नः सर्व माधारं प्रामुयाम भोः ॥

१९४१

प्रत्यर्थिनीना शक्तीना मदैवीनां प्रयोगतः । अध्यात्मजीवनकृते युध्यते तर्जितं जगत् ।। प्रभावस्ते प्रकाशः स्यादिति नाथ महीतले । तिष्ठेमेत्यभिकाङ्क्षामो वयं ते वीरकिङ्कराः ॥

१९४२

विजयोऽस्तु जगन्नाथ विजेत रखिलद्विषाम् । भागं तव जये धातुं बलं भर्तु प्रदेहि नः ॥

१९४३

उभयोः पक्षयो रेक-तरस्यामूलनिर्णयम् । कार्यस्य वरणस्यायं समयः समुपागतः ॥
उदेतुं भवतः सत्ये समुज्झित्यानृतं प्रभो । बलं नो देहि भगवन् जयार्हाः स्याम निर्मलाः ॥

१९४४

तेष्वेव पूर्वमौढ्येषु सर्वदा पतनं निजम् । वार्यतामिति लोकोऽयं नाथ त्वा मनुनाथति ॥
ये दोषाः प्रतिपन्नास्ते यथा न स्यु नवीकृताः । तथा विधेहि भगवन्नन्ते चेदं विधेहि भोः ।।
उच्चैरुत्कीर्तितानां तदादर्शानां यथातथम् । ऋजु निष्कर्षण स्पष्टं भवत्वाचारसाधितम् ॥

१९४५

स्वीयेषु सर्वदेशीय-वर्तनेष्वपि सत्यता । संसिद्धा भूमिलोकेऽस्मिन्नरैर्यावन्न शिक्षिता ॥
तावन्न स्थायिनी शान्ति वो भोग्या समुल्लसेत् । संसिद्धा मभिकाङ्काम स्तामेतां सत्यतां विभो ॥

१९४६

शान्ति तव न तु व्यर्थ शान्त्याभासं वृणीमहे । स्वतन्त्रतां तवैवामी वयमभ्यर्थयामहे । क्यं स्वतन्त्रताभासं जातु नाभ्यर्थयामहे । ऐक्यं त्वदीयं काङ्क्षामो नैक्याभासं कदाचन ॥

अवृतान्धबलात्कार-दम्भानां शासतां भुवम् । पराजयाय प्रभवेत् प्रभो शान्तिस्तवैव हि । स्वतन्त्रता ते भगवन्नैक्यं ते प्रभवेत् तथा ।

वव यस्य जयस्यार्थे प्रयास सङ्गराङ्गणे । सविक्रममकुर्वन् ये क्लेशानन्वभवन्नपि । जयस्य तस्य निर्व्याज-यथार्थ-फलितानि भोः । किङ्करास्ते विलोकन्तां प्रसाद भुवनप्रभो॥

१९४७

[प्रोत्साहनमिदं नेदं प्रार्थनं विनिबुध्यताम् । इह प्रोत्साहनमपि व्याख्यानमवधीयताम् ॥]

यस्मिन् क्षणे सकलमप्यभितो दुरन्ता दत्यन्तदुर्गतमितं प्रतिभाति भूयः । श्रद्धां तदैव परमां विनिबध्य दैवे नास्मान् कदापि विजहाति कृपेति बोध्यम् ॥

या उष:-प्राग्भवा होरा घोरा स्सन्तमसेन ताः। दासता च विनिमोक्ष-प्राग्वेलास्वार्तिभूयसी ॥
यत्राशाज्वलनः शश्वज्ज्वलति श्रद्धयाऽश्चिते । प्रोत्साहस्य विभङ्गाय हृदये तत्र नान्तरम् ॥

आगस्ट, १९४५

सोऽयं जयस्तव जयः समुपागतस्ते तन्नाथ वन्दनशता न्युपकल्पयामः । अस्माक मन्तरुदयोज्ज्वल-तीव्रभावां अभ्यर्थनां तु भगवन्नुररीकुरुष्व ॥

मा विस्मरन्तु विजये जयिनो यदेते शक्त्या तवैव जयिनोऽद्य तवैव शक्तेः । वाचः पुरा निरयवेदनसङ्कटेषु दत्ताश्च ते विजयिनः परिपालयन्तु ॥

अगृहन् नाम ते नाथ युद्धारम्मे जयैषिणः । कृपा ते विस्मृता मा भूद् एतैः सन्धौ चिकीर्षिते ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates