ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

आहिकस्तवः




परमाष्टकम्

(शार्दूलविक्रीडितानि)

ध्याता मन्त्रधरैर्वृता सृजति या बुद्धिं प्रकृत्या शिवा-मारम्भैः स्थिरचिन्तनैर्मतिमतां सिद्धिप्रवाहो यतः ।
दृश्ये भ्राम्यति देशकालविवृते विश्वस्थितिर्वा यया सा शक्तिर्निखिलाण्डकोटिसवितुर्व्याख्यातु नस्तत्पदम् ॥१॥

आधानाद्विदितप्रभावविसरो विश्वस्य यो मूर्तिमान कालं यस्य जगद्विसृष्टिकरणं कार्यार्थरूपं विदुः ।
माने हेतुरयं च भेदनिलयो देशो यदालम्बन-स्तस्मै ध्वस्ततमोघनाय महसां ताताय तुभ्यं नमः ॥२॥

सत्यासत्यविवेचकः स भगवान् धर्मो विधानध्रुवः कल्याणार्थकरो हरिर्जनिमतामन्तर्विमानोद्यमी ।
प्राणत्राणपरायणः स्थितिमतां रुद्रोऽपि कामार्तिहा धर्मार्थेषणकारणस्य जगतः शास्तस्तवैतेंऽशवः ॥३॥

रूपं ते वियदुत्तमं कृतिमती शक्तिः परा तापसी नातं सर्वमजाण्डकं तु युवयोरन्योन्यतादीपकम् ।
शान्तिस्सर्वसमाऽपि भूतकरुणा न त्वां विहातुं क्षमा सार्वात्म्यं भजतस्तवेश महिमा सीमानमुल्लङ्घन्ते ॥४॥

श्लिष्यन्ती गहनाम्बरं रहसि ते शक्तिश्शरीरं विभो प्रेमप्रश्वसितेन वां वितनुते सर्वत्र गूढां श्रियम् ।
सान्द्रानन्दकृता यथा वपुषि वां धर्माम्भसां मालिका वैरिश्चाण्डपरम्परा यत इयं ताराकृतिर्नृत्यति ॥५॥

(शिखरिण्यौ)

अखण्ड प्रज्ञानं जगदुदयभङ्गस्थितिगुणं गुणातीता शक्तिस्तव सहचरी विश्वजननी ।
अनन्तश्शेषात्मा भवसि च जगद्भारभरितो नदन्नन्तर्भूतेष्वणुरसि महान् सोऽसि भगवन् ॥६॥

अविश्लेष्यं त्वत्तस्सुचिरमभजं नाथ जगता-मजाननधं ते भुवनजननीं प्राणदयिताम् ।
तथाऽप्यस्येदं मे चरितमपराद्धं न गणय-स्यहो वामन्योन्यप्रथनपटुदाम्पत्यमहिमा ॥७॥

(मन्दाक्रान्ता)

तस्मादेनं तव पदजुषं त्वत्कटाक्षोपजीव्यं नाथ श्रीमन् कुशलकरणं साधु सन्धाय जीयाः ।
सा ते सक्ता मयि तव जने बिभ्रती कार्यभार दृष्टिर्जीयाद् भुवनजयिनी सर्वसाम्राज्यलक्ष्मीः ॥८॥

इति श्रीमहर्षिरमणभगवत्पादानुध्यातश्रीभगवद्वासिष्ठगणपति-मुनिप्रवरान्तेवासिनः, पूर्णयोगाचार्यश्रीमदरविन्द-भगवत्पादानुध्यातस्य, विश्वेश्वरसूनोः कपालिनः कृतिः आह्निकस्तवः भारद्वाजस्य समाप्तः।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates