ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

काव्यप्रकाशशिक्षोपयोगिन्यः टिप्पण्यः




प्रथमोल्लासः

श्रीमम्मटभट्टः कर्ता काव्यप्रकाशस्य। अयं च काव्यस्वरूपगुणदोषा-लङ्कारादीनां विचारपुरस्सरं निष्कर्षाय प्रवृत्तोऽन्यातिशायी निबन्धः । अमूल्य-कल्पकल्पोऽयं काव्याथिलोकस्य ।

अत्र विमृश्यमानो विषयसन्दोहः दशधा विभज्य उल्लासाभिधैः दशभिः परिच्छेदैः प्रबद्धः । अत्र प्रथमोल्लासे काव्यप्रयोजनकारणस्वरूपविशेषनिर्णयः कृतः॥

लघुटिप्पण्यामस्याम् अध्यापने यान्यनुक्तावशिष्टानि अस्पष्टमुक्तानि वा प्रतिपादितान्यपि कानिचिदावृत्तिसहानि वा समासेन सूचयिष्यन्ते ॥

’आदौ स्वाभीष्टां वाग्देवीं स्तुवता ग्रन्थकृता शिष्टसम्मतं मङ्गलमनु-ष्ठितम्। विघ्नविवाताय मङ्गलाचरणमिति साम्प्रदायिकाः, कार्यारम्भे स्वा-भिमतदेवतास्तोत्रं प्रधानम्, ग्रामं गच्छन् तृणं स्पृशतीतिवत् शिष्टाचारोऽप्यनु-सृत इति बोध्यम् ॥

यद्यपि स्तुतिकर्मणोऽन्यत् भवति नतिकर्म, तथाऽपि स्तोत्रे कृते प्रणति-राक्षिप्यते, न तु नमस्कृतौ स्तोत्रस्याक्षेपः।

अथेदमवधेयम्। कविकर्मभूतं काव्यनिर्माणं यया निरुह्यते सा वागभि-मानिनी देवता सरस्वती स्तुतेति कारिकोक्तविशेषणाल्लभ्यते। एतेन कार्य काव्यनिर्माणम्, निमित्तभूतः कर्ता कविः, काव्यकर्मणो निर्वाहयित्री तु कारण-भूतं सर्ववाचोऽधिदैवतं सा भारत्येवेति सुगमम् ॥

कथं तर्हि काव्यनिर्मितिहेतुप्रस्तावे प्रतिभाव्युत्पत्तिप्रवृत्तिपौनःपुन्यात्मकः काव्योद्भवहेतुः प्रतिपाद्यत इति चेत्, नेदमसङ्गतम्। कारणभूता भारत्येव निमित्तभूते कर्तरि कवौ प्रतिभादिसाधनाधानप्रेरणया कार्य निर्वहतीति सङ्ग-सारस्वतप्रसाद एव प्रतिभात्मना परिणमय्य कर्तारं कविं काव्यकर्म-प्रवर्तने प्रेरयतीति फलितम् ॥

अत एव जगद्वन्द्यायाः कारणभूतभारत्याः कार्यभूतकविभारत्याश्च अभेदा-ध्यवसायन काव्यनिर्मात्र्याः कविभारत्याः स्तवनं कृतम् ।।

अन्यच्च, चतुर्मुखनिर्माणादपि भारतीनिर्माणस्य वैशिष्टयं वृत्तौ सहेतुकं व्याख्यातम्। अनेन चतुर्मुखात् भारत्याः वैशिष्टयं च व्यज्यते ॥

अर्थ प्रयोजनप्रतिपत्ती इदमवगन्तव्यम् ।।

शब्दप्रधानो वेदः। स प्रभुरिवादिशति। अर्थप्रधानः पुराणादिः सुहृदिव सूचयति। शब्दार्थशरीरा कविता तु कान्तेव रमणीयभङ्गया हृदयङ्गमेन गुणी-भूसशव्यार्थयुगलेन ध्वमिना रहोऽन्तरङ्ग प्रविष्टा सहृदयस्य हृक्यमार्दीकरो-त्युपदेशेन ॥

विविच्य प्रकारान्तरेण ब्रूमः फलितम् ।

वेदे शब्द: प्रधानः पुराणादी अर्थः प्रधानः काव्ये शब्दोऽर्थश्च अप्रधानो, उभयोर्गुणभावः, तदुभयातिशायी व्यङ्गयः प्रधानः ॥

प्रभुरिव मादिशति वेदः सुहृदिव ब्रूते पुराणादिः रमणीव रमणस्य सहब-यस्य हवयं चमत्कारबोषजनकतया प्रविश्य रमणीयमुपदिशति कविता ।।

अथ लक्षणम्॥ शब्दार्थों उभयं काव्यस्य स्वरूपमुक्तम् । तो अविशिष्टौ काव्यमुच्यते ॥

दोषरहिती गुणसहितौ क्वचित् स्फुटालङ्कारशून्यो वा काव्यम् ।। अदुष्टा गुणवती निरलङ्काराऽपि कामिनी रमणीया भवति, तथा कविता-ऽप्यदृष्टा गुणोज्ज्वला अलङ्कारशून्यापि रामणीयकं पुष्णाति। कामिन्याः कटकताटङ्कादिवत् उपमादयोऽलङ्काराः कवितायाः। ओजःप्रसादमाधुर्या-दयो गुणाः। श्रुतिकट्वादयो दोषाः। इमे वक्ष्यन्ते उत्तरत्र ।

महाकविप्रबन्धेष्वपि अत्यन्तमदुष्टं काव्यं प्रविरलं बोध्यम् । तस्माद्दोषा-भावत्वे काव्यलक्षणे निविष्टे सति बहूनां लक्ष्यग्रन्थानां काव्यत्वहानिः प्रसज्येत। "न्यक्कारो ह्ययमेव" इत्यादिपद्येषु विधेयाविमर्शादिदोषे सत्यपि काव्यत्वं न हीयते॥

तस्मा ददोषा"वित्यत्र नञ् ईषदर्थकम्। नमः अनेकार्थत्वं वाक्यपदीये हरिराह।

"तत्सादृश्यं तदन्यत्वं तदभावस्तदल्पता।

अप्राशस्त्यं विरोधश्च नर्थाः षट् समीरिताः ॥" इति ॥

तस्मा ददोषौ" ईषद्दोषी इत्यर्थः ।।

यथा अनर्धे वज्रमणौ क्वचित् कीटानुविद्धेऽपि न मणित्वहानिः, अर्घस्यैव ह्रासः। दशलक्षमूल्यो मणिः कीटानुविद्धत्वादीषदुष्टः पञ्चलक्षमूल्यो भवति। तथा किञ्चिद्दुष्टं पद्यमपि काव्यत्वं न जहातीति बोध्यम् ॥ तस्माल्लक्षणे ’अदोषा’विति निवेशनं ईषदुष्टत्वेन न काव्यत्वहानिरिति ज्ञापनाय, न तु ईषदुष्टि: स्यादेव काव्ये काव्यवस्थापनायेति। (अभिधा लक्षणा व्यञ्जना इति त्रिविधः पदपदार्थयोः सम्बन्धः। तं वृत्तिशब्देन व्यवहरन्ति) तस्मात् यथासम्भवं वृत्तित्रयसम्बद्धयोः शब्दार्थयोः ईषदुष्टयोरपि गुणसम्पन्नयोरलङ्कार-निरपेक्षं काव्यत्वं प्रतिपादितम् ।।

यद्यपि बहूनि लक्षणानि ग्रन्थकारः प्रतिपादितानि, तानि सर्वाणि सुन्दोप-सुम्दन्यायेन खण्डितानि भवन्ति ॥ वस्तुतस्तु निर्दुष्टं निष्कृष्टलक्षणं काव्यस्य नास्ति। यथा मन्त्रविदां व्यवहारादेव अयं मन्त्र इति ज्ञायते, तथा काव्य-विदां व्यवहारादेव काव्यमिदमिति बोध्यम् ॥ यद्यप्येवं, तथापि उक्तेषु लक्षणेषु यदधिकलक्ष्यसङग्राहकं तदेव लक्षणं ग्राह्यम्। लक्ष्यानुसारेण हि लक्षणव्यवस्था क्रियते ।। चमत्कारसारं हि काव्यम् ॥ तादृशं शब्दार्थ-निबन्धनं ’प्रकाशोक्तलक्षणमधिकलक्ष्यसङग्राहकत्वात् ज्यायः स्वीकार्यम् ॥

अन्यच्च लक्षणं नव्यानां रमणीयं भवति ।।
"रमणीयार्थप्रतिपादकः शब्दः काव्यम्" इति ॥
अत्र कटाक्षादौ अतिव्याप्तिवारणाय शब्देति ॥
व्यङ्गचादिसङग्रहाय प्रतिपादक: न वाचक इति ॥
रमणीयशब्दप्रतिपादके व्याकरणे अतिव्याप्तिवारणाय अर्थेति ॥
गामानयेत्यादिवाक्यवारणाय रमणीयेति ।।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates