Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
(उपजातयः)
तमः परस्ताद् भुवनस्य पारे कथं नु चिन्ताभुवमेत्वदूरे। स एव भाशेषविशेषभासा विश्वप्रभुनों हृदि सबिधताम् ॥१॥
स पारदृश्वा जगतामधीश-स्तदक्षरं धाम नितान्तशान्तम् । सा तस्य शक्तिः सकलप्रसूति-त्रिधाऽपि भान्तं तमनुस्मरामः ॥२॥
विश्वं विलासादचरं चरं च दिवं भुवं मध्यममन्तरिक्षम् । निर्माय नातृप्यदिवांशुमाली स्वयं निवासाय पुनर्मिमीते ॥३॥
आह्निकस्तवः तुरीयमास्थाय पदं त्रिलोकी-माधाय पादेन सहस्रपादः। आघाय तां मूर्ध्नि पुनर्मिमानः पुमान् पदा भूभुवनं जगाहे ॥४॥
वरेण्यमात्मीयवपुर्विशेष महोमयं बिभ्रदसौ विदोषम् । निर्मथ्य पिण्डं धनसार्वभौम सिद्धं विधित्सनवनि विवेश ॥५॥
रमे नितान्तं नररूपशिल्पे निर्मातुराधानकलास्वनल्पे। अनंशुभेद्यं वरणायमानं तमोजडं यत्र महो बिभर्ति ॥६॥
रूक्षं विनिश्शेषितसर्वसार-कल्पं तमस्संहननं जडान्धम् । स्निग्धस्य सारस्य महोमयस्य दुर्ग महाचं भवतीति चित्रम् ॥७॥
पवं समस्तं कुरुतामपास्तं निगूढसारोऽन्तरसम्प्रसादः। यस्यैव विश्वं धियते महिना येनाणुरप्यातनुते महान्ति ॥८॥
ज्योतींषि सौराणि परस्सहस्रा-ण्युत्सृज्य निःश्वासवदप्रयासम् । त्रिलोकभासां निधिरन्धकूपे जागर्ति जाड्ये किमतो विचित्रम् ॥९॥
तिरोहितानामतिनाकभासा-मन्तर्हितानामखिलात्मभासाम् । आविष्कृतानामपि लोकभासा-मात्मानमेकं पुरुषं भजामः ॥१०॥
परात्परं विश्वभुवं तमाद्य-मनाद्यनन्तं बहुधा भवन्तम् । सत्येन युक्तानिह दीपयन्त-मन्तज्वलन्तं भगवन्तमीडे॥११॥
रवीन्दुवैश्वानरभानुकोटिं कलाविशेषेण विभासयन्तम् । अंशेन सर्वान्तरपूर्णमेक-मलोकभानुं तमनुस्मरामः ॥१२॥
स्यन्दोऽपि बिन्दुप्रचितो झरीणां प्रवाहतामेति महानदीनाम् । पदं दधानः परमाध्वयाने भूमानमल्पोऽप्युपयाति काले ॥१३॥
धीरस्वभूव धियमुत्तमार्थी विनैव यः सम्पदमीहते ताम् । पगुः स ना लञ्चिन्तुमद्रिशृङ्ग कुर्यान्मनस्येव मुधा प्रवृत्तिम् ॥१४॥
महानुपायो भवतीह पङ्गो-रप्यद्रिशृङ्गस्य विलङ्घनेषु । प्रसादडोलामधिरोद्धमात्या भव्या मतिश्चेत् किमतो गरीयान् ॥१५॥
हिरण्यवर्णामभितःप्रसारां संज्ञापयित्री विपुलस्य भूम्नः। वीक्षाविशेषां गुरुनाथदीक्षा यो वेद तस्मादपि को नु धन्यः ॥१६॥
यल्लिप्सवः शैलदरीवनान्ता-नेकान्तवासेषु तपांसि तप्तुम् । ध्यानानि कर्तुं चरितुं च योगं व्रजन्ति तन्नः परमत्र सिद्धम् ॥१७॥
3
नः शाश्वतः कृच्छ्रतपोविशेपै-विनैव विध्वंसन एनसां यः। स सम्पदां प्रापयिता धुभासा-मस्मद्भरन्यासवहः कटाक्षः॥१८॥
सरस्सहस्राण्यपि नाधिरोढुं शक्तानि रत्नाकरतुल्यकक्षाम् । परस्सहस्राण्यपि साधनानि कथं कटाक्षप्रतिकक्षमीयुः ॥१९॥
4
त्येनैव शान्तिः परमा च शक्तिः कटाक्षपातेन परा हि सिद्धिः। तं भ्रातरायासहरं नराणा-मीहस्व याचस्व भजस्व जोषम् ॥२०॥
न शास्त्रधीभिः श्रुतिचोदनाभि-स्तपोव्रतैरागमसाधनैर्वा । क्रय्यः कटाक्षः परमस्य पुंसो दानात् स्वयं सद्गुरवे तु लभ्यः ॥२१॥
दीनैर्न गम्यः पशुमिनूवेष-निर्दोषशीलैरपि धार्मिकैर्वा । आत्मप्रदानेरितभूरिसत्त्वैः सम्पादनीयः करुणाकटाक्षः ॥२२॥
परस्परावेशमदातिरेका-दादानदानैरुभयोरुपायैः। जीवस्य देवस्य लघोर्गुरोश्व सम्मेलने नैकविधं विचित्रम् ॥२३॥
येत्थंविधानं गुरुशिष्यभाव वाणी विदां व्यावृणुते पुराणी। यो वेद तां वेद स पूतचेताः कटाक्षदीक्षादिरहस्यमर्थम् ॥२४॥
तदादिवर्णैत्रिगुणाष्टपद्य-लग्नैः क्रमेणोच्चरितैरवाप्यम् । सेवस्व गायत्रमथारविन्द-दृष्टोपलब्धां परमां च सिद्धिम् ॥२५॥
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.