ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

आहिकस्तवः




॥श्रीमदरविन्द-त्रिपदास्तवः-प्रथमः ॥

(द्रुतविलम्बितानि)

तदतुलं कुशलानि दधद् विदा-मपहरच तमांसि परं महः ।
द्यतु मदापदमापदमाशिरो लसतु सन्ततमन्ततमं शिवम् ॥१॥

स भगवानगभूपतिसन्निभः सुरधुनीव दया हृदयाद्यतः।
नरभुवं फलिनी गुरवे दधा-त्यमरतां जयते जयतेजसे ॥२॥

विहितवानरविन्दमहामुनिः कुशलपद्धतिमविजुषां विदाम् ।
गगनकेश इवोर्ध्वकलाधरो जयति भूतलभूतलसत्पदः ॥३॥

तुरगवेग इवांशुसहस्रिणः किरणसार उदारदृशो मुनेः।
दिवमनन्तभुवं परितः परि-कमरतोऽविरतो विरिवोदते ॥४॥

वरमिदं जननं मनुजन्मना-ममलभारतभूवलयेऽधुना।
इह महः परमं परमार्थिनां लसति संप्रति संप्रतिपत्तये ॥५॥

रमणसत्करसारविकासिते कमलिनीहृदये कलहंस रे।
पतिरुपैष्यति वाह तवाऽधुना भव हितोऽवहितो वहनाय रे ॥६॥

रुचमपारकृपारसवाहिनी-मुदयशैलशिरःपरिचुम्बिनीम् ।
मुहुरलोकविधा प्रदिशन्नुदे-त्यवनबन्धुरबन्धुरदरभाः ॥७॥

पदचतुष्टयपीठमधिष्ठित जयति यद् भुवनत्रयमूर्धनि।
तदिह पुञ्जमनन्तरुचां वयं पृथुलया कलया कलितं नुमः ॥८॥

जयविधौ भुवने विजयो मुनि-नयविधौ जगतो नयनं स्वयम् ।
प्रियविधौ रस एव न लिप्यते लयविधौ विलयाविलया धिया ॥९॥

तिलकितं महसैव शरीरिणा निखिलसृष्टिललाटमदो नभः।
अजनि यस्य लवस्य विलासतो भुवनमूलनचालनचारुता ॥१०॥

परवतां विषयैरपि धीमता-मनृतनृत्यरतैनिहतेव धीः ।
हृदय माऽस्तु मुधा परिचिन्तनै-ज्वलनमा शमिता शमितास्तु ते ॥११॥

रतमनारतमन्तरमुत्तरे मम जगज्जगदीश्वरपुष्करे।
वपुरिदा यदि भौममनादरात् तदिह नो सहते सह तेन किम् ॥१२॥

स्यतु मदन्तरभावरणायितां जडधियं निखिले निखिलात्मधीः ।
धतु मदापदमस्मृतिसंभवां विभवतो भवतोऽचलधीविभा ॥१३॥

घियमनश्वरधाम समेयुषी निहितवानसि जन्मनि मे विभो।
सपदि साधयितुं फलिनी च तां प्रभवते भवते भगवन् नमः ॥१४॥

महत आत्मवियोगपराभवा-ननुभवत्यपि जन्मिनि मानवे ।
कथमपि ध्रियते स विभो न किं समुदयाय दया यदि तेन किम् ॥१५॥

हितहरेष्वमितः समुपस्थिते-प्वपि नदेत् परनाम यदन्तरे ।
किमु भयं वरदीपधरं नरं स्पृशति सन्तमसात्तमसाध्वसम् ॥१६॥

यदवकीर्य निजांशविभालवान् क्षितितलेऽपितवान् महसां निधिः।
तदिह तान् विचिनोति चिनोत्यसौ बलकरैः स्वकरैः स्वयमेधितान् ॥१७॥

न न इति श्रुतमेव जगत् प्रति प्रतिभयं ममताहरमक्षरम् ।
स स इति श्रुतमेव भयापहं हृदि सखेद सखे दयितं कुरु ॥१८॥

सरसभूम समं भुवनं न चे-दवनिजः सकलो रसवान् न चेत् ।
मनुजनुर्निखिलो रसिको न चे-दमृतसिन्धुवनं भवनं भजेः॥१९॥

तरति येन तमोभुवनं बुध-स्तरणिरित्यभिधां स ततो दधे।
सृजति यो ज्वलयत्यपि सत्यत-स्त्रिजगतीमविता सविता स नः॥२०॥

नम सदा शिरसा नम रे हृदा न मम सर्वमिदं तु तवेति वा।
सकलवस्तुसमं नम पूरुषं शिवतमाकृतिमाकृतिसाधनम् ॥२१॥

दिवसनाथसहस्रगतां विभां निजकलाकलितां वितनोति यः।
स हि वरो वरणीयमहोवपु-जयति खे परमे परमेधया॥२२॥

पदपदार्थविदो विदुरीश्वरं भुवनसर्जनसत्यमनश्वरम् ।
विततमप्यततं जगदन्तरं सकलधामसुधामसुदर्शनम् ॥२३॥

य इदमद्भुतमत्र महः परं हृदि करोति नरो नृवपुर्धरम् ।
स जयति ज्वलितो ज्वलयत्ययन् परमसत्यमसत्यतमो हरन् ॥२४॥

तदरविन्दऋषेत्रिपदां भजे-स्त्रिगुणिताष्टकपद्यमुखाक्षरैः।
स्मर गुरुं युतवर्णमपि क्वचिद् द्रुतविलम्बितलम्बितलाघवे ॥२५॥2









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates