ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

आहिकस्तवः




श्रीमदरविन्द-त्रिपदास्तवः-तृतीयः

(अनुष्टुभः)
तत्पदेन तमात्मानं जगतामाहुरीश्वरम् ।
कथं नित्यपरोक्षः स्यादस्माकं हृदयाश्रयः॥१॥

स नित्यः सर्जनैरेतैर्जगतां किं नु रिच्यते ।
तारापथस्तारकाभिः क्षुण्णः किं याति संक्षयम् ॥२॥

विभवो भवरिक्तस्य विश्वोद्भावनविश्रुतः ।
अमायिक विलसितं यस्येदं भुवनत्रयम् ॥३॥

तुरगाः सवितुर्युक्ता विरमन्ति न कार्यतः ।
ईशितुर्नित्ययुक्ताश्च विरतिं नैव जानते ॥४॥

वशिनो भुवने सन्तु वृण्वते यान् वराः श्रियः ।
स वशी दुर्लभो लोके लोकनाथो वृणोति यम् ॥५॥

रन्तुं सिद्धिषु कल्पन्तामणिमाद्यासु योगिनः ।
रन्तुं योगेश्वरेऽस्मासु सिद्धे किमधिकं ततः ॥६॥

रूपे रूपे विपश्यन्तः स्वरूपं परमात्मनः ।
स्वतामेव समुज्झन्तो रमन्ते सर्वतो बुधाः ॥७॥

पञ्चतां यान्ति पशवः पश्यन्तो भूतसञ्चयम् ।
पश्यन्तस्तु महद् भूतं भास्वदेकं तदेकताम् ॥८॥

ज्योतिषामादिमं प्राहुः सावित्रं विश्वतः परम् ।
अन्तिमं मानुषे तेषामन्तरे मृग्यते बुधैः ॥९॥

तिरोभूतस्य भूतेषु भूतेशस्य भवो यथा ।
पितुः पुत्रेषु शिष्येषु गुरोर्वा सङ्क्रमस्तथा ॥१०॥

परं पूजन्ति हृदये धीराः पल्लवकोमले ।
अपि वज्रोपमं तेषामन्तरं धर्तुमीश्वरम् ॥११॥

रसेन नित्यसिद्धेन वपुष्मान् जगतीपतिः ।
रमते तत्र नवतामादधानः क्षणे क्षणे ॥१२॥

स्यमन्तकं किलैकस्मै प्रसन्नः सविता ददौ ।
अरविन्दसुहृत् सोऽद्य स्यमन्तकति नः सदा ॥१३॥

धी(मदर्शनद्योता नेत्री नित्यहिता सताम् ।
आतता द्यौरिवाशानां शासित्री सर्वधर्मसूः ॥१४॥

मरौ शालभूमि चित्कला वा जडान्तरे ।
सर्वेशधीः समुद्भाति पशुप्रायासु वृत्तिषु ॥१५॥

हितानि साक्षात्कुर्वन्तु सुधियोऽन्ये रतानि वा ।
आत्मसात् कुरुतामस्मानात्मा लोकस्य लोकवान् ॥१६॥

यदण्वपि न विज्ञातं न किञ्चिन्मन्महे ततः ।
मननायाह्वयामस्तु मन्तारं परमेश्वरम् ॥१७॥

5

नः शं भवतु निश्शोकमिति न प्रार्थयामहे ।
शम्भो राजस्व भो राजनित्यस्माकं निवेदना ॥१८॥

सख्यं चेत् समता नौ स्याद् दास्यं चेद्वन्धकल्पना ।
सत्यं यदावयोः सिद्धं भगवस्तद् विभास्यताम् ॥१९॥

6

त्येन मां दिव्यभावेन स्वीकर्तुं मन्यसे यदि ।
जीवबुबुदभावस्य भङ्गस्सद्यो विधीयताम् ॥२०॥

न परत्रेह वा भोगे रतिर्नाद्भुतसिद्धिषु ।
मतिः सत्ये रताऽस्माकं नित्याऽस्तु परमेश्वरे॥२१॥

दीयतामिति सर्वज्ञं कथं याचेम किश्चन ।
वयं त इति भावे नः सिद्धे नेतरि सर्वदा ॥२२॥

पवित्रं तत् परं ज्योतिः सत्यं तदमृतं वपुः ।
इह सर्वाङ्गमस्माकमाक्रामज्ज्वलयेदपि ॥२३॥

येदमर्थ महामन्त्रमुद्घोषयति वागृषेः ।
तां नादसारसर्वस्वां गायत्री समुपास्महे ॥२४॥

तच्चतुर्विंशतिश्लोकप्रथमाक्षरगुम्फिता ।
सिद्धेयमरविन्दर्षेमन्त्रदृष्टिर्महाफला ॥२५॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates