ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

आहिकस्तवः




सूक्तस्तवः

[ऋग्वेदे प्रथमे मण्डले द्वादशोऽनुवाकः । नव सूक्तानि । शाक्त्यः पराशर ऋषिः । अग्निर्देवता॥]7

ऋतस्य देवा अनु व्रता गुर्भुवत्परिष्टिद्यौर्न भूम ।
वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम् ॥
पुष्टिर्न रण्वा क्षितिर्न पृथ्वी गिरिन भुज्म क्षोदो न शम्भु ।
अत्यो नाज्मन्त्सर्गप्रतक्तः सिन्धुर्न क्षोदः क ई वराते॥
जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान राजा बनान्यत्ति ।
यद्वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः॥
श्वसित्यप्सु हंसो न सीदन् क्रत्वा चेतिष्ठो विशामुषर्भुत् ।
सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ॥
(२)
रयिर्न चित्रा सूरो न सन्दृगायुर्न प्राणो नित्यो न सूनुः ।
तक्वा न भूणिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा ॥
दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम् ।
ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥
दुरोकशोचिः ऋतुर्न नित्यो जायेव योनावरं विश्वस्मै ।
चित्रो यदभ्राट् श्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु॥
सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका ।
यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् ॥
तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ।
सिन्धुर्न क्षोदः प्र नोचीरेनोन्नवन्त गावः स्वर्दशीके ॥
(३)
वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टि राजेवाजुर्यम् ।
क्षेमो न साधुः ऋतुर्न भद्रो भवत्स्वाधी.ता हव्यवाट् ।।
हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद् गुहा निषीदन् ।
विदन्तीमत्र नरो धियन्धा हृदा यत्तष्टान्मन्त्राँ अशंसन् ॥
अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः ।
प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः॥
य ई चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य ।
वि ये चूतन्त्य॒ता सपन्त आदिद्वसूनि प्र ववाचास्मै॥
वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः ।
चित्तिरपां दमे विश्वायुः स व धीराः संमाय चक्रुः॥
(४)
श्रीणन्नुप स्थाद्दिवं भुरण्युः स्थातुश्चरथमक्तून्व्यूर्णोत् ।
परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा ॥
आदित्ते विश्वे ऋतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः ।
भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः ॥
ऋतस्य प्रेषा ऋतस्य धीतिविश्वायुविश्वे अपांसि चक्रुः ।
यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चिकित्वायि दयस्व॥
होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम् ।
इच्छन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षरमूराः॥
पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः ।
वि राय और्णोद् दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः ।।
(५)
शुक्रः शुशुक्वा उषो न जारः पप्रा समीची दिवो न ज्योतिः ।
परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन् ॥
वेधा अदृप्तो अग्निर्विजानभूधर्न गोनां स्वामा पितूनाम् ।
जने न शेव आहूर्यः सन्मध्ये निषत्तो रण्वो दुरोणे॥
पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ।
विशो यदढे नूभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः॥
नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टि चकर्थ ।
तत्तु ते वंसो यदहन्त्समानैर्नृभिर्ययुक्तो विवे रपांसि ॥
उषो न जारो विभावोत्रः संज्ञातरूपश्चिकेतदस्मै ।
त्मना वहन्तो दुरो व्यृण्वन्नवन्त विश्वे स्वर्दशीके ॥
(६)
वनेम पूर्वीरों मनीषा अग्निः सुशोको विश्वान्यश्याः ।
आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म ॥
गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् ।
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः॥
स हि क्षपावाँ अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः ।
एता चिकित्वो भूमा नि पाहि देवानां जन्म मश्चि विद्वान् ॥
वर्धान्यं पूर्वीः क्षपो विरूपाः स्थातुश्च रथमृतप्रवीतम् ।
अराधि होता स्वनिषत्तः कृण्वन्विश्वान्यपांसि सत्या ॥
गोषु प्रशस्ति वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः ।
वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिवि वेदो भरन्त ॥
साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु॥
(७)
उप प्र जिन्वन्नुशतीरुशन्तं पति न नित्यं जनयः सनीळाः ।
स्वसारः श्यावीमरुषीमजुष्णञ्चित्रमुच्छन्तीमुषसं न गावः॥
वीळु चिद् दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङगिरसो रवेण ।
चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः ॥
दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः ।
अतृष्यन्तीरपसो यन्त्यच्छा देवाजन्म प्रयसा वर्धयन्तीः॥
मथीद्यदी विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत् ।
आदी राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय ॥
महे यत्पित्र. ई रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान् ।
सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विर्षि धात् ॥
स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् ।
व? अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि ॥
अग्नि विश्वा अभि पृक्षः सचन्ते समुद्रं न लवतः सप्त यह्वीः ।
न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रति चिकित्वान् ॥
आ यदिषे नृपति तेज आनट् शुचि रेतो निषिक्तं धौरभीके ।
अग्निः शर्धमनवधं युवानं स्वाध्यं जनयत्सूदयच्च ॥
मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे ।
राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा। ।
मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन् ।
नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥
(८)
नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि ।
अग्नि वद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥
अस्मे वत्सं परि षन्तं न विन्दनिच्छन्तो विश्वे अमृता अमूराः ।
धमयुवः पदव्यो धियन्धास्तस्थुः पदे परमे चार्वग्नेः॥
तिस्रो यदग्ने शरदस्त्वामिच्छचि घृतेन शुचयः सपर्यान् ।
नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः ॥
आ रोदसी बृहती वेविदानाः प्र रुद्रिया जझिरे यज्ञियासः ।
विदन्मर्तो नेमधिता चिकित्वानग्नि पदे परमे तस्थिवांसम् ॥
सञ्जानाना उप सीदन्नभिजु पत्नीवन्तो नमस्यं नमस्यन् ।
रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युनिमिषि रक्षमाणाः॥
त्रिः सप्त यद् गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः ।
तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातृञ्चरथं च पाहि ॥
विद्वां अग्ने वयुनानि क्षितीनां व्यानुषक् शुरुधो जीवसे धाः ।
अन्तविद्वां अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् ॥
स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्युतज्ञा अजानन् ।
विदद् गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट् ॥
आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् ।
मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्ररदितिर्धायसे वेः॥
अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन् ।
अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीरग्ने अरुषीरजानन् ।
(९)
रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः ।
स्योनशीरतिथिर्न प्रीणानो होतेव सम विधतो वि तारीत् ॥
देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा ।
पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥
देवो. न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा ।
पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी॥
तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु ।
अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम् ॥
वि पृक्षो अग्ने मघवानो अश्युवि सूरयो ददतो विश्वमायुः ।
सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः॥
ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त धुभक्ताः ।
परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सलुरद्रिम् ॥
त्वे अग्ने सुमति भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः ।
नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः॥
यात्राये मर्तान्त्सुषूदो अग्ने ते स्याम मघवानो वयं च ।
छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान् रोदसी अन्तरक्षिम् ॥
अर्वद्भिरग्ने अर्वतो नृभिनून्वीरैर्वीरान्वनुयामा त्वोताः ।
ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥
एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।
शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः॥

(तूणकानि)

गोपशु हरन् विविक्तचोरवद् गतो गुहा-मग्निरङ्ग मृग्यतां निगूढवर्तनोऽन्तरे ।
अस्मदानतिप्रतानयुक्त एष इष्यता-मस्मदर्पितप्रणामधूर्वहो गवेष्यताम् ॥१॥

प्रीतिपूरितान्तरङ्गधीरभृरिविक्रमा-स्तस्य पादलाञ्छनैरनुव्रजन्ति तं बुधाः ।
आधिपत्यमध्वरस्य विभ्रतोऽमृतान्धसो विश्व एव तद्रहस्यवासभुव्युपासते ॥२॥

निष्प्रमादनित्यसत्यधर्मवृत्तिमर्मभू-रनिमन्ववेक्षणे सुपर्वभिर्विचर्यते ।
धौरिव क्षितिं परीवृणोति सोऽपि, कर्मणा मातरः शिशुं यथाऽऽप एधयन्ति सत्यजम् ॥३॥

पोषवन्मनोहरो महीव भूरिवासभू-रापगेव शर्मदोऽपि भोगभूगिरिर्यथा ।
प्रेरणप्रधावितो रणे रणाश्ववज्जवी को नु वारयेदिमं प्रवाहसिन्धुसन्निभम् ॥४॥

भ्रातृवत् सनाभिवन्धुरेष सिन्धुसन्तते-(मिजानथात्मसात् करोत्यरीन् नृपो यथा। ।
मारुतेरितो वनानि भूमिलोमसन्निभा-न्यर्चिषा समन्ततो निकृन्तति स्वजिह्वया ॥५॥

हंसवनिपीदति श्वसनपा निकेतने चेतयत्युषर्बुधो विशो विबोधनेच्छया ।
सोमवद्विधातुरस्य सत्यजन्मता मता वत्सयुग यथा च गौर्विभुर्विभाति दूरभाः ॥६॥

(२)

चित्रसम्पदाम एष सर्वदर्शिमूरभाः प्राण एष आयुरेष नित्यमनुरेष नः ।
साधुविभ्रदश्व एष भूमिजेषु सक्तिमान् गोवदच्छसारदः शुचिर्विभाति भानुमान् ॥७॥

क्षेमभृद् गृहं यथा मनोहरो जयी जने भोगयोग्यपोष एष पाकवान् यवो यथा ।
विक्षु विश्रुतः स्तुति करोति मन्त्रदर्शिवद् वाजिवन्मुदं दधाति शास्ति नः प्रवर्धनम् ॥८॥

दुर्लभोद्भवाचिरेष नित्यधीषणावलं गेहिनी गृहे यथेष्टशर्मदेव भूषणम् ।
भ्राजते महाद्भुतो जनेषु भासते सितः काञ्चनो रथो यथा च युद्धभूषु दीप्तिमान् ॥९॥

सगरेषु सैन्यवद्धलं दधाति नः परं शूरधन्विदीप्तशातबाणकोटिभास्वरः ।
द्वन्द्वमेष जन्मना जनिष्यमाणमप्यथ द्वन्द्वमेष कन्यकारहोरतः प्रसूपतिः॥१०॥

स्थानतो गतेश्च तस्य तं समिद्धमन्विमो गोव्र प्रति प्रयान्ति गोकुलानि वा वयम् ।
सिन्धुवत् स निम्नवाहिनीः समीरयत्यपो दूरसौग्दर्शने तु गोवरा ब्रजन्ति तम् ॥११॥

(३)

मानुषेषु मित्रमुत्तमं वनेषु जित्वरो निर्जरं श्रुतं वृणोति मन्त्रिणं नृपो यथा ।
सिद्वपूर्णमङ्गलं स शोभनप्रधीबलं साधुचिन्तनश्च नः पुरोहितश्च हव्यवाट् ॥१२॥

हस्तगं समस्तशस्तनेतृसत्त्वमुद्वहन् सोऽमृतान् निजे बले दधाति सन् गुहातले ।
अत्र तं विदन्ति धीरधारणेश्वरा नरा हृद्वितष्टसत्यमन्त्रशंसनेन वाक्पराः॥१३॥

धारयनजो यथा महीं महान्तरामिमां स त्वमस्तभश्च सत्यमन्त्रसत्त्वतो दिवम् ।
पाहि नः प्रियाणि पादलक्षणानि गोपशो-विश्वमायुरस्यहो रहस्यगां गुहां विशेः॥१४॥

पुण्यवान् गुहासदं य एनमीक्षते विदन् साधुवाहिनीमृतस्य लब्धांश्च यः कृती ।
अग्निमिद्धमातनोति यः स्पृशन्नृतानि तत्-तादृशे स तत्परं गिरां ब्रवीति सम्पदम् ॥१५॥

यो महिम्न आत्मनो महीरुहेषु संयतो बिभ्रदुद्यतान् प्रजाः प्रसूषु वा तथाऽन्तरम् ।
चिन्मयं तमादिसत्त्वधीभृतामपां गृहे धीरवृत्तयो विमाय समवद् विनिर्ममुः ॥१६॥

(४)

व्याकरोति यामिनीश्चराचरं विभासयन् यज्ञभागमुद्वहन् दिवं प्रयाति विज्वलन् ।
एक एव देव एष विश्वदेवतामहा-वैभवानि वासयत्यनल्पभासिनाऽऽत्मना ॥१७॥

प्राज्ञमीषणाबलं भजन्ति विश्व एव ते नीरसाद् यदा त्वमत्र जीवनाय जायसे ।
नाम दैवतात्मकं च सर्व एव सेवते सत्यमप्यथामृतं तवायनैः स्पृशन्ति ते ॥१८॥

प्रेरणा ऋतस्य धीविचिन्तना ऋतस्य वा विश्वमायुरेष यद् विशः क्रियाश्च कुर्वते ।
देव ते ददाति यस्त्वदाददाति वा धियं तत्कृते विबोधवान् प्रयच्छसि श्रियं वराम् ॥१९॥

आदियज्ञियो निषण्ण ऋत्विगेष मानुषे नूनमेष पालकस्समस्तसम्पदां पतिः ।
वृण्वते परस्पराङ्गभूषु बीजमुत्तमा-स्ते विवेकदर्शनैवलद्धियो विजानते ॥२०॥

अस्य शासनं भजन्ति ये प्रयाणसत्वराः पुत्रवत् पितुर्निदेशमस्य ते वितन्वते ।
द्वारबन्धमुद्भिनत्ति स श्रियामुरुक्षयः सोऽन्तरश्च नाकमाचकार यस्सतारकम् ॥२१॥

(५)

शोचिषा समुज्ज्वलन्नुषोनुरागजागरो रोदसी प्रपूरयन् समे प्रदीपवद् दिवः ।
इच्छया न इज्यया समन्ततोऽपि जायसे पुत्रतां गतोऽमृतान्धसां पिताऽपि भाससे ॥२२॥

जज्ञिवान् विधायकश्च वीतदर्पसाहसः स्वादयत्ययं रसान् स्तनाग्रसनिभो गवाम् ।
मानवे प्रमोदवानिवार्थनीयसनिधि-गेंहमध्यमास्थितो दधच्च रामणीयकम् ॥२३॥

पुत्रवद् गृहेष्वनारत रतोऽजनिष्ट नः सङ्गरे तुरङ्गवन्मुदा विशो बिभर्त्ययम् ।
आह्वयामि दैवतैस्समानवासिनो यदा विश्वदैवतं तदाऽग्निदेवता समश्नुते ॥२४॥

कोऽपि न प्रबाधते तव क्रियाविधीन विभो दैवतार्थमन्तरश्रवो यदा त्वमादधाः ।
त्वत्समानदेवयुक् त्वमंहसां च संहति कान्दिशीकतां नयस्यनल्पकारि कर्म ते॥२५॥

भास्वरो विभातभाश्च वल्लभो यथोषसो ज्ञातमस्तु रूपमस्य बोधमेत्वयं विशे ।
विश्वदेवताः स्वयं विभृत्य तं विवृण्वतां द्वारवन्धनानि यान्तु दिव्यभानुदृष्टये ॥२६॥

(६)

(प्रमाणिकाः)

समश्नुयाम सम्पदः पुरातनाश्च भूयसीः ।
समश्नुतां च विश्वमग्निरुज्ज्वलो विभुधिया ॥२७॥

स वेत्ति दुर्विदाश्च गोप्यदिव्यकर्मपद्धतीः ।
स वेत्ति मानवस्य नव्यजन्ममर्मणां गतीः॥२८॥

अवन्तरे शिशुर्मही महीरुहान्तरे शिशुः ।
वसन् चरान्तरे शिशुः शिशुस्तथाऽचरान्तरे ॥२९॥

जडोपले जनाय सोऽस्ति भाति तद्गृहान्तरे ।
स विश्वभूविशां च साधुचिन्तनोऽमृतः पुमान् ॥३०॥

अलं ददाति सूक्तवाग्भिरग्नये हवींषि यः ।
ददाति तत्कृते विमुर्निशां समुज्ज्वलं धनम् ॥३१॥

इमानि पाहि भो जगन्ति सर्वशोऽवबुद्धवान् ।
त्वमत्र देववृन्दजन्म वेत्सि भानुषानपि ॥३२॥

अनेकका अवर्धयन् विभिन्नरूपरात्रयः ।
इमं चरं तथाऽचरं च सत्यजन्मवर्धनम् ।।३३।।

समस्तमादधच्च सत्यकर्मजालमुत्तमम् ।
असाधि होतृकर्मभाङ् निषण्ण उज्ज्वलो दिवि ॥३४॥

तथा प्रशस्तिमादधासि गोषु भूमिजेषु ते ।
बलिं द्युलोकमाहरन्ति विश्वदेवता यथा ॥३५॥

बहुत्र मानुषा भवन्तमर्चयन्त उत्तमाः ।
क्यःप्रवृद्धतः पितुर्यथा हरन्ति सद्धियम् ॥३६॥

(पञ्चचामराः)

स गृघ्नुराग्रहे यथा स कार्यसाधनक्षमो धनुर्धरोग्रशरवत् स लक्ष्यभेदविक्रमी ।
अभिप्रधावनेषणो विपक्षभीषणो रणे सवैभवं समुज्ज्वलं सदा विभाति संयुगे ॥३७॥

(७)

उशन्त्य एकवासगा उशन्तमेव मातरः समेत्य नित्यमादरादतूतुपन् पतिं यथा ।
अहर्षयंश्च सान्ध्यरागचित्रवर्णसम्पदं सहोदरीजनाः शिशुं यथोषसं च धेनवः ॥३८॥

स्थलानि नः पितामहा दृढानि वाग्भिरेव ता-न्यभञ्जयन् गिरि पुरा रवेण वाऽङ्गिरोमुखाः ।
बृहदिवश्च मार्गमादधुच मानुषे जने स्वरध्यगुर्विबोधकेतदिव्यगोत्रज दिनम् ॥३९॥

अधारयन्नृतं च ते धियं नरे समर्धय-अनन्तरं विभर्तुमग्निमीशते स्म धीश्वराः ।
अनन्यकामनाः क्रियापराश्च शक्तयोऽमृता- . नभिप्रयान्ति वर्धयन्ति दिव्यजन्मशर्मणा ॥४०॥

नियम्य वायुरेनमन्तरे भृतो गृहे गृहे व्यलोडयद् यदाऽजनिष्ट जित्वरोऽग्निरच्छभाः ।
भृगुप्रभस्समुज्ज्वलन् सखा च नस्तदा भवन् बिभर्ति दूतवर्तनं नृपाय वा बलीयसे ॥४१॥

अयं यदाऽकरोद्रसं बृहदिवः पितुष्कृते गलन्नधः स्पृशन्नुपागतस्तदा विजज्ञिवान् ।
धनुर्धरोऽमिलक्ष्य तं व्यमुश्चदुग्रविद्युतं न्यधत्त देव एष तां निजात्मजोषसि विषम् ॥४२॥

निजं तव प्रदीपदीप्तमातनोति यो गृह त्वदीषणास्पदं नमांसि योऽन्वहं करोति ते ।
परत्र चेह वृद्धिमान् त्वमस्य वृद्धिमावहेः यमीरयेस्सवाहनं प्रयाति सोऽपि सम्पदा ॥४३॥

समस्ततृप्तयो भजन्ति भव्यमग्निसङ्गमं बलिष्ठवाहिसिन्धवो यथा च सप्त सागरम् ।
न दिव्यबान्धवैस्तव न्यबोधि नोऽभिवर्धन त्वमुत्तमां निबुद्धवान् विधेहि तेषु ते घियम् ॥४४॥

यदेरणाय तेज आनशे विशामिमं पति शुचि स्वरेव बीजमाहितं च तत्समागमे ।
तदाऽग्निरच्छयौवनं च सिद्धबुद्धिशोभनं व्यजीजनन्महद्विदोषमैरयन्मरुद्धलम् ॥४५॥

क्षणान्महाध्वविक्रमी प्रयाति यो मनो यथा सदैक एव सूर्यदेव ईश्वरो निधेः श्रियाम् ।
इनौ च मित्रतयुजौ प्रशस्तपाणिलक्षितौ रक्षतोऽमृतं प्रियं च सौरगोषु सम्मदम् ॥४६॥

सखे सखित्ववैभवानि पैतृकाणि नश्चिरात् कविस्त्वमभ्युपेयिवानवैषि मा तिरस्कृथाः ।
जरा मिनाति नो वयो हिमावृतिर्यथाऽऽकृति तदाहतेः पुराऽधिगच्छ स त्वमग्निदेव भोः॥४७॥

(८ )

(मालभारिण्यः)

बहुदेवबलं करे दधानः कुरुते नः कविदर्शनानि धातुः ।
अखिलामृतवस्तुरूपसिद्धिं स वितन्वन् जयतु प्रभुनिधीनाम् ॥४८॥

अमृताः परितोऽपि सन्तमैच्छन् शिशुमस्मासु न लेमिरे तु धीराः ।
श्रमिणः पदलक्ष्मणा यदाऽगुः पदमापुः परमं तदाऽस्य शोभाम् ॥४९॥

शुचयोऽग्निमपूजयन् शुचिं त्वां घृणिभिर्धीविभवैस्वयं समानाम् ।
दधिरे ननु यज्ञियानि नामा-न्यथ सिद्धान्यभवन् वपूंषि तेषाम् ॥५०॥

बृहतीमधिगम्य यज्ञभाजो दिवमुर्वी द्वितयीं च बभ्रुरुग्राः ।
विदितोऽथ नरो धरन् पराध स्थितमग्निं परमे पदे न्यबोधीत् ॥५१॥

प्रणतेरुचितं कृतप्रणामा उपजग्मुर्विनिबुध्य तं सदाराः ।
दृशि सख्युरथावितास्सखायः स्वतनूस्तेऽघटयन् स्वयं रिचन्तः ॥५२॥

त्वयि देव यदा त्रिसप्तगुप्ता-न्यविदुर्यज्ञभुजो रहःपदानि ।
अमृतं सजुषस्तदा ररक्षु-भगवन् गा अचराश्चराश्च पाहि ॥५३॥

अयि नः प्रतिबोधविज्ञ धेहि क्रमशो जीवकृते विशां बलानि ।
अपि दृतपथश्च देवयाना-नविदोऽन्तर्हविरावहोऽस्यतन्द्रः॥५४॥

वरदूरधियो दिवः स्रवन्त्यो विविदुरमुरुश्रियामृतज्ञाः ।
अविदच्च पदं दृढं च गव्यं सरमाऽतो मनुजस्सुखं भुनक्ति ॥५५॥

अमृतस्य कृते सृति सृजन्तो दधते भव्यजनुष्वमी पदानि ।
पृथिवी वितता च तैर्महिम्ना सहपुत्रादितिरागता च धातुम् ॥५६॥

घटयत्सु दिवोऽक्षिणी अमर्ये-वधुरस्मिन् सुषमां तथा सुरूपम् ।
अथ सिन्धुवदीरिता वहन्स्यो ननु नीचैररुणास्तदा व्यजानन् ॥५७॥

(९)

(वंशस्थानि)

बलस्य धाता स तु राः पितुर्यथा यथा निदेशो नयनप्रभुर्विदः ।
सुखं शयानः प्रियभुग यथातिथिः पिपर्ति होता यजतो गृहं यथा ॥५८॥

स सत्यचिन्तस्सवितेव देवता दृढांश्च नः पाति गृहानिजेच्छया ।
सुरूपसत्यो बहुधा विजृम्भितः सुखो यथात्मा प्रणिधेयतास्पदम् ॥५९॥

स विश्वभृद् देव इव प्रभासते वसन् स राजेव भुवि प्रियो हितः ।
पुरःस्थितो वीरगणो गृहेष्विव प्रियाऽनवद्या रमणे सतीव सः॥६०॥

गृहेषु नित्यज्वलितं स्वधामसु ध्रुवेषु तं त्वां समुपासते नराः ।
त्वयि प्रभूतं निदधुश्च ते महः श्रियां धरो भाह्यसि विश्वमायुः॥६१॥

समस्तमायुर्ददतो विपश्चितः प्रियाणि भुञ्जन्तु तवेश्वराः श्रियाम् ।
विभृत्य भागं श्रवसेऽमृतेष्वमी वयं च जन्येषु जयेम सम्पदम् ॥६२॥

धुभक्तसाराः पृथुलस्तनामृता अपीपयन् सत्यदुहोऽस्मदीषणाः ।
समीहमानाः परतः शुभां मति विससुरदि समया च सिन्धवः ॥६३॥

समीहमानास्त्वयि सद्धियं प्रभो दिवि श्रवो यज्ञभुजो निचिक्षिपुः ।
विरूपमाधाय दिनं च यामिनीम् अधुश्च कृष्णारुणवर्णयोजनम् ॥६४॥

(उपजातिः)

धनाय यानीरयसे मनुष्यान् धनैर्युताः स्याम वयं च तेषाम् ।
आपूर्य पृथ्वी दिवमन्तरिक्षं छायेव सक्तोऽस्यघिविश्वसर्गम् ॥६५॥

(पादाकुलके)

भवदवना वयमश्वैरश्वान् वीरैर्वीरान् विजयेमहि भोः ।
भवदवना वयमग्ने भगवन् वीरनरैर्नृन विजयेमहि भोः ॥६६॥

अस्मत्पिवृजितवित्तस्य पुरा भूयः स्वामीभूय महान्तः ।
सुरिप्रवरास्ते तेऽस्माकं शतशतवर्षाण्युपभुञ्जन्तु ॥६७॥

(तूणकम्)

अग्नये विधातरत्र कीर्तितानि ते हृदे सूक्तवाग्विजृम्भितानि सन्तु चेतसे मुदे ।
यन्तुमीश्वरास्तव श्रियो वयं धुरन्धराः स्याम नाम विभ्रतः श्रुतं च देवसेवितम् ॥६८॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates