ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

SIDELIGHTS IN SANSKRIT LITERATURE




उपनिषदुपदिष्टम्

अत-तत्र अथोपनिषत्सु प्राधान्येन प्रतिपादितमर्थमधिकृत्यायमल्पो निबन्धः प्रवर्तते । उपनिषदश्च वेदान्तशब्दवाच्यत्वेन प्रसिद्धाः । तासां वेदशिरोभागत्वे सिद्धे वेदस्य स्वरूपप्रयोजनस्मरणेन तदुत्तमाङ्गभूतोपनिषत्तात्पर्य सुखेनावगन्तुं शक्यम् । तस्मान्नेहातिप्रसक्तिः स्याद्यदि सारतः स्मर्येत स्वरूपं वेदस्य तथा प्रयोजनं च ॥ तत्र प्राञ्च आहुः-मन्त्रब्राह्मणात्मको वेदः इष्टप्राप्त्यनिष्टपरिहारयो-रलौकिकमुपायमुपदिशति ॥ वेदोऽखिलो धर्ममिति च ॥ स च धर्मश्चोदना-लक्षणः ऐहिकमामुष्मिकं च पुरुषार्थं साधयन् श्रौतकर्मानुष्ठानेन परिपाल्यते। तस्मात् क्रियार्थो वेदः । तत्र कर्तव्यकर्मविधायकानि ब्राह्मणान्येव मुख्यानि। मन्त्राणां प्रयोजनं तु ब्राह्मणविहितक्रियासु विनियोगः । अत एव मन्त्राः प्रयोग-समवायिन उच्यन्ते । उपनिषदः ब्राह्मणस्थ-आरण्यकभागविशेषाः । स्तासां कर्माङ्गस्तुतिरूपतया विधिशेषत्वं कीर्त्यते ॥ इति ।

उत्तरमीमांसकास्तु एवम्-कर्मज्ञानात्मककाण्डद्वयविशिष्टो वेदः । कर्मकाण्डो ब्राह्मणानि उपनिषदस्तु ज्ञानकाण्डः। आद्येन ऐहिकामुत्रिकफल-भोगसाधनं कर्म उपदिष्टम्, द्वितीयेन शाश्वतपरवस्तुप्राप्तिफलकं ज्ञानं चेति ।। तस्माद् धर्मब्रह्मप्रतिपादको वेदः, यस्य पूर्वभागेन ब्राह्मणेन धर्मः, उत्तरभागेन उपनिषदा ब्रह्म च प्रतिपाद्यते ॥ इति ॥ अथ युक्ततरः पक्षः समस्यते ।

ऋषीणां मन्त्रदृष्टयः संहितासु चतसृष्वपि ऋगादिषूपलभ्यन्ते। क्रियासु विनियोक्तुं स्वानुकूलतया तत्र तत्र तान् मन्त्रान् व्याख्यायोपयुञ्जते ब्राह्मणानि उपनिषदश्च यथासम्भवं तत्र तत्र मन्त्रदृष्टी ऋचो व्याख्याय अध्यात्मज्ञानो-पयोगितया काश्चनोदाहृत्य ज्ञेयं परमं सत्यं प्रतिपादयन्ति ।। अतः सर्ववेद-भाष्यकृत् सायणाचार्यः सर्वाः मन्त्रसंहिताः कर्मोपयोगितया व्याख्यातुं प्रवृत्तः क्वचित् स्फुटमध्यात्मपरेषु मन्त्रेषु व्याख्येयेषु पश्यति कष्टम् ॥

आह च “अस्य वामस्ये”ति दीर्घतमस्सूक्तव्याख्याने "एवमुत्तरत्रापि अध्यात्मपरतया व्याख्येयाः, तथापि स्वरसत्वाभावात् . न लिख्यते” इति। इह स्वरसत्वाभावः कर्मानुपयोगितया कर्मणो"ऽन्यन्नास्तीति वादिना"मिति स्पष्टं भवति, अध्यात्म-दूरत्वात् कर्मैकशरणानाम्।

अथ किंवा अस्माकं लक्ष्यत्वेन ग्राह्यं प्रतिपादितं वेदानाम् अन्तिमभागे-ष्विति विचारेऽस्मिन् प्रवर्तमाने इदमवधेयम् ॥

यद्यपि क्वचिदुपनिषत्सु याज्ञ-वल्क्यादय ऋषयः स्वतन्त्रतया बुद्धिबलेन ज्ञानविचाराय प्रवृत्ता इव प्रतीयन्ते, तथापि ते पूर्वेषामृषीणां मन्त्रदृष्टीराश्रित्य स्वेन तपोबलेन अन्तर्दृष्टया च तत्व-निर्णयाय प्रवृत्ताः, न तु तर्कबलेन कल्पनासामर्थ्येन वेत्यवगन्तव्यम् । मश्चैवमुपनिषत्सु—"तदृचाभ्युक्तम्, तदुक्तमृषिणा। तदप्येष श्लोकः, अत्रैते मन्त्रा भवन्ति, एतदपि विधाय ऋषिरवोचत्” एवंजातीयकान्यौपनिषदवाक्यानि स्व-प्रतिपादितानि तत्त्वानि मन्त्रैर्मन्त्रद्रष्टुभिश्चोदाहृतः प्रोद्बलयन्तीति नैतदत्युक्तं भवति ॥ "हंसः शुचिषत्” “अहं मनुरभवं सूर्यश्च" "द्वा सुपर्णा सयुजा सखाया" "ऋचो अक्षरे परमे व्योमन्” इत्यादय ऋचः वामदेव-दीर्घतमः-प्रभृतीनामुदाहृता इत्यवधेयम् ।।

अथेदानीमधिकाः शतादुपनिषद उपलभ्यन्ते । तासां प्राचीनास्तु द्वादश भवन्ति त्रयोदश वा ॥ अन्यास्तु तान्त्रिकपौराणिकदेवतानामाङ्कितत्वा-दर्वाचीनाः। “अल्लोपनिषद्” इत्यर्वाचीनतमापि दृश्यते ।। दशानामुपनिषदां कौषीतकीश्वेताश्वतरयोश्च प्रबलं भवति प्रामाण्यं तासां बादरायणसूत्रीयविषय-वाक्यवत्त्वात् शङ्करादिभिर्भाष्यकृद्भिाख्यातत्वाच्च तत्र बृहदारण्यक-छान्दोग्यतरेयकौषीतक्यो ब्राह्मणोपनिषदः, ईशोपनिषदेकैव संहितान्तर्गता। प्राचीनतमाभिराभिरन्यासां प्रश्नोपनिषदादीनां श्वेताश्वतरस्य च समानं प्रामाण्यमभ्युपगन्तव्यम् ॥

यद्यपि सर्वेषामुपनिषद्वाक्यानां ब्रह्मणि समन्वयः तथापि अर्वाचीनद्वैताद्वैत-साङख्ययोगादिसिद्धान्तानाम् आधारभूतानि वाक्यानि तत्र तत्रोपनिषद्भेदेषु श्रूयन्ते, तथा च “यत्र द्वैतमिव पश्यति" इत्यद्वैतपरं वाक्यं बृहदारण्यके, “द्वा-वजावीशानीशा"विति आत्मनो द्वैविध्यबोधकं श्वेताश्वतरे, “अजामेकां लोहित-शुक्लकृष्णा"मिति त्रिगुणात्मकप्रधानपरं श्वेताश्वतरे, “प्रकृतेः परतस्तु सः" इति काठके एवमन्यानि अत्यन्तविरुद्धानिवास्माभिर्गुह्यमाणानर्थान् बोधयन्ति वाक्यानि सन्ति वेदान्तेषु ॥ नार्हामस्तान् केवलं तर्कबलेनापकर्षयितुं, तेषा-मोपनिषदपुरुषदृष्टत्वात् अतीन्द्रियार्थत्वात् अद्यापि जिज्ञासोः साधनसम्पन्नस्य साक्षात्कारक्षमत्वाच्च ॥

अथ प्रकृतमनुसरामः ॥ वेदान्तेषु परं वस्तु ब्रह्म जिज्ञासाविषयत्वेन प्रति-पाद्यते। तच्च “सत्यं ज्ञानम् अनन्तं” स्वरूपेण भवति । यतश्चेदं सर्वम् उत्पत्ति-स्थितिलयवद् भवति, तत् सदेकमेवाद्वितीयं ब्रह्म सर्वेषां भूतानाम् आत्मा भवति । सर्वशक्तं सर्वज्ञं च ब्रह्म सगुणं निर्गुणं चेति उभयलिङ्गश्रुतेरवगम्यते। पुण्य-परिपाकवशात् कर्मसमुच्चितज्ञानेन वा विद्वान् उत्क्रान्तेः परं लोकान्तराणि सोपानक्रमेण प्राप्य अन्ततः क्रममुक्तिद्वारा सगुणब्रह्मपदवाच्येन सर्वेश्वरेण सायु-ज्यं गच्छति ॥ सद्योमुक्तिस्तु “इहैव तिष्ठन्नमृतत्वमेति" इति आत्मकैवल्य-ज्ञानान्निर्गुणं ब्रह्मस्वरूपं सत्यं ज्ञानममृतमेकमित्यनुभूत्यात्मकेन ज्ञानेनावस्थिति-रित्यवगम्यते ॥

अथ च ब्रह्मजिज्ञासोः प्रतीकोपासनानि विद्यासाधनानि उपदिश्यन्ते । विद्याश्च उद्गीथशाण्डिल्य-संवर्ग-अक्षिपुरुषाद्याः । सर्वासामपि विद्यानां प्राधान्येन दहरविद्या स्तूयते, यतो हृदयस्थपुरुषावबोधेन स्वात्मलाभाद् ब्रह्मा-वगतिः सिद्धा भवति ।

ब्रह्मज्ञानसाधनं न मेधया बहुना श्रुतेन वा लभ्यते। ईश्वरानुग्रहादेव साधनरहस्यप्राप्तिः, अत एव “यमेवैष आत्मा वृणुते तस्यैष लभ्य" इति श्रुतिः ।। स चानुग्रहः साक्षात्कृतात्मस्वरूपे पुरुषे विजृम्भते ॥ तादृशः पुरुष एवाचार्यः यः स्वानुभूतीः शिष्येभ्यः प्रापयितुं शक्तो भवति ॥ तस्माद् “आचार्यवान् पुरुषो वेदे" त्याह श्रुतिः। न वा उत्क्रान्तेः परमेव सद्गतिरभिमता श्रुतिषु, "इह चेदवेदीदथ . सत्यमस्ति । न चेदिहावेदीन्महती विनष्टि"रिति हि श्रूयते ॥ जिज्ञासितप्राप्तेः फलम् औपनिषदप्रार्थनाद् गम्यते, “असतो मा सद् गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मा अमृतं गमये"ति ॥

एवं लक्ष्यत्वेन ग्राह्यम् उपनिषदुपदिष्टं संक्षेपेणोपन्यस्य विस्तरभिया वि-रम्यते। अन्ते चेदमस्तु शान्तिवचनम्,

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभि द्यशेम देवहितं यदायुः ॥

ॐ शान्तिः शान्तिः शान्तिः ।।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates