ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

SIDELIGHTS IN SANSKRIT LITERATURE




वेदादिसूक्तसारः

१. आदिमाष्टकसूक्तानामादिवेदाग्रभासिनाम् । वेदगूढार्थबोधाय भाष्यमेतदुदाहृतम् ॥

२. सूक्तसारजिघृक्षूणां स्मृतिसौलभ्यसिद्धये । सूक्तक्रमानुसारेण सारांशान् संप्रचक्ष्महे ।।

३. माधुच्छन्दसमाग्नेयं मण्डलेऽस्मिन् शतचिनाम् । गायत्रं प्रथमं सूक्तं तत्रादावग्निरीड्यते ॥

४. बलदीप्तिविशिष्टाऽस्य गति. स्वाभाविकी यतः । ततोऽग्निरङ्गतेर्धातोः शब्दो निष्पाद्यते बुधैः ।।

५. अग्निरध्यष्यते देवो देवाराधनकर्मणि । होता स यज्ञे रतिभृत् स ऋत्विक् स पुरोहितः ।।

६. अध्येषणात्मिका ह्यग्नेरुपास्तिः सा चिरन्तनी। स देवान् प्रभुरावोढुमध्येष्यो नूतनैरपि ।

  1. अग्नेर्या लभ्यते सम्पत् सा यशोवीर्यभृत्तमा। लौकिकीव क्षयं नैति वर्धमाना दिने दिने ।

८. ईळितो भगवान्यज्ञम् अग्नियं परितः स्थितः । स एव देवान् प्राप्नोति रक्षोभ्यः पथि रक्षितः ।।

९. यजमानात् समुद्भूय स्वर्लोकं स प्रतिष्ठते। दिवोऽध्वानं यतो राति ततोऽध्वर इति श्रुतः ।।

१०. सह देवैः समायाति देवोऽग्निस्तादृशेऽध्वरे। दृष्टीच्छाबलरूपोऽसौ तस्मादुक्तः कविक्रतुः ॥

११. चित्रश्रवणसम्पन्नः सत्योऽनृतनिवारणम् । भद्रं यद्यजते धत्ते सत्यं तस्यैव तत् स्मृतम् ॥

१२. स्वावासे परमे सत्ये ज्वलन्तं यज्वनः कृते। वर्धमानं सत्यपालमध्वराणामधीश्वरम् ।।

१३. प्रणामैः प्रत्यहं धीराः सर्वभारसमर्पणैः । तपोध्यानरताः शश्वदृषयस्तमुपासते॥

१४. पिता पुत्रे यथा सक्तस्तस्य स्यात्सुगमस्तथा। ऋषौ भक्ते भवत्यग्निरिति गीतो महर्षिणा ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates