All writings in Bengali and Sanskrit including brief works written for the newspaper 'Dharma' and 'Karakahini' - reminiscences of detention in Alipore Jail.
All writings in Bengali and Sanskrit. Most of the pieces in Bengali were written by Sri Aurobindo in 1909 and 1910 for 'Dharma', a Calcutta weekly he edited at that time; the material consists chiefly of brief political, social and cultural works. His reminiscences of detention in Alipore Jail for one year ('Tales of Prison Life') are also included. There is also some correspondence with Bengali disciples living in his ashram. The Sanskrit works deal largely with philosophical and cultural themes. (This volume will be available both in the original languages and in a separate volume of English translations.)
ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच। अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम्। यथाचिरात् सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ॥१॥
अन्वयः।
ओं अथ आश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्य उवाच भगवन् वरिष्ठां सदा सद्भिः सेव्यमानां निगूढां ब्रह्मविद्याम् अधीहि यथा विद्वान् अचिरात् सर्वपापं व्यपोह्य परात्परं पुरुषं याति।
व्याख्या।
अथ ततः ब्रह्मविद्याप्राप्त्याकांक्षासंभवादनन्तरं आश्वलायनस्तन्नामाभिहितोऽश्वलगोत्रजो वैदिको ब्रह्मर्षिर्भगवन्तं वर्चस्विनं देवं परमेष्ठिनं परमेष्ठस्य (परमस्येष्ठस्य श्रेष्ठस्य च) हिरण्यगर्भरूपिणः सर्जनरतस्य स्वप्नावस्थास्थितस्य पुरुषोत्तमस्याधारं ब्रह्माणं ज्येष्ठदेवमुपसमेत्य विधिना ज्ञानाप्त्यर्थमागत्योवाचोक्तवान् भगवन् देव वरिष्ठां श्रेष्ठां सदा पुराकालात् सद्भिर्जितकामैर्विद्वद्भिः सेव्यमानां यत्नेनाधीतां निगूढां परमरहस्यमित्यतीव गूढां ब्रह्मविद्यामधीहि मनसा ध्यायस्व मद्ज्ञापनार्थमिति किंरूपां यथा यदुपायेनाचिरादतिसत्वरं विद्वांस्तां ब्रह्मविद्यां ज्ञात्वा सर्वपापं दुःखपापरूपं सर्वमशुभं व्यपोह्य ज्ञानेन मनसो बहिः कृत्वा पूर्णानन्दलाभात्परात्परं परमात्तुरीयादपि परमुत्तमं पुरुषं सर्वव्यापिनं वासुदेवं पुरुषोत्तमं याति प्राप्नोति तद्योतिनी ब्रह्मविद्यां।
द्योतिनी।
परमेष्ठी ब्रह्मा न तु स ब्रह्मा हिरण्यगर्भनामा सर्जनकर्माध्यक्षरूपी सूक्ष्मभुक् तैजसो वासुदेवः। स परमेष्ठी परात्परो हिरण्यगर्भः। इष्ठशब्दस्तु प्राचीनः श्रेष्ठत्वव्यजकश्च पश्चादागम इति प्रयुक्तो यथा बलिष्ठगरिष्ठादिषु। स हिरण्यगर्भस्तेजोरूपी न रूपमाश्रयति न व्यक्तिमेति नावतरति न किञ्चित्करोति परतेजसि कल्पयत्येव तस्माद्धिरण्यगर्भनामा तैजसनामा च। एवंविधस्य हिरण्यगर्भस्य समक्षमाश्वलायनस्य विधिनोपगम्याधीहीति कथाप्रसङ्गो न युज्यते। ब्रह्मा तु नरदेवता योगबलेन त्रैगुण्यमयीं मायामतिक्रम्य गुणातीतोऽभवत्स राजसं गुणमुदासीनवदाश्रित्य परमं तेजः प्रविशति परे तेजसि परमेष्ठं हिरण्यगर्भरूपिणं वासुदेवमाश्रयति कल्पारम्भे च ब्रह्मनाम्नि ख्यातः सन्निर्गच्छति स दशकल्पान्तपर्यंतकालं सहस्रयुगं जीवति सृजति च हिरण्यगर्भाभिभूतोऽहं ब्रह्मेति राजसज्ञानमाश्रित्य स्वप्नजगद् व्याकरोति स्थूलञ्च व्याकरोति। स ब्रह्मा शतदिनं जागर्ति दिनन्तु चतुर्युगं चतुर्युगशतं हि कल्पः। कल्पान्ते तु पुनः परमं तेजः प्रविश्य परे तेजसि स्वपिति कल्पारम्भे प्रबुध्यते पुनश्च दशकल्पान्ते पुनः स्वपिति न प्रबुध्यते॥
हिरण्यगर्भस्तु न स्वपिति न प्रबुध्यते स्वप्नावस्थाध्यक्षो न स्वप्नाभिभूतो विविक्तभुक् स्थूलकृत्। उक्तञ्च पुराणेषु यत्कमलासनस्थं ब्रह्माणं मधुकैटभौ महादैत्यौ वधार्थमुपचक्रमतुः स च भयमाविवेश न तु मरणं हिरण्यगर्भस्य कुतो भयमकुतोभयो हि सः। उक्तञ्च मुण्डके ब्रह्मा देवानां प्रथमः संबभूवेति। तस्माज्ज्येष्ठो देवानां ब्रह्मा परात्तेजसः संबभूवेति सिद्धं न तु हिरण्यगर्भः संभवति। शिवस्तु वासुदेवो विष्णुर्वासुदेवः कथं न ब्रह्मापि वासुदेव इत्याक्षेपे नैवं प्राज्ञो हि शिवो विराट विष्णुः व्यक्तिमेति प्राज्ञो व्यक्तिमेति विराड् न व्यक्तिमेति हिरण्यगर्भः स्थूले स्वप्नमयो हि सः। न च कुत्राप्युक्तं यन्नरः शिवो भवितुं समर्थो विष्णुर्वा भवितुं समर्थो ब्रह्मा तु भवत्येवेत्युक्तम्। यस्मान्न व्यक्तिमेति स्वप्नमयो हिरण्यगर्भस्तस्माद्ब्रह्माणमभिभूय सर्जनकर्मणि नियोजयति स च राजसाऽहङ्कारमाश्रित्याहं हिरण्यगर्भ इति सृजति लोकाश्च हिरण्यगर्भ इति संपूजयन्ति । स ब्रह्मा परमेष्ठेनाभिभूतः परमेष्ठस्य वासुदेवस्य श्रेष्ठ आधार इति परमेष्ठी। स भगवान्वर्चस्वी श्लाघ्यश्च देवतेश्वरः। तं परात्परपुरुषस्याधार इत्यस्मात्परात्परस्य पुरुषोत्तमस्य ज्ञानं लभ्यमिति समुपेत्याश्वलायनः प्राचीनो ब्रह्मर्षिः पृच्छति भगवन्नधीहीति।
वरिष्ठा सा ब्रह्मविद्या यामाश्वलायनः पृच्छति।कस्माद्वरिष्ठेति प्रश्ने वरिष्ठं ब्रह्म प्रापयतीति प्रपञ्चो ह्यपरं ब्रह्म त्रिविधात्मकं प्राज्ञहिरण्यगर्भविराडधिष्ठितं जाग्रत्स्वप्नसुषुप्त्यवस्थितं तुरीयं तु परं परात्परं यद्ब्रह्म तुरीयादपि तद्वरिष्ठं। सा वरिष्ठा विद्या निगूढा परमरहस्यं नाकृतात्मभि सम्पूर्णदर्शिभिर्लभ्यमिति निगूढाम्। सद्भिस्तु सदा सेव्यमाना सा। पापरहितास्तु सन्तः कामस्तु पापकारणं काम एष क्रोध एष इति गीतोक्तेः। कामजयिनस्त्यक्तकामाः सन्तः। न तु विना ज्ञानेन कामत्यागस्तस्माल्लब्धज्ञानाः सन्तः। ये कामजयिनो लब्धतत्त्वज्ञानास्ते वरिष्ठां विद्यां लब्धं समर्था न चेतरे। तैः सदा कल्पकल्पान्तरे सेव्यते सनातनी सा ब्रह्मविद्या सेतरेषां निगूढा न प्रकाशिता परे व्योम्नि तु गुहाशया शरीरे।
पुनश्च किमर्थं विद्यां किंरूपं ज्ञानं प्रार्थयति कस्तद्दर्शयत्याश्वलायनो यथेति। परात्परपुरुषप्राप्त्युपायं दर्शयति सा विद्या। ज्ञानं कारणं पापवर्जनमुपायो वासुदेवः पुरुषोत्तमो लक्ष्यं । यो विद्वान् ज्ञानी स वासुदेवं प्राप्नोति तस्मादेव भगवान गीतायां कर्ममार्ग दर्शयित्वा तत्त्वज्ञानं संक्षेपेणोपदिश्य पापमोक्षं प्रदर्शयति। खण्डज्ञानादेष देव एष देव इति द्वैतमित्यद्वैतमिति बहवादाः सम्भवन्ति। अखण्डज्ञानात्तु सर्ववादार्थबोधेन वादासक्तिर्विलीयते परे ब्रह्मणि मनः सज्जते। लब्धे ज्ञान अचिरादतिसत्वरं पापमपि विलीयते न स्वप्रयासेन वासुदेवप्रसादादतः सत्वरं प्रयासाद्धि कालापेक्षा बहुना प्रयासेन हि दीर्घकालादल्पैव सिद्धिः क्षिप्रकारी तु वासुदेवप्रसादः सुखं बन्धात्प्रमुच्यत इति। उक्तञ्च श्रुतौ यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वां। तथा च गीतायामहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः। सर्वपापं व्यपोहति विद्वान् सर्वपापेभ्यो मुक्तो भवति। दुःखं तु पापं दुःखात्प्रमुच्यत अनृतं पापमनृतात्प्रमुच्यते दुःखं ह्यनृतं कामप्रसूतं कामस्त्वज्ञानप्रसूतोऽहंकाराश्रितश्च। तस्मादहंकारं मनसो विधूय व्यपोह्य तदहंकारविगमादहं कर्ता पापी पुण्यकृत् फलभोक्तेत्यज्ञानं मनसो विधूय तदज्ञानविगमात्कामं मनसो विधूय तत्कामविगमाद् दुःखमनृतमिति मनसो विधूय तदुःखविगमात्सुखमपि मनसो विधूय पूर्णज्ञानी पूर्णानन्दभुक् केवलो निरञ्जनो भवति सर्वपापमुक्तः। पूर्णज्ञानात्पूर्णानन्दात् शुद्धसत्त्वात् परात्परं पुरुषमुपेतुं समर्थो भवति। कः स पुरुषः पुरुषोत्तमो वासुदेव इति। यो हि पुरु महदधिकृत्य शेते स पुरुषः। पुरु हि महदव्यक्तं विज्ञानरूपं तस्मिन्नानन्दभुगात्मा शेते। पुनश्च जगद्व्यापी यः स पुरुषस्तं सर्ववस्तुनिहित इति वासुदेवं वदन्ति। प्रपञ्चस्तु वसु या रयिरुच्यते प्रश्नोपनिषदि रयिर्हि वसु विज्ञानोपकरणं प्रधानं वसु तस्मिन् प्रधाने यः शेते स पुरुषः। पुनश्च या भूतयोनिर्यस्यांशो जीवो यस्य शरीरं जगत्स पुरुषस्तत्परं ब्रह्म स उत्तमः पुरुषः वासुदेवनामा कृष्णः। स पुरुषः परात्परः। तुरीयं तु परं सर्वं हि तस्मिल्लीनं भवति न कश्चित्तमतिक्रामति अतएव परम। अतिक्रामति हि वैश्वानरं जाग्रदवस्थमतिक्रामति तैजसं स्वप्नदर्शिनमतिकामति प्राज्ञं सुषुप्तिशायिनं तुरीयं तु प्राप्य न कश्चिदतिक्रामति विलीनो भवति जीवस्तदद्वैतं परमं सच्चिदानन्दं ब्रह्म। सगुणे वा ब्रह्मणि निवसति निर्गुणे वानिर्देश्ये। तस्मात्तुरीयादपि परः पुरुषोत्तमः। उक्तं हि माण्डूक्ये प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते। परात्परस्तु न शिवं नाशिवं शिवाशिवे तस्मिन् श्रिते न शान्तं न कलिलं शान्तकलिले तस्मिन् श्रिते नाद्वैतं न द्वैतं द्वैताद्वैते तस्मिन् श्रिते न प्रथमं न द्वितीयं न तृतीयं न चतुर्थं विराद्धिरण्यगर्भप्राज्ञतुरीयास्तस्मिन् श्रिताः । स पुरुषोत्तमस्तत्परात्परं ब्रह्म।न निर्गुणो न सगुणः पुरुषोत्तमो गुणातीतः निर्गुणसगुणौ तस्मिन् श्रितौ।न पुमान् न स्त्री नालिङ्गं पुरुषोत्तमो लिङ्गातीतः पुमान्स्त्री चालिङ्गञ्च तस्मिन् श्रितं । न सन्न चिन्नानन्दं पुरुषोत्तमः सच्चिदानन्दं तस्मिन् श्रितमिति । तुरीयं नातिवर्तते कश्चित्कथं तुरीयादपि परं यातीति सन्देहे नैवं । यो हि तुरीयं याति स लीनो भवति नातिवर्तते यस्तु वासुदेवं याति प्रधानपुरुषं सगुणब्रह्मनिर्गुणब्रह्मरूपं न स लीनो भवति न जायते न म्रियते स ह्यावृत्तिमनावृत्तिञ्चातिवर्तते केवलो भवति जीवन्मुक्तो भवति मोक्षमतिवर्तते बन्धमतिवर्तते शाश्वतो भवति सनातनो भवति लीलामयो भवति ब्रह्मीभूतो भवत्यनन्तगुणे रमति निवसति कृष्णे। तस्मात्सगुणादुत्थाय स परब्रह्मणि लीनो भवति तस्मिन्निवसति तदतळमज्ञेयं धाम॥
Home
Sri Aurobindo
Books
Bengali
Share your feedback. Help us improve. Or ask a question.