All writings in Bengali and Sanskrit including brief works written for the newspaper 'Dharma' and 'Karakahini' - reminiscences of detention in Alipore Jail.
All writings in Bengali and Sanskrit. Most of the pieces in Bengali were written by Sri Aurobindo in 1909 and 1910 for 'Dharma', a Calcutta weekly he edited at that time; the material consists chiefly of brief political, social and cultural works. His reminiscences of detention in Alipore Jail for one year ('Tales of Prison Life') are also included. There is also some correspondence with Bengali disciples living in his ashram. The Sanskrit works deal largely with philosophical and cultural themes. (This volume will be available both in the original languages and in a separate volume of English translations.)
देव उवाच
प्राण इदं सर्वं व्याप्य तिष्ठति । प्राणो हि इदं सर्वं ।
कः स प्राणः। महती काचिदास्था महत किंचिद्दलं नामरूपे कल्पयति चेतनाचेतनानि सृजति दृश्यादृश्यानि मूर्च्छयति , तद्बलं प्राणः।
प्राण एवैतस्य मूर्तस्य कल्पयिता, मूर्तं सर्वं प्राण एव ৷ प्राणो हि गृहस्य इष्टकाः, स एव प्राणो गृहनिर्माता ৷
गृहस्येष्टका विचिन्त्य रयिरूपं प्राणं साक्षी पश्यति ৷ गृहनिर्मातारन्तु विचिन्त्य पुरुषरूपं प्राणं पश्यति ৷
का सा रयिः। प्रधानप्रकृतिरेव रयिः। सा तु प्रकृतिर्न सत्यमस्ति किन्तु मानसादर्श पुरुषस्य इच्छायै प्रकृतिः कथ्यते। अतएव प्रधानप्रकृतिं विचिन्त्य तनूकृत्य तनूकृत्य महत्किञ्चिद्बलमेव साक्षी पश्यति।
बलं दृष्ट्वा किन्तद्बलमिति विमृश्य वासनारूपं प्राणं पश्यति৷
महतीं काञ्चित् सर्वव्यापिनीं वासनां महतीं काञ्चिदाद्यन्तरहितां चेष्टां दृष्ट्वा स्लेच्छर्षयो जीवितेच्छेति ब्रुवन्ति।
तां जीवितेच्छामवरं ब्रह्मेति ब्रुवन्ति। परं ब्रह्म किन्तु जीवितेच्छारहितमकथ्यं यन्न मनसः गोचरं न बुद्ध्या ग्राहितव्यं तज्जीवितेच्छाशान्त्या वशिनः प्राप्नुवन्ति।
न त्वेतेन तर्केण सन्तोषः। कस्य वासना किमर्थं कस्य चेष्टेति संशय उपपद्यते वासना हि न स्वयंभूता कस्मिंश्चिदाधारे विद्यते। मनसो वासना मनसः चेष्टा विभिन्नबोधेन कल्पिता मनो वासना मनो वासिता मनो वासनार्थं वस्तु इदं सर्वं मन एव । एतदेव योगवासिष्ठ उच्यते।
Home
Sri Aurobindo
Books
Bengali
Share your feedback. Help us improve. Or ask a question.