All writings in Bengali and Sanskrit including brief works written for the newspaper 'Dharma' and 'Karakahini' - reminiscences of detention in Alipore Jail.
All writings in Bengali and Sanskrit. Most of the pieces in Bengali were written by Sri Aurobindo in 1909 and 1910 for 'Dharma', a Calcutta weekly he edited at that time; the material consists chiefly of brief political, social and cultural works. His reminiscences of detention in Alipore Jail for one year ('Tales of Prison Life') are also included. There is also some correspondence with Bengali disciples living in his ashram. The Sanskrit works deal largely with philosophical and cultural themes. (This volume will be available both in the original languages and in a separate volume of English translations.)
शक्तिचतुष्टयम्
वीर्यं—अभयं, साहस, यशोलिप्सात्मश्लाघा क्षत्रियस्य, दानंव्ययशीलता कौशलं भोगलिप्सा वैश्यस्य, ज्ञानप्रकाशो ज्ञानलिप्सा ब्रह्मवर्चस्यं स्थैर्य ब्राह्मणस्य, प्रेम कामो दास्यलिप्सात्मसमर्पणं शूद्रस्य, सर्वेषां तेजो बलंप्र वृत्तिर्महत्त्वमिति वीर्यं৷
शक्तिः—देहस्य महत्त्वबोधो बलश्लाघा लघुत्वं धारणसामर्थ्यञ्च, प्राणस्य पूर्णता प्रसन्नता समता भोगसामर्थ्यञ्च, चित्तस्य स्निग्धता तेजःश्लाघा कल्याणश्रद्धा, प्रेमसामर्थ्यञ्च, बुद्धेर्विशुद्धता [प्रकाशो] विचित्रबोधः सर्वज्ञानकार्यसामर्थ्यञ्च, सर्वेषां तु क्षिप्रता स्थैर्यमदीनता चेश्वरभाव इति शक्तिः৷
चण्डीभावः—शौर्यमुग्रता युद्धलिप्साट्टहास्यं दया [चेश्वर] भावश्च सर्वसामर्थ्यमिति चण्डीभावस्य सप्तकं ৷
श्रद्धा तु निहतसंशयाप्रतिहता निष्ठा भगवति च स्वशक्त्याञ्च৷
देवीभावः
महालक्ष्मीभावः—सौन्दर्यदृष्टिः लालित्यं कल्याणलिप्साप्रे महास्यं दया चेश्वरभावः सर्वकर्मसामर्थ्यँ
महेश्वरीभावः—सत्यदृष्टिः ऋजुतामहिमा बृहल्लिप्सा ज्ञानहास्यं दया चेश्वरभावः सर्वकर्मसामर्थ्यँ
महासरस्वतीभावः—कर्मपाटवं विद्या उद्योगलिप्सा सुखहास्यं दया चेश्वरभावः सर्वकर्मसामर्थ्यँ
दास्यम्
गुरुशिष्यभावः
अधमः—दासभावात्मकः मध्यमः—सख्यभावात्मकः उत्तमः—मधुरभावात्मकः
दास्यभावः
अधमः—किङ्करभावात्मकः मध्यमः—सख्यभावात्मकः उत्तमः—मधुरबद्धभावात्मकः
सख्यभावः
अधमः—गुरुशिष्यभावात्मकः मध्यमः—सहचरभावात्मकः उत्तमः—मधुरबद्धभावात्मकः
वात्सल्यभावः
अधमः—पाल्यपालकभावात्मकः मध्यमः—स्नेहभावात्मकः उत्तमः—मधुरभावात्मकः
मधुरभावः
अधमः—स्त्रीपुरुषभावात्मकः मध्यमः—स्वैरभावात्मकः उत्तमः—दासभावात्मकः
विज्ञानचतुष्टयम्
त्रिकालदृष्टिः—प्राकाम्यं व्याप्तिः साक्षाद्ज्ञानं प्रेरणा सहजदृष्टिविवेकः शकुनिदृष्टिज्योतिषदृष्टिः सामुद्रिकदृष्टिः सूक्ष्मदृष्टिर्विज्ञानदृष्टिर्दिव्यदृष्टिश्चित्रदृष्टिः स्थापत्यदृष्टी रूपदृष्टिरिति त्रिकालदर्शनस्य विविधा उपायाः ৷ ते तु द्विविधविषया यथा परकालविषया इहकालविषयाश्च ৷ तस्मिन्नपि द्विविधविषये शब्ददृष्टिः स्पर्शदृष्टिर्देहदृष्टी रसदृष्टिर्गन्धदृष्टिरिति भागाः देहक्रियाविषयाः चिन्तादृष्टिश्च भावदृष्टिः बोधदृष्टिश्चान्तः करणसंश्लिष्टाः ৷ अन्या अपि सन्त्यप्रकाशिताः৷
सर्वज्ञानं—सर्वविषये अप्रतिहतो ज्ञानप्रकाश इति सर्वज्ञानं तस्मिंश्च साक्षाद्ज्ञानं प्रेरणा सहजदृष्टिविवेकश्च प्रमुखाः बोधः स्मृतिः विचारो वितर्कः साक्षाद्ज्ञाने बोधः सर्वविधःअप्रतिहतः, प्रेरणायां वाक च स्मृतिश्च सहजदृष्ट्यां वितर्कोऽप्रतिहतोऽभ्रान्तश्च विवेके तु विश्लेषः प्रज्ञा चेति विचारः सियष्टकं ज्ञातमेव৷
सर्वत्रगतिः৷ व्याप्त्यां वा चिन्तायां भावे बोधे सर्वभूतानां सर्वत्रगतिः शारीरिकी तु सप्तदेहेषु स्वप्ने सुषुप्त्यां वा जाग्रत्यां वा ৷ अन्नमयस्त्वाकाशगत्या निःसृत्य सर्वत्र गच्छति जाग्रत्यां, प्राणमयस्तु यश्छायामयः कल्पनामयः त्रिषु तद्वत् तेजोमयः सूक्ष्मश्च यौ द्विविधौ मनोमयौ विज्ञानमयश्च बुद्धिमयश्च यौ द्विविधौ महति प्रतिष्टितौ৷
Home
Sri Aurobindo
Books
Bengali
Share your feedback. Help us improve. Or ask a question.